सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 37, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 37

द्वौ वा ललाटजौ' यस्य सतु धन्यतमः स्मृतः ।
आनुपूर्व्या स्थिता चोर्द्धं ललाटे रोमजास्त्रयः ॥ ३२ ॥
निःश्रेणी नाम सा ख्याता भर्तुः सर्वार्थसाधिनी ।
शिरःकेशान्तयोर्मध्ये ध्रुवो नामाभिधीयते ॥ ३३ ॥
तत्रावर्त्तः स्मृतोऽश्वस्य भर्तुर्जयविवर्द्धनः ।
घण्टाबन्धसमीपस्थो निगालः कीर्त्तितो बुधैः ॥ ३४ ॥
तस्मिन् देवमणिर्नाम रोमजः शुभकृत् स्मृतः ।
कर्णमूले तथा वाह्वोः केशान्ते मस्तके तथा ॥ ३५ ॥
आवर्त्ताः सन्तीतिशेषः । ते सर्वकामफलप्रदाः प्रोक्ताः उक्तञ्च अग्नि-
पुराणे । “सकृष्णाक्ष ललाटे च कर्णमूले निगालके । बाहुमूले गले
श्रेष्ठा आवर्त्ताः” इति ॥
३३ । ललाटे आनुपूर्व्या त्रयो रोमजाः निःश्रेणी नाम्ना कथ्यन्ते
इति फलितार्थः । अत्र शुक एवमाह । “आवर्त्तचितयं भाले शुभ-
ञ्चोर्द्धन्तु सान्तरं । अशुभञ्चातिसंलग्नमावर्त्तचितयं तथा ॥ त्रिकोण-
चितयं भाले आवर्त्तानान्तु दुःखदम्”—इति । अत्र नकुलो ललाटस्था-
वर्त्तत्रयस्य त्रिकूट इति नाम ददौ । “त्रयो यस्य ललाटस्था आवर्त्ता
अधरोत्तराः । त्रिकूटः स परिज्ञेयः वाजिहृद्विकरः परः”—इति ॥
३४-३५ । घण्टाबन्धेति । निगालस्थावर्त्तस्य देवमणित्वं नकुलो-
ऽप्याह यथा । निगालस्थो य आवर्त्तः स हि देवमणिः स्मृत इति ॥
१। ललाटतः। गः। २। स्थितः। ख.।

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ) · पृष्ठ 37, कुल 522 में से · SarvaKosh