सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 46, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 46

१२ अश्ववैद्यकम् । [५ अध्यायः।
पुण्ड्रकाः ।
अत ऊर्ध्वं प्रवक्ष्यामि पुण्ड्राणां लक्षणं शुभम् ।
आनुपूर्व्या¹ यथादृष्टं मुनिभिस्त्वर्थवेदिभिः² ॥ ७३ ॥
शुक्तिशङ्खगदाखड्गपद्मचक्राङ्कुशोपमाः ।
शरासनसमाकाराः प्रशस्ताः पुण्ड्रकाः स्मृताः ॥ ७४ ॥
मत्स्यभृङ्गारप्रासादस्रग्वेदियूपसन्निभाः ।
श्रीवृक्षदर्पणाकाराः³ शुभदाः परिकीर्त्तिताः ॥ ७५ ॥
वर्णयति । “ललाटे यस्य चावर्त्तद्वितयस्य समुद्भवः । मस्तके च तृतीयस्य
पूर्णहर्षोऽयमुत्तमः॥ आवर्त्तौ सान्तरौ भाले चन्द्रसूर्य्यौ शुभप्रदौ ।
मिलितौ तौ मध्यफलौ अतिलग्नौ तु दुःफलौ” इति ॥ “तेषां
प्रपाण एको ललाटे केशेषु च भ्रुवावर्त्तः । रन्ध्रोपरन्ध्रमूर्द्धनि वक्षसि
चेति स्तनौ द्वौ द्वौ” । बृहत्संहिता ॥
७३ । पुण्ड्राणामिति शुक्लाद्याकाराः भिन्नाकारा वा अश्वशरीरेषु
चिह्नविशेषाः तेषाम् ॥
७४ । शुक्त्याद्याकाराः प्रशस्ताः । एतदतिरिक्ता अप्रशस्तत्वाद्वर्ज्या
इति भावः । ते च काकाद्याकाराः इति वक्ष्यति ॥
७५ । अश्वानां हृदयस्थः श्वेतरोमावर्त्तविशेषः श्रीवृक्षः । “तथा
वक्षसि वाहस्य श्रीवृक्षक उदाहृत” इति हारावली । श्रीवृक्ष-
दर्शनाकारा इति पाठे श्रीवृक्षवद्दर्शनीय आकारा येषां ते तथोक्ताः ।
इदं श्लोकद्वयं ख-पुस्तके नास्ति । “श्रीवत्सदर्पणाकाराः” इति पाठे
श्रीवत्सनामकरोमजावर्त्तवत् दर्पणवच्च आकारा येषां ते ॥
१ । आनुपूर्व्याद् यथोद्दिष्टम् । खः। यथादृष्टि । कः। २। शास्त्रज्ञानिभिः। कः।
३ । श्रीवत्सदर्पणाकाराः । कः । दर्शनाकाराः । गः ।