सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

BIBLIOTHECA INDICA ;
A
COLLECTION OF ORIENTAL WORKS
PUBLISHED BY THE
ASIATIC SOCIETY OF BENGAL.
NEW SERIES, No. 574.
अश्ववैद्यकम् ।
THE AS'VAVAIDYAKA.
A TREATISE ON THE DISEASES OF THE HORSE
COMPILED
BY
JAYADATTA SU'RI,
EDITED BY
KAVIRAJ UMES'A CHANDRA GUPTA KAVIRATNA,
LIBRARIAN GOVT. SANSKRIT COLLEGE.
FASCICULUS I.
CALCUTTA :
PRINTED BY J. W. THOMAS, AT THE BAPTIST MISSION PRESS.
AND PUBLISHED BY THE
ASIATIC SOCIETY, 57, PARK STREET.
1886.

LIST OF BOOKS FOR SALE
AT THE LIBRARY OF THE
ASIATIC SOCIETY OF BENGAL,
No. 57, PARK STREET, CALCUTTA.
AND OBTAINABLE FROM
THE SOCIETY'S LONDON AGENTS, MESSRS. TRÜBNER & CO.
57 AND 59, LUDGATE HILL, LONDON, E. C.
BIBLIOTHECA INDICA.
Sanskrit Series.
Atharvaṇa Upanishad, (Sanskrit) Fasc. I—V @ /6/ each .. Rs. 1 14
Agni Puráṇa, (Sans.) Fasc. I—XIV @ /6/ each .. .. 5 4
Aitareya Áraṇyaka of the Rig Veda, (Sans.) Fasc. I—V @ /6/ each .. 1 14
Aphorisms of Śáṇḍilya, (English) Fasc. I .. .. 0 6
Aphorisms of the Vedánta, (Sans.) Fasc. III—XIII @ /6/ each .. 4 2
The Asvavaidyaka, Fasc. I .. .. 0 6
Brahma Sútra, (English) Fasc. I .. .. 0 12
Bhámatí, (Sans.) Fasc. I—VIII @ /6/ each .. .. 3 0
Bṛihad Áraṇyaka Upanishad, (Sans.) Fasc. VI, VII & IX @ /6/ each .. 1 2
Ditto (English) Fasc. II—III @ /6/ each .. 0 12
Bṛihat Saṁhitá, (Sans.) Fasc. I—III, V—VII @ /6/ each .. 2 4
Chaitanya-Chandrodaya Náṭaka, (Sans.) Fasc. II—III @ /6/ each .. 0 12
Chaturvarga Chintámaṇi, (Sans.) Vols. I, Fasc. 1—11; II, 1—25; III,
1—13, @ /6/ each Fasc. .. 18 6
Chhándogya Upanishad, (English) Fasc. II .. 0 6
Gopatha Bráhmaṇa, (Sans. & Eng.) Fasc. I and II @ /6/ each .. 0 12
Gobhilíya Gṛihya Sútra, (Sans.) Fasc. I—XII @ /6/ each .. 4 8
Hindu Astronomy, (English) Fasc. I—III @ /6/ each .. 1 2
Kálamádhaba, Fasc. I and II @ /6/ .. .. 0 12
Kátantra, (Sans) Fasc. I—VI @ /12/ each .. 4 8
Kathá Sarit Ságara, (English) Fasc. I—XIII @ /12/ each .. 9 12
Kurma Purana, Fasc. I .. .. 0 6
Lalita Vistara, (English) Fasc. I—II @ /12/ each .. 1 8
Manutíká Sangraha, Fasc. I. .. .. 0 6
Mímáṁsá Darṣana, (Sans.) Fasc. II—XVIII @ /6/ each .. 6 6
Márkaṇḍeya Puráṇa, (Sans.) Fasc. IV—VII @ /6/ each .. 1 8
Nṛisiṁha Tápaní, (Sans.) Fasc. I—III @ /6/ each .. 1 2
Nirukta, (Sans.) Vol. I, Fasc. 1—6; Vol. II, Fasc. 1—6, Vol. III, Fasc. 1—4,
@ /6/ each Fasc. .. .. 6 0
Nárada Smṛiti, Fasc. I and II @ /6/ .. .. 0 12
Nyáya Darśana, (Sans.) Fasc. III .. .. 0 6
Nítisára, or The Elements of Polity, By Kámandaki, (Sans.) Fasc. II—V
@ /6/ each .. .. .. 1 8
(Continued on third page of cover.)

BIBLIOTHECA INDICA
A
COLLECTION OF ORIENTAL WORKS
PUBLISHED BY
THE ASIATIC SOCIETY OF BENGAL.
NEW SERIES, NOS. 574, 582, 587, 597 AND 598.
THE
AS'VA-VAIDYAKA,
A TREATISE ON THE VETERINARY ART.
BY
JAYADATTA SŪRI,
WITH AN APPENDIX CONTAINING THE TEXT OF NAKULA'S
AS'VA-CHIKITSITA.
EDITED WITH SHORT NOTES BY
UMES'ACHANDRA GUPTA, KAVIRATNA,
LIBRARIAN, GOVERNMENT SANSKRIT COLLEGE,
CALCUTTA.
CALCUTTA:
PRINTED BY J. W. THOMAS, AT THE BAPTIST MISSION PRESS.
1887.

Ind L 212.108
Ind L 212.108
1886, Aug. 25. - 1887, May 24.
Gift of the Society.

श्रीगणेशाय नमः ।
श्रीशालिहोत्राय नमः ॥
अथ
अश्ववैद्यकम् ।
प्रथमोऽध्यायः ।
उद्देशः ।
प्रणम्य शङ्करं भक्त्या शङ्करं सर्व्वदेहिनाम् ।
शिवाय जगतो जातां शिवांश्चापि विशेषतः ॥ १ ॥
सुखावबोधशब्दार्थं १ ग्रन्थविस्तरवर्जितम् ।
लक्षणं वाजिदेहस्थं २ संक्षेपेण यथाक्रमम् ॥ २ ॥
१ । सुखावबोधशब्दार्थं सुखावबोधौ सुबोधौ शब्दार्थौ यस्मिन्
तत् तथोक्तम् अतिप्राञ्जलमित्यर्थः । शिष्यावबोधशब्दार्थमित्यपि
पाठो ग-पुस्तके दृश्यते । तस्यायमर्थः । शिष्यान् अवबोधयतः यौ
तौ शिष्यावबोधौ शब्दार्थौ यस्मिन् तत् शिष्यसुखबोधमित्यर्थः ।
१ । शिष्यावबोधशब्दार्थम् । गः ।
२ । वाजिदेहस्य । कः ।
1

२ अश्ववैद्यकम् । [१ अध्यायः ।
चिकित्सा १ च समासेन सिद्धौषधसमन्विता ।
मुनिप्रोक्तानि शास्त्राणि सम्यगालोच्य वाजिनाम् ॥३॥
श्रीमद्विजयदत्तस्य पुत्रेण क्रियतेऽधुना ।
श्रीमता जयदत्तेन वाहनां हितकाम्यया २ ॥४॥
अध्यायानां यथायोगं षष्ट्याष्टाधिकसंख्यया ३ ।
श्लोकानाञ्च सहस्रेण शताष्टसंयुतेन च ४ ॥ ५ ॥
ग्रन्थविस्तरवर्जितं ग्रन्थबाहुल्यरहितं संक्षिप्तमित्यर्थः। ग्रन्थविस्तारव-
र्जितमिति यः पुस्तकान्तरे दृश्यते पाठः स न सम्यक् तथाविधप्र-
योगादर्शनात् ॥ यथाक्रममिति मुनिप्रदिष्टक्रमानुसारेणेत्यर्थः ॥
३ । सिद्धौषधसमन्वितेति । सिद्धानि निश्चितानि प्रयोगेण
भूरिशो दृष्टफलानीत्यर्थः । यानि औषधानि तैः समन्विता युक्ता ।
मुनिप्रोक्तानि शालिहोत्राश्ववैद्यप्रणीतानीत्यर्थः । अत्र शास्त्रशब्दस्य
बहुवचनेन नकुलादिकृतशास्त्राणि विवक्षितानि ॥ वाजः पक्षो वेगो
वा अस्ति यस्य स वाजी । इन्प्रत्ययः । वाजति गच्छति वा वाजीति ॥
५ । अष्टाधिकसङ्ख्यया षष्ट्या अष्टषष्ट्येत्यर्थः । श्लोकानामित्यादि-
र्द्विविध एव पाठो न सङ्गच्छते अस्य ग्रन्थस्य साकल्येन सार्द्धसहस्र-
श्लोकात्मकत्वात् ॥
१ । चिकित्साञ्च । कः । २ । हितमिच्छता । गः ।
३ । द्विसङ्ख्यया । गः । ४ । शताष्टकयुतेन । खः ।

Here is the complete, line-by-line transcription of the page into clean Markdown:

१ अध्यायः ।] अश्ववैद्यकम् । ३
प्रदेशलक्षणञ्चैव जीवितञ्च वयस्तथा ।
दशाविभागं क्षेत्रञ्च देशज्ञानञ्च वाहनम् ॥ ६
६ । प्रदेशलक्षणमिति द्वितीयाध्याये वक्ष्यमाणं जिह्वादिप्रदेशानां
लक्षणं शुभाशुभात्मकमित्यर्थः । यद्वा प्रदेशं लक्षणञ्चेति असमस्तम् ।
लक्षणमिति तृतीये वक्ष्यमाणमङ्गलक्षणमित्यर्थः ॥ अत्र प्रदेशाङ्गस्य
चिकित्साकरणसम्भवादादौ प्रदेशलक्षणकथनम् । जीवितमिति आयु-
र्ज्ञानाध्याये वक्ष्यमाणं ह्रस्वकर्णत्वादिलक्षणेन निरूपितं दीर्घादीर्घ-
जीवितत्वमित्यर्थः । यद्वा दशादशकात्मकोऽश्वस्य जीवितकालस्तम् ।
दशापरिमाणं चाश्वस्य त्रयोवर्षाः द्विसप्ततिदिनानि चेति । वय इति
वयोज्ञानाध्याये वर्णनीयं दन्तोद्भेदादिदर्शनेन वयोनिरूपणमित्यर्थः ।
दशा

8 अश्ववैद्यकम्। [१ अध्यायः।
बन्ध्याक्रमं१ प्रसूतायाः शिशोश्च२ प्रतिपालनम्३।
द्रव्यमात्राविधिश्चैव४ निघण्टं पोषणक्रमम् ॥ ७॥
विधिं क्षाराग्निशस्त्राणां शिरावेधविधिन्तथा।
निरूहे च विधिश्चैव५ विधिश्चैवानुवासने६ ॥ ८॥
७। बन्ध्याक्रममिति बन्ध्योपचाराध्याये वर्णनीयं बन्ध्याया गर्भ-
धारणाद्युपायमित्यर्थः ॥ प्रसूतायाः शिशोश्च प्रतिपालनमिति किशो-
रोपचाराध्याये सूतिकोपचाराध्याये च वक्ष्यमाणं प्रसूतेः शिशोश्च
पोषणोपचारप्रणालीमित्यर्थः। द्रव्यमात्राविधिमिति द्रव्यशब्देनात्र
भेषजं ज्ञेयम्। द्रव्यस्य भेषजस्य मात्राविधिं प्रधानमध्यहीनेषु देश-
कालबलमपेक्ष्य उपयोगार्थं भेषजादिपरिमाणनिर्णयमित्यर्थः। तस्य
च विशेषं द्रव्यमात्राध्याये चतुर्विंशे वर्णयिष्यति॥ निघण्टमिति तन्ना-
मकाध्यायः पञ्चविंशः। यत्राश्वानां भेषजोपयोगिमुस्तकादिद्रव्याणां
पर्यायो वर्णितः तम्। पोषणक्रममिति वक्ष्यमाणस्वस्थवृत्ताध्यायोक्तं
शिशिरादिषु ऋतुषु वाजिनामुपचारप्रणालीमित्यर्थः ॥
८। विधिं क्षाराग्निशस्त्राणामिति। क्षारविधिम् अग्निविधिं
शस्त्रविधिश्चेति। अयं त्रिविधोपक्रमः शोफार्शोवातादिषु रोगेषु
१। बन्ध्याकर्म प्रसूतानाम्। कः। २। पशोश्च। कः।
३। परिपालनम्। खः। ४। द्रव्यमात्राधिकम्। कः।
५। आरोहे च। कः। ६। वस्तिश्चैवानुवासने। गः।

१ अध्यायः ।] अश्ववैद्यकम् । ५
नस्ये स्वेदे¹ विधिश्चैव स्नेहपाने विधिं क्रमात् ।
तैलपाकविधानञ्च घृतपाकविधिन्तथा ॥ ६ ॥
प्रयोज्यः ॥ एषां विशेषः तत्तदध्यायेषु परतः वर्णनीयः ॥ शिरावेध-
विधिमिति शिराणां वेधो वेधनं सूच्यादिभिरित्यर्थः । अस्य विशेषः
शिरावेधाध्याये वक्ष्यते ॥ निरूहे इति निरूहः सिद्धवस्तिः द्विविध-
वस्तिकर्म्मणोरन्यतरः संशमनाथ्यं कषायक्षीरतैलपूरितनेत्रादिसाध्य
इत्यर्थः । तस्मिन् । तथा अनुवासनं नाम द्वयोरन्यतरः केवलस्नेह-
साध्यो वस्तिविशेषः । “अनुवसनपि न दुष्यति अनुदिनं वा दीयते”
इत्यनुवासनम् । इति सुश्रुतम् । उक्तञ्च सारकौमुद्यां “वस्तिर्द्विधा-
नुवासाख्यो निरूहश्चेति संज्ञितः । यः स्नेहैर्दीयते स स्यादनुवासन-
नामकः । कषायक्षीरतैलैर्यैः निरूहः स निगद्यत” इति ॥अन्यस्योप-
क्रमो निरूहानुवासनाध्याये द्रष्टव्यः ॥
६ । नस्य इति । ऊर्द्ध्वजत्रुगतरोगशान्त्यर्थं प्रयोज्ये शिरोविरेचन
इत्यर्थः ॥ स्वेदे तापादिचतुर्विधे यं विना शोधनादिकं नैव प्रयुज्यते ।
उक्तञ्च सुश्रुते—"येषां नस्यं विधातव्यं वस्तिश्चैवेह देहिनाम् ।
शोधनीयाश्च ये केचित् पूर्वं स्वेद्या हि ते मताः” इति । अस्य विशेष-
स्तदध्याये वर्णनीयः ॥ स्नेहपान इत्यनेन घृततैलोभयग्रहणम् । तयोः
पाने पानपरिमाणादिविषय इत्यर्थः । तैलपाकविधानं प्रसारण्यादि-
तैलपाकानुष्ठानमित्यर्थः । घृतपाकविधिमिति घृतं पञ्चतिक्तादिक-
मित्यर्थः ॥
१ । नस्यस्वेदविधिं । कः गः ।

श्रमोपचारं १ वाहानां तथारिष्टत्रयं २ पुनः ।
वेधारिष्टं पुनश्चैव कटिवेधं तथैव च ॥ १० ॥
मृगरोगचिकित्साञ्च ३ चिह्नपूर्वं समासतः ।
वातादीनाञ्च ४ दोषाणां कोपहेतुं तथैव च ॥ ११ ॥
व्याधिनिर्द्देशमुखरुङ्नेत्ररोगविधिं क्रमात् ।
काचं प्रचारं विख्यातं रक्तं विख्यातपाटलम् ५ ॥ १२ ॥
१० । श्रमोपचारमिति । अतिवाहनादेः श्वासा दिरोगजनको
यः परिश्रमः खेदापनयनानन्तरं मदिरादिदानेन तत्प्रतीकाररूपोवा
द्य उपचारः । अरिष्टत्रयं खखारिष्टं वेधारिष्टं कीटारिष्टञ्चेति ।
इदञ्चारिष्टाध्याये एषणीयम् ॥
११ । मृगरोगेति भूरि उपद्रवजनकः सांघातिको रोगविशेषः ।
अस्य लक्षणादिकं मृगरोगचिकित्सायां द्रष्टव्यम् । चिह्नपूर्वं लक्षण-
ज्ञानपूर्वकमित्यर्थः । वातादीनामिति वातपित्तकफसंज्ञकदोषत्रयाणां
कोपे वृद्धौ हेतुः कारणम् । हेतुश्च तिक्तादि-कट्वादि-मधुरादि-
द्रव्योपयोगजः । एतानि च प्रकोपकारणानि दोषप्रकोपोपशमनाध्याये
वक्ष्यन्ते ॥
१२ । व्याधिनिर्द्देशेति । व्याधीनां वक्ष्यमाणमुखरोगादि-
१ । श्रान्तोपचारम् । कः । २ । तथारिष्टस्य लक्षणम् । कः ।
३ । मृगरोगविधिश्चैव । कः । ४ । वातादीनां प्रकोपनम् । कः ।
५ । विख्यातं । कः ।

१ अध्यायः ।] अश्ववैद्यकम् । ७
मुञ्जजालं ततश्चेति नेत्ररोगास्तथैव च ।
वातात् पित्तात् कफाच्चेति सन्निपातात्तथा पुनः ॥ १३॥
रक्ताभिघाताद् ये जाताः शिरोरोगाश्च दारुणाः ।
निदानञ्चैव चिह्नञ्च रोगाणाञ्च चिकित्सितम् ॥ १४ ॥
वातबलासक्रान्तानामित्यर्थः । निर्देशः निर्व्वचनम् । मुखरुगित्यनेन
वक्ष्यमाणमुखरोगचिकित्साध्याये उक्ता उपकुशादिगलशालूकान्ता-
श्चतुर्द्दश रोगाः । नेत्ररोगेत्यनेन मुञ्जजालमुञ्जकपटलवुद्बुदपूयस्रा-
वकाचतो यस्रावप्रसन्नाञ्जनकताम्बतिमिररक्तस्रावाभिष्यन्दचिपिटवर्त्मा-
ख्याः चतुर्द्दशनेत्ररोगाः । तेषां विधिमनुष्ठानम् । एषां विस्तरं नेत्र-
रोगाध्याये वर्णयिष्यति । पटलमेव पाटलम् । पटलं नाम श्लैष्मि-
काक्षिरोगविशेषः । काचमिति पैत्तिकमक्षिरोगविशेषम् । रक्तमपि
पैत्तिकाक्षिरोगमाह । प्रचारः श्लैष्मिकाक्षिरोगः तम् । रक्तमिति
रक्तस्रावनामको रक्ताभिष्यन्दजो नेत्ररोगविशेषः तम् ॥
१३ । मुञ्जजालमिति मुञ्जं मुञ्जजालञ्चेति द्विविधोऽक्षि-
रोगः कृमिसम्भवो ज्ञेयः । एषां विशेषः चिकित्सितञ्च परतो
वर्णनीयम् ॥
१४ । शिरोरोगाः वातजपित्तजश्लेष्मजसन्निपातजरक्तजाः पञ्च
शिरोरोगाः । एषां लक्षणादिकं वक्ष्यमाणशिरोरोगाध्याये वक्ष्यति ।
साध्यासाध्यविवेकमिति। रोगेषु के साध्याः के वा असाध्यास्तद्विवेक-
मित्यर्थः । रोगाणाञ्च चिकित्सितमिति लिङ्गितादिविषान्तानामव-

८ अश्ववैद्यकम् । [१ अध्यायः ।
साध्यासाध्यविवेकञ्च कृच्छ्रसाध्ये विनिश्चयम् ।
प्रकृतिञ्च तुरङ्गाणां कथयाम्यनुपूर्व्वशः¹ ॥
रसोनादींस्तथा कल्पान्² मुनिभिः पूर्व्वनोदितान् ॥
॥१५॥
इत्युद्देशाध्यायः³ ॥
शिष्टानां व्याधीनां निदानं कारणं चिह्नं लक्षणं चिकित्सितञ्च ।
कथयामीति क्रिया प्रदेशादिभिः कर्म्मभूतैःसह प्रत्येकं संबध्यते ॥
१५ । प्रकृतिमिति वातादिप्रकृतिमित्यर्थः । रसोनादीनिति
आदिपदेन गुग्गुलुरसायनादीनां ग्रहणम् । कल्कः दृषदि पेषितं
वस्तु ॥
१ । अनुपूर्व्वतः । कः ।
२ । रसोनादि तथा कल्पम् । गः ।
३ । क-नामकपुस्तके उपदेशाध्याय इति नामकृतमस्याध्यायस्य ।

[ ६ ]
अथ द्वितीयोऽध्यायः ।
प्रदेशाः ।
प्रदेशान् वाजिदेहस्थान् यो न वेत्ति विभागशः ।
न¹ स जानाति मूढात्मा लक्षणं न चिकित्सितम् ॥१॥
अतएव² प्रदेशानां ज्ञानमादौ प्रकीर्तितम् ।
एतद् यत्नेन बोद्धव्यं वाजिनां हितकाम्यया ॥ २ ॥
अतिप्रसिद्धा जिह्वा या³ तस्याः सूना भवेदधः ।
ऊर्ध्वं⁴ तालु भवेत्तस्याः तदग्रे⁵ दन्तपीठकम् ॥ ३ ॥
१ । प्रदेशान् जिह्वादिमण्डूकान्तानित्यर्थः । लक्षणं प्रदेशरो-
गाणामित्यर्थः ॥
३। अस्मिन्नध्याये आदौ प्रदेशज्ञानस्य प्रयोजनं प्रदेशानित्यादि
श्लोकद्वयेन प्रतिपाद्य पश्चात् प्रदेशानां लक्षणानि क्रमेण एकत्रिंश-
श्लोकैर्निर्दिशन्नाह । अतिप्रसिद्धेत्यादि ॥ सूना अधोजिह्विका सूना-
धोजिह्विकापि च । इत्यमरः ॥ तस्या इति सूनायाः ।
१ । नैव जानाति । २ । गः । २ । अतःपरमिति । २ । खः ।
३ । जिह्वातु । २ । कः । ४ । ऊर्ध्वे । २ । खः ।
५ । ततोऽग्रे दन्तएष्ठिका । २ । कः ।
2

८ अश्ववैद्यकम् । [१ अध्यायः ।
साध्यासाध्यविवेकञ्च कृच्छ्रसाध्ये विनिश्चयम् ।
प्रकृतिञ्च तुरङ्गाणां कथयाम्यनुपूर्व्वशः१ ॥
रसोनादींस्तथा कल्पान्२ मुनिभिः पूर्व्वनोदितान् ॥
॥१५॥
इत्युद्देशाध्यायः३ ॥
शिष्टानां व्याधीनां निदानं कारणं चिह्नं लक्षणं चिकित्सितञ्च ।
कथयामीति क्रिया प्रदेशादिभिः कर्मभूतैःसह प्रत्येकं संबध्यते ॥
१५ । प्रकृतिमिति वातादिप्रकृतिमित्यर्थः । रसोनादीनिति
आदिपदेन गुग्गुलुरसायनादीनां ग्रहणम् । कल्कः दृषदि पेषितं
वस्तु ॥
१ । अनुपूर्व्वतः । कः ।
२ । रसोनादि तथा कल्पम् । गः ।
३ । क-नामकपुस्तके उपदेशाध्याय इति नामकृतमस्याध्यायस्य ।

[ ६ ]
अथ द्वितीयोऽध्यायः ।
प्रदेशः ।
प्रदेशान् वाजिदेहस्थान् यो न वेत्ति विभागतः ।
न¹ स जानाति मूढात्मा लक्षणं न चिकित्सितम् ॥ १ ॥
अतएव² प्रदेशानां ज्ञानमादौ प्रकीर्त्तितम् ।
एतद् यत्नेन बोद्धव्यं वाजिनां हितकाम्यया ॥ २ ॥
अतिप्रसिद्धा जिह्वा या³ तस्याः सूना भवेदधः ।
ऊर्द्धं⁴ तालु भवेत्तस्याः तदग्रे⁵ दन्तपीठकम् ॥ ३ ॥
१ । प्रदेशान् जिह्वादिमण्डूक्यन्तानित्यर्थः । लक्षणं प्रदेशरो-
गाणामित्यर्थः ॥
३ । अस्मिन्नध्याये आदौ प्रदेशज्ञानस्य प्रयोजनं प्रदेशानित्यादि
श्लोकद्वयेन प्रतिपाद्य पश्चात् प्रदेशानां लक्षणानि क्रमेण एकत्रिंश-
च्छ्लोकैर्निर्दिदृक्षुराह । अतिप्रसिद्धेत्यादि ॥ सूना अधोजिह्विका सूना-
धोजिह्विकापि च । इत्यमरः ॥ तस्या इति सूनायाः ।
१ । नैव जानाति । २ । गः । २ । अतःपरमिति । २ । खः ।
३ । जिह्वातु । २ । कः । ४ । ऊर्द्धे । २ । खः ।
५ । ततोऽग्रे दन्तएष्ठिका । २ । कः ।
2

१० अश्ववैद्यकम्। [२ अध्यायः।
ततो दन्ताः१ समुद्दिष्टा उर्द्धं दन्ता भवन्त्यधः ।
चिवुकञ्चाधरोभाग२ स्तेषां प्रोक्तं विचक्षणैः ॥ ४ ॥
चिवुकस्योपरिष्टात्तु अधरौष्ठः प्रकीर्त्तितः ।
चिवुकात् पार्श्वभागे तु हनुर्नामाभिधीयते ॥ ५ ॥
सृक्वद्वयं विजानीयाद्वक्त्रपार्श्वगतं बुधः ।
उत्तरौष्ठः प्रपाणाख्यः३ तदूर्द्धं प्रोथ उच्यते४ ॥ ६ ॥
नासाच्छिद्रे तथा पार्श्वे प्रोथस्यैव व्यवस्थिते ।
नासाच्छिद्राक्षिमध्ये तु घोणाख्यः५ समुदाहृतः ॥ ७ ॥
घोणापार्श्वगतौ गण्डौ क्षीरिके च ततःपरम् ।
नेत्रयोरधरे भागे६ अश्रुपात उदाहृतः ॥ ८ ॥

तदग्रे तालोरग्रे। दन्तपीठकमिति दन्तानां पीठकं आसनं
दन्तवेष्ट इत्यर्थः। तेषां दन्तानाम् अधरोभागः चिवुकम् ।
५। कपोलौ तत्परो हनुरित्यमरः। (चोयाल) Jaw ।
६। सृक्वद्वयं ओष्ठपार्श्वद्वयम् । Corner of the mouth. ।
८। अश्रुपातः अश्रुपातनामकः प्रदेश इत्यर्थः ॥

१। अग्रेदन्ताः । २। कः। २। चिवुकः स्याधरे भागे । २।
३। प्रपाणाख्यं । २। खः। ४। प्रोथश्च समुदाहृतम्। २। गः।
५। घोणाख्यं समुदाहृतम्। २। खः। ६। नेत्रयोरन्तरे भागे । २। खः।

२ अध्यायः ।] अश्ववैद्यकम् । ११
कर्णान्ते चैव नेत्नान्तमपाङ्गं ब्रुवते बुधाः१ ।
कनीनिकाक्ष्णोर्विज्ञेया यस्य नासासमीपगः२ ॥ ९ ॥
सितासितञ्च तन्मध्ये३ नेत्रयोर्मण्डलं हि तत् ।
प्रच्छादनं भवेद्वर्त्म चाक्षिकूटमतःपरम् ॥ १० ॥
तस्मादूर्द्धं भ्रुवो र्लेखा ललाटञ्च तदुत्तरम् ।
ऊर्द्धं ललाटदेशात्तु केशान्तञ्च ततः भ्रुवः ॥ ११ ॥
ततः शिरो विजानीयात् भ्रुवादूर्द्धगतं बुधः ।
शिरःपार्श्वगतौ कर्णौ तयोर्मूलन्तु शष्कुली४ ॥ १२ ॥
९ । कनीनिका तारका । तारकाक्ष्णः कनीनिकेत्यमरः । यस्य
अपाङ्गस्य । नासासमीपगः यः प्रदेशः सा कनीनिका इत्यर्थः ॥
१० । वर्त्म नेत्रच्छदं प्रच्छादनं प्रच्छादनापरनामकं भवेत् । वर्त्म
नेत्रच्छदेऽध्वनीत्यमरः । अक्षिकूटमीषिका चक्षुर्गोलको वा । ईषि-
कात्वक्षिकूटमित्यमरः ॥
११ । तस्मादक्षिकूटात् । ललाटं अवग्रहप्रदेशम् । अवग्रहोऽललाटं
स्यादित्यमरः । Forehead. ॥
१२ । शष्कुली चूलिका कर्णच्छिद्रं वा । कर्णमूलन्तु चूलिके-
त्यमरः ॥
१ । कर्णपार्श्वे च नेत्रान्तमपाङ्गः प्रोच्यते बुधैः । २ । कः ।
२ । कनीनिकाख्योविज्ञेयः यश्च नासासमीपगः । कः ।
३ । यन्मध्ये । कः । खः । ४ । सकुन्तलम् । २ । खः ।

१२ अश्ववैद्यकम्। [२ अध्यायः।
अपाङ्गाद्व्यङ्गुले चैव शङ्खं विद्याद्विचक्षणः १।
शङ्ककर्णान्तरेचैव कटाक्षः समुदाहृतः ॥ १३ ॥
विदुर्मर्मविदुश्चैव कर्णस्याधः षडङ्गुले ।
घण्टाबन्धसमीपस्थो निगालः परिकीर्तितः ॥ १४ ॥
अधस्ताच्च २ निगालस्य गलमाहुर्मनीषिणः ।
ततः कण्ठं विजानीयादधोभागे विचक्षणः ३ ॥ १५ ॥
वक्षः क्रोड़ं तथा चैव हृदयं कुक्षिमेव ४ च ।
आनुपूर्वं ५ विजानीयादधोभागगतं बुधः ॥ १६ ॥
ग्रीवा लोकप्रसिद्धा तु तस्याश्चोपरि केसरः ।
ग्रीवास्कन्धान्तरे चैव वाहं प्राहुर्मनीषिणः ॥ १७ ॥


१३ । शङ्खं ललाटास्थि ॥
१४ । कर्णस्य अधः अधस्तात् षडङ्गुले अन्तर इति शेषः । वि-
दुर्नाम मर्मविदुः । तयोर्मध्ये विदुः पुमानित्यमरः ॥
१६ । पूर्वानुक्रमेण ।


१ । चाथोऽष्टाङ्गुले । कः । २ । व्यधस्ततो । २ । खः ।
३ । अधोभागे गतं बुधः । २ । खः । ४ । कच्छमेव च । २ । खः ।
५ । आनुपूर्व्या । २ । खः ।

२ अध्यायः ।] अश्ववैद्यकम् । १३
वाहस्योपरिजन्तु स्यात्¹ काकसं ककुदञ्च तत्² ।
ततः पृष्ठं विजानीयादासनं पृष्ठमध्यगम्³ ॥ १८ ॥
अंसके ककुदश्चैव⁴ निवन्धे परिकीर्तिते ॥ १९ ॥
स्यातामंसादधो बाहू तयोर्बाह्ये षडङ्गुले ।
बाह्वोरभ्यन्तरे विन्द्यात् किण्वञ्चातिप्रसिद्धकम् ॥ २० ॥
अधरे च ततोजानु निर्दिष्टं शास्त्रकोविदैः ।
मन्दिरं पश्चिमोभागः कलाची जानुनोऽग्रिमः⁵ ॥ २१ ॥
जानुनोश्चाप्यधोभागे⁶ जङ्घां विन्द्याद्विचक्षणः ।
जङ्घापार्श्वे कलां विन्द्यात् सन्ध्यश्चैषिकसंज्ञकम् ॥ २२ ॥
अग्रतः पलिहस्तस्याः७ पश्चात् कूर्च उदाहृतः ।
१८। ककुदं वृषस्कन्धः। अत्र काकसस्थाने कीकस एव भवितुं युक्तः॥
२१। मन्दिरं जानुपश्चाद्भागः। कलापीत्यत्र कलाचीति सङ्गतं
मन्ये। कलाची जानुनोऽङ्गुलिपर्यन्तोभागः ॥
२२। गुल्फावधिजानुपर्यन्तः प्रदेशः जङ्घा॥
१। वाहस्योपरि यत्तत्स्यात् । २ । खः । जन्तुः स्यात् । गः ।
२ । ककुदं क्रमात् । २ । कः । ३ । पृष्ठमध्यतः । २ । कः ।
४ । ककुदस्यैव । २ गः । ५ । जानुनोऽद्यतः । २ । गः ।
६ । जानुनश्चाधरे भागे । २।खः । ७ । पजिहस्तः स्यात् । गः ।

१४ अश्ववैद्यकम्। [२ अध्यायः।
किणं तचैव¹ मध्यस्थमधोभागे च कुष्ठिकम्² ॥ २३॥
खुरसन्धिं ततो विन्द्यादधोभागे ततः खुरम्।
खुरस्य पार्श्वे पार्ष्णिः स्यादग्रभागे नखोभवेत् ॥ २४॥
खुरस्याधस्तलं चैव मण्डूकी तलमध्यतः³।
खुरमांसं विजानीयात् क्षीरिकाख्यं विचक्षणः ॥ २५॥
हृदयात् परतः कुक्षी पार्श्वतश्च विभागशः।
कुक्षिमध्ये भवेद्रन्ध्रमुपरन्ध्रं तदूर्द्धगम् ॥ २६॥
जठरं पार्श्वमध्यस्थं तस्य नाभिश्च मध्यतः।
रोमराजीं ततो विन्द्यात् मूचकोशमतःपरम्४।
आक्थ्याः पश्चिमे भागे पुटौ स्फिचौ च कीर्त्तिते ॥ २७॥
पुच्छमूलन्तु५ वाहानां मांसलं पुच्छमूलतः।
तस्याधः कीर्त्तितः पायुः सीवनी च ततःपरम् ॥ २८॥
२४। ततः खुरसन्धेः अधोभागे खुरम्।
२६। कुक्षी उदरः। रन्ध्रं उदरगह्वरः। तदूर्द्धगं तस्मात् हृदय-
गह्वरादूर्द्धभागस्थम्॥
२७। स्फिचौ कटिप्रोथौ। अत्र छन्दोभङ्गः जातः।
१। किंकणञ्च। २। खः। २। कुष्ठकी। २। खः।
३। मध्यगा। २। खः। ४। मूत्रकोशस्ततःपरम्। २। गः।
५। भाद्यते पुच्छमूलतः। २। खः।