सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

निर्देशः ] षष्ठं कोशस्थानम् ६४१
एवमप्यूर्ध्वस्रोतसो भवाग्रपरमस्यैकस्यां गतावष्टम उपपत्तिभवो न
प्राप्नोति ? कामधात्वभिसन्धिवचनाददोषः ।
किमत्र ज्ञापकम्—सूत्रम्, युक्तिर्वा ? इह चैव किं ज्ञापकं प्रत्येकं देवमनुष्येषु
सप्तकृत्वो न पुनरुभयेष्वेव सप्तकृत्व इति । एवं हि पठ्यते—"सप्तकृत्वो देवाँश्च
मनुष्याँश्च" इति ? प्रत्येकमपि तु काश्यपीयाः पठन्ति—"सप्तकृत्वो देवान्
सप्तकृत्वो मनुष्यान्" इति । नात्राभिनिवेष्टव्यम् । यश्च मनुष्येषु स्रोतआपन्नो
भवति स तानेवागम्य परिनिर्वाति, यो देवेषु स तानेव ।
भवाभिनिर्वर्तनम् । अन्तराभवास्तु न गण्यन्त इति । यदि अन्तराभवैः सह
सप्तभवा गण्येरन्, जन्मचतुष्टयमेवास्य स्यात् । तदेवानेनानिष्टापत्तिवचनेन
तदात्मीयं व्याख्यानमेकस्यां गताविति समर्थयति ।
इतर आह—एवमप्यूर्ध्व स्रोतस इति विस्तरः । यद्येकस्यां गतावष्टमं भवं
नाभिनिवर्तयतीति व्याख्यापयसि, कथं तर्हि ऊर्ध्वस्रोतसोऽष्टमभवाभिनिर्वृत्तिरे-
कस्यां गतौ भवति, भवाग्रपरमस्येति विशेषणं किमर्थम् ? अकनिष्ठपरमस्यापि
अष्टमभवाभिनिर्वृत्तिः सम्भवति । “स प्लुतोऽर्धप्लुतः सर्वच्युतश्चाग्यो
भवाग्रगः” (अभि० ६.३८) इति वचनात् । स चापि वक्तव्यः, भवप्रकर्षविव-
क्षायां तु भवाग्रपरमग्रहणमित्यभिप्रायं लक्षयामः । कामधात्वभिसन्धिवचनादिति ।
कामधातौ चैका गतिर्मनुष्यगतिः, देवगतिर्वा । तस्यामष्टमभवं नाभिनिर्वर्तयति,
न तु रूपारूप्यधात्वोरिति । किमत्र ज्ञापकम्, सूत्रं युक्तिर्वा । कामधातुमधि-
कृत्येदमुक्तमिति । सूत्रमागमः, युक्तिरनुमानम् । येन चोदकेनैवं चोदितम्—
किमत्र ज्ञापकं सूत्रं युक्तिर्वेति, स एव पुनराह—इह चैव किं ज्ञापकं प्रत्येकं
देवमनुष्येष्विति विस्तरः । प्रत्येकं देवमनुष्येषु सप्तकृत्वः संसृत्येत । न
पुनरुभयेष्वेव देवमनुष्येषु सप्तकृत्व इति । तदुक्तं भवति—यो मनुष्येषु दृष्टसत्यः,
स देवेषु त्रिकृत्वः संसृत्य मनुष्येषु च त्रिकृत्व एव ततो देवानागम्य परिनि-
र्वातीति । यो वा देवेषु दृष्टसत्यः, स तथैव । स मनुष्येषु त्रिकृत्वो देवेषु च
त्रिकृत्व एव संसृत्य ततो मनुष्यानागम्य परिनिर्वातीति । एवं हि पठ्यते—
सप्तकृत्वो देवांश्च देवमनुष्याँश्चेति । सामान्यरूपेण हि पठ्यते । न प्रत्येकमिति
विशिष्य पठ्यत इत्यर्थः । एवं वैभाषिकपक्षे संशायावस्थे कृते आचार्यः समर्थ-
यन्नाह—प्रत्येकमपि तु काश्यपीया इति विस्तरः । काश्यपीया निकायान्तरीयाः ।
त एवं पठन्ति—सप्तकृत्वो देवान् सप्तकृत्वो मनुष्यानिति । एवं प्रत्येकमर्थो
लभ्यते । तदनेनोभयमपि परिहृतं भवति—'यदुक्तम् किमत्र ज्ञापकं सूत्रं युक्तिर्वा

६४२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
किं पुनः कारणमष्टमं भवं नाभिनिर्वर्तयति ? तावता कालेनावश्यं सन्तति-
परिपाकात् । मार्गो हि स तज्जातीयः ; सप्तपदाशीविषद्दष्टवत्, चातुर्थक-
ज्वरवच्च । सप्तसंयोजनावशेषत्वाच्च । द्वे अवरभागीये, पञ्च चोर्ध्वभागीया-
नीति ।
अन्तरेणाप्यार्यमार्गं सम्मुखीकुर्वाणो न परिनिर्वाति; तावद् भववेदनीयस्य
कर्मणो बलाधानात् । असति बुद्धोत्पादगृहस्थ एवार्हत्त्वं प्राप्नोति । अगारं तु
पुनर्नोध्यावसति । धर्मता-प्रतिलम्भिकं तु भिक्षुलिङ्गं प्रतिलभते । अन्याश्रमिकं
लिङ्गेनेत्यपरे ।
कामधातुमधिकृत्येदमुकम्' इति, 'यच्चोक्तम् इव चैव किं ज्ञापकम्— प्रत्येकं
देवमनुष्येषु सप्तकृत्वः' इति । प्रत्येकमर्थपरिग्रहेणैव हि कामधात्वभिसंगतिरपि
[

निर्देशः ] षष्ठं कोशस्थानम् १४३
कस्मादविनिपातधर्मा^१ भवति ? तद्गामिकर्मानुपचयादुपचितविपाकदानवै-
गुण्याच्च संततेर्बलवत्कुशलमूलाधिवासनात्,^२ प्रयोगाशयशुद्धितः । अपायनियते
तु कर्मण्यसौ क्षान्तिमपि नोत्पादयेत् । आह चात्र—
“कृत्वा बुधोऽल्पमपि पापमधः प्रयाति,
कृत्वा बुधो महदपि प्रजहात्यनर्थम् ।
मज्जत्यधोऽल्पमपि वारिणि संहतं हि,
पात्रीकृतं महदपि प्लवते तदेव” ॥ ( ) इति ।
अविनिपातधर्मेति । सूत्रे पठ्यते—“श्रोतआपन्नो भवत्यविनिपातधर्मा
नियतं सम्बोधिपरायणः सप्तकृत्वःपरमः सप्तकृत्वो देवांश्च मनुष्यांश्च सन्धाव्य
संसृत्य दुःखस्यान्तं करोति” इति । कस्मादेवं भवति ? इत्याह—तद्गामिकर्मानु-
पचयादिति । विनिपातः = अपायो नरकादिः, तंगच्छतीति तद्गामि, तद्गाम्येव
तद्गामिकम् । किम् ? कर्म । तस्यानागतस्यानुपचयादार्यावस्थायाम् । उपचित-
विपाकदानवैगुण्याच्च सन्ततेः । पृथग्जनावस्थायामुपचितस्यानियतवेदनीयस्य
तद्गामिकस्य कर्मणो विपाकदानवैगुण्यात् सन्ततेः । अविनिपातधर्मा
भवतीत्युच्यते । ईदृशी तस्य स्कन्धसन्ततिः परावृत्ता, यदसौ तद्गामिकस्य कर्मण
उपचितस्य विपाकदानवैगुण्येनावस्थितेति । कस्मात् पुनः सा स्कन्धसन्तति-
रुपचिततद्गामिककर्मविपाकदानवैगुण्येनावस्थितेति ? तत उच्यते—
बलवत्कुशलमूलाधिवासनादिति । यस्मादसौ स्कन्धसन्ततिर्बलवद्भिः कुशल-
मूलैरधिवासिता परिभाविता । कथं च पुनर्बलवत्कुशलमूलाधिवासिता ?
प्रयोगाशयशुद्धितः । प्रयोगशुद्धितः, आशयशुद्धितश्च । तत्र प्रयोगशुद्धिरायं-
कान्तानि शीलानि । आश्रयशुद्धिर्बुद्धादिष्ववेत्यप्रसाद इति । क्षान्तिमपि
नोत्पादयेदिति । क्षमणमपि नोत्पादयेत्, चित्तमपि नोत्पादयेत् । प्रागेव
प्रयोगमित्यभिप्रायः । अथ वा—अपायनियते तु कर्मणि सत्यसौ पुद्गलः
क्षान्तिमपि निर्वेधभागीयलक्षणां नोत्पादयति, किमज्ञानास्रवं मार्गमिति ।
यथा बलवत्कुशलमूलाधिवासिता उपचिताकुशलविपाकदानविगुणा भवति,
तच्छ्लोकेनोपदर्शयति—कृत्वा बुधोऽल्पमपीति । सर्थम् । अबुधोऽल्पमपि पापं
कृत्वा अधः प्रयाति अपायम् । बुधः पुनः महदपि पापं कृत्वा प्रजहात्यनर्थम्
अपायम् ।
तदर्थद्वयं यथाक्रमं दृष्टान्तद्वयेन साधयति—लोहमल्पमपि संहतं पिण्ड-
१. ॰निपातकधर्मा—का० । २. ॰कुशलाधि०—का० ।

६४४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
दुःखस्यान्तं करोतीति। को दुःखस्यान्तः ? यस्मात् परेण दुःखं नास्ति ।
अप्रतिसन्धिकं दुःखं करोतीत्यर्थः ।
अथवा—निर्वाणमन्तः । कथं निर्वाणं करोति ? तत्प्राप्ति विबन्धापनयनात् ।
यथाकाशं कुरु मण्डपं पातयेति भवन्ति वक्तारः । अन्योऽपि वा¹ स्यात् सप्त-
कृत्वः परमो न तु नियत इति नोच्यते ।
एवं तावदक्षीणभावनाहेयः फलस्थः सप्तकृत्वः परमो भवति ।
त्रिचतुर्विधमुक्तस्तु द्वित्रिजन्मा कुलंकुलः ॥ ३४ ॥
स एव स्रोतआपन्नस्त्रिभिः कारणैः कुलंकुलो भवति—
१. क्लेशप्रहाणतः, त्रिचतुःप्रकारप्रहीणत्वात् ।
२. इन्द्रियतः, तत्प्रतिपक्षानास्रवेन्द्रियलाभात् ।
३. जन्मतः, द्वित्रिजन्मावशेषत्वात् ।
रूपावस्थितम् उदके मज्जति । असंस्कृतत्वात् । तदेव पुनर्लोहं पात्रीकृतं सन् महज्-
जातमुदके प्लवते तरति; तदभिसंस्कारगुणात् । एवमबुधो गुणैरपात्रीकृत-
त्वान्मज्जति, न तु बुधः, गुणैः पात्रीकृतत्वादिति ।
यस्मात् परेण दुःखं नास्तीति । यस्माद् दुःखात् परेण दुःखं नास्ति
भवान्तरसंगृहीतम्, स दुःखस्यान्तो दुःखावसानमित्यर्थः । अन्यथा हि मरण-
काले दुःखस्यान्तो भवति । सप्रतिसन्धिकं तु तद् दुःखम् । अत आह—
अप्रतिसन्धिकं दुःखं करोतीत्यर्थ इति । कथं निर्वाणं करोतीति । नित्यत्वात् करणं
न युज्यत इत्यभिप्रायः । तत्प्राप्तिविबन्धापनयनादिति । निर्वाणप्राप्तिविबन्धा-
पनयनात् । तत्प्राप्तेर्विबन्धः क्लेशप्राप्तिरुपधिर्वा, तदपनयनान्निर्वाणं करोति ।
तद्यथा—आकाशं मण्डपावस्थाने न लभ्यते, सति तस्य विबन्धे, तदपनयनाश्रित्य-
मप्याकाशं करोतीत्युच्यते । तेनाह—यथाकाशं कुरु मण्डपं पातयेति भवन्ति
वक्तार इति । अन्योऽपि वेति । पृथग्जनः परिपक्वसन्तानः । न तु नियत इति ।
कदाचिदिहैव परिनिर्वायात् अन्तराभावेषु चेत्यतो नोच्यते ।
द्वित्रिजन्मेति । द्वे वा त्रीणि वा जन्मान्यस्येति द्वित्रिजन्मा । केचिदेवं
पठन्ति—द्वित्रजन्मेति द्वे वा त्रीणि वा द्वित्राणि । “संख्याव्ययासन्नादूराधिक-
१. च—का० ।

निर्देशः ] ' षष्ठं कोशस्थानम् ६४५
श्लोके तु द्वयोर्ग्रहणम्, स्रोतआपन्नस्य पश्चात् प्रहीणे सति तत्प्रति-
पक्षानास्रवेन्द्रियस्यानुक्तसिद्धत्वात् । जन्म तु कदाचिदल्पोयः स्यात्; परेण
भव्यत्व द् । अतोऽस्य ग्रहणम् ।
कस्मान्न पञ्चप्रकारप्रहाणात् ? तत्प्रहाणे षष्ठस्यावश्यं प्रहाणात् । नहि
तस्यैकः प्रकारः फलं विघ्नयितुं समर्थः; एकवीचिकस्येव धात्वनतिक्रमात् ।
संख्याः संख्येये” (पा० सू० २. २.२५) इति समासः । “बहुव्रीहौ संख्येये डच्”
(पा० सू० ५.४.७३) इति समासान्तः । द्वित्राणि जन्मान्यस्येति द्वित्रजन्मेति ।
श्लोके तु द्वयोर्ग्रहणमिति । क्लेशप्रहाणजन्मनोः। कस्मात् ? इत्याह—स्रोत-
आपन्नस्य/नुपूर्विकस्य दर्शनप्रहातव्येषु प्रहीणेषु । भावनाप्रहातव्यानां क्लेशानामे-
कस्य प्रकारस्य यावच्चतुर्णां पश्चात्प्रहाणे सति तत्प्रतिपक्षस्यैकद्वित्र्यादिक्लेश-
प्रकारप्रतिपक्षस्यानास्रवेन्द्रियस्य लाभस्तस्यानुक्तसिद्धत्वात्, श्लोकेन तस्या-
ग्रहणम् । न हि विना प्रतिपक्षेण क्लेशप्रकार प्रहाणमस्ति । लौकिकेनापि हि
मार्गेण तस्यार्यस्य क्लेशप्रकारप्रहाणेऽनास्रवस्य तत्प्रतिपक्षस्येन्द्रियस्य लाभो
भवति । जन्म तु कदाचिदल्पीयः स्यात् । यदिहैव परिनिर्वायात् अन्तराभवे
उपपद्य वा । किं कारणम् ? परेण भव्यत्वात् । स्रोतआपत्तिफलात् परेण
सकृदागामित्वस्य यावदर्हत्त्वस्य भव्यत्वात् । अतोऽस्य जन्मनो ग्रहणम् ।
“द्वित्रिजन्मा कुलंकुलः” इति नियमार्थमिदमिह विचार्यते—य एकद्विविध-
मुक्तः स किं भवति ? कुलंकुल इत्येके ।
त्रिचतुर्विधमुक्त-ग्रहणं तु उदाहरणार्थम् । परिमाणार्थं वा—नातः परेणेति ।
एकद्विविधमुक्तः पञ्चषट्जन्मेत्यपरे । त्रिचतुर्विधमुक्त इति विशेषपरिग्रहात् ।
नैतद् व्याख्यानकारैर्विचारितमिति विचार्यमेतत् ।
कस्मान्न पञ्चप्रकारप्रहाणात् । किम् ? कुलंकुलो भवतीत्यधिकारः । तत्प्रहाण
इति विस्तरः । पञ्चप्रकारप्रहाणे षष्ठस्यापि प्रकारस्यावश्यं प्रहाणात् । कस्मात् ?
इत्याह—न हि तस्यैकः प्रकारः षष्ठः फलं सकृदागामिफलं विघ्नयितुं समर्थ
इति । एकवीचिकस्येवेति । विपरीतदृष्टान्त एषः । यथैकवीचिकस्यैकः प्रकारो
नवमोऽनागामिफलं विघ्नयितुं समर्थः, नैवमस्य स्रोतआपन्नस्य षष्ठः प्रकारः
सकृदागामिफलं विघ्नयितुं समर्थ इति । कस्मात् ? इत्याह—धात्वनतिक्रमादिति ।
एकवीचिको हि कामधातुमतिक्रामति । अतोऽस्यैकोऽपि प्रकारो नवमः फलं
१. संश्रित्य—का० ।

६४६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
स एव कुलंकुलो द्विविधः—१. देवकुलंकुलः, यो देवेषु द्वे त्रीणि वा
कुलानि संसृत्य परिनिर्वाति तत्र वाऽन्यत्र वा देवनिकाये। २. मनुष्यकुलंकुलः,
यो मनुष्येषु तत्र वाऽन्यत्र वा द्वीपे परिनिर्वाति ॥ ३४ ॥
स एव पुनः फलस्थः—
आपञ्चमप्रकारघ्नो
यस्य फलस्थस्यैकप्रकारो यावत्पञ्चमः प्रहीणो भवति, असौ द्वितीयफल-
प्रतिपन्नको वेदितव्यः।
क्षीणषष्ठप्रकारस्तु सकृदागाम्यसौ पुनः ॥ ३५ ॥
द्वितीयफलप्राप्तो भवति। देवान् गत्वा सकृन्मनुष्यलोकागमनात् सकृदा-
गामी; परेण जन्माभावात्। रागद्वेषमोहानां च तनुत्वादित्युच्यते; मृदुप्रकारा-
वशेषत्वात् ॥ ३५ ॥
स एव पुनः फलस्थः—
[

निर्देशः ] षष्ठं कोशस्थानम् ९४७
कथमस्यैकः प्रकारः फलं विघ्नयितुं शक्नोति ? धात्वतिक्रमात् ।
'अवस्थात्रये हि कर्माणि विघ्नायोपतिष्ठन्ते' इत्युक्तं प्राक् । यथा कर्माणि,
एवं क्लेशा अपि वेदितव्या इति । विपाकनिःष्यन्दफलभूम्यतिक्रमात् ।
वीचिर्नामान्तरम्, तस्य वैकजन्मव्यवहितत्वात्¹, निर्वाणस्य एकत्रक्लेशप्रकारव्यवहित-
त्वाद्व वानागामिफलस्य । एको वीचिरस्येत्येकवीचिकः । तृतीयफलप्रतिपन्नकश्चैकवी-
चिको² वेदितव्यः प्रहीणसप्ताष्टप्रकारः । पूर्वप्रहीणप्रकारस्तु फलप्राप्तौ न
तावत् कुलंकुलो भवत्येकवीचिको वा यावत्फलविशिष्टो मार्गो न सम्मुखीकृतः ।
सोऽनागामी नवक्षयात् ॥ ३६ ॥
स एव पुनः फलस्थो नवप्रकारप्रहाणादनागामी उपदिष्टः; कामधात्वना-
गमनात् । "पञ्चानामवरभागीयानां संयोजनानां प्रहाणात्" इत्युच्यते; प्रहाणसंक-
लनात्² । अवश्यं द्वे त्रीणि वा पूर्वं प्रहीणानि भवन्ति ॥ ३६ ॥
विस्तरः । कथमस्यैकवीचिकस्यैकप्रकारो नवमः फलं विघ्नयितुं समर्थः, न हि
कुलंकुलस्यैकः प्रकारः फलं विघ्नयितुं समर्थ इति ? उच्यते; धात्वतिक्रमात् ।
यस्मादसौ नवमे प्रकारे प्रहीणे कामधातुसमतिक्रान्तो भवति, न पुनस्तत्रो-
पपद्यते ।
स च नवमः प्रकारः कर्मणा सह तत्रोपपद्यवेदनीय इत्यतस्तद्विपाक-
निष्यन्दफलभूम्यतिक्रमात् । फलं विघ्नयितुं समर्थो भवति ।
अवस्थात्रये हि कर्माणि विघ्नायोपतिष्ठन्त इत्युक्तं प्राक् ।
"क्षाम्यनागामिताहंस्त्वप्राप्तौ कर्मातिविघ्नकृद्" (अभि० को० ४,१०७)
इति । इह तु क्लेशेषु योजयितव्यम् । अत एवाह—यथा कर्माणि एवं
क्लेशा इत्यादि । तस्य चैकजन्मव्यवहितत्वादिति । तस्य क्षीणसप्ताष्टप्रकारस्य
सकृदागामिनः । एकेन जन्मना वावहितत्वान्निर्वाणस्य एकेन वा क्लेशप्रकारेण
व्यवहितमस्यानागामिफलमित्येकवीचिकः । न तावत्कुलंकुलो भवत्येकवीचिको
वेति । लौकिकेन मार्गेण पूर्वं त्रिचतुर्विधमुक्तोऽपि न तावत् कुलंकुलो भवति ।
क्षीणसप्ताष्टप्रकारोऽपि न तावदेकवीचिको भवति । तत्प्रतिपक्षानास्रवेन्द्रियलाभ-
स्याभावात् । अत एवाह—यावत्फलविशिष्टो मार्गो न सम्मुखीकृत इति ।
फलविशिष्टे तु तत्प्रतिपक्षे तदूर्ध्वप्रकारप्रतिपक्षे वा सम्मुखीकृते तदानास्रवेन्द्रिय-
लाभात् । कुलंकुलो भवति, एकवीचिको वेत्यर्थादुक्तं भवति ।
१. चैक०—का० । २. ०संकुचनाद्—का० ।

६४८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [मार्गपुद्गल-
सोऽन्तरोत्पन्नसंस्कारासंस्कारपरिनिर्वृतिः ।
ऊर्ध्वस्रोताश्च,
अन्तरा परिनिर्वृतिरस्येत्यन्तरापरिनिर्वृत्तिः । एवमुत्पन्नेऽस्य संस्कारेणा-
संस्कारेणेति योज्यम् । स एवानागामी पुनः पञ्चधा भवति —
१. अन्तरापरिनिर्वायी, योऽन्तराभवे परिनिर्वाति ।
२. उपपद्यपरिनिर्वायी, य उपपन्नमात्रो न चिरात् परिनिर्वात्यभियुक्त-
पञ्चानामिति विस्तरः । पञ्चानामवरभागीयानां संयोजनानां प्रहाणाद-
नागामीत्युच्यते सूत्रे । प्रहाणसङ्कलनात् । सत्कायदृष्ट्यादीनां प्रहाणैकत्व-
व्यवस्थापनात् । द्वे त्रीणि वा पूर्वं प्रहीणानीति । यदि तावत् कामवीतरागो
नियाममवक्रामति, द्वे पूर्वं प्रहीणे लौकिकेन मार्गेण—कामच्छन्दः, व्यापदश्च ।
सत्कायदृष्ट्यादीनामपर्यादाय प्रहाणात् । अथानुपूर्विकः, त्रीणि पूर्वं प्रहीणानि ।
केन ? दर्शनमार्गेण । सत्कायदृष्टिः, शीलव्रतपरामर्शः, विचिकित्सा च । तस्मात्
साकल्येन पञ्चानां प्रहाणादित्युच्यते ॥ ३६ ॥
“सोऽन्तरोत्पन्नसंस्कारासंस्कारपरिनिवृत्तिः” इति । सोऽनागामी अन्तरा
उत्पन्ने संस्कारेणासंस्कारेण परिनिर्वृत्तिरस्येति अन्तरोत्पन्नसंस्कारासंस्कार-
परिनिर्वृत्तिः । यत्तूक्तम्—एवमुत्पन्नस्येति, तन्न बुध्यामहे। कथमुत्पन्नस्यानागामिनः
परिनिर्वृत्तिरस्येति बहुव्रीहिः समासो भवति; अन्यपदार्थे हि बहुव्रीहिरुच्यते,
न स्वपदार्थे ? तेनैवमिह पाठं पश्यामः—एवमुत्पन्नेऽस्येति । लेखकेनैकारोऽत्र
विनाशित इति । तथापाठे ह्ययमर्थः सम्भवति—उत्पन्ने जन्मनि परिनिर्वृत्ति-
रस्येति उत्पन्नपरिनिर्वृत्तिः । अथैवमेव पाठः स्यात्, एवं व्याख्यायेत—
अनादरे षष्ठी, तयैवं समासः क्रियेत—उत्पन्नस्य जन्मनः परिनिर्वृत्तिरस्याना-
गामिन इत्युत्पन्नपरिनिर्वृत्तिरनागामीति । अथ वा—उत्पन्नस्येत्युत्पन्नजाति-
रुच्यते । उत्पन्नानामिति योऽर्थ उत्पन्नस्येति । तेनोत्पन्नानां या परिनिर्वृत्तिः
सा अस्येत्युत्पन्नपरिनिर्वृत्तिः । अथ परिनिर्वृत्त्यर्थादेव केवलदनागाम्यर्थस्या-
न्यत्वात् । पूर्वपदार्थानन्यत्वेऽप्यनागामिसमानाधिकरणस्योत्पन्नशब्दस्य
परिनिर्वृत्तिशब्देन सह बहुव्रीहिः समास इतीच्छेयुः, सुभणितमेतत् स्यात् ।
स एवानागामी पुनः पञ्चधः भवतीति । अन्तरापरिनिर्वायी, उपपद्यपरिनिर्वायी,
साभिसंस्कारपरिनिर्वायी, अनभिसंस्कारपरिनिर्वायी, ऊर्ध्वस्रोताश्चेति
निगमयति ।
अभियुक्तवाहिमार्गत्वादिति । अभियुक्तो वीर्यवानारब्धवीर्य इत्यर्थः । ग्राही

निर्देशः ] षष्ठं कोशस्थानम् ६४६
वाहिमार्गत्वात् । सोपधिशेषनिर्वाणेन । सोऽपि निरुपधिशेषनिर्वाणेनेत्यपरे¹ ।
न, आयुरुत्सर्गावशित्वात् ।
३. साभिसंस्कारपरिनिर्वायी किल उपपद्याप्रतिप्रस्रब्धप्रयोगः
साभिसंस्कारं परिनिर्वाति; अभियुक्तवाहिमार्गत्वात् ।
४. अनभिसंस्कारपरिनिर्वायी त्वनभिसंस्कारेण; अभियोगवाहिमार्गाभावात् ।
मार्गो अस्येति वाहिमार्गः । कथं मार्गो वाही ? विनाभिसंस्कारेण सम्मुखी-
भावात् । अभियुक्तश्चासौ वाहिमार्गश्चाभियुक्तवाहिमार्गः, तद्भावः, तस्मात् ।
उत्पन्नमात्रो न चिरात् परिनिर्वाति । सोपधिशेषेण निर्वाणेनेति । निर्वाणद्वैविध्याद्
विशिनष्टि—सोपधिशेषनिर्वाणेन परिनिर्वाति । सर्वास्रवक्षयं करोतीत्यर्थः ।
सोऽपि निरुपधिशेषनिर्वाणेनेति । न केवलमन्तरापरिनिर्वायी निरुपधिशेष-
परिनिर्वाणेन परिनिर्वात्यर्हत्त्वं प्राप्यायुरपरिसमाप्य, उपपद्यपरिनिर्वाय्यपि
तत्सदृश इत्यपरे । न । आयुरुत्सर्गावशित्वात् । नैतदेवम्, सोऽपि निरुपधिशेष-
परिनिर्वाणेनेति । कस्मात् ? आयुरुत्सर्गावशित्वात् । आयुष उत्सर्गे तस्या-
वशित्वात् । कस्मात् पुनरस्यात्रावशित्वम् ? यत्प्रान्तकोटिकचतुर्थध्यानलाभिन
आयुरुत्सर्गावशित्वम्, तच्च प्रान्तकोटिकं ध्यानं मनुष्येष्वेव त्रिषु द्वीपेषूत्पाद्यते ।
स च रूपधातुपपन्न इति । किमन्तरापरिनिर्वायिणोऽस्त्यायुरुत्सर्गावशित्वम् ?
यत एवमसौ निरुपधिशेषपरिनिर्वाणेन परिनिर्वाति, तस्यापि वशित्वं नास्ति ।
अन्तराभावावस्थानाय तु तादृशं कर्म नास्ति, यादृशमुपपद्यपरिनिर्वायिण इति
अतोऽन्तरापरिनिर्वायी शीघ्रं परिनिर्वाति । उपपद्यपरिनिर्वायी तु यावदायुः
स्थित्वा परिनिर्वातीत्युपपद्यपरिनिर्वाय्येव सोपधिशेषनिर्वाणेन परिनिर्वाती-
त्युच्यते ।
साभिसंस्कारपरिनिर्वायी किलेति । किलशब्दो वैभाषिकमतोद्योतकः । स्वमतं हि
सूत्रानुसारेण पश्चाद् वक्ष्यते। अप्रतिप्रस्रब्धप्रयोग इति । पूर्वप्रयोगवेगेनानिरा-
कृतप्रयोग इत्यर्थः । साभिसंस्कारम् सप्रयत्नम् । अभियुक्तवाहिमार्गत्वादिति ।
अभियुक्तत्वात्, अवाहिमार्गत्वाच्च तस्य योगिनः । अत एवासौ साभिसंस्कार-
परिनिर्वायी सिध्यति ।
अनभिसंस्कारेणेति । पूर्वविपर्ययेण । प्रयोगस्य प्रतिप्रस्रब्धत्वात् ।
अभियोगवाहिमार्गाभावादिति । अभियोगस्य वीर्यस्याभावात्, वाहिमार्गस्य
१. निरुपधिशेषेणेत्य०--का० ।
अभि० को० ३ : १३

६५० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ मार्गपुद्गल-
संस्कृतासंस्कृतालम्बनमार्गनिर्वाणादित्यपरे। तन्न; अतिप्रसङ्गात्।
सूत्रे त्वनभिसंस्कारपरिनिर्वायी पूर्वं पठ्यते। तथैव¹ युज्यते; वाह्यवाहि-
मार्गयोरनभिसंस्काराभिसंस्कारसाध्यत्वादयत्नयत्नप्राप्तितः। उपपद्यपरिनिर्वायिणस्तु
वाहितरोऽधिमात्रतरश्च मार्गः, मृदुतराश्चानुशया इति।
चाभावादित्यर्थः। तदेवमभियोगादिनानात्वात् परिनिर्वाणविशेष उक्तो भवति।
उपपद्यपरिनिर्वायिणो ह्युभयमस्ति—अभियोगश्च, वाही च मार्ग इति।
साभिसंस्कारपरिनिर्वायिणोऽभियोगोऽस्ति, न त्वस्य वाही मार्गः। अनभि-
संस्कारपरिनिर्वायिणस्तूभयमपि नास्ति—नाभियोगः, न च वाही मार्ग इति।
संस्कृतासंस्कृतालम्बनमार्गपरिनिर्वाणादिति। संस्कृतं संस्कार इत्येकोऽर्थः।
एवमसंस्कृतम् असंस्कार इति। संस्कारालम्बनेन मार्गेण दुःखसमुदयमार्गा-
लम्बनेन मार्गेण यः क्लेशान् प्रजहाति, स साभिसंस्कारपरिनिर्वायी।
योऽसंस्कारालम्बनेन निरोधालम्बनेन, सोऽनभिसंस्कारपरिनिर्वायीति।
तन्न; अतिप्रसङ्गादिति। तन्नु नैवम्। कस्मात्? अतिप्रसङ्गात्।
अन्तरापपद्यपरिनिर्वायिनोरपि संस्कृतासंस्कृतालम्बनमार्गपरिनिर्वाणात् प्रत्येकं
साभिसंस्काराभिसंस्कारपरिनिर्वायित्वप्रसङ्गः। तत्रस्थौ द्वावेव पुद्गलौ स्याताम्,
न पञ्चेति।
अनभिसंस्कारपरिनिर्वायी पूर्वं पठ्यत इति। साभिसंस्कारपरिनिर्वायिणः
पूर्वमयं पठ्यते—अनभिसंस्कारपरिनिर्वायी, साभिसंस्कारपरिनिर्वायीति।
तथैव युज्यत इति विस्तरः। अनभिसंस्कार-साभिसंस्कारपरिनिर्वायिणोर्यथा-
क्रमम्। वाह्यवाहिमार्गयोः पुद्गलयोः परिनिर्वाणस्यानभिसंस्कारसाध्यत्वात्
पूर्वस्य, अभिसंस्कारसाध्यत्वाच्चेतरस्य। कथं तथा साध्यत्वम्? इत्याह—अयत्न-
यत्नप्राप्तितस्तत्परिनिर्वाणस्य यथाक्रममित्येव।
अथ वाह्यवाहिमार्गयोरिति मार्गयोरेव ग्रहणम्, न पुद्गलयोरभिसम्बन्धः?
वाहिनो मार्गस्यानभिसंस्कारसाध्यत्वादवाहिनश्चाभिसंस्कारसाध्यत्वात्, अयत्न-
यत्नप्राप्तितः, अयत्नसम्मुखीभावतः पूर्वमार्गस्य, यत्नप्राप्तित इतरस्येति
तदेवमनभिसंस्कारपरिनिर्वायी पूर्वं युज्यते। आह—यद्यनभिसंस्कारपरि-
निर्वाायिणो वाही मार्गः, अनभिसंस्कारसाध्यत्वादुपपद्यपरिनिर्वायिणोऽपि वाही
मार्ग इति कस्तयोर्विशेष इति? अत उच्यते—उपपद्यपरिनिर्वायिणस्तु मार्गो
१. तथैव च—का०।

निर्देशः ] षष्ठं कोशस्थानम् ६५१
५. ऊर्ध्वस्रोता यस्योर्ध्वं गतिर्न तत्रैव परिनिर्वाणं यत्रोपपन्नः । स्रोतो
गतिरित्येकोऽर्थः ।
सध्याने व्यवकीर्णेऽकनिष्ठगः ॥ ३७ ॥
ऊर्ध्वस्रोता द्विविधः—हेतुतः, फलतश्च । हेतुतो व्यवकीर्णान्यवकीर्णध्यान-
त्वात् । फलतोऽकनिष्ठभवाग्रपरमत्वात् । तत्र येन ध्यानं व्यवकीर्णं सोऽकनिष्ठान्
गत्वा परिनिर्वाति ॥ ३७ ॥
स प्लुतोऽर्धप्लुतः सर्वच्युतश्च,
स पुनरेषोऽकनिष्ठपरम ऊर्ध्वस्रोतास्त्रिविधः, प्लुतादिभेदात् ।
१. तत्र प्लुतो नाम य इह ध्यानानि व्यवकीर्य ध्यानत्रयात्¹ परिहीणः
प्रथमं ध्यानमास्वाद्य ब्रह्मकायिकेषूपपन्नः पूर्वाभ्यासवशाच्चतुर्थं ध्यानं व्यवकीर्य
तस्मात् प्रच्युतोऽकनिष्ठेषूपपद्यते । एष हि मध्यानिमज्जनात् प्लुतः ।
वाहितरो जिततरः । नानभिसंस्कारपरिनिर्वाणिनः । एवमधिमात्रतरो
हेतूपचयतः । मृदुतराश्चानुशयाः मार्गाधिमात्रतरत्वेन क्षपितत्वात् ।
ऊर्ध्वस्रोता इति । ऊर्ध्वस्रोतो गतिरस्येति ऊर्ध्वस्रोताः । यत्र ऊर्ध्वमिति
पठ्यते—"ऊर्ध्वं दमाच्च देहाच्च" इति, ऊर्ध्वदमिकः ऊर्ध्वदेहिक इति ।
तत्प्रत्ययसन्नियोगेनोर्ध्वशब्दस्य मान्तोऽपि निपात्यत इति वेदितव्यम् । यथा
चिरशब्दस्य चिरन्तनमित्यूर्ध्वमिति निपातोऽस्तीत्यपरे । अकारान्तोऽपि
तूर्ध्वशब्दोऽस्त्येवेति न वार्यते ।
व्यवकीर्णान्यवकीर्णध्यानत्वादिति । मिश्रितामिश्रितध्यानत्वादित्यर्थः ।
अनास्रवेण सास्रवस्य ध्यानस्य मिश्रितत्वात् ॥ ३७ ॥
इह ध्यानानि व्यवकीर्य ध्यानत्रयात् परिहीयत इति । ध्यानव्यवकीर्णं
चतुर्थध्यानव्यवकिरणपूर्वकम् । "आकीर्यते चतुर्थं प्राग्" (अभि० को० ६.४२)
इति वचनात् । चतुर्थमेव हि ध्यानमादितो व्यवकिरणे समर्थम्, नान्यत् ।
चतुर्थाच्च ध्यानादपरिहीणस्य प्रथमादिषु ध्यानेषूपपत्तिर्नास्तीत्यत उच्यते—
ध्यानत्रयात् परिहीण इति । कथं च परिहीणः ? इत्याह—प्रथमं ध्यान-
मास्वाद्येति । मध्यानिमज्जनात् । मध्येऽनिमज्जनात् ।
१. ध्यानचयात्—का० ।

६५२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ मार्गपुद्गल-
२. अर्धप्लुतो नाम यस्ततः शुद्धावासेषूपपद्य मध्यादेकमपि स्थानान्तरं
विलङ्घ्याकनिष्ठान् प्रविशति । महाब्रह्मस्वार्यो नोपपद्यते; दृष्टिस्थानत्वाद्, एकनाय-
कत्वाच्चेति¹ ।
३. सर्वच्युतो नाम यः सर्वाणि स्थानान्तराणि संचर्याकनिष्ठान् प्रविशति ।
न च कदाचिदनागामी । तत्रैवोत्पत्त्यायतने द्वितीयं जन्माभिनिर्वर्तयति, विशेष-
गामित्वात् । एवं चास्य परिपूर्णमनागामित्वं भवति । यत्रोपपन्नस्ततस्तत्र²
चात्यन्तमनागमनात् ।
एवं तावद्ध्याने व्यवकीर्णेऽकनिष्ठगो वेदितव्यः । ततः—
अन्यो भवाग्रगः ।
अव्यवकीर्णध्यान ऊर्ध्वस्रोता भवाग्रनिष्ठो भवति । स हि समापत्त्यन्त-
राण्यास्वादयन् सर्वस्थानान्तरेषूपपद्याप्रविश्यैव शुद्धावासाना रूप्यक्रमोत्पत्तितो
भवाग्रं गत्वा परिनिर्वाति । शमथचरितो ह्येषः । पूर्वकस्तु विपश्यनाचरितः ।
—————————————————————————————————————————————
अर्धप्लुतो नामेति विस्तरः । य एकमपि स्थानान्तरं विलङ्घ्य शुद्धावासेषू-
पपद्याकनिष्ठान् प्रविशतीत्येवं वाक्यभिसम्बन्धः । दृष्टिस्थानत्वादिति । महाब्रह्मणां
प्रथमोपपन्नानां च महाब्रह्मणि निर्मायकायाभिमानतः । एकनायकत्वाच्चेति ।
किम् ? महाब्रह्मस्वार्यो नोपपद्यते । आर्यस्य हि प्रभाववतस्तत्रोत्पादे
सद्युभयनायकत्वं स्यात् । निःसपत्नेन च कर्मणा तत्राधिपत्यम् । अतः
सपत्नं न भवतीति ।
सर्वाणि स्थानान्तराणीति । ब्रह्मकायिकेभ्यश्च्युत्वा ब्रह्मपुरोहितादीनि
सुदर्शनान्तानि चतुर्दशस्थानान्तराणि सञ्चार्याकनिष्ठान् प्रविशति । यत्रोपपन्न-
स्ततस्तत्र चात्यन्तमनागमनादिति । यत्रोपपन्नस्तद्यथा—प्रथमध्याने,
ततोऽत्यन्तमनागमनात् कामधातौ । तथा यत्रोपपन्नस्तत्र चात्यन्तमनागमनात् ।
तत्र च पुनः प्रथमे ध्यानेऽत्यन्तमनागमनात् । परिपूर्णमनागामित्वम् , पुनस्तत्र
द्वितीयजन्माकरणात् ।
शमथचरितो ह्येष इति । य एष भवाग्रपरमः, स समाधिप्रियः । आरूप्येषु
च समाधिरतिप्रशान्तः । तस्मादयमारूप्यान् प्रविशति । पूर्वकस्तु
विपश्यनाचरित इति । योऽसावकनिष्ठपरम उक्तः, स प्रज्ञाप्रियः शुद्धावासान्
—————————————————————————————————————————————
१. ० नामकत्वा०—का० । २. ० न्नस्तस्याद्यस्तत्र—का० ।

निर्देशः ] षष्ठं कोशस्थानम् ६५३
अन्तरा¹ परिनिर्वाणमूर्ध्वस्रोतसो युज्यमानं पश्यामः । अकनिष्ठभवाग्रपरमत्वं तु
परेण गत्यभावात् । यथा सप्तकृत्वःपरमत्वं स्रोतआपन्नस्येति ।
इमे तावत् पञ्च रूपोपगा अनागामिनः ।
आरूप्यगश्चतुर्द्धान्यः,
अन्य आरूप्यगोऽनागामी, यो रूपवीतराग इतश्च्युत्वारूप्येषूपपद्यते ।
स पुनश्चतुर्विधः, उपपद्यादिपरिनिर्वायिभेदात् ।
त एते षडनागामिनो भवन्ति ।
ततः—
इह निर्वाण्यकोऽपरः ॥ ३८ ॥
इहैव जन्मन्त्यपरः परिनिर्वाति । स दृष्टधर्मपरिनिर्वायी सप्तमः ॥ ३८ ॥
पुनस्त्रींस्त्रिविधान् कृत्वा नव रूपोपगाः स्मृताः ।
पुनस्त्रयाणामनागामिनां त्रिधा भेदाद् रूपोपगा नवागामिनो भवन्ति ।
कतमेषां त्रयाणाम् ? अन्तरॊपपद्यपरिनिर्वायिणोरूर्ध्वस्रोतसश्च ।
प्रविशति । अन्तरापरिनिर्वाणमिति विस्तरः । नैतत् प्रति शास्त्रकारैर्निश्चितम्,
न च प्रतिषिद्धम्, अतोऽप्रतिषेधादूर्ध्वस्रोतसोऽकनिष्ठपरमस्य भवाग्रपरमस्य
चान्तरा अकनिष्ठां भवाग्रं च प्रविश्य परिनिर्वाणं युज्यमानं पश्यामः । सम्भवं तु
पश्याम इत्यर्थः । ननु चाकनिष्ठपरमो भवाग्रपरम इति चोक्तम् ? अत आह—
अकनिष्ठभवाग्रपरमत्वं तु परेण गत्यभावाद् । अकनिष्ठेभ्यो भवाग्राच्चोर्ध्वं
गत्यभावात् । तद्यथा स्रोतआपन्नस्य सप्तकृत्वः परमत्वम् । न हि तस्य द्वौ त्रीन्
वा भवानभिनिर्वर्त्य परिनिर्वाणं न सम्भवतीति । ततः परेण त्वष्टमं भवं
नाभिनिर्वर्तयतीति सप्तकृत्वः परम उक्त इति ।
स पुनश्चतुर्विध इति । अन्तरापरिनिर्वाय्यभावान्न पञ्चविधः। एते षडनागामिनो
भवन्तीति । अन्तरापरिनिर्वायी, उपपद्यपरिनिर्वायी, साभिसंस्कारपरिनिर्वायी,
अनभिसंस्कारपरिनिर्वायी, ऊर्ध्वस्रोतः, आरूप्यगश्च । षष्ठश्चतुर्धाभेदमवि-
गणय्येति ।
दृष्टधर्मपरिनिर्वायी । दृष्टजन्मपरिनिर्वायीत्यर्थः ॥ ३८ ॥
कतमेषां² त्रयाणामिति विस्तरः । त्रयोऽनागामिन इति निर्भिद्य नोक्ता
१. अन्तरापि तु—का० । २. कथमेषां—जा० ।

६५४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [मार्गपुद्गल-
कथं त्रिधा भेदात् ? अन्तरापरिनिर्वायिणस्तावदाश्वनाशुचिरपरि-
निर्वाणात् दृष्टान्तत्रयेण । उपपद्यपरिनिर्वायिण उपपद्याभिसंस्कारानभिसंस्कार-
परिनिर्वाणात् । सर्वे ह्येते उपपद्यपरिनिर्वाणादुपपद्यपरिनिर्वायिणः¹। ऊर्ध्वस्रोतसः
प्लुतादिभेदात् । सर्वेषां वा त्रयाणामाश्वनाशुचिरपरिनिर्वाणादिति त्रित्वम् ।
इत्यनवबुध्यमान इतरः पृच्छति । आचार्योऽपि अर्थापत्त्या उक्ता एत इति
पश्यन् विवृणोति-अन्तरोपपद्यपरिनिर्वायिनोः । अन्तरापरिनिर्वाणः उपपद्यपरि-
निर्वाणिश्चेत्यर्थः । 'ऊर्ध्वस्रोतसश्च तृतीयस्येति । आश्वनाशुचिरपरिनिर्वाणात्
दृष्टान्तत्रयेणेति । आशुपरिनिर्वायी अनाशुपरिनिर्वायी, चिरपरिनिर्वायी च
दृष्टान्तत्रयेण योजयितव्याः । तद्यथा परीत्तः शकलिकाग्निरभिनिर्वर्तमान एव
निर्वायात्, एवं प्रथमो य आशुपरिनिर्वायी । तद्यथाऽयोगुडानां वायस्फालानां वा
दीप्ताग्निसम्प्रतप्तानां अयोघनेन हन्यमानानां अयःप्रपाटिकोत्पतत्येव निर्वा-
यात्, एवं द्वितीयोऽनाशु परिनिर्वायी । तद्यथाऽयोगुडानामिति पूर्ववद्यावद्यः-
प्रपाटिकोत्प्लुत्य पृथिव्यामपतितैव निर्वायात्, एवं तृतीयो यश्चिरपरिनिर्वायी ।
एतच्च सूत्रं विस्तरेण पुरस्ताल्लिखितमिति² न पुनर्लिख्यते । उपपद्याभि-
संस्कारानभिसंस्कारपरिनिर्वाणादिति । उपपद्य परिनिर्वाणाद्, अभिसंस्कारेण,
अनभिसंस्कारेण परिनिर्वाणात् त्रिधाभेदान्नवानागामिनो भवन्तीति सम्बन्धः ।
उपपद्यपरिनिर्वायी य उपपन्नमात्रः परिनिर्वाति, न त्वभिसंस्कारेणानभिसंस्कारेण
वा परिनिर्वाति । साभिसंस्कारपरिनिर्वायी तु नोपपद्यैव परिनिर्वाति, किं तर्हि ?
अभिसंस्कारेणाप्रतिप्रस्रब्धस्य पूर्वाभिसंस्कारस्य सामर्थ्यतः परिनिर्वाति । अस्य
हि यद्यपि वाही मार्गोऽस्ति, अभियोगेन तु परिनिर्वाति; उपपद्यपरिनिर्वायी तु
नाभियोगेनेति विशेषः । अनभिसंस्कारपरिनिर्वायी पुनः प्रतिप्रस्रब्धपूर्वाभि-
संस्कारोऽभिसंस्कारमनन्तरेण परिनिर्वातीत्ययमेव एषां विशेषोऽवगन्तव्यः ।
यथा तु साभिसंस्कारानभिसंस्कारपरिनिर्वायिणावप्युपपद्यपरिनिर्वाय्याख्यां
लभेते, तथा दर्शयन्नाह— सर्वे ह्येत उपपद्यपरिनिर्वाणादुपपद्यपरिनिर्वायिण इति ।
· प्लुतादिभेदादिति । प्लुतार्धप्लुतसर्वच्युतभेदादित्यर्थः । सर्वेषां वा त्रयाणामिति ।
अन्तरोपपद्यपरिनिर्वाय्यूर्ध्वस्रोतसामाश्वनाशुचिरपरिनिर्वाणात् त्रिधा भेदः ।
कश्चिदन्तरापरिनिर्वायी आशुपरिनिर्वायी भवति । एवमुपपद्यपरिनिर्वायी,
ऊर्ध्वस्रोताश्चेति । अस्माच्च त्रिधाभेदान्नवानागामिनो भवन्तीति स एव सम्बन्धो
वाच्यः ।
१. त्रयोऽप्युपपन्न०-का० । २. द्र०-अस्यैव ग्रन्थस्य ४११-४१३ पृ० ।

निर्देशः ] षष्ठं कोशस्थानम् ६५५
तद्विशेषः पुनः कर्मक्लेशेन्द्रियविशेषात् ॥ ३९ ॥
तेषां पुनस्त्रयाणां नवानां चानागामिनां कर्मक्लेशेन्द्रियविशेषाद् विशेषः ।
त्रयाणां तावदभिनिर्वृत्त्युपपद्यापरपर्यायवेदनीयकर्मोपचितत्वाद्यथाक्रमं मृदुमध्याधि-
मात्रक्लेशसमुदाचारत्वाद् अधिमात्रमध्यमृद्विन्द्रियत्वाच्च ।
तेषामपि¹ प्रत्येकमत एव यथायोगं विशेषः । प्रथमयोस्त्रिकयोः क्लेशेन्द्रिय-
विशेषात् पूर्ववत् । पश्चिमस्य त्रिकस्यापरपर्यायवेदनीयकर्मविशेषाच्चेति ।
त एते नवप्रकारक्लेशेन्द्रियत्वान्नवानगामिनो भवन्ति ॥ ३९ ॥
“तद्विशेषः पुनः” इति विस्तरः । तेषां पुनस्त्रयाणामन्तरोपपद्यपरि-
निर्वा​यिणोः, ऊर्ध्वस्रोतसश्च । नवानां चैषामेव प्रत्येकं त्रिधाभेदाद् यथावर्णिताद्
विशेषः । कर्मक्लेशेन्द्रियविशेषात् । कर्मणः क्लेशस्येन्द्रियस्य च विशेषाद्
भवति । कथम् ? इत्याह– त्रयाणामिति विस्तरः । अभिनिर्वृत्तिः । अन्तराभावः ।
अभिनिर्वृत्तिवेदनीयस्य कर्मणा उपचितत्वादन्तरापरिनिर्वायी, उपपद्यवेदनीयस्य
कर्मणा उपचितत्वादुपपद्यपरिनिर्वायी, अपरपर्यायवेदनीयस्य कर्मणः उपचितत्वा-
दूर्ध्वस्रोता इत्येवं तावत्तेषां त्रयाणां कर्मविशेषाद् विशेषः । मृदुमध्याधिमात्र-
क्लेशसमुदाचारत्वाद् यथाक्रममेषामेव क्लेशविशेषाद् विशेषः । अधिमात्रमध्य-
मृद्विन्द्रियत्वाच्च । यथाक्रममेषामेवेन्द्रियविशेषाद्विशेष इति ।
तेषामपि प्रत्येकमत एव यथायोगं विशेष इति । तेषामपि प्रत्येकं भिन्नानां
नवानामित्यर्थः । अत एव कर्मादिविशेषात् यथायोगं न यथाक्रमम्, विशेषोऽ-
वगन्तव्यः । कथमित्याह — प्रथमयोस्त्रिकयोरिति विस्तरः । यच्चान्तरापरिनिर्वा-
यिणां त्रिकम्, यच्चोपपद्यपरिनिर्वायिणाम् , तयोस्त्रिकयोः क्लेशेन्द्रियविशेषात् ,
मृदुमध्याधिमात्रक्लेशसमुदाचारत्वात् , अधिमात्रमध्यमृद्विन्द्रियत्वाच्च यथा-
क्रमं विशेषः; न तु कर्मविशेषात् । यस्मात् प्रथमस्य त्रिकस्याभिनिर्वृत्तिवेदनीयं
कर्म तुल्यम् , द्वितीयस्य चोपपद्यवेदनीयं कर्म तुल्यमिति । पश्चिमस्य त्रिकस्या-
परपर्यायवेदनीयकर्मविशेषाच्च विशेषः। प्लुतादीनां ह्यपरपर्यायवेदनीयं कर्म
भिन्नमित्यतोऽपरपर्यायवेदनीयकर्मविशेषात् , क्लेशेन्द्रियविशेषाच्च । चका-
रानुकृष्टत्वात् विशेषो मृदुमध्याधिमात्रक्लेशसमुदाचारत्वात्, अधिमात्रमध्य-
मृद्विन्द्रियत्वाच्च । यथाक्रममित्यर्थः । त एते नवप्रकारक्लेशेन्द्रियत्वादिति । त
१. तेषामपि नवानां—का० ।

६५६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
कथं तर्हि सूत्रे सप्त सत्पुरुषगतयो देशिताः ?
ऊर्ध्वस्रोतुरभेदेन सप्त सद्गतयो मताः ।
ऊर्ध्वं स्रवणधर्मा ऊर्ध्वस्रोताः । तस्याभेदनिर्देशात् सप्त सत्पुरुषगतयः
सूत्रेऽभिहिताः ।
एते नवानागामिनो नवप्रकारकलेशत्वात्, नवप्रकारेन्द्रियत्वाच्च नवानागामिनो
भवन्ति । कर्मणोऽग्रहणमव्यापित्वात् । न हि प्रथमयोस्त्रिकयोः कर्मविशेषाद्
विशेषोऽस्तीति कथं पुनरेते नवप्रकारकलेशा भवन्ति ? इह क्लेशस्त्रिप्रकारः-
मृदुमध्याधिमात्र इति । मृदुरन्तरापरिनिर्वायिणाम् , मध्य उपपद्यपरिनिर्वा-
यिणाम्, अधिमात्र ऊर्ध्वस्रोतसाम् । तत्र प्रथमोऽन्तरापरिनिर्वायी
मृदुमृदुक्लेशः, द्वितीयो मृदुमध्यक्लेशः, तृतीयो मृद्वधिमात्रक्लेशः ।
उपपद्यपरिनिर्वायिणां प्रथम उपपद्यपरिनिर्वायी मध्यमृदुक्लेशः,
द्वितीयः साभिसंस्कारपरिनिर्वायी मध्यममध्यक्लेशः, तृतीयोऽनभिसंस्कारपरि-
निर्वायी मध्याधिमात्रक्लेशः । ऊर्ध्वस्रोतसामपि प्लुतोऽधिमात्रमृदुक्लेशः,
अर्धप्लुतोऽधिमात्रमध्यक्लेशः, सर्वस्थानच्युतोऽधिमात्राधिमात्रक्लेश इति । कथं
नवप्रकारेन्द्रिया भवन्ति ? तथैवेन्द्रियमपि त्रिप्रकारम् - अधिमात्रं मध्यं मृदु
चेति । अधिमात्रमन्तरापरिनिर्वायिणाम्, मध्यमुपपद्यपरिनिर्वायिणाम्, मृदूर्ध्व-
स्रोतसाम् । तत्र प्रथमोऽन्तरापरिनिर्वायी अधिमात्राधिमात्रेन्द्रियः, द्वितीयोऽ-
धिमात्रमध्येन्द्रियः, तृतीयोऽधिमात्रमृद्विन्द्रियः । उपपद्यपरिनिर्वायिणां
प्रथममुपपद्यपरिनिर्वायी मध्याधिमात्रेन्द्रियः, साभिसंस्कारपरिनिर्वायी
मध्यमध्येन्द्रियः, अनभिसंस्कारपरिनिर्वायी मध्यमृद्विन्द्रियः । ऊर्ध्वस्रोतसामपि
प्लुतो मृद्वधिमात्रेन्द्रियः, अर्धप्लुतो मृदुमध्येन्द्रियः, सर्वस्थानच्युतो
मृदुमृद्विन्द्रिय इति ॥ ३६ ॥
कथं तर्हि सूत्रे सप्त सत्पुरुषगतयो देशिता इति । 'सप्त वोऽहं भिक्षवः
सत्पुरुषगतीर्देशयिष्यामि । अनुपादाय च परिनिर्वाणम्' - इत्येतत् सर्वं सूत्रं
“गतिसूत्रतः१” इत्यत्र प्रदेशे लिखितमिति न पुनर्लिख्यते । अत्र च सूत्रे सप्त
सत्पुरुषगतयो देशिताः- त्रयोऽन्तरापरिनिर्वायिणः, त्रय उपपद्यपरिनिर्वायिण
इति षट् गतयः, ऊर्ध्वस्रोतोगतिश्च सप्तमी इति ।
ऊर्ध्वं स्रवणधर्मेति । कृदन्तमेतच्छब्दरूपमिति । विधार्थमेतच्छब्दरूपमिति
दर्शयति । ऊर्ध्वमिति च क्रियाविशेषणमिति । तस्याभेदनिर्देशादिति ।
तस्योर्ध्वस्रोतसः प्लुतादिभेदानिर्देशादित्यर्थः । विनेयाशयापेक्षो हि सूत्रनिर्देशः ।
१. द्र०-पृ० ४११-४१३.

निर्देशः ] षष्ठं कोशस्थानम् ६५७
कस्मात् पुनरेता एव सत्पुरुषगतयः, नान्याः शैक्षगतयः ? एता हि गतयो
येषाम्, तेषां सति¹ च² कर्मणि वृत्तिः कुशले, असत्यवृत्तिरकुशले । एताश्च
गतीर्गतानां न पुनः प्रत्यागतिरस्ति । न त्वेतद्यथोक्तमन्यत्रास्ति । अतः—
सदसद्वृत्त्यवृत्तिम्यां गताप्रत्यागतेश्च ताः ॥ ४० ॥
सप्त सत्पुरुषगतयो नान्या इति । यत्तर्हि सूत्र एवोक्तम्—"स कतमः ?
शैक्ष्यः सम्यग्दृष्ट्या समन्वागतः" इति विस्तरः ।
अन्येषामप्यस्ति पार्यायिकं सत्पुरुषत्वम् । पञ्चविधस्य पापस्यात्यन्तमकरण-
संवरप्रतिलम्भात्, प्रायेणाकुशलप्रहाणाच्च । येषां तु निष्पर्यायेण तेषामि-
हाधिकारः ॥ ४० ॥
नान्याः शैक्षा गतय इति । न स्रोतआपन्नसकृदागामिगतय इत्यर्थः । गतिः,
उपपत्तिः, संप्ररायः—इत्येते सूत्रे पर्याया उच्यन्ते । तेषामित्यनागामिनाम् ।
सति च कर्मणि वृत्तिः । प्राणातिपाताद्यकरणात् । असति चावृत्तिः । अब्रह्मचर्याद्य-
करणात् । अकुशलेन हि चित्तेनाब्रह्मचर्यादिकरणमिति । तेषां तु वीतरागाणां
सत्येव कर्मणि वृत्तिः, नासति; प्रहीणाकुशलत्वात् । न पुनः प्रत्यागतिरिति ।
यासु गतिषूपपन्नाः, तत्रतत्र चैषामत्यन्तमनागमनमित्यर्थः । न त्वेतद्यथोक्तम-
न्यत्रास्तीति । यदेतत् सत्येव वृत्तिरसति चावृत्तिरेवापुनःप्रत्यागमनं च, तदेतत्
स्रोतआपन्ने सकृदागामिनि च नास्तीति ।
अन्येषामपीति । स्रोतआपन्नसकृदागामिनामपीत्यर्थः । पार्यायिकमिति ।
पर्याये भवं पार्यायिकम् । केनचित् प्रकारेण भवतीत्यर्थः । कथम् ? इत्याह—
पञ्चविधस्य पापस्यात्यन्तमकरणसंवरप्रतिलम्भादिति । पञ्चविधस्य पापस्य प्राणाति-
पातादत्तादानकाममिथ्याचारमृषावादमद्यपानलक्षणस्याकरणेनाक्रियया संवरः
संवरणम्; तस्य प्रतिलम्भात् । न ह्यार्या जन्मान्तरेऽप्येतत् पञ्चविधं पापमध्या-
चरन्ति । अकरणसंवरवचनम् ; समादानसंवरस्यानावश्यकत्वात् । प्रायेणेति ।
दर्शनप्रहातव्यानामकुशलानां सर्वेषामत्यन्तप्रहाणात् । भावनाप्रहातव्यानां
च कामावचराणां केषांचित् सम्भवतः । येषामिति विस्तरः । येषां तु निःपर्यायेण
न प्रकारान्तरेण स्रोतआपन्नसकृदागामिवत् सत्पुरुषत्वम् । किं तर्हि ? सर्वस्य
पापस्यात्यन्तमकरणसंवरप्रतिलम्भात् । सर्वेषां चाकुशलानां दर्शनप्रहातव्यानां
क्लेशानां प्रहाणात् । भावनाप्रहातव्यानां च कामावचराणां सर्वेषां नवप्रकाराणा-
१-१. सत्येव---का० ।

६५८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
किं पुन परिवृत्तजन्मनोऽप्यनागामिन एष भेदोऽस्ति ? यस्मात्
न परावृत्तजन्मार्यः कामे धात्वन्तरोपगः ।
कामधातौ परावृत्तजन्मान्तर आर्यो न धात्वन्तरं गच्छति । अनागामिफलं
प्राप्य तत्रैव जन्मनि परिनिर्वाणात् । रूपधातौ तु परावृत्तजन्मा¹ कदाचिदारूप्यान्
प्रविशति । य ऊर्ध्वस्रोता भवाग्रपरमः ।
यत्तर्हि शक्रेणोक्तम्—"ये ते देवा अकनिष्ठा इति विश्रुताः, अन्ते मे
हीयमानस्य तत्रोपपत्तिर्भविष्यति" ? अभिधर्मलक्षणानभिज्ञत्वादिति² वैभा-
षिकाः । भगवतापि अनिवारणम् , संहर्षणीयत्वात् इति ।
मपि प्रहाणात् । तेषां सत्पुरुषाणामनागामिनामिह सूत्रेऽधिकारः । सप्त
सत्पुरुषगतय इत्यतोऽन्येषां पार्यायिकं सत्पुरुषत्वं न प्रतिषिध्यते ॥ ४० ॥
किं पुनः परिवृत्तजन्मनोऽप्यनागामिन एष भेदोऽस्ति । अन्तरापरिनिर्वायी-
त्येवमादिकः । परिवृत्तजन्मानागामीयः प्रथमे जन्मनि स्रोतआपत्तिफलं
सकृदागामिफलं वा प्राप्य द्वितीये जन्मन्यनागामी भवति । काम इति
विशेषणम् । यस्माद् रूपधातौ परिवृत्तजन्मा कदाचिदारूप्यान् प्रविशतीति ।
तत्रैव जन्मनि परिनिर्वाणादिति । कामधातौ दुःखबहुत्वेनास्य तीव्रसंवे-
गत्वात् ।
यत्तर्हीति विस्तरः । शक्रेणोक्तम्—'इतश्च्युतोऽहं मनुष्येषूपपन्नो यद्यर्हत्त्वं
प्राप्य न परिनिर्वामि । ये ते देवा अकनिष्ठा इति विश्रुताः, अन्ते मे हीयमानस्य
तत्रोपपत्तिर्भविष्यति' इति । स हि देवेष्वेव स्रोतआपन्नो मनुष्याँश्चागत्य
परिनिर्वास्यामीति वचनात् परिवृत्तजन्मा भवेत् । अन्ते निकायसभागावसाने
मम हीयमानस्यार्हत्त्वानवाप्तिपरिहाण्या परिहीयमाणस्य, तत्राकनिष्ठेषूप-
पत्तिर्भविष्यतीति प्रार्थनाDefault/प्रार्थनावचनाद् धात्वन्तरगमनमस्तीति गम्यते, तत् कथं
कामधातौ परिवृत्तजन्मान्तर आर्यो धात्वन्तरं न गच्छतीत्युच्यत इति ? सूत्रार्थो
दृश्यते । ब्रूयास्तम् । धर्मलक्षणानभिज्ञत्वाच्छक्रेणैवमुक्तम् , तस्माद्दोष इति ।
भगवता तर्ह्येवं शृण्वता कस्मादसौ न निवारितः—मा त्वमेव वोच इति ?
अत उच्यते—भगवताप्यनिवारणम् , संहर्षणीयत्वादिति । कामदुःखपरित्यागा-
भिलाषेण संहर्षणीयमित्यभिप्रायः ।
च्युतिनिमित्तोपपत्तिदुःखोद्विग्नस्य संहर्षणीयत्वादित्याचार्यसङ्घभद्रः ।
१. परिवृत्त०—जा० । २. अभिधर्मानभि०—का० ।

निर्देशः ] षष्ठं कोशस्थानम् ६५६
स चोर्ध्वजश्च नैवाक्षसञ्चारपरिहाणिभाक् ॥ ४१ ॥
स च कामधातौ परिवृत्तजन्मा ऊर्ध्वधातूपपन्नश्चार्यो नैवेन्द्रियाणि सञ्चरति,
नापि कथञ्चित् परिहीयते ।
किं पुनः कारणं परिवृत्तजन्मान्तरस्यार्यस्य रूपारूप्यप्रवेशेनेन्द्रियसञ्चार-
परिहाण्यो नेष्यन्ते ? यस्मान्न सन्ति ।
कस्मान्न सन्ति ? जन्मान्तरपरिवासेनेन्द्रियाणां परिपक्वतरत्वाद्, आश्रय-
विशेषालाभाच्च ।
अथ कस्मादवीतरागः शैक्षो नान्तराये परिनिर्वायी भवति ? मार्गस्याजित-
त्वादसम्मुखीभावतः, अनुशयानां च नातिमन्दत्वात् । दुःसमतिक्रमत्वात् कामधातोरिति
वैभाषिकाः । बहु ह्यनेन कर्तव्यं भवति—अकुशलाब्याकृतक्लेशप्रहाणम् ,
द्वित्रिश्रामण्यफलप्राप्तिः, त्रिधातुसमतिक्रमश्च । तच्चान्तराभवस्थो न शक्तः
कर्तुमिति ॥ ४१ ॥
इन्द्रियाणां परिपक्वतरत्वादिति । प्रज्ञादीनामिन्द्रियाणां निस्यन्दफलपुष्टि-
विशेषादित्यर्थः । आश्रयविशेषालाभाच्च । यस्माच्चाश्रयविशेषमनुपहतं
मार्गसम्मुखीभावाऽनुकूलं प्रतिलभते । दृश्यन्ते हि तीक्ष्णेन्द्रिया अपि सन्त
आश्रयवैगुण्याद् गुणेभ्यः परिहीयमाणा इत्यतो जन्मान्तरपरिवासेनेन्द्रियाणां
परिपक्वतरत्वादितीन्द्रियसञ्चारो नास्ति । आश्रयविशेषालाभाच्च परिहाणि-
र्नास्ति । अनेनैव जन्मान्तरपरिवासेन धात्वन्तरगमनं न भवतीति ।
मार्गस्याजितत्वादसम्मुखीभावत इति । यस्मान् मार्गस्याजितत्वादसम्मुखी-
भावः, तस्मात् कारणादवीतरागः शैक्षः स्रोतआपन्नः सकृदागामी च
नान्तरापरिनिर्वायी भवति । अनुशयानां च नातिमन्दत्वात् । यस्माच्चानुशया-
स्तस्य नातिमन्दाः, अतो नान्तरापरिनिर्वायी भवतीत्ययमाचार्यस्य परिहारः ।
वैभाषिकाणां कः परिहारः ? इत्याह—दुस्समतिक्रमत्वात् कामधातोरिति
वैभाषिका इति । कथम् ? इत्युच्यते—बहु ह्यनेन कर्तव्यं भवति अकुशलाऽव्याकृत-
क्लेशप्रहाणम् । अकुशलानां कामावचराणामव्याकृतानां च रूपारूप्यावचराणां
क्लेशानां प्रहाणमनेन कर्तव्यम् । वीतरागेण पुनः शैक्षेणाव्याकृतानामेव
प्रहाणमिति । द्वित्रिश्रामण्यफलप्राप्तिरिति । द्वे वा त्रीणि वा श्रामण्यानि

यदुक्तम्—"स ध्याने व्यवकीर्णेऽकनिष्ठगः" इति, अथ कतमद्ध्यानं
प्रथमतॊ व्यवकीर्यते ?
आकीर्यते चतुर्थं प्राक्,
स हि सर्वकर्मण्यः समाधिः ; सुखप्रतिपदामग्रत्वात्¹ । एवं च पुनः
व्यवकीर्यते—अर्हन्नागामी वा प्रवाहयुक्तमनास्रवं चतुर्थं ध्यानं समापद्यते ।
तस्माद्व्युत्थाय प्रवाहयुक्तं तदेव सास्रवं समापद्यते, पुनश्चानास्रवम् ।
एवं प्रवाहाप्रहाणेन² यदा किल द्वौ क्षणावनास्रवौ समापद्यते, द्वौ सास्रवौ,
पुनश्चानास्रवौ—अयं व्यवकिरणस्य प्रयोगः ।
निष्पत्तिक्षणमिश्रणात् ।
यदा त्वनास्रवस्य क्षणस्यानन्तरं सास्रवं सम्मुखीकरोति सास्रवस्यानास्रवम् ।
एवं सास्रवस्य क्षणस्यानास्रवाभ्यां मिश्रणात् व्यवकिरणं निष्पन्नं भवतीति
वैभाषिकाः ।
द्वौ हि क्षणावानन्तर्यमार्गसदृशौ, तृतीयो विमुक्तिमार्गसदृश इति एवं
फलानि प्राप्तव्यानि । सकृदागामिना द्वे श्रामण्यफले प्राप्तव्ये—अनागामिफलम्,
अर्हत्त्वफलं च । स्रोतआपन्ने त्रीणि—सकृदागामिफलम्, अनागामिफलम्,
अर्हत्त्वफलं च । वीतरागेण पुनरेकमेवार्हत्त्वफलं प्राप्तव्यमिति । त्रिधातुसमति-
क्रमश्चावीतरागेण कर्तव्यः । वीतरागेण तु रूपावीतरागेणान्तरापरिनिर्वायिणा
भवता द्विधातुसमतिक्रमः कर्तव्य इति ॥ ४१ ॥
“आकीर्यते” इति । व्यवकीर्यते व्यतिभिद्यते । अनास्रवाभ्यां
सास्रवं चतुर्थं ध्यानं मिश्रीक्रियत इत्यर्थः । सुखप्रतिपदामग्रत्वादिति । सुखा
प्रतिपदश्चत्वारि मौलानि ध्यानानि, “ध्यानेषु मार्गः प्रतिपत् सुखा”
(अभि० को० ६.६६) इति वचनात् । तासां चतुर्थं ध्यानमग्रम्, अष्टापक्षाल-
मुक्तत्वात् ।
यदा किलेति । किलशब्दो वैभाषिकमतद्योतकः । स्वमतं तु पश्चाद्
दर्शयिष्यति—अशक्यं तु क्षणव्यवकिरणमिति विस्तरेण ।
द्वौ हि क्षणावानन्तर्यमार्गसदृशाविति । अनास्रवसास्रवौ । तृतीयो
विमुक्तिमार्गसदृश इत्यनास्रवः ।
१. ०मग्रद्यत्वात्—का० । २. ०प्रहासेन—का० ।