सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 970, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 970

निर्देशः ] षष्ठं कोशस्थानम् ९४७
कथमस्यैकः प्रकारः फलं विघ्नयितुं शक्नोति ? धात्वतिक्रमात् ।
'अवस्थात्रये हि कर्माणि विघ्नायोपतिष्ठन्ते' इत्युक्तं प्राक् । यथा कर्माणि,
एवं क्लेशा अपि वेदितव्या इति । विपाकनिःष्यन्दफलभूम्यतिक्रमात् ।
वीचिर्नामान्तरम्, तस्य वैकजन्मव्यवहितत्वात्¹, निर्वाणस्य एकत्रक्लेशप्रकारव्यवहित-
त्वाद्व वानागामिफलस्य । एको वीचिरस्येत्येकवीचिकः । तृतीयफलप्रतिपन्नकश्चैकवी-
चिको² वेदितव्यः प्रहीणसप्ताष्टप्रकारः । पूर्वप्रहीणप्रकारस्तु फलप्राप्तौ न
तावत् कुलंकुलो भवत्येकवीचिको वा यावत्फलविशिष्टो मार्गो न सम्मुखीकृतः ।
सोऽनागामी नवक्षयात् ॥ ३६ ॥
स एव पुनः फलस्थो नवप्रकारप्रहाणादनागामी उपदिष्टः; कामधात्वना-
गमनात् । "पञ्चानामवरभागीयानां संयोजनानां प्रहाणात्" इत्युच्यते; प्रहाणसंक-
लनात्² । अवश्यं द्वे त्रीणि वा पूर्वं प्रहीणानि भवन्ति ॥ ३६ ॥
विस्तरः । कथमस्यैकवीचिकस्यैकप्रकारो नवमः फलं विघ्नयितुं समर्थः, न हि
कुलंकुलस्यैकः प्रकारः फलं विघ्नयितुं समर्थ इति ? उच्यते; धात्वतिक्रमात् ।
यस्मादसौ नवमे प्रकारे प्रहीणे कामधातुसमतिक्रान्तो भवति, न पुनस्तत्रो-
पपद्यते ।
स च नवमः प्रकारः कर्मणा सह तत्रोपपद्यवेदनीय इत्यतस्तद्विपाक-
निष्यन्दफलभूम्यतिक्रमात् । फलं विघ्नयितुं समर्थो भवति ।
अवस्थात्रये हि कर्माणि विघ्नायोपतिष्ठन्त इत्युक्तं प्राक् ।
"क्षाम्यनागामिताहंस्त्वप्राप्तौ कर्मातिविघ्नकृद्" (अभि० को० ४,१०७)
इति । इह तु क्लेशेषु योजयितव्यम् । अत एवाह—यथा कर्माणि एवं
क्लेशा इत्यादि । तस्य चैकजन्मव्यवहितत्वादिति । तस्य क्षीणसप्ताष्टप्रकारस्य
सकृदागामिनः । एकेन जन्मना वावहितत्वान्निर्वाणस्य एकेन वा क्लेशप्रकारेण
व्यवहितमस्यानागामिफलमित्येकवीचिकः । न तावत्कुलंकुलो भवत्येकवीचिको
वेति । लौकिकेन मार्गेण पूर्वं त्रिचतुर्विधमुक्तोऽपि न तावत् कुलंकुलो भवति ।
क्षीणसप्ताष्टप्रकारोऽपि न तावदेकवीचिको भवति । तत्प्रतिपक्षानास्रवेन्द्रियलाभ-
स्याभावात् । अत एवाह—यावत्फलविशिष्टो मार्गो न सम्मुखीकृत इति ।
फलविशिष्टे तु तत्प्रतिपक्षे तदूर्ध्वप्रकारप्रतिपक्षे वा सम्मुखीकृते तदानास्रवेन्द्रिय-
लाभात् । कुलंकुलो भवति, एकवीचिको वेत्यर्थादुक्तं भवति ।
१. चैक०—का० । २. ०संकुचनाद्—का० ।