अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 964, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] षष्ठं कोशस्थानम् ६४१
एवमप्यूर्ध्वस्रोतसो भवाग्रपरमस्यैकस्यां गतावष्टम उपपत्तिभवो न
प्राप्नोति ? कामधात्वभिसन्धिवचनाददोषः ।
किमत्र ज्ञापकम्—सूत्रम्, युक्तिर्वा ? इह चैव किं ज्ञापकं प्रत्येकं देवमनुष्येषु
सप्तकृत्वो न पुनरुभयेष्वेव सप्तकृत्व इति । एवं हि पठ्यते—"सप्तकृत्वो देवाँश्च
मनुष्याँश्च" इति ? प्रत्येकमपि तु काश्यपीयाः पठन्ति—"सप्तकृत्वो देवान्
सप्तकृत्वो मनुष्यान्" इति । नात्राभिनिवेष्टव्यम् । यश्च मनुष्येषु स्रोतआपन्नो
भवति स तानेवागम्य परिनिर्वाति, यो देवेषु स तानेव ।
भवाभिनिर्वर्तनम् । अन्तराभवास्तु न गण्यन्त इति । यदि अन्तराभवैः सह
सप्तभवा गण्येरन्, जन्मचतुष्टयमेवास्य स्यात् । तदेवानेनानिष्टापत्तिवचनेन
तदात्मीयं व्याख्यानमेकस्यां गताविति समर्थयति ।
इतर आह—एवमप्यूर्ध्व स्रोतस इति विस्तरः । यद्येकस्यां गतावष्टमं भवं
नाभिनिवर्तयतीति व्याख्यापयसि, कथं तर्हि ऊर्ध्वस्रोतसोऽष्टमभवाभिनिर्वृत्तिरे-
कस्यां गतौ भवति, भवाग्रपरमस्येति विशेषणं किमर्थम् ? अकनिष्ठपरमस्यापि
अष्टमभवाभिनिर्वृत्तिः सम्भवति । “स प्लुतोऽर्धप्लुतः सर्वच्युतश्चाग्यो
भवाग्रगः” (अभि० ६.३८) इति वचनात् । स चापि वक्तव्यः, भवप्रकर्षविव-
क्षायां तु भवाग्रपरमग्रहणमित्यभिप्रायं लक्षयामः । कामधात्वभिसन्धिवचनादिति ।
कामधातौ चैका गतिर्मनुष्यगतिः, देवगतिर्वा । तस्यामष्टमभवं नाभिनिर्वर्तयति,
न तु रूपारूप्यधात्वोरिति । किमत्र ज्ञापकम्, सूत्रं युक्तिर्वा । कामधातुमधि-
कृत्येदमुक्तमिति । सूत्रमागमः, युक्तिरनुमानम् । येन चोदकेनैवं चोदितम्—
किमत्र ज्ञापकं सूत्रं युक्तिर्वेति, स एव पुनराह—इह चैव किं ज्ञापकं प्रत्येकं
देवमनुष्येष्विति विस्तरः । प्रत्येकं देवमनुष्येषु सप्तकृत्वः संसृत्येत । न
पुनरुभयेष्वेव देवमनुष्येषु सप्तकृत्व इति । तदुक्तं भवति—यो मनुष्येषु दृष्टसत्यः,
स देवेषु त्रिकृत्वः संसृत्य मनुष्येषु च त्रिकृत्व एव ततो देवानागम्य परिनि-
र्वातीति । यो वा देवेषु दृष्टसत्यः, स तथैव । स मनुष्येषु त्रिकृत्वो देवेषु च
त्रिकृत्व एव संसृत्य ततो मनुष्यानागम्य परिनिर्वातीति । एवं हि पठ्यते—
सप्तकृत्वो देवांश्च देवमनुष्याँश्चेति । सामान्यरूपेण हि पठ्यते । न प्रत्येकमिति
विशिष्य पठ्यत इत्यर्थः । एवं वैभाषिकपक्षे संशायावस्थे कृते आचार्यः समर्थ-
यन्नाह—प्रत्येकमपि तु काश्यपीया इति विस्तरः । काश्यपीया निकायान्तरीयाः ।
त एवं पठन्ति—सप्तकृत्वो देवान् सप्तकृत्वो मनुष्यानिति । एवं प्रत्येकमर्थो
लभ्यते । तदनेनोभयमपि परिहृतं भवति—'यदुक्तम् किमत्र ज्ञापकं सूत्रं युक्तिर्वा