सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

निर्देशः ] षष्ठं कोशस्थानम् ६२५
इति षोडशचित्तोऽयं सत्याभिसमयः,
इत्यनेन क्रमेणायं सत्यानामभिसमयः षोडशचित्तको भवति ।
ये तर्हि निकायान्तरीयाः सत्यानामेकाभिसमयं वर्णयन्ति । अभिप्राय
एष द्रष्टव्यः—अभेदेन ह्यभिसमय उच्यते सत्येषु ।
त्रिधा ।
दर्शनालम्बकार्याख्यः,
दर्शनाभिसमयोऽनास्रवया प्रज्ञया सत्यानाम् । आलम्बनाभिसमयस्तत्सम्प्र-
युक्तैर्वेदनादिभिरपि । कार्याभिसमयो विप्रयुक्तैरपि शीलजात्यादिभिः । दुःखे हि
दृश्यमाने तस्य त्रिविधोऽभिसमयः समुदायादीनां कार्याभिसमयः; प्रहाण-
साक्षात्करण-भावनात् ।
तद्यदि सत्यानां दर्शनाभिसमयं प्रत्येकाभिसमयं ब्रूयात् ? अयुक्तं ब्रूयाद्;
आकारभेदात् ।
निकायान्तरीयाः । आर्यधर्मगुप्तप्रभृतयः । अभेदेन ह्यभिसमय उच्यत इति ।
षोडशचित्तोऽयं सत्याभिसमय इति । दर्शनाभिसमयः, आलम्बनाभिसमयः,
कार्याभिसमयश्च—एवं षोडशचित्तक इत्यभेदः ।
दर्शनाभिसमय इति । दर्शनमेवाभिसमयः । एवमालम्बनाभिसमयः, कार्या-
भिसमयश्च । दर्शनाभिसमयोऽनास्रवया प्रज्ञया । "तद्धि भिक्षवो दृष्टम्, यदना-
स्रवया प्रज्ञया दृष्टम्" इति वचनात् । प्रज्ञैव दर्शनमिति व्यवस्थाप्यते ।
आलम्बनं ग्रहणं तत्सम्प्रयुक्तैरपि वेदनादिभिर्भवति । अपिशब्दात् प्रज्ञयापि ।
यस्माच्चित्तचैत्तैः सत्यान्यालम्बन्ते । कार्यं यस्य सत्यस्य यत्कर्त्तव्यम् ।
तद्यथा—दुःखस्य परिज्ञानम्, समुदायस्य प्रहाणम्, निरोधस्य साक्षात्कारणम्,
मार्गस्य भावनम् । तद् विप्रयुक्तैरपि शीलजात्यादिभिर्भवति । अपिशब्दात् प्रज्ञा-
तत्सम्प्रयुक्तैरपि । प्रज्ञासम्प्रयुक्तविप्रयुक्तैर्हि तत्कार्यचतुष्टयं क्रियते । जात्यादि-
भिरिति । आदिशब्दाल्लक्षणान्तराणि प्राप्तयश्च गृह्यन्ते । दुःखे हीति विस्तरः ।
दुःखे हि दृश्यमाने प्रज्ञया । तस्याभिसमयितुर्दुःखस्य वा त्रिविधोऽभिसमयो
यथोक्तः । कथम् ? इत्याह—समुदयादीनां समुदायनिरोधमार्गाणामभिसमयः
प्रहाणसाक्षात्कारणाभावनाद् । यथाक्रमम्—प्रहाणं समुदायस्य क्लेशप्राप्तिच्छेदात्,

६२६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
अथाप्यनात्माकारेण सर्वेषां सत्यानां¹ दर्शनमिति ब्रूयात् ? न तर्हि सत्यानां
दुःखादितो दर्शनं स्यात् । तथा² च सति² सूत्रविरोधः— "इहार्यश्रावकस्य दुःखं
वा दुःखतो मनसिकुर्वतः समुदयं वा समुदयतो यावन् मार्गं वा मार्गतो मनसि
कुर्वतोऽनास्रवेण मनसिकारेण सम्प्रयुक्तो यो धर्माणं विचयः³" ( ) इति ।
भावनामार्ग एवमिति चेत् ? न ; यथादर्शनं भावनात् ।
अथाप्येकस्य दर्शनाच्छेषेषु वशित्वलाभादेकाभिसमयं ब्रूयान्न दोषः स्यात् ।
अन्तरा तु व्युत्थानमस्ति, नास्तीति विचार्यं स्यात् ।
साक्षात्करणं निरोधस्य तत्प्राप्त्युत्पादात् , भावनं मार्गस्य सम्मुखीभावात् ।
आकारभेदादिति । प्रत्येकमेषां दुःखादीनामाकारभेदात् । न च दुःखाकारेण
समुदयादीनां दर्शनं युज्यते; तदाकारार्थभेदात् ।
अथाप्यनात्माकारेण सर्वेषां सत्यानां दर्शनमिति ब्रूयात् निकायान्तरीयः,
शून्यतानात्मते सर्वसत्यानां सामान्यं लक्षणमिति कृत्वा । न तर्हि सत्यानां
दुःखादितो दर्शनं स्यात् । दुःखतः समुदयतो निरोधतो मार्गत इति । तथा च
सत्यनात्माकारेण सर्वेषां दर्शनमिति ब्रुवन् सूत्रविरोधः । यस्मात् सूत्र एवमुक्तम्
आर्यश्रावकस्येति विस्तरः ।
अथ मन्यसे—नास्ति सूत्रविरोधो यस्मादभिसमयावस्थायाः पूर्वं
प्रयोगावस्थायामार्यश्रावकस्य दुःखं वा दुःखतो मनसिकुर्वत इत्येवमादि,
अतोऽनात्माकारेण सर्वेषां दर्शनादेकाभिसमय एवेति ? तच्चायुक्तम्;
अनास्रवेण मनसिकारेण सम्प्रयुक्तो धर्माणं विचय इति वचनात् । न हि
प्रयोगावस्थायामनास्रवमनसिकारः सम्भवति ।
भावनामार्गे एवमिति चेत् । य आर्यश्रावकस्य दुःखं वा दुःखतो मनसिकुर्वत
इति विस्तरेण । न; यथादर्शनं भावनात् । नैतदेवम् ; यथैव हि पूर्वं सत्यानां
दर्शनम्, तथैव तेषां पश्चाद्भावनम् । भावनामार्गो भवतीत्यर्थः ।
शेषेषु वशित्वलाभादिति । अन्तरेण प्रयोगं समुदयादिदर्शनसम्मुखीभाव-
शक्तिलाभो वशित्वलाभः, तस्मादिति । अन्तरा तु व्युत्थानमस्ति नास्तीति विचार्यं
स्यादिति । शेषेषु वशित्वलाभादन्तरा व्युत्थानं प्राप्नोतीति दोषः स्यादित्य-
१. का० पुस्तके नास्ति । २-२. एवं च—का० । ३. प्रविचय—का० ।

निर्देशः ] षष्ठं कोशस्थानम् ६२७
अथ पुनर्ब्रूयात्—दुःखमेव परिजानन् समुदयं प्रजहाति, निरोधं साक्षात्
करोति, मार्गं भावयति, अत एकाभिसमय इति ? एवमपि न दोषः स्याद्; एकस्य
दर्शने शेषाणां कार्याभिसमयवचनात् । दर्शनाभिसमयं तु प्रति सूत्रे सत्यानां
क्रमेणाभिसमय उक्तो दृश्यते ।
“न हैव गृहपते सत्यानामेकाभिसमयोऽनुपूर्वाभिसमयः¹” इति विस्तरेण
सदृष्टान्तानि त्रीणि सूत्राणि ।
भिप्रायः । उभयथापि च विचार्यमाणे बहूनां सूत्राणां विरोधः । यथा च तेषां
विरोधः, तथा आगमेषु श्रोतव्यः ।
एकस्य दर्शने शेषाणां कार्याभिसमयवचनादिति । यस्मादस्यैतद् वचनम्—
“दुःखे हि दृश्यमाने तस्य त्रिविधोऽभिसमयः । समुदयादीनां कार्याभिसमयः ।
प्रहाणसाक्षात्करणभावनात्” इत्यतोऽस्माभिरप्येवमभ्युपगमान्नास्ति दोषः ।
आह—यद्यप्यभ्युपगम्यत इत्यभिसमयः । सूत्रे सत्यानां क्रमेणाभिसमयो
विरुध्यते । अत उच्यते—दर्शनाभिसमयं तु प्रतीति विस्तरः ।
सदृष्टान्तानि त्रीणि सूत्राणीति । संयुक्तागमे पठ्यन्ते । कथम् ?
१. “अनाथपिण्डद आह—‘किं नु भदन्त चतुर्णामार्यसत्यानामनुपूर्वाभि-
समयः, आहोस्विदेकाभिसमयः’ इति ? ‘चतुर्णां गृहपते आर्यसत्यानामनु-
पूर्वाभिसमयः, न त्वेकाभिसमयः । यो गृहपते एवं वदेत्—अहं दुःखमार्य-
सत्यमनभिसमेत्य, समुदयमार्यसत्यमभिसमेष्यामीति, विस्तरेण यावद्
दुःखनिरोधगामिनीं प्रतिपदमार्यसत्यमभिसमेष्यामीति । मैवं वोच इति
स्याद् वचनीयः । तत् कस्य हेतोः ? अस्थानमनवकाशो यद् दुःखमार्यसत्यमनभि-
समेत्य समुदयमार्यसत्यमभिसमेष्यति पूर्ववत् । यावन्नेदं स्थानं विद्यते ।
स्थानमेतद्विद्यति पूर्ववत् । तद्यथा गृहपते य एवं वदेद्—अहं कूटागारस्य वा
कूटागारशालाया वा मूलपादमप्रतिष्ठाप्य भित्तिं प्रतिष्ठापयिष्यामि, भित्तिम-
प्रतिष्ठाप्य तलकम्, तलकमप्रतिष्ठाप्य च्छदनं प्रतिष्ठापयिष्यामीति । मैवं वोच
इति स्याद्वचनीयः । तत् कस्य हेतोः ? अस्थानमनवकाशो यत् कूटागारस्येति
पूर्ववत् । यावत् स्थानमेतद्विद्यते यन्मूलपादं प्रतिष्ठाप्य भित्तिं प्रतिष्ठापयिष्या-
मीति पूर्ववत् । यावदेवमेव गृहपते नेदं स्थानं विद्यते यद् दुःखसत्यमदृष्ट्वा
समुदयसत्यं द्रक्ष्यति” इति विस्तरः ।
१. ०मकाभिसमयोऽपि पूर्वा०—का० ।

“यो दुःखे निष्काङ्क्षो निर्विचिकित्सो बुद्धेऽपि स” इति सूत्रादेकाभि-
समय इति चेत् ? न; असमुदाचारावश्यम्प्रहाणाभिसन्धिवचनात् ।
य एष उक्तः षोडशचित्तकोऽभिसमयः,
सोऽग्रधर्मैकभूमिकः ॥ २७ ॥
यद्भूमिकोऽग्रधर्मस्तद्भूमिकान्येतानि षोडश चित्तानि । ते पुनः षड्भूमिका
इत्युक्तं प्राक् ॥ २७ ॥
२. “अथान्यतरो भिक्षुराह—‘किं नु भदन्त चतुर्णामार्यसत्यानामनुपूर्वाभि-
समयः, आहोस्विदेकाभिसमयः’ इति ? भगवानाह—‘चतुर्णां भिक्षो सत्याना-
मिति । पूर्ववद्यावत् तथथा भिक्षो य एवं वदेदहं चतुष्कलेवरस्य सोपानस्य
प्रथमसोपानकलेवरमनभिरुह्य द्वितीयमभिरोक्ष्यामीति । द्वितीयमनभिरुह्य
तृतीयम् । तृतीयमनभिरुह्य चतुर्थमभिरोक्ष्यामीति । मैवं वोच इति
स्याद् वचनीयः । तत्कस्य हेतोः ? अस्थानमनवकाशो यच्चतुष्कलेवरस्य सोपानस्य
प्रथमसोपानकलेवरमनभिरुह्य द्वितीयकलेवरमभिरोक्ष्यति । एवं यावत्
तृतीयमभिरुह्य चतुर्थमभिरोक्ष्यति । एवमिहापि नेदं स्थानं विद्यते यद्
दुःखसत्यमदृष्ट्वा समुदयसत्यं द्रक्ष्यति” इत्यादि ।
३. तथा—“आर्यानन्द आह—‘किं नु भदन्त चतुर्णामार्यसत्यानामनुपूर्वाभि-
समयः, उताहो एकाभिसमयः’ इति ? पूर्वसूत्रवत् । यावत् ‘तद्यथानन्द य एवं
वदेदहं चतुष्पदिकाय निःश्रेण्याः प्रथमं निःश्रेणीपदमनभिरुह्य प्रासादमभि-
रोक्ष्यामीति । मैवं वोच इति स्याद्वचनीयः । विस्तरेण यावदेवमेवानन्द य एवं
वदेदहं दुःखमार्यसत्यमनभिसमेत्य समुदयसत्यमभिसमेष्यामीति विस्तरेण
थ्यावन्नेदं स्थानं विद्यते” इति । एतानि त्रीणि सूत्राणि ।
यो दुःख इति विस्तरः । अथ मतं स्याद्—यो दुःखे निष्कांक्षो निर्विचिकित्सो
बुद्धेऽपि स इति सूत्रादेकाभिसमय इति । कथम् ? अशैक्षा हि धर्मा बुद्धः । स
एवाशैक्षा धर्मो मार्गः । तस्माद् दुःखाभिसमयान्मार्गोऽपि तेनाभिसमितः,
यस्माद् दुःखबुद्धेऽपि निष्कांक्षो निर्विचिकित्स इति । कांक्षा विचिकित्सेत्य-
नर्थान्तरम् । अथ वा निश्चयाभिलाषः कांक्षा, विमतिर्विचिकित्सा यथोक्तलक्षणा ।
नासमुदाचारावश्यम्प्रहाणाभिसन्धिवचनादिति । नैतदेवं सूत्रादेकाभिसमय इति;
असमुदाचारस्यावश्यम्प्रहाणस्य चाभिसन्धिवचनात् । दुःखेऽभिसमिते बुद्ध-
विषये विचिकित्साया असमुदाचारोऽवश्यं प्रहाणं च भवति । अतो यो दुःखे
. निष्कांक्षो निर्विचिकित्सो बुद्धेऽपि स इत्युक्तमभिसन्धिः ।

निर्देशः ] षष्ठं कोशस्थानम् १२१
कस्मात् पुनः क्षान्तयो ज्ञानानि चावश्यं भवन्ति ? यस्मात्
क्षान्तिज्ञानान्यानन्तर्यमुक्तिमार्गा यथाक्रमम् ।
आनन्तर्यमार्गाः क्षान्तयः क्लेशप्राप्तिविच्छेदं प्रत्यनन्तर्यशक्यत्वात् १। विमुक्ति-
मार्गास्तु ज्ञानानि; क्लेशप्राप्तिविमुक्तानां विसंयोगप्राप्तिसहोत्पादात् । अतः
उभयैरवश्यं भवितव्यम् । द्वाभ्यां चौरनिष्कासनकपाटपिधानवत् ।
यदि पुनर्द्वितीयेनानन्तर्यमार्गेणैव सह विसंयोगप्राप्तिरुत्पद्येत, किं स्यात् ?
प्रहीणविचिकित्सं ज्ञानं तत्रैवालम्बने नोत्पन्नं स्यात् ।
क्षान्तिभिः क्लेशप्रहाणाच्च संयोजननिकाय ज्ञानबध्या इति शास्त्रविरोध
ते पुनः षड्भूमिका इत्युक्तम् प्रागिति । “अनागम्यान्तरध्यानभूमिकम्”
(अभि० को० ६. २०) इति वचनात् ॥ २७॥
अनन्तर्यशक्यत्वादिति । “कृत्याश्च”, “शकि लिङ् च” (पा० सू० ३.३.१७२)
इति शक्यार्थे कृत्यप्रत्ययः । अन्तरयितुं शक्या अन्तर्याः, नान्तर्याः अनान्तर्याः ।
क्लेशप्रप्तिं ते विच्छिन्दन्ति । विप्रकृतावस्था सा तेषामिष्यते । अनन्तर्य-
मार्गेणेति भावे स्वार्थे वृद्धिर्विधानम् । अनन्तरभावो अनन्तरमार्गो वा आनन्तर्यम्,
तस्य मार्गा आनन्तर्यमार्गाः । विमुक्तिमार्गा इति । विमुक्तौ मार्गा विमुक्तिमार्गाः ।
क्लेशाद्विमुक्तस्यवस्थामार्गा इत्यर्थः । द्वाभ्यां चौरनिष्कासनकपाटपिधानवदिति ।
यथा द्वाभ्यामेकेन चौरो निष्कास्यते । द्वितीयेन तदप्रवेशाय कपाटः पिधीयते ।
एवमानन्तर्यमार्गेण क्लेशचौरो निष्कास्यते; तत्प्राप्तिच्छेदतः । विमुक्तिमार्गेण
च विसंयोगप्राप्तिकपाटं पिधीयते; वर्तमानीकरणात् ।
यदि पुनरिति विस्तरः । यदि पुनर्द्वितीयेनानन्तर्यमार्गेणैव दुःखैऽन्वयज्ञान-
क्षान्त्या सह विसंयोगप्राप्तिरुत्पद्यते । नैव दुःखे धर्मज्ञानमुत्पद्यते, यदनेन
कर्त्तव्यम् । तद् दुःखेऽन्वयज्ञानक्षान्त्यैव क्रियेतेत्यभिप्रायः । प्रहीणविचिकित्सं
ज्ञानं तत्रैवालम्बने कामावचरदुःखे प्रहीणविचिकित्सं ज्ञानं नोत्पन्नं स्यात् ।
तत्र हि दुःखे धर्मज्ञानक्षान्तिः सविचिकित्सैव वर्तते; विचिकित्साया अप्रहीण-
त्वात् । न च तत्र दुःखेऽन्वयज्ञानक्षान्तः प्रहीणविचिकित्सेति शक्यते
व्यवस्थापयितुम्; तद्विषयत्वात् ।
क्षान्तिभिरिति विस्तरः । क्षान्तिभिः क्लेशप्रहाणाद् योऽयं शास्त्रपाठः ।
१. प्रत्यन्तरयितुमशक्य०-का० ।

६३० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
इति चेत् ? न; क्षान्तीनां ज्ञानपरिवारत्वात् । राजपरिवारकृतस्य राजकृत-
व्यपदेशवत् ।
किं पुनः सर्वाणि षोडशचित्तानि सत्यदर्शनाद् दर्शनमार्गः ? नेत्याह ।
किं तर्हि ?
अदृष्टदृष्टेर्दृङ्मार्गस्तत्र पञ्चदश क्षणाः ॥ २८ ॥
दुःखधर्मज्ञानक्षान्तिमारभ्य यावत् मार्गेऽन्वयज्ञानक्षान्तिरेते पञ्चदश क्षणा
दर्शनमार्गः । किं कारणम् ? अदृष्टसत्यदर्शनात् । षोडशे तु नास्त्यपूर्वं द्रव्यमिति
यथादृष्टाभ्यासनाद् भावनामार्ग एव ।
ननु च तेनाप्यदृष्टं पश्यति मार्गान्वयज्ञानक्षान्तिम्¹ । सत्यं प्रति चिन्ता,
नवसंयोजननिकायः । दुःखधर्मज्ञानप्रहातव्यः संयोजननिकायः, समुदयधर्म-
ज्ञानप्रहातव्यः, निरोधधर्मज्ञानप्रहातव्यः, मार्गधर्मज्ञानप्रहातव्यः, दुःखान्वय-
ज्ञानप्रहातव्यः, समुदयान्यवयज्ञानप्रहातव्यः, निरोधान्वयज्ञानप्रहातव्यः,
मार्गान्वयज्ञानप्रहातव्यः, भावनाप्रहातव्यश्च संयोजननिकाय इति ।
सूत्रेऽप्युक्तम्—“इति हि भिक्षवो ज्ञानवध्याः क्लेशाः । विद्युदुपमं चित्तम्”
इति । तस्य विरोधः । न हि तत्र क्षान्तिप्रहातव्यः संयोजननिकाय
इत्युक्तम् । न; क्षान्तीनामिति विस्तरः । नैतदेवम् । कस्मात् ? क्षान्तीनां
ज्ञानपरिवारत्वात् । क्षान्तयो ज्ञानस्य परिवारा इत्यर्थः । क्षान्तिप्रहातव्यः
संयोजननिकायो ज्ञानप्रहातव्य उच्यते । राजपरिवारकृतस्य राजकृतव्यपदेशवत् ।
यथा राजपरिवारकृतस्य कस्यचिदर्थस्य राजकृत इति व्यपदेशो भवति,
तद्वद् भावनाप्रहातव्यस्तु संयोजननिकायो ज्ञानप्रहातव्य एव । तत्र आनन्तर्य-
मार्गोऽपि ज्ञानस्वभाव इति । क्लेशप्रहाणे ह्यानन्तर्यमार्ग एव विशेषेणाधिक्रियते ।
अदृष्टसत्यदर्शनादिति । ज्ञानेन कथमदृष्टसत्यदर्शनं भवति ? तदप्यदृष्टे
सत्यान्तरे सति भवतीति दर्शनमार्गान्तरालवर्ति ज्ञानं दर्शनमार्गः पारम्पर्यमभि-
सन्धाय । तेनाप्यदृष्टमिव पश्यतीति । अथ वा—अदृष्टदृष्टेरदृष्टदर्शनात् ।
पञ्चदशक्षणा दर्शनमार्गो यावदस्य पुद्गलस्यादृष्टदर्शनं प्रवर्तते, तावदस्य क्षणा
दर्शनमार्गः । तस्य दृष्टेऽपि दुःखे अदृष्टदर्शनमस्य समुदये प्रवर्तत एवेत्याह—
भावनामार्ग एव । षोडशक्षण इति वाक्याध्याहारः ।
१. मार्गान्वय०—का० ।

निर्देशः ] षष्ठं कोशस्थानम् ६३१
न तु क्षणं प्रति। न हि क्षणेनादृष्टेन सत्यमदृष्टं भवति। यथा नैकलुङ्गेनालूनेन¹
केदारमलूनं भवति। फलत्वाददृष्टज्ञानषोडशाकारभावनावत् पूर्वमार्गविहानेः
प्राबन्धिकत्वाच्च मार्गान्वयज्ञानं भावनामार्गः।
ननु च तेनाप्यदृष्टं पश्यति, किं तददृष्टम् ? इत्याह - मार्गान्वयज्ञान-
क्षान्तिमिति। मार्गान्वयज्ञानक्षान्तिरात्मानं विरहय्य शेषमन्वयज्ञानपक्ष्यं
मार्गमालम्बते; स्वात्मनि वृत्तिविरोधात्। तेनोच्यते-मार्गान्वयज्ञानक्षान्तिम-
दृष्टां पश्यतीति। सत्यं प्रति चिन्तेति विस्तरः। सत्यं प्रति चिन्ता-दृष्टं न
दृश्यमिति। न तु क्षणं प्रति। दृष्टः क्षणो न वेति। कस्मात् ? पञ्चदशेन
क्षणेन यदन्वयज्ञानपक्षलक्षणं सत्यं दृष्टम्, तदेव षोडशेनापीति। नास्त्यपूर्व-
दृष्टसत्यदर्शनमिति। न षोडशक्षणो दर्शनमार्ग इति व्यवस्थाप्यते। न ह्येक-
क्षणेनादृष्टेन मार्गान्वयज्ञानक्षान्तिलक्षणेन सत्य तन्मार्गसत्यमदृष्टं भवति।
लौकिकं दृष्टान्तमाह - यथा नैकलुङ्गेन एकसस्यशलाकया दात्रेणालूनेन/च्छिन्नेन
केदारमलूनं भवति। किं तर्हि ? लूनमेवेत्यर्थः। तथा हि-केचित् प्रमादाद-
लूनेऽपि एकलुङ्गे वक्तारो भवन्ति - लूनमस्माभिः केदारमिति। फलत्वादिति
विस्तरः। फलत्वादित्यादिहेतुभिर्भावनामार्गमेव षोडशक्षण साधयति। भावना-
मार्गः षोडशः क्षणः; संस्कृतश्रामण्यफलत्वात्, सकृदागामिफलवत् यावदर्हत्त्व-
फलवद्वा। तथा भावितादृष्टज्ञानषोडशाकारत्वाद् विहीनाप्रतिपन्नमार्गत्वात्
प्राबन्धिकत्वाच्च। फलान्तरवदेव भावनामार्गः। षोडशे हि क्षणेऽष्टौ ज्ञानानि
भाव्यन्ते - दुःखे धर्मज्ञानम्, दुःखेऽन्वयज्ञानम्, यावन्मार्गेऽन्वयज्ञानमिति।
आकारा अपि षोडशानित्याद्या भाव्यन्ते। तद्देव च दर्शनमार्गेऽष्टज्ञानषोडशा-
कारभावना नास्ति। तत्र हि सभागज्ञानाकारभावनैव। “यथोत्पन्नानि भाव्यन्ते
क्षान्तिज्ञानानि दर्शने” (अभि० को० ७.२०) इति वचनात्। मार्गान्वयज्ञाने च
पूर्वमार्गस्य प्रतिपन्नकमार्गस्य विहानिः। न च दर्शनमार्गे पूर्वमार्गविहानिरिति।
प्राबन्धिकं चेदं मार्गान्वयज्ञानम्। न च दर्शनमार्गे क्षान्तिज्ञानं वा किञ्चित्
प्राबन्धिकमस्तीत्यतोऽपि मार्गान्वयज्ञानं भावनामार्गे इति।
इतरः प्रत्यवस्थानं करोति - दर्शनमार्गः षोडशः क्षणः; आवश्यकापरिहा-
णित्वात्, दुःखधर्मज्ञानक्षान्त्यादिवदिति। पूर्वपक्षं वा दूषयति - अनुमान-
पतितधर्मस्वरूपविपर्ययात्पक्षाद् बालोऽयं पक्ष इति। भावनामार्ग्वेऽपि साध्यमाने
तदपरिहाणित्वमनेनानुमानेनापततीति। तदिदमन्तर्नीतमभिसमीक्ष्य पुनराह-
१. नैकेन०-का०।

९३२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
अपरिहाणिस्तु दर्शनहेयक्लेशप्रहाणसन्धारणात् ।
अत एव दर्शनमार्ग इति चेत् ? न; अतिप्रसङ्गात् । सप्त ज्ञानानि
कस्माद्दर्शनमार्गः ? दर्शनस्यासमाप्तत्वात् । न हि सर्वं सत्यदर्शनं समाप्तमिति
तदन्तरालत्वाच्चान्यपि दर्शनमार्गः ॥२८॥
उक्तं यथा दर्शनमार्गो भावनामार्गश्चोत्पद्यते ॥
अथेदानीमुत्पन्नार्यमार्गाणां¹ पुद्गलानां व्यवस्थां तथा वक्ष्यामः—
य एते दर्शनमार्गस्वभावाः पञ्चदशक्षणा² उक्ताः, वेदितव्यौ
अपरिहाणिस्त्विति विस्तरः । यस्माद् दर्शनहेयानां क्लेशानां प्रहाणं मार्गान्वय-
ज्ञानेनाधारप्रतिपक्षेण सन्धार्यते । यदि च तस्मात् फलमार्गात् षोडशात् क्षणात्
परिहाणिः स्यात्, स्रोतआपत्तिफलात् परिहाणिः स्यात् । न च स्रोतआपत्ति-
फलात् परिहाणिरित्यतो न तस्मात् परिहीयते ।
इतर आह—अत एवेति । किमयमपरिहाणिहेतुरेवोच्यते ? वयमप्ये-
तमर्थमभिदध्महे, किमयुपलब्धिसममिति चोत्तरमुद्ग्राह्यते । आचार्य
आह—अत एव दर्शनमार्ग इति चेत् । यदि मन्यसे—यत एव दर्शनहेयप्रहाण-
सन्धारणं मार्गान्वयज्ञानेन, अत एव दर्शनमार्ग इति । तन्न । अतिप्रसङ्गात् ।
यदि मार्गान्वयज्ञानेन दर्शनहेयप्रहाणसन्धारणमित्यतो दर्शनमार्गः स्यात्,
एवं सत्यतिप्रसङ्गः स्यात् । तस्मान्मार्गान्वयज्ञानात् परेण सर्वेण भावनामार्गेण
दर्शनहेयप्रहाणसन्धारणमिति सर्वं एव दर्शनमार्गः स्यात् । अनिष्टं चैतत् ।
षोडश एव हि क्षणो दर्शनमार्गो भवद्भिरिष्यते, न सप्तदशाष्टदश इत्यादिकः
क्षणः प्रवाहान्यायेनोत्पद्यते । द्वितीये तृतीये वा दिवसे य उत्पद्यते तज्जातीयो
विशेषमार्गसंगृहीतः । तन्नास्ति । ततोऽपि हि नास्ति परिहाणिः । तदेवं
सत्यावश्यकापरिहाणित्वं यो हेतुरुक्तः, सोऽनैकान्तिक इति दर्शितं भवति ।
तदनैकान्तिकत्वाच्चाप्रतिसाधनं तत् । न पूर्वपक्षदूषणं चेति । आह—सप्त
ज्ञानानि दुःखे धर्मज्ञानं यावन्मार्गे धर्मज्ञानं कस्माद् दर्शनमार्गो न पुनरष्टमं
मार्गेऽन्वयज्ञानमित्यभिप्रायः । दर्शनस्यासमाप्तत्वादिति । मार्गान्वयज्ञानक्षान्तौ
दर्शनं समाप्तम्; सर्वेषां सत्यानां तदानीं दृष्टत्वात् । दुःखे धर्मज्ञान उत्पन्ने
यद्यपि कामावचरं दुःखं दृष्टम्, रूपारूप्यावचरदुःखादि तु न तावद् दृष्टम् ।
एवं यावन् मार्गे धर्मज्ञान उत्पन्ने रूपारूप्यप्रतिपक्षो न तावद् दृष्ट इति ।
१. यथेदानो०—का० । २. पञ्चादश०—का० ।

निर्देशः ] षष्ठं कोशस्थानम् ६३३
मृदुतीक्ष्णेन्द्रियौ तेषु श्रद्धाधर्मानुसारिणौ ।
मृद्विन्द्रियस्तेषु वर्तमानः श्रद्धानुसारोत्युच्यते, तीक्ष्णेन्द्रियो धर्मानुसारीति ।
श्रद्धयानुसारः श्रद्धानुसारः, सोऽस्यास्तीति श्रद्धानुसारी । श्रद्धयानुसर्तुं
शीलमस्येति वा । पूर्वं परप्रत्ययेनार्थानुसरणात्¹ ।
एवं धर्मानुसारी । पूर्वं स्वयमेव सूत्रादिभिर्धर्मेरर्थानुसरणात् ।
तौ पुनः—
अहीनभावनाहेयौ फलाद्यप्रतिपन्नकौ ॥ २९ ॥
फलानामाद्यं स्रोतआपत्तिफलम्; सर्वफलप्राप्तौ तस्य प्रथमत्वात् । तावेव
श्रद्धाधर्मानुसारिणौ, यदि पूर्वं लौकिकेन मार्गेणाप्रहीणभावनाहेयौ भवतः, सकल-
बन्धनौ तौ स्रोतआपत्तिफलप्रतिपन्नकावुच्येते ॥२९॥
यावत् पञ्चप्रकारघ्नौ,
यदि पूर्वं लौकिकेन मार्गेण कामावचराणां भावनाहेयानां यावत् पञ्च
प्रकाराः प्रहीणा भवन्ति, तथैव प्रथमफलप्रतिपन्नकावुच्येते ।
त्रावशेषं दर्शनं न समाप्तमिति । तदन्तरालत्वादिति । दर्शनमार्गान्तराल-
त्वात् । तयोर्वा द्वयोः क्षान्त्योरन्तरालत्वात् । तान्यपि सप्त ज्ञानानि दर्शन-
मार्गे । शेषद्रष्टव्यसाकांक्षत्वात् तस्य योगिन इत्यभिप्रायः ॥ २८ ॥
पूर्वं परप्रत्ययेन परोदितेन अर्थानुसरणाद् दुःखादिसत्यप्रतिपत्तेरित्यर्थः ।
पूर्वमिति विशेषणेन भावनाकाले परोपदेशनिरपेक्षमर्थानुसरणमिति कथितं
भवति । एवं धर्मानुसारीति । धर्मैरनुसारो धर्मानुसारः, सोऽस्यास्तीति
धर्मानुसारी । धर्मैरनुसर्तुं शीलमस्येति वा । पूर्वं स्वयमेव सूत्रादिभिर्धर्मैर्द्वादशाङ्गैः
प्रवचनैरर्थानुसरणात् । पूर्ववद् व्याख्यानम् ॥ २६ ॥
यावत्पञ्च प्रकाराः प्रहीणा भवन्तीति । यावच्छब्देन यद्येको द्वौ त्रयश्चत्वारः
पञ्च प्रहीणाः प्रकारा भवन्ति । तथैव प्रथमफलप्रतिपन्नकावुच्येते । यथा
सकलबन्धनौ ।
१. परसं प्रत्यये० — का० ।
अभि० को० ३ : १२

६३४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
द्वितीयेऽर्वाङ्‌नवक्षयात् ।
द्वितीयनिमित्तं द्वितीये । यदि तयोस्तस्मात् परेण षट् सप्ताष्टौ वा प्रकाराः
पूर्वं प्रहीणा भवन्ति, तौ¹ द्वितीयफलप्रतिपन्नकावुच्येते ।
कतमच्च द्वितीयम् ? सकृदागामिफलम् ।
कामाद् विरक्तावूर्ध्वं वा तृतीयप्रतिपन्नकौ ॥ ३० ॥
यदि पुनर्नवमस्यापि प्रकारस्य प्रहाणा , कामधातोर्वीतरागौ भवत ऊर्ध्वं
च² यावदाकिञ्चन्यायतनात्, तौ तृतीयप्रतिपन्नकावुच्येते ।
कतमच्च तृतीयम् ? अनागामिफलम् ॥ ३० ॥
षोडशे तु फलस्थौ तौ यत्र यः प्रतिपन्नकः ।
षोडशे तु चित्त उत्पन्ने तौ न-पुनः श्रद्धाधर्मानुसारिणावुच्येते । नापि
प्रतिपन्नकौ । किं तर्हि ? फलस्थौ । यत्र फले यः प्रतिपन्नको भूतः स तदानीं
तत्र फलस्थितो भवति । स्रोतआपत्तिफले, सकृदागामिफले वा, अनागामिफले वा ।
अर्हत्त्वं तु न शक्यमादितः प्राप्तुम् ; दर्शनमार्गेण भावनाहेयाप्रहाणात्³ । पूर्वं
च भवाग्रवैराग्यासम्भवात् ।
“द्वितीयेऽर्वाङ् नवक्षयाद्” इति । द्वितीये इति । द्वितीयनिमित्तमित्यर्थः ।
‘चर्मणि द्वीपनं हन्ति’ इति यथा । अर्वाङ् नवक्षयात् नवप्रकारप्रहाणादधरतः
नवप्रकारप्रहाणपरिहारेणार्थादुक्तं भवति ।
यदि तयोः पुद्गलयोस्तस्मात् पञ्चप्रकारप्रहाणात् परेण षट् सप्ताष्टौ वा
प्रकाराः पूर्वं लौकिकेन मार्गेण प्रहीणा भवन्ति । तौ द्वितीयफलप्रतिपन्नकाविति ।
द्वितीय इति वचनात्, प्रतिपन्नकाविति चाधिकारात्' पदार्थव्यवस्था
लभ्यते ।
ऊर्ध्वं चेति । प्रथमध्यानवीतरागौ । यावदाकिञ्चन्यायतनाद्वीतरागौ ॥ ३० ॥
अर्हत्त्वं तु न शक्यमादितः प्राप्तुमिति । अनागामिफलमप्राप्यादित
एवार्हत्त्वं प्राप्तुं न शक्यते । कस्मादित्याह– भावनाहेयाप्रहाणात् । न हि दर्शन-
१. द्वौ तौ—का० । २. वा—का० । ३. ॰हेयानामप्रहाणात्—का० ।

निर्देशः ] षष्ठं कोशस्थानम् ६३५
श्रद्धाधिमुक्तदृष्टप्राप्ता मृदुतीक्ष्णेन्द्रियौ तदा ॥ ३१ ॥
तस्मिन् काले यो मृद्विन्द्रियः श्रद्धानुसारिपूर्वी स श्रद्धाधिमुक्त इत्युच्यते ।
यस्तीक्ष्णेन्द्रियो धर्मानुसारिपूर्वी स दृष्टिप्राप्त इत्युच्यते; श्रद्धाप्रज्ञाधिकत्वेनाधि-
मोक्षदृष्टिप्रभावितत्वात् ॥ ३१ ॥
किं पुनः कारणं प्रहीणपञ्चाकारोऽपि षोडशे चित्ते स्रोतआपन्न एवोच्यते,
न सकृदागामिफलप्रतिपन्नकः ? यस्मात्
फले फलविशिष्टस्य लाभो मार्गस्य नास्यतः ।
नाप्रयुक्तो विशेषाय फलस्थः प्रतिपन्नकः ॥ ३२ ॥
फले हि लभ्यमाने फलविशिष्टो मार्गो न लभ्यत इत्येष नियमः । अतः
मार्गेण भावाग्रिकाणां भावनाहेयानां प्रहाणमस्तीति । यथा दर्शनमार्गस्वभावेषु
पञ्चदशसु क्षणेषु वर्तमानः आदितस्तृतीयफलप्रतिपन्नकादर्हत्त्वफलसाक्षात्क्रियायै
प्रतिपन्नकः स्यात् । षोडशे तु चित्त उत्पन्ने आदितोऽनागामिनोऽर्हन् स्यात् ।
भावाग्रिकभावनाहेयप्रहाणाद्ध्यर्हत्त्वं प्रतिष्ठाप्यते । आह—यदि दर्शनमार्गेण
भावाग्रिकाणां भावनाहेयानां प्रहाणं नास्तीत्यतोऽर्हत्त्वं प्राप्तुमशक्यम्, पूर्वमेव
तर्हि पृथग्जनावस्थायामेव भावनामार्गेण भावनावैराग्यात् तत्फलप्रतिपन्नकः ।
तेषु वर्तमानोऽर्हत्त्वफलसाक्षात्क्रियायै प्रतिपन्नको भविष्यति । षोडशे तु
चित्तक्षण आदितोऽर्हन्निति । अत उच्यते— पूर्वं च भवाग्रवैराग्यासम्भवादिति ।
न हि पूर्वं पृथग्जनावस्थायां लौकिकेन मार्गेण भवाग्रवैराग्यसम्भवः; उपरि-
भूम्यभावात् । तस्मादादितः प्रतिपन्नकोऽर्हन्न न स्यादिति ।
श्रद्धाप्रज्ञाधिकत्वेनाधिमोक्षदृष्टिप्रभावितत्वादिति । श्रद्धाधिकत्वेनाधिमोक्ष-
प्रभावितत्वाच्छ्रद्धाधिमुक्तः । श्रद्धाधिको मुक्तः श्रद्धाधिमुक्त इति कृत्वा । न तु
तस्य प्रज्ञा नैवास्ति । तया न तु प्रभावित इति न तन्नाम लभते । प्रज्ञाधिकत्वेन
दृष्टिप्रभावितत्वात् दृष्टिप्राप्तः । न तु तस्य श्रद्धा नास्तीति पूर्ववद् वाच्यम् ।
अपरे तु पुनः नैरुक्तविधिमालम्ब्य व्याचक्षते—श्रद्धाधिपत्येन दर्शनहेयेभ्यो
मुक्तः श्रद्धाधिमुक्तः । दृष्ट्याधिपत्येन प्राप्तफलो (प्राप्तफला) दृष्टिप्राप्त
इति ॥ ३१ ॥
“यावत्पञ्चप्रकारघ्नौ” (अभि० को० ६.३०) इति उक्तम् । अतः पृच्छति—
किं पुनः कारणमिति विस्तरः ।
फलविशिष्टो मार्गो न लभ्यत इति । फलाद्विशिष्टो मार्गः सकृदागामि-

६३६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
फलस्थो यावन्न विशेषाय प्रयुज्यते फलान्तरप्राप्तौ, तावत् प्रतिपन्नको नोच्यते ।
एवमन्यत्रापि फले वेदितव्यम् ।
यस्तु तृतीयध्यानवीतरागोऽधरां भूमिं निश्रित्य नियाममवक्रामति, सोऽवश्यं
फलविशिष्टं मार्गं सम्मुखीकरोति । अन्यथा हि स तस्मादूर्ध्वोपपन्नः
सुखेन्द्रियेणासमन्वागतः स्यात् ।
एवं तावद् भूयः कामवीतरागाणां नियामावक्रान्तौ पुद्गल-
व्यवस्थानम् ॥ ३२ ॥
फलप्रतिपन्नकादिः । प्रथमादिप्र=ारभावनाहेयप्रतिपक्षमार्गो न भाव्यत इत्यर्थः ।
यावन्न विशेषाय प्रयुज्यत इति । यावन्नाप्रहीणाक्लेशप्रहाणाय फलान्तरप्राप्ति-
निमित्तं प्रयोगं करोति, तावत्प्रतिपन्नको नोच्यते । यदा प्रयुज्यते, तदा प्रतिपन्नक
इत्यर्थादुक्तं भवति । तदा हि पूर्वप्रहीणक्लेशप्रतिपक्षस्याप्रतिलब्धपूर्वस्य तत्प्रहा-
णस्य चानास्रवा प्राप्तिरुत्पद्यत इति सिद्धान्तः । एवमन्यत्रापि फले वेदितव्यमिति ।
षोडशे चित्ते स्रोतआपन्न एवोच्यत इति

षष्ठं कोशस्थानम् ६३७
आनुपूर्वीकं तु वक्तव्यम् । अत इदं तावद् व्यवस्थाप्यते । यथैते कामधातौ
क्लेशा उपदिष्टाः, एवं
नवप्रकारा दोषा हि भूमौ भूमौ,
यावद् भवाग्रे ।
यथा च दोषाः,
त्रागत इति वचनात् । "यश्चापि सौमनस्येन्द्रियेण समन्वागतः सोऽवश्यं
उपेक्षा-जीवित-मनः-सुख-सौमनस्येन्द्रियैः" इत्येवमादिवचनाच्च । अत्र
—अस्त्येष विभाषायां लिखितपक्षः । स तु न स्थापनापक्षो लक्ष्यते ; अपर
रिति वचनात् । यो हि चतुर्थध्यानलाभी षण्णां भूमीनामन्यतमां भूमिं
नियाममवक्रामति, स षड्भूमिकेनानागामिफलेनानागम्यभूमिकेन
ऋचतुर्थध्यानभूमिकेन षोडशे चित्ते समन्वागतो भवति; तथा वीतरागत्वात् ।
तीयध्यानलाभी, स पञ्चभूमिकेन ; चतुर्थध्यानभूमिकं हत्वा । एवं यो
यध्यानलाभी, स चतुर्भूमिकेन ; तृतीयचतुर्थभूमिके हित्वा । यस्तु
रागः प्रथमध्यानलाभी वा द्वितीयालाभी, स यद्यनागामिफलं प्राप्नोति,
मिकेनासावनागामिफलेन समन्वागतः अनागम्यध्यानान्तरप्रथमध्यान-
केन । सर्वजघन्योऽपि ह्यनागम्यवश्यमेव त्रिभूमिकेनानागामिफलेन
न्वागत इति वर्णयन्ति । तस्मादपरपक्षापेक्षयैवमुक्तमाचार्येणेति युक्तं
त् ।
एवं तावद् भूयःकामवीतरागाणामिति । भूयोवीतरागाणाम्, कामवीतरागाणां
तत्र भूयोवीतरागो यस्य सप्ताष्टौ वा प्रकाराः पूर्वं लौकिकेन मार्गेण प्रहीणा
यस्य नव प्रकाराः प्रहीणाः, स कामवीतरागः । भूयोवीतरागाणां
गलव्यवस्था "द्वितीयेऽर्वाङ् नवक्षयाद्” (अभि० को० ६.३०) इति
नात्, कामवीतरागाणाम् “कामाद्विरक्तावूर्ध्वं च" इति (अभि० को० ६.३०)
नात् ॥ ३२ ॥
यथैते कामधाताविति ।
“यावत् पञ्चप्रकारघ्नौ द्वितीयेऽर्वाङ् नवक्षयात् ।
कामाद् विरक्तौ” (अभि० को० ६.३०)
इति वचनात् कामधातौ नव प्रकाराः क्लेशा उपदिष्टाः ।

६३६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
फलस्थो यावन्न विशेषाय प्रयुज्यते फलान्तरप्राप्तौ, तावत् प्रतिपन्नको नोच्यते।
एवमन्यत्रापि फले वेदितव्यम्।
यस्तु तृतीयध्यानवीतरागोऽधरां भूमिं निश्रित्य नियाममवक्रामति, सोऽवश्यं
फलविशिष्टं मार्गं सम्मुखीकरोति। अन्यथा हि स तस्मादूर्ध्वोपपन्नः
सुखेन्द्रियेणासमन्वागतः स्यात्।
एवं तावद् भूयः कामवीतरागाणां नियामावक्रान्तौ पुद्गल-
व्यवस्थानम् ॥ ३२ ॥
फलप्रतिपन्नकादिः। प्रथमादिप्र*ारभावनाहेयप्रतिपक्षमार्गो न भाव्यत इत्यर्थः।
यावन्न विशेषाय प्रयुज्यत इति। यापन्नाप्रहीणक्लेशप्रहाणाय फलान्तरप्राप्ति-
निमित्तं प्रयोगं करोति, तावत्प्रतिपन्नको नोच्यते। यदा प्रयुज्यते, तदा प्रतिपन्नक
इत्यर्थादुक्तं भवति।

निर्देशः ] षष्ठं कोशस्थानम् ६३७
आनूपूर्विकं तु वक्तव्यम् । अत इदं तावद् व्यवस्थाप्यते । यथैते कामधातौ
नवप्रकाराः क्लेशा उपदिष्टाः, एवं
नवप्रकारा दोषा हि भूमौ भूमौ,
यावद् भवाग्रे ।
यथा च दोषाः,
समन्वागत इति वचनात् । "यश्चापि सौमनस्येन्द्रियेण समन्वागतः सोऽवश्यं
पञ्चभिः उपेक्षा-जीवित-मनः-सुख-सौमनस्येन्द्रियैः" इत्येवमादिवचनाच्च । अत्र
ब्रूमः—अस्त्येष विभाषायां लिखितपक्षः । स तु न स्थापनापक्षो लक्ष्यते; अपर
आहुरिति वचनात् । यो हि चतुर्थध्यानलाभी षण्णां भूमीनामन्यतमां भूमिं
निश्रित्य नियाममवक्रामति, स षड्भूमिकेनानागामिफलेनानागम्यभूमिकेन
यावच्चतुर्थध्यानभूमिकेन षोडशे चित्ते समन्वागतो भवति; तथा वीतरागत्वात्।
यस्तृतीयध्यानलाभी, स पञ्चभूमिकेन; चतुर्थध्यानभूमिकं हित्वा । एवं यो
द्वितीयध्यानलाभी, स चतुर्भूमिकेन ; तृतीयचतुर्थभूमिके हित्वा । यस्तु
वीतरागः प्रथमध्यानलाभी वा द्वितीयालाभी, स यद्यनागामिफलं प्राप्नोति,
त्रिभूमिकेनासावनागामिफलेन समन्वागतः अनागम्यध्यानान्तरप्रथमध्यान-
भूमिकेन । सर्वजघन्योऽपि ह्यनागम्यावश्यमेव त्रिभूमिकेनानागामिफलेन
समन्वागत इति वर्णयन्ति । तस्मादपरपक्षापेक्षयैवायुुक्तमाचार्येणेति युक्तं
स्यात् ।
एवं तावद् भूयःकामवीतरागाणामिति । भूयोवीतरागाणाम्, कामवीतरागाणां
च । तत्र भूयोवीतरागे यस्य सप्ताष्टौ वा प्रकाराः पूर्वं लौकिकेन मार्गेण प्रहीणा
भवन्ति । यस्य नव प्रकाराः प्रहीणाः, स कामवीतरागः । भूयोवीतरागाणां
पुद्गलव्यवस्था "द्वितीयेऽर्वाङ् नवक्षयाद्" (अभि० को० ६.३०) इति
वचनात् , कामवीतरागाणाम् "कामाद्विरक्तावूर्ध्वं च" इति (अभि० को० ६.३०)
वचनात् ॥ ३२ ॥
यथैते कामधाताविति ।
"यावत् पञ्चप्रकारघ्नौ द्वितीयेऽर्वाङ् नवक्षयात् ।
कामाद् विरक्तौ" (अभि० को० ६.३०)
इति वचनात् कामधातौ नव प्रकाराः क्लेशा उपदिष्टाः ।

सप्तम एवं अष्टम कोशस्थान: ज्ञान-निर्देश, समापत्ति-निर्देश एवं पुद्गल-निराकार उपसंहार

तथा गुणाः ।
तत्प्रतिपक्षा अप्यानन्तर्यविमुक्तिमार्गाख्या गुणा भूमौ भूमौ नवप्रकारा
एव । कथं कृत्वा ?
मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदतः ॥ ३३ ॥
मृदुमध्याधिमात्रा हि त्रयो मूलप्रकाराः । तेषां पुनः प्रत्येकं मृदुमध्याधि-
मात्रत्वेन त्रिविधत्वात् नव व्यवस्थाप्यन्ते । तद्यथा—मृदुमृदुः प्रकारः, मृदुमध्यः,
मृद्वधिमात्रः; मध्यमृदुमध्यमध्यः, मध्याधिमात्रः; अधिमात्रमृदुः, अधिमात्रमध्यः,
अधिमात्राधिमात्रश्चेति । तत्र मृदुमृदुना मार्गेणाधिमात्रस्य क्लेशस्य प्रहाणम् । एवं
यावदधिमात्राधिमात्रेण मृदुमृदोः । आदित एवाधिमात्रमार्गासम्भवादनुत्पन्नाधिमात्र-
मार्गस्य चाधिमात्रक्लेशासम्भवात् । औदारिको हि मलश्चेलात् पूर्वं निर्धूयते,
पश्चात् सूक्ष्मः । औदारिकं च तमः सूक्ष्मेणालोकेन हन्यते, सूक्ष्मं चाधिमात्रेणे-
त्येष दृष्टान्तयोगः । शुक्ला हि धर्मा बलवन्तः, दुर्बलास्तु कृष्णाः । क्षणिकमृदु-
केनाप्यार्यमार्गेणानादिसंसारपरम्पराध्यापिताधिमात्राणां¹ क्लेशानामुन्मूलनात्² ।
सुबहुकालसंवर्द्धितानां³ दोषाणां त्रिवृत्कर्षणनिष्कषर्णवत्⁴, क्षणिकाल्पप्रदीपमहातमोप-
घातवच्च⁵ ॥ ३३ ॥
एवं नवप्रकारेपु क्लेशेषु सर्वत्र—


चेलादिति वस्त्रात् । एष दृष्टान्तयोग इति । दृष्टान्तयुक्तिर्दृष्टान्तयोगः ।
दृष्टान्तप्रकार इत्यपरे । तदेवमनया युक्त्या, अनेन वा प्रकारेणान्योऽपि
दृष्टान्तो वक्तव्य इति सूचयति । अन्यथा ह्येष दृष्टान्त इत्येव ब्रूयात् ।
अनादिसंसार इति । अनादौ संसारे । स्वहेतुपरम्परयाध्यापिता अभिवर्धिताः,
ततश्चाधिमात्रप्रमाणमेतेषामित्यभिप्रायः । तेषां क्लेशानामुन्मूलनात्
प्राप्तिच्छेदातः । मूलसधर्मिण्यो हि प्राप्तयस्तत्प्रबन्धत्वात् क्लेशानाम् । त्रिवृत्कर्ष-
निष्कषणवदिति । यथा त्रिवृत्कर्षेण धरणेन सुबहुकाले संवर्धितानां वातपित्ता-
दीनां दोषाणां निष्कर्षणम्, एवं क्षणिकमृदुकेनाप्यार्यमार्गेण क्लेशानाम् ।
यथा च क्षणिकेनाल्पेन प्रदीपेन महतस्तमसो घातः, तद्वत् क्लेशानामिति ॥ ३३॥


१. ॰पराध्यायिताधि०—का० । २. ॰नामुन्मूलत्वात्—का० ।
३. बहु०—क० । ४. त्रिवृत्कर्षकवत्—का० । ५. ॰घातवच्च—का० ।

निर्देशः ] षष्ठं कोशस्थानम् ६३६
अक्षीणभावनाहेयः फलस्थः सप्तकृत् परः ।
यस्य हि फलस्थस्यैकोऽपि भावनाहेयः प्रकारोऽप्रहीणः, स स्रोतआपन्नः ।
सप्तजन्मानि करोति सप्तकृत् । परः सर्वान्त्यः । न हि सर्वसप्तकृदिति ।
सप्तकृत्वःपरम इति सूत्रपाठः । सप्तकृत्वः परमं जन्म अस्येत्यर्थः ।
प्रकर्षे परमशब्दः । निर्वाणस्रोतो हि मार्गः; तेन तत्र गमनात् । तदसावापन्न
आगतः प्राप्त इति स्रोतआपन्नः ।
कथमापन्नः ? आद्यमार्गलाभाच्चेत्, अष्टमकोऽपि स्यात् ; आद्यफलला-
भाच्चेत्, भूयोवीतरागोऽपि स्यात् । एवं कामवीतरागोऽपि स्यात् । सर्वफल-
प्रापिणमधिकृत्याद्यफललाभात् ।
किं पुनः कारणं स एव, नाष्टमकः ? प्रतिपन्नकफलमार्गलाभात् दर्शन-
सप्तकृत्वः परमं जन्मास्येति । सप्तकृत्वो जन्मप्रकर्षेणा अस्य । नातः
परमित्यर्थः । तेन मार्गेण निर्वाणगमनादित्यर्थः । स्रोतसा हि लोके गम्यते ।
आद्यमार्गलाभाच्चेत् । आद्योऽनास्रवो मार्गो दर्शनमार्गस्तस्य लाभाच्चेत्
स्रोतआपन्नः। अष्टमकोऽपि स्यात् । स्रोतआपत्तिफलप्रतिपन्नकोऽपि स्यादित्यर्थः ।
तथा हि प्रतिलोमक्रमेणार्हत आरभ्याष्टानां पुरुषपुद्गलानामर्हत्प्रतिपन्नकादीनां
स्रोतआपत्तिफलप्रतिपन्नोऽष्टमको भवति श्रद्धानुसारी धर्मानुसारी
वा, तस्याप्याद्यमार्गलाभात् सोऽपि स्रोतआपन्नः स्यात् । आद्यफललाभाच्चेत् ।
अथ मतम्—अपूर्वफलस्य लाभात्स्रोतआपन्न इति । भूयोवीतरागोऽपि स्यात् । यः
प्रहीणषट्क्लेशप्रकारः षोडशे क्षणे सकृदागामी, सोऽपि स्रोतआपन्नः स्यात् ।
तस्याप्यपूर्वफललाभात् । एवं कामवीतरागोऽपि स्यात् । तस्यापि तदाद्यं फलमिति ।
इदानीं परिहार उच्यते—सर्वफलप्रापिणमधिकृत्य आद्यफललाभादिति । सर्व-
फलमिति स्रोतआपत्तिफलादीनि चत्वारि, तत्प्राप्तुं शीलमस्येति सर्वफलप्रापी ।
सर्वफलप्राप्तिरस्यास्तीति वा सर्वफलप्रापी । तमधिकृत्य तमभिसन्धायाऽऽद्यफल-
लाभादपूर्वफललाभात् स्रोतआपन्न उच्यते ।
किं पुनः कारणमिति विस्तरः । कस्मात् स एव स्रोतआपन्न उच्यते,
नाष्टमकः । स चापि ह्यार्यमार्गस्रोतआपन्न इति । प्रतिपन्नकफलमार्गलाभादिति
१-१. कामवीतरागः—का० । २. आशीविष०—का० ।

६४० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
भावनामार्गालाभात् सकलस्रोतोऽभिसमयाच्च मार्गान्वयज्ञाने। स एव तस्मादन्यान्
सप्तोपपत्तिभवान् मनुष्येषु प्रतिसन्दधाति सप्तान्तराभवान्। एवं देवेष्वित्यष्टा-
विंशतिभवान् प्रतिसन्दधाति। सप्तकसामान्यात्तु सप्तकृत्वः परम उक्तः। सप्त-
स्थानकौशल-सप्तपर्णवदिति वैभाषिकाः।
यत्तर्हि सूत्र उक्तम्- "अस्थानमनवकाशो यद् दृष्टिसम्पन्नः पुद्गलोऽष्टमं
भवमभिनिर्वर्तयिष्यति। नेदं स्थानं विद्यते" इति। एकस्यां गतावित्यभिप्रायः।
यथारुतं वा कल्प्यमानेऽन्तराभवोऽपि न स्यात्।
विस्तरः। यस्मात्तेन सर्वफलप्रापिणा प्रतिपन्नकमार्गः पञ्चदशक्षणस्वभावः,
भावनामार्गश्च षोडशक्षणो लब्धः। अष्टमकेन तु प्रतिपन्नकः मार्ग एव लब्ध इति।
इतश्च दर्शनभावनामार्गालाभात्। यस्माच्च तेन दर्शनमार्गश्च स एव भावना-
मार्गश्च स एव लब्धः, अष्टमकेन तु दर्शनमार्ग एवेति। सकलस्रोतोऽभिसम-
याच्च मार्गान्वयज्ञाने। यस्माच्चानेन सकलं स्रोतोऽभिसमितं मार्गान्वयज्ञान-
क्षान्तिकक्षणस्यापि दर्शनान्न त्वष्टमकेन। तस्मादेभिः कारणैः सर्वफलप्राप्येव
स्रोतआपन्न इत्युच्यते नाष्टमकः। प्रकर्षगते हि तथा वचनम्। तद्यथा लोके यः
प्रकर्षेण भासं करोति स भास्कर उच्यते, न खद्योतकः, तद्वत्। तस्मादन्या-
निति। तस्मात् साम्प्रतिकाद् भवादन्यान्। सप्तस्थानकौशलसप्तपर्णवदिति।
यथा रूपकसामान्यात् सप्तस्थानकुशलो भिक्षुरुक्तः सूत्रे। कथम् ? विस्तर-
मुक्त्वाह- "कथं च भिक्षवो भिक्षुः सप्तस्थानकुशलो भवति ? रूपं यथाभूतं
प्रजानाति, रूपसमुदयं रूपनिरोधं रूपनिरोधगा

निर्देशः ] षष्ठं कोशस्थानम् ६४१
एवमप्यूर्ध्वस्रोतसो भवाग्रपरमस्यैकस्यां गतावष्टम उपपत्तिभवो न
प्राप्नोति ? कामधात्वभिसन्धिवचनाददोषः ।
किमत्र ज्ञापकम्—सूत्रम्, युक्तिर्वा ? इह चैव किं ज्ञापकं प्रत्येकं देवमनुष्येषु
सप्तकृत्वो न पुनरुभयेष्वेव सप्तकृत्व इति । एवं हि पठ्यते—"सप्तकृत्वो देवाँश्च
मनुष्याँश्च" इति ? प्रत्येकमपि तु काश्यपीयाः पठन्ति—"सप्तकृत्वो देवान्
सप्तकृत्वो मनुष्यान्" इति । नात्राभिनिवेष्टव्यम् । यश्च मनुष्येषु स्रोतआपन्नो
भवति स तानेवागम्य परिनिर्वाति, यो देवेषु स तानेव ।
भवाभिनिर्वर्तनम् । अन्तराभवास्तु न गण्यन्त इति । यदि अन्तराभवैः सह
सप्तभवा गण्येरन्, जन्मचतुष्टयमेवास्य स्यात् । तदेवानेनानिष्टापत्तिवचनेन
तदात्मीयं व्याख्यानमेकस्यां गताविति समर्थयति ।
इतर आह—एवमप्यूर्ध्व स्रोतस इति विस्तरः । यद्येकस्यां गतावष्टमं भवं
नाभिनिवर्तयतीति व्याख्यापयसि, कथं तर्हि ऊर्ध्वस्रोतसोऽष्टमभवाभिनिर्वृत्तिरे-
कस्यां गतौ भवति, भवाग्रपरमस्येति विशेषणं किमर्थम् ? अकनिष्ठपरमस्यापि
अष्टमभवाभिनिर्वृत्तिः सम्भवति । “स प्लुतोऽर्धप्लुतः सर्वच्युतश्चाग्यो
भवाग्रगः” (अभि० ६.३८) इति वचनात् । स चापि वक्तव्यः, भवप्रकर्षविव-
क्षायां तु भवाग्रपरमग्रहणमित्यभिप्रायं लक्षयामः । कामधात्वभिसन्धिवचनादिति ।
कामधातौ चैका गतिर्मनुष्यगतिः, देवगतिर्वा । तस्यामष्टमभवं नाभिनिर्वर्तयति,
न तु रूपारूप्यधात्वोरिति । किमत्र ज्ञापकम्, सूत्रं युक्तिर्वा । कामधातुमधि-
कृत्येदमुक्तमिति । सूत्रमागमः, युक्तिरनुमानम् । येन चोदकेनैवं चोदितम्—
किमत्र ज्ञापकं सूत्रं युक्तिर्वेति, स एव पुनराह—इह चैव किं ज्ञापकं प्रत्येकं
देवमनुष्येष्विति विस्तरः । प्रत्येकं देवमनुष्येषु सप्तकृत्वः संसृत्येत । न
पुनरुभयेष्वेव देवमनुष्येषु सप्तकृत्व इति । तदुक्तं भवति—यो मनुष्येषु दृष्टसत्यः,
स देवेषु त्रिकृत्वः संसृत्य मनुष्येषु च त्रिकृत्व एव ततो देवानागम्य परिनि-
र्वातीति । यो वा देवेषु दृष्टसत्यः, स तथैव । स मनुष्येषु त्रिकृत्वो देवेषु च
त्रिकृत्व एव संसृत्य ततो मनुष्यानागम्य परिनिर्वातीति । एवं हि पठ्यते—
सप्तकृत्वो देवांश्च देवमनुष्याँश्चेति । सामान्यरूपेण हि पठ्यते । न प्रत्येकमिति
विशिष्य पठ्यत इत्यर्थः । एवं वैभाषिकपक्षे संशायावस्थे कृते आचार्यः समर्थ-
यन्नाह—प्रत्येकमपि तु काश्यपीया इति विस्तरः । काश्यपीया निकायान्तरीयाः ।
त एवं पठन्ति—सप्तकृत्वो देवान् सप्तकृत्वो मनुष्यानिति । एवं प्रत्येकमर्थो
लभ्यते । तदनेनोभयमपि परिहृतं भवति—'यदुक्तम् किमत्र ज्ञापकं सूत्रं युक्तिर्वा

६४२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
किं पुनः कारणमष्टमं भवं नाभिनिर्वर्तयति ? तावता कालेनावश्यं सन्तति-
परिपाकात् । मार्गो हि स तज्जातीयः ; सप्तपदाशीविषद्दष्टवत्, चातुर्थक-
ज्वरवच्च । सप्तसंयोजनावशेषत्वाच्च । द्वे अवरभागीये, पञ्च चोर्ध्वभागीया-
नीति ।
अन्तरेणाप्यार्यमार्गं सम्मुखीकुर्वाणो न परिनिर्वाति; तावद् भववेदनीयस्य
कर्मणो बलाधानात् । असति बुद्धोत्पादगृहस्थ एवार्हत्त्वं प्राप्नोति । अगारं तु
पुनर्नोध्यावसति । धर्मता-प्रतिलम्भिकं तु भिक्षुलिङ्गं प्रतिलभते । अन्याश्रमिकं
लिङ्गेनेत्यपरे ।
कामधातुमधिकृत्येदमुकम्' इति, 'यच्चोक्तम् इव चैव किं ज्ञापकम्— प्रत्येकं
देवमनुष्येषु सप्तकृत्वः' इति । प्रत्येकमर्थपरिग्रहेणैव हि कामधात्वभिसंगतिरपि
[