अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 957, कुल 1258 में से
संदर्भ में पढ़ें६३६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
फलस्थो यावन्न विशेषाय प्रयुज्यते फलान्तरप्राप्तौ, तावत् प्रतिपन्नको नोच्यते ।
एवमन्यत्रापि फले वेदितव्यम् ।
यस्तु तृतीयध्यानवीतरागोऽधरां भूमिं निश्रित्य नियाममवक्रामति, सोऽवश्यं
फलविशिष्टं मार्गं सम्मुखीकरोति । अन्यथा हि स तस्मादूर्ध्वोपपन्नः
सुखेन्द्रियेणासमन्वागतः स्यात् ।
एवं तावद् भूयः कामवीतरागाणां नियामावक्रान्तौ पुद्गल-
व्यवस्थानम् ॥ ३२ ॥
फलप्रतिपन्नकादिः । प्रथमादिप्र=ारभावनाहेयप्रतिपक्षमार्गो न भाव्यत इत्यर्थः ।
यावन्न विशेषाय प्रयुज्यत इति । यावन्नाप्रहीणाक्लेशप्रहाणाय फलान्तरप्राप्ति-
निमित्तं प्रयोगं करोति, तावत्प्रतिपन्नको नोच्यते । यदा प्रयुज्यते, तदा प्रतिपन्नक
इत्यर्थादुक्तं भवति । तदा हि पूर्वप्रहीणक्लेशप्रतिपक्षस्याप्रतिलब्धपूर्वस्य तत्प्रहा-
णस्य चानास्रवा प्राप्तिरुत्पद्यत इति सिद्धान्तः । एवमन्यत्रापि फले वेदितव्यमिति ।
षोडशे चित्ते स्रोतआपन्न एवोच्यत इति