अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 961, कुल 1258 में से
संदर्भ में पढ़ेंतथा गुणाः ।
तत्प्रतिपक्षा अप्यानन्तर्यविमुक्तिमार्गाख्या गुणा भूमौ भूमौ नवप्रकारा
एव । कथं कृत्वा ?
मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदतः ॥ ३३ ॥
मृदुमध्याधिमात्रा हि त्रयो मूलप्रकाराः । तेषां पुनः प्रत्येकं मृदुमध्याधि-
मात्रत्वेन त्रिविधत्वात् नव व्यवस्थाप्यन्ते । तद्यथा—मृदुमृदुः प्रकारः, मृदुमध्यः,
मृद्वधिमात्रः; मध्यमृदुमध्यमध्यः, मध्याधिमात्रः; अधिमात्रमृदुः, अधिमात्रमध्यः,
अधिमात्राधिमात्रश्चेति । तत्र मृदुमृदुना मार्गेणाधिमात्रस्य क्लेशस्य प्रहाणम् । एवं
यावदधिमात्राधिमात्रेण मृदुमृदोः । आदित एवाधिमात्रमार्गासम्भवादनुत्पन्नाधिमात्र-
मार्गस्य चाधिमात्रक्लेशासम्भवात् । औदारिको हि मलश्चेलात् पूर्वं निर्धूयते,
पश्चात् सूक्ष्मः । औदारिकं च तमः सूक्ष्मेणालोकेन हन्यते, सूक्ष्मं चाधिमात्रेणे-
त्येष दृष्टान्तयोगः । शुक्ला हि धर्मा बलवन्तः, दुर्बलास्तु कृष्णाः । क्षणिकमृदु-
केनाप्यार्यमार्गेणानादिसंसारपरम्पराध्यापिताधिमात्राणां¹ क्लेशानामुन्मूलनात्² ।
सुबहुकालसंवर्द्धितानां³ दोषाणां त्रिवृत्कर्षणनिष्कषर्णवत्⁴, क्षणिकाल्पप्रदीपमहातमोप-
घातवच्च⁵ ॥ ३३ ॥
एवं नवप्रकारेपु क्लेशेषु सर्वत्र—
चेलादिति वस्त्रात् । एष दृष्टान्तयोग इति । दृष्टान्तयुक्तिर्दृष्टान्तयोगः ।
दृष्टान्तप्रकार इत्यपरे । तदेवमनया युक्त्या, अनेन वा प्रकारेणान्योऽपि
दृष्टान्तो वक्तव्य इति सूचयति । अन्यथा ह्येष दृष्टान्त इत्येव ब्रूयात् ।
अनादिसंसार इति । अनादौ संसारे । स्वहेतुपरम्परयाध्यापिता अभिवर्धिताः,
ततश्चाधिमात्रप्रमाणमेतेषामित्यभिप्रायः । तेषां क्लेशानामुन्मूलनात्
प्राप्तिच्छेदातः । मूलसधर्मिण्यो हि प्राप्तयस्तत्प्रबन्धत्वात् क्लेशानाम् । त्रिवृत्कर्ष-
निष्कषणवदिति । यथा त्रिवृत्कर्षेण धरणेन सुबहुकाले संवर्धितानां वातपित्ता-
दीनां दोषाणां निष्कर्षणम्, एवं क्षणिकमृदुकेनाप्यार्यमार्गेण क्लेशानाम् ।
यथा च क्षणिकेनाल्पेन प्रदीपेन महतस्तमसो घातः, तद्वत् क्लेशानामिति ॥ ३३॥
१. ॰पराध्यायिताधि०—का० । २. ॰नामुन्मूलत्वात्—का० ।
३. बहु०—क० । ४. त्रिवृत्कर्षकवत्—का० । ५. ॰घातवच्च—का० ।