अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 955, कुल 1258 में से
संदर्भ में पढ़ें६३४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
द्वितीयेऽर्वाङ्नवक्षयात् ।
द्वितीयनिमित्तं द्वितीये । यदि तयोस्तस्मात् परेण षट् सप्ताष्टौ वा प्रकाराः
पूर्वं प्रहीणा भवन्ति, तौ¹ द्वितीयफलप्रतिपन्नकावुच्येते ।
कतमच्च द्वितीयम् ? सकृदागामिफलम् ।
कामाद् विरक्तावूर्ध्वं वा तृतीयप्रतिपन्नकौ ॥ ३० ॥
यदि पुनर्नवमस्यापि प्रकारस्य प्रहाणा , कामधातोर्वीतरागौ भवत ऊर्ध्वं
च² यावदाकिञ्चन्यायतनात्, तौ तृतीयप्रतिपन्नकावुच्येते ।
कतमच्च तृतीयम् ? अनागामिफलम् ॥ ३० ॥
षोडशे तु फलस्थौ तौ यत्र यः प्रतिपन्नकः ।
षोडशे तु चित्त उत्पन्ने तौ न-पुनः श्रद्धाधर्मानुसारिणावुच्येते । नापि
प्रतिपन्नकौ । किं तर्हि ? फलस्थौ । यत्र फले यः प्रतिपन्नको भूतः स तदानीं
तत्र फलस्थितो भवति । स्रोतआपत्तिफले, सकृदागामिफले वा, अनागामिफले वा ।
अर्हत्त्वं तु न शक्यमादितः प्राप्तुम् ; दर्शनमार्गेण भावनाहेयाप्रहाणात्³ । पूर्वं
च भवाग्रवैराग्यासम्भवात् ।
“द्वितीयेऽर्वाङ् नवक्षयाद्” इति । द्वितीये इति । द्वितीयनिमित्तमित्यर्थः ।
‘चर्मणि द्वीपनं हन्ति’ इति यथा । अर्वाङ् नवक्षयात् नवप्रकारप्रहाणादधरतः
नवप्रकारप्रहाणपरिहारेणार्थादुक्तं भवति ।
यदि तयोः पुद्गलयोस्तस्मात् पञ्चप्रकारप्रहाणात् परेण षट् सप्ताष्टौ वा
प्रकाराः पूर्वं लौकिकेन मार्गेण प्रहीणा भवन्ति । तौ द्वितीयफलप्रतिपन्नकाविति ।
द्वितीय इति वचनात्, प्रतिपन्नकाविति चाधिकारात्' पदार्थव्यवस्था
लभ्यते ।
ऊर्ध्वं चेति । प्रथमध्यानवीतरागौ । यावदाकिञ्चन्यायतनाद्वीतरागौ ॥ ३० ॥
अर्हत्त्वं तु न शक्यमादितः प्राप्तुमिति । अनागामिफलमप्राप्यादित
एवार्हत्त्वं प्राप्तुं न शक्यते । कस्मादित्याह– भावनाहेयाप्रहाणात् । न हि दर्शन-
१. द्वौ तौ—का० । २. वा—का० । ३. ॰हेयानामप्रहाणात्—का० ।