सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 953, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 953

९३२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
अपरिहाणिस्तु दर्शनहेयक्लेशप्रहाणसन्धारणात् ।
अत एव दर्शनमार्ग इति चेत् ? न; अतिप्रसङ्गात् । सप्त ज्ञानानि
कस्माद्दर्शनमार्गः ? दर्शनस्यासमाप्तत्वात् । न हि सर्वं सत्यदर्शनं समाप्तमिति
तदन्तरालत्वाच्चान्यपि दर्शनमार्गः ॥२८॥
उक्तं यथा दर्शनमार्गो भावनामार्गश्चोत्पद्यते ॥
अथेदानीमुत्पन्नार्यमार्गाणां¹ पुद्गलानां व्यवस्थां तथा वक्ष्यामः—
य एते दर्शनमार्गस्वभावाः पञ्चदशक्षणा² उक्ताः, वेदितव्यौ
अपरिहाणिस्त्विति विस्तरः । यस्माद् दर्शनहेयानां क्लेशानां प्रहाणं मार्गान्वय-
ज्ञानेनाधारप्रतिपक्षेण सन्धार्यते । यदि च तस्मात् फलमार्गात् षोडशात् क्षणात्
परिहाणिः स्यात्, स्रोतआपत्तिफलात् परिहाणिः स्यात् । न च स्रोतआपत्ति-
फलात् परिहाणिरित्यतो न तस्मात् परिहीयते ।
इतर आह—अत एवेति । किमयमपरिहाणिहेतुरेवोच्यते ? वयमप्ये-
तमर्थमभिदध्महे, किमयुपलब्धिसममिति चोत्तरमुद्ग्राह्यते । आचार्य
आह—अत एव दर्शनमार्ग इति चेत् । यदि मन्यसे—यत एव दर्शनहेयप्रहाण-
सन्धारणं मार्गान्वयज्ञानेन, अत एव दर्शनमार्ग इति । तन्न । अतिप्रसङ्गात् ।
यदि मार्गान्वयज्ञानेन दर्शनहेयप्रहाणसन्धारणमित्यतो दर्शनमार्गः स्यात्,
एवं सत्यतिप्रसङ्गः स्यात् । तस्मान्मार्गान्वयज्ञानात् परेण सर्वेण भावनामार्गेण
दर्शनहेयप्रहाणसन्धारणमिति सर्वं एव दर्शनमार्गः स्यात् । अनिष्टं चैतत् ।
षोडश एव हि क्षणो दर्शनमार्गो भवद्भिरिष्यते, न सप्तदशाष्टदश इत्यादिकः
क्षणः प्रवाहान्यायेनोत्पद्यते । द्वितीये तृतीये वा दिवसे य उत्पद्यते तज्जातीयो
विशेषमार्गसंगृहीतः । तन्नास्ति । ततोऽपि हि नास्ति परिहाणिः । तदेवं
सत्यावश्यकापरिहाणित्वं यो हेतुरुक्तः, सोऽनैकान्तिक इति दर्शितं भवति ।
तदनैकान्तिकत्वाच्चाप्रतिसाधनं तत् । न पूर्वपक्षदूषणं चेति । आह—सप्त
ज्ञानानि दुःखे धर्मज्ञानं यावन्मार्गे धर्मज्ञानं कस्माद् दर्शनमार्गो न पुनरष्टमं
मार्गेऽन्वयज्ञानमित्यभिप्रायः । दर्शनस्यासमाप्तत्वादिति । मार्गान्वयज्ञानक्षान्तौ
दर्शनं समाप्तम्; सर्वेषां सत्यानां तदानीं दृष्टत्वात् । दुःखे धर्मज्ञान उत्पन्ने
यद्यपि कामावचरं दुःखं दृष्टम्, रूपारूप्यावचरदुःखादि तु न तावद् दृष्टम् ।
एवं यावन् मार्गे धर्मज्ञान उत्पन्ने रूपारूप्यप्रतिपक्षो न तावद् दृष्ट इति ।
१. यथेदानो०—का० । २. पञ्चादश०—का० ।