सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

निर्देशः ] षष्ठं कोशस्थानम् ६०७
एवं कायाद्यालम्बनानि स्मृत्युपस्थानान्यभ्यस्य
स धर्मस्मृत्युपस्थाने समस्तालम्बने स्थितः ।
अनित्यदुःखतः शून्यानात्मतस्तान् विपश्यति ॥ १६ ॥
सम्भिन्नालम्बने धर्मस्मृत्युपस्थाने स्थितस्तान् कायादीन् सर्वानभिसमस्य
चतुर्भिराकारैः पश्यति—अनित्यतः, दुःखतः, शून्यतः, अनात्मतश्च ॥ १६ ॥
तत ऊष्मगतोत्पत्तिः,
तस्माद्धर्मस्मृत्युपस्थानादेवमभ्यस्तात् क्रमेणोष्मगतं नाम कुशलमूलमुत्पद्यते ।
ऊष्मगतमिवोष्मगतम् ; क्लेशेन्धनदहनस्यार्यमार्गाग्नेः पूर्वरूपत्वात् ।
तच्चतुःसत्यगोचरम् ।
तदूष्मगतं प्राकर्षिकत्वाच्चतुःसत्यालम्बनम् ।
षोडशाकारम्,
दुःखं चतुर्भिराकारैः पश्यति-- अनित्यतः, दुःखतः, शून्यतः, अनात्मतश्च ।
समुदयं चतुर्भिः--हेतुतः, समुदयतः, प्रभवतः, प्रत्ययतश्च । निरोधं चतुर्भिः--
निरोधतः, शान्ततः, प्रणीततः, निःसरणतश्च । मार्गं चतुर्भिः--मार्गतः, न्यायतः,
प्रतिपत्तितः, नैर्याणिकतश्च । एषां तु विशेषणं पश्चाद् वक्ष्यामः ।
ऊष्मभ्यो मूर्द्धानः,
मृदुमध्याधिमात्रक्रमाभिवृद्धेभ्य ऊष्मभ्यो मूर्द्धान उत्पद्यन्ते ।
तेऽपि तादृशाः ॥ १७ ॥
द्वे पश्यति धर्मस्मृत्युपस्थानम्, तत् संभिन्नालम्बनम् । यदि कायं यावद्ध-
र्माश्च पश्यति, तदपि तथैव । यदपि कायं वेदनां चित्तं धर्मांश्च समस्तान्
पश्यति, तदपि सम्भिन्नालम्बनं धर्मस्मृत्युपस्थानमिति ॥ १५ ॥
“समस्तालम्बने स्थितः” इति । कायवेदनाचित्तधर्मानभिसमस्य ॥ १६॥
ऊष्मगतमिति । ऊष्मप्रकारं कुशलमूलम् । पूर्व रूपत्वादिति । प्रथमनिमित्त-
त्वात् । पूर्वस्वभावत्वाद्वा ।
प्राकर्षिकत्वादिति । प्राबन्धकत्वादित्यर्थः ।
एषां तु विशेषणं पश्चाद्वक्ष्याम इति । सप्तमे कोशस्थाने “द्रव्यतः षोडशा-
काराः” (अभि० को० ७.१३) इत्यर्थः ।

६०८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
यादृशा ऊष्माणश्चतुःसत्यालम्बनाः षोडशाकाराश्च । उत्कृष्टतरत्वात्तु
नामान्तरम् । चलकुशलमूलमूर्धत्वात् मूर्धानः । एभ्यो हि पातः, अतिक्रमो
वा ॥ १७ ॥
उभयाकरणं धर्मेण,
एषां पुनरुभयेषामूष्मगतमूर्ध्नां धर्मस्मृत्युपस्थानेनाकरणम् ।
किमिदमाकरणम् ? सत्येष्वाकाराणां प्रथयतो विन्यसनम् ।
अन्यैरपि तु वर्धनम् ।
चतुर्भिरपि स्मृत्युपस्थानैरेषां वर्धनम् । विवर्धयतः पूर्वप्रतिलब्धानामसम्मुखी-
भावः; अवहुमानात् १ ।
मृदुमध्याधिमात्रक्रमाभिवृद्धेभ्यः पुनरुत्पद्यते
तेभ्यः क्षान्तिः,
यदि तेऽपि तादृशाः, अथ किमर्थमुपदिश्यन्ते ? इत्यत आह—उत्कृष्टतर-
त्वात्तु नामान्तरमिति । अथ कस्मान्मूर्धान इत्युच्यन्ते ? इत्याह—चलकुशल-
मूलमूर्धत्वादिति । मूर्धशब्दोऽयं प्रकर्षपर्यन्तवाची । तथा हि लोके वक्तारो
भवन्ति—'मूर्धगता खल्वस्य श्रीः' इति । द्वे हि कुशलमूले चले उष्मगतमूर्धलक्षणे;
परिहाणिसम्भवात् । द्वे अचले क्षान्तिलौकिकाग्रधर्मलक्षणे; विपर्ययात् । तत्र
तयोर्यन्मृदु, तदूष्मगतम् । यदधिमात्रम्, ते मूर्धानः । अचलयोरपि यन्मृदु
सा क्षान्तिः । यदधिमात्रम् ते लौकिकाग्रधर्माः । एभ्यो हि पातोऽतिक्रमो
वेति । मूर्ध्नां चलत्वात् । वृक्षादिमूर्धभ्यो हि लोके पातो वा भवेद्, अतिपातो
वा । उपरिष्ठानुप्रप्तिरिति मूर्धसाधर्म्यम् ॥ १७ ॥
सत्येष्वाकाराणां प्रथयतो विन्यसनमिति । सत्येष्वनित्याद्याकाराणामादित
उपनिपातनम् । तदालम्बनानां प्रवर्त्तनमित्यर्थः ।
"अन्यैरपि" इति । धर्मस्मृत्युपस्थानादन्यैरपीत्यर्थः । "वर्धनम्" । अभ्या-
सेनोत्तप्तीकरणम् ।
विवर्धयत इति विस्तरः । विवर्धयतो योगिनो वर्धनेन विशिष्टानां कुशल-
मूलानां सम्मुखीभावः । पूर्वप्रतिलब्धानामिति । अविशिष्टानामसम्मुखीभावः ।
१. अबहुमानत्वात्—का० ।

अधिमात्रसत्यक्षमणादपरिहाणितः¹। साऽपि त्रिप्रकारा—मृद्वी, मध्या,
अधिमात्रा च ।
द्विधा तद्वत्,
यथा मूर्द्धान उक्ताः, एवं मृदुमध्ये क्षान्ती ; तथैवाकरणात् ।
विवर्धने त्वयं विशेषः—सर्वस्याः
क्षान्त्या धर्मेण वर्धनम् ॥ १८ ॥
स्मृत्युपस्थानेनैव, नान्येन ॥ १८ ॥
कामाप्तदुःखविषया त्वधिमात्रा,
'क्षान्तिः' इति वर्तते । अग्रधर्मश्लेषादसौ² कामावचरदुःखालम्बनैव । अत
एवोष्मगतादीनां त्रैधातुकदुःखाद्यालम्बनत्वसिद्धिः; नियमावचनात् ।
कस्मात् ? अबहुमानात् । न्यूनत्वेनाबहुमानादित्यर्थः । अधिमात्रसत्यक्षमणादिति ।
ऊष्मगतावस्थायां मृदु सत्यं क्षमते रोचते । मूर्धावस्थायां मध्यम् । तदनन्तर-
मिदानीमधिमात्रसत्यक्षमणात्क्षान्तिरुत्पद्यते । कथम् ? इत्यत आह—अपरिहाणित
[L

६१० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [मार्गपुद्गल-
यदा किल रूपारूप्यप्रतिपक्षादीनामेकैकसत्याकारालम्बनापहासेन¹ यावत्
कामावचरमेव दुःखं द्वाभ्यां क्षणाभ्यां मनसि करोति, एषा सर्वैव मध्या
क्षान्तिः। यदैकमेव क्षणम्, तदधिमात्रेति ।
यदा किलेति विस्तरः। यदा किल रूपारूप्यप्रतिपक्षादीनाम्। आदि-
शब्देन रूपारूप्यनिरोधसमुदयदुःखानां कामावचरप्रतिपक्षादीनां च ग्रहणम्।
एकैकसत्याकारालम्बनापहासेन। एकैकस्य सत्याकारस्य एकैकस्य सत्यालम्बनस्य
चापहासेन यावत् कामावचरमेव दुःखं द्वाभ्यां क्षणाभ्यां मनसिकरोति। एषा
सर्वैव रूपारूप्यप्रतिपक्षाकारहासात् प्रभृति मध्या क्षान्तिः। कथम्? अन्वय-
ज्ञानपक्षं तावन्मार्गं मार्गतो न्यायतः प्रतिपत्तितो नैर्याणिकतश्चेति तैश्चतुर्भीरा-
कारैराकारयति । ततस्त्रिभिरेकं हित्वा । ततो द्वाभ्यां द्वौ हित्वा । तत एकेन ।
ततो मार्गसत्यं हित्वा । रूपारूप्यनिरोधं चतुर्भिः स्वैराकारैराकारयति,
ततस्त्रिभिः द्वाभ्यामेकेनैव चाकार्य निरोधसत्यं चापास्य । समुदयसत्यं
चतुर्भिः स्वैराकारैः, त्रिभिः द्वाभ्यामेकेन चाकार्य, तथैव तदपास्य । दुःख-
सत्यं स्वैराकारैर्यावदेकेनाकार्य । तदपि सत्यमपास्य । कामावचरप्रतिपक्षं
स्वैश्चतुर्भीराकारैः त्रिभिः द्वाभ्यामेकेन चाकारयति, तदपास्य । कामावचर-
निरोधसमुदयसत्ये तथैव स्वाकारहासक्रमेणाकार्यापास्य च । कामावचरं
दुःखसत्यं चतुर्भीराकारैराकारयति, ततस्त्रिभिः, ततो द्वाभ्यामाकारयतीति ।
एवं हि हासारम्भात् प्रभृति सर्व एते क्षणा मध्या क्षान्तिरित्युक्तं भवति ।
तृतीये क्षणे तदालम्बनैवाधिमात्रा क्षान्तिः । चतुर्थे अग्रधर्मास्तदालम्बना एव ।
मृद्वी तु क्षान्तिर्या पुरस्तादधिमात्रेभ्यो मूर्धभ्योऽनन्तरं कामावचरं दुःखसत्यं
यावन्मार्गसत्यम् । रूपारूप्यावचरं च । स्वैः स्वैः सर्वैराकारैरनपहासं
मनसिकुर्वत इत्यवगन्तव्यम् ।
एवं तावदेके व्याचक्षते—आकारापहासपूर्वक आलम्बनापहास इति ।
अपरे पुनर्व्याचक्षते—एकैकसत्याकारालम्बनापहासेनेति । नैवं ग्रहीत-
व्यम्- एकैकसत्याकारापहासेनैकैकालम्बनापहासेन चेति । किं तर्हि ? रूपा-
रूप्यप्रतिपक्षादीनामेकैकैषां सत्यानां ये आकाराः, तेषाम् आलम्बनहासेनेति
व्याख्यातव्यमिति ।
एकान्नत्रिंशत्क्षणशतं मध्या क्षान्तिरिति वर्णयन्ति । आकारापहासपूर्वके
ह्यालम्बनापहासे सति अतिबहवश्चित्तक्षणा विसर्पन्ति । न चैतन्न्याय्यम् ।
१. ०पक्षादधेकैकसत्याल०—का* ।

निर्देशः ] षष्ठं कोशस्थानम् ६११
क्षणं च सा ।
क्षणिका चासौ, न प्राकर्षिकी ।
तथाग्रधर्माः,
न हि सत्येषु विद्यमानेषु आकारत्यागो युज्यते । यदा तु सत्यानि त्यक्तानि
भवन्ति, तदाकारत्याग इति युक्तम् । एवं च सति पूर्वं सत्यालम्बनह्रासं
करोति, पश्चादाकारह्रासम् । न हि मौले विषयेऽनपाकृते तदालम्बनापाकरणं
न्याय्यम् । समाहितासमाहितदुःख-समुदय-निरोध-मार्गा अष्टौ व्यवस्था-
प्यन्ते । एषामाकारा द्वात्रिंशद्भवन्तीत्येतदधुना न्यायान्तरमुपदिश्यते । कथं
कृत्वा ? यदा कामावचरं दुःखं चतुर्भिराकारैर्मनसिकरोति, एवं यावद्रूपारूप्या-
वचराणां प्रतिपक्षं चतुर्भिराकारैर्मनसिकरोतीयं मृद्वी क्षान्तिः । यदा पुनः
कामावचरदुःखं चतुर्भिराकारैर्मनसिकरोतीत्येवं यावत् कामावचराणां संस्काराणां
प्रतिपक्षं मनसिकरोति चतुभिराकारैः । रूपारूप्यावचराणां संस्काराणां
प्रतिपक्षं परित्यजतः प्रभृति मध्या क्षान्तिरारब्धा । तत्र च रूपारूप्यावचर-
प्रतिपक्षपरित्यागेऽष्टाविंशतिश्चित्तक्षणा भवन्ति । कामावचरसंस्कारप्रतिपक्ष-
परित्यागे चतुर्विंशतिः । रूपारूप्यावचरसंस्कारनिरोधपरित्यागे विंशतिः ।
कामावचरनिरोधपरित्यागे षोडश । रूपारूप्यावचरसमुदयपरित्यागे द्वादश ।
कामावचरसमुदयपरित्यागेऽष्टौ । रूपारूप्यावचरदुःखपरित्यागे चत्वारः ।
कामावचरं दुःखं चतुर्भिराकारैर्मनसिकरोति । तस्य भवन्त्याकाराश्चत्वारः । स
च योगाचारो द्विविधः—दृष्टिचरित, तृष्णाचरितश्च । दृष्टिचरितोऽपि
द्विविधः, आत्मदृष्टिचरितः, आत्मीयदृष्टिचरितश्च । यो ह्यात्मदृष्टिचरितो भवति,
सोऽनात्माकारेण नियाममवक्रामति । यस्त्वात्मीयदृष्टिचरितः, स शून्या-
कारेण । तृष्णाचरितोऽपि द्विविधः—अस्मिमानोपहतः, कौसीद्याधिकश्च ।
तत्र योऽस्मिमानोपहतः, सोऽनित्याकारेण नियाममवक्रामति । यः कौसीद्या-
धिकः, स दुःखाकारेण । तत्रात्मदृष्टिचरितो योगाचारः पुनस्तत्कामावचरं दुःखं
त्रिभिराकारैर्मनसिकरोति, एकमाकारं हित्वा । ततो द्वाभ्यामनात्मशून्यताकारा-
भ्याम् । तत एकमनात्माकारं द्विः संमुखीकरोति । दुःखधर्मज्ञानक्षान्ति-
दुःखधर्मज्ञानसदृशमिति । एषा मध्या क्षान्तिरित्येवमेकान्नविंशं चित्तशतं
भवति । एवमात्मीयाधिमुक्तस्य तु शून्यानात्माकाराभ्यामाकारयतः शून्याकारं
द्विः संमुखीकरोति । एषास्य मध्या क्षान्तिः । एवमेकान्नविंशक्षणशतम् ।
एवं तृष्णाचरितो द्विप्रकारः—अस्मिमानोपहतः, कौसीद्याधिकश्च वक्तव्य इति ।
अधिमात्रा तु क्षान्तिरेकमेव क्षणम् । सा यथापुद्गलं चरितमनित्याकारेण
वा दुःखाकारेण वा शून्याकारेण वा अनात्माकारेण वा सम्प्रयुक्तेति ।

६१२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
यथैवाधिमात्रा क्षान्तिः। तेऽपि हि कामावचरदुःखालम्बनाः क्षणिकाश्च
लौकिकाश्चैतेऽप्याश्च धर्माः सर्वलौकिकश्रेष्ठत्वादिति लौकिकाग्रधर्माः। विना
सभागहेतुना मार्गस्य तत्पुरुषकारेण¹ मार्गाकर्षणात्। त एत ऊष्मगतादय स्मृत्युप-
स्थानस्वभावत्वात् प्रज्ञात्मका उच्यन्ते।
सर्वे तु पञ्चस्कन्धाः,
सपरिवारग्रहणात्।
विनाप्तिभिः ।। १९ ।।
प्राप्तयो नोष्मगतादिभिः संगृह्यन्ते। मा भूदार्यस्य तत्सम्मुखीभावादूष्म-
गतादीनां सम्मुखीभाव इति।
तत्र त्रिसत्यालम्बनोष्मगताकरणे धर्मस्मृत्युपस्थानं प्रत्युत्पन्नमनागतानि
चत्वारि भाव्यन्ते। निरोधसत्यालम्बने तदेवोभयथा। सर्वत्राकाराः सभागाः।
अथ किमर्थमेकैकसत्याकारालम्बनह्रासः क्रियते ? पूर्वं हि तेन त्रैधातुकं
विदूषयता समस्तः प्रतिपक्ष आलम्बितः। पश्चात् कामधातोः पूर्वं प्रहेयपरिज्ञेय-
त्वात् कामावचर एव दुःखेऽवतिष्ठत इति। तत्पुरुषकारेण मार्गाकर्षणादिति।
विना सभागहेतुना। पूर्वस्यानास्रवस्थाभावात्। लौकिकाग्रधर्मपुरुषकारेण
मार्गसत्यस्याकर्षणात्। सर्वलौकिकश्रेष्ठत्वमग्रधर्माणां गम्यते।
सर्वे तु पञ्चस्कन्धाः सपरिवारग्रहणादिति। समाहितभूमिकत्वादूष्मगता-
दीनामविज्ञप्तिलक्षणो रूपस्कन्धोऽस्तीति पञ्च स्कन्धा ऊष्मगतादयः सपरिवार-
ग्रहणात् सपरिवारा गृह्यन्ते इति।
मा भूदार्यस्येति। प्राप्तिसम्मुखीभावादार्यपुद्गलस्योष्मगतादीनां फलप्राप्ति-
प्रयोगभूतानां सम्मुखीभावो मा भूदिति प्राप्तयो नोष्मगतादिषु गृह्यन्ते। न हि
प्राप्तप्रयोगफलस्यार्यस्य प्रयोगसम्मुखीकरणं न्याय्यमिति।
त्रिसत्यालम्बनोष्मगताकरण इति। दुःखसमुदयमार्गालम्बनोष्मगताकरणे।
धर्मस्मृत्युपस्थानं प्रत्युत्पन्नम्। यत्नजन्यस्य कार्यस्याकरणे समस्तालम्बत्वेन
धर्मस्मृत्युपस्थानस्यैव समर्थत्वात्। प्रतिनियतालम्बनत्वेन हि कायस्मृत्यु-
१-१. ०कारेणाकर्षणात्—का०।

? No, it's 'दृ'! Wait, look at 'दृ' in 'सदृशा':
Ah, in this font, 'दृ' has a round back and a tail curling down. Wait, compare with 'ह' in 'गृह्यन्ते' (line 10): 'ह्य'.
Compare with 'दृ' in other words if any. No, wait, look at "सहशा":
Wait, is the third letter 'शा' or 'श'?
It's "सदृशा एवाकारा"! Wait, is the second letter 'ह' or 'दृ'?
Look at the circle: it looks like 'ह' without the lower hook, or is it 'दृ'? Wait, look at 'सदृशा' vs 'सहशा'. "सदृशा एवाकारा भाव्यन्ते" makes complete sense in Sanskrit: "सदृशा एवाकारा भाव्यन्ते" (similar aspects are cultivated). But does the print say 'सदृशा' or 'सहशा'?
Wait! Look at the letter: it has a top horizontal, small vertical, then an 'S' shape like 'ड' or 'ह'?
Wait, look at "सहशा" - look at the letter 'ह' in 'तदेवोभयथेति' (no ह), 'गृह्यन्ते' (line 10).
Look at 'ह' in 'लब्धत्वात् गोत्राणां सम्भवतश्चतुः...' (line 21): 'सम्भवतः' has भ.
Look

६१४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
अग्रधर्मेष्वन्त्यमनागतानि चत्वारि, आकाराश्चत्वार एव; अन्याभावाद्
दर्शनमार्गसादृश्याच्च ॥ १९ ॥
इति निर्वेधभागीयं चतुर्धा,
इत्येतानि चत्वारि निर्वेधभागीयानि कुशलमूलानि यदुतोष्मगतं मूर्धानः
क्षान्तयोऽग्रधर्माश्च । एषां द्वे मृदुनी चलत्वात् परिहाणितः क्षान्तयो मध्यमग्रधर्मा
अधिमात्रम् ।
निर्वेधभागीयानीति कोऽर्थः ? "विध विभागे" । निश्चितो वेधो
निर्वेधः आर्यमार्गः, तेन विचिकित्साप्रहाणात्, सत्यानां च विभजनादिदं
दुःखमयं यावत् मार्ग इति । तस्य भागो दर्शनमार्गैकदेशः । तस्यावाहकत्वेन
हितत्वान्निर्वेधभागीयानि ।
अग्रधर्मेष्वन्त्यमिति । अग्रधर्मेषु सम्मुखीक्रियमाणेष्वन्त्यं धर्मस्मृत्युपस्थानं
प्रत्युत्पन्नम् । अनागतानि चत्वारि अनुत्पत्तिधर्माण्येव प्राप्यन्ते । आकाराश्चत्वार
एवेति । अनित्यदुःखशून्यानात्माकाराः । अन्याभावादिति । यस्मादन्यसमुदया-
द्याकारा अग्रधर्मा न सन्ति; दुःखमात्रालम्बनत्वात् । यथा तर्ह्यग्रधर्मस्वभाव-
कायस्मृत्युपस्थानाद्यसम्मुखीभावेऽप्यग्रधर्मसमुदाचारावस्थायामनागतानि काय-
स्मृत्युपस्थानादीनि भाव्यन्ते; एवमग्रधर्मस्वभावसमुदयाद्याकारा अनागता
भाव्यन्त इति किं नेष्यते ? इत्यतः पुनराह-दर्शनमार्गसादृश्याच्चेति ।
दुःखाकारा एव चत्वारो भाव्यन्ते । कस्मात् ? दर्शनमार्गसादृश्यात् । दर्शनमार्गे
हि यस्य सत्यस्य दर्शनं भवति, तदाकारा एव भाव्यन्ते । दर्शनमार्गसदृश्या
ह्यग्रधर्माः, किं पुनरेषां दर्शनमार्गेण सादृश्यमनुश्लेषात् । तथैव प्रथमतः कामा-
वचरदुःखालम्बनत्वं तुल्यभूमिकत्वं वा । तथा हि दर्शनमार्गमधिकृत्य वक्ष्यति-
“सोऽग्रधर्मैकभूमिकः” (अभि० को० ६.२७) इति । यद्वा—पृथग्ज...
घाताया दुःखधर्मज्ञानक्षान्तेरानन्तर्यमार्गभूता अग्रधर्मा भवन्ति, तदेषां दर्शन-
मार्गेण सादृश्यम् । सदृशा ह्यानन्तर्यमार्गा विमुक्तिमार्गैरिति ॥ १९ ॥
विध विभाग इति विस्तरः । तस्य धातोरेतद् यनि (घञि?) रूपम् । निश्चित
इति । निःशब्दस्यार्थं दर्शयति । कथं पुनर्निंश्चितो वेधः ? इत्याह—तेन
विचिकित्साप्रहाणान्निश्चितः । सत्यानां च विभजनात् । इदं दुःखमयं यावन्मार्ग
इति । निर्वेध आर्यमार्गः । तस्य भागो दर्शनमार्गैकदेशः । तस्यावाहकत्वेनाक-

निर्देशः ] षष्ठं कोशस्थानम् ६१५
तच्चैतच्चतुर्विधमपि निर्वेधभागीयम्
भावनामयम् ।
न श्रुतचिन्तामयम् ।
अनागम्यान्तरध्यानभूमिकम्,
अनागम्यं ध्यानान्तरं चत्वारि च ध्यानान्यस्य भूमिः; तत्संगृहीतत्वात् ।
नोर्ध्वम् ; दर्शनमार्गपरिवारत्वात् । तदभावः कामधात्वालम्बनत्वात् । तस्य¹ पूर्वपरि-
ज्ञेयप्रहेयत्वात् । तेषां रूपधातौ पञ्चस्कन्धको विपाकः। परिपूरकाण्येव²
नाक्षेपकाणि; भवद्वेषित्वात् ।
द्वे त्वधोऽपि वा ॥ २० ॥
वाशब्दो मतविकल्पार्थः । भदन्तघोषकस्य तु द्वे प्रथमे निर्वेधभागीये
सप्तभूमिके कामावचरे अपि तः ॥ २० ॥
र्धकत्वेन हितत्वात् “तस्मै हितम्” (पा० सू० ५.१.५) इति छः । तेन निर्वेधभा-
गीयमिति भवति ।
“अनागम्यान्तरध्यानभूमिकम्” इति । अनागम्यं चान्तरं च ध्यानानि च
भूमयोऽस्येत्यनागम्यान्तरध्यानभूमिकम् ।
नोर्ध्वमिति । नारूप्येषु निर्वेधभागीयमस्ति । दर्शनमार्गपरिवारत्वात् ।
दर्शनमार्गप्रयोगत्वादित्यर्थः । तदभावः कामधात्वालम्बनत्वादिति । तस्य दर्शन-
मार्गस्याभावस्तद्भावः । क्व ? ऊर्ध्वमिति वर्तते । आरूप्येष्वित्यर्थः । कस्मात् ?
कामधात्वानालम्बनात् । यस्मादारूप्याः कामधातुं नालम्बन्ते । आह—किं
कामधात्वालम्बनेन दर्शनमार्गेण प्रयोजनमिति ? अत उच्यते—तस्य पूर्वं परिज्ञेय-
प्रहेयत्वादिति । तस्य कामधातोर्दुःखरूपस्य पूर्वं परिज्ञेयत्वात् , समुदयरूपस्य
च प्रहेयत्वात् । अत्र च हेतुर्यस्मात् स योगी कामावचरेण दुःखेन विहन्यते,
तेन स पूर्वं ततो मोक्षमन्वेषत इति । तेषां रूपधातौ पञ्चस्कन्धको विपाक
इति । तेषां निर्वेधभागीयानां रूपावचरत्वात् यदि स योगी रूपधातावुपपद्येत,
ततस्तस्य तत्र पञ्चस्कन्धको विपाकोऽभिनिर्वर्तते । परिपूरकाण्येव च तानीष्टवेद-
नीयजननात् । नाक्षेपकाणि निकायसभागस्य । भवद्वेषित्वात् । अनित्यादिभि-
राकारैर्भवं द्विषन्तीति ।
द्वे प्रथमे इति । ऊष्मगतमूर्धस्वभावे ॥ २० ॥
१. तस्य च—का० । २. परिपूरिकान्येव—जा० ।

६१६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
सर्वाण्यपि त्वेतानि चत्वारि
कामाश्रयाणि,
त्रीणि मनुष्येष्वेवोत्पद्यन्ते, त्रिषु द्वीपेषु । उत्पादितपूर्वाणां तु देवेषु
सम्मुखीभावः । चतुर्थं देवेष्वपि त्रीणि स्त्रीपुरुषा उभयाश्रयाणि लभन्ते ।
अग्रधर्मान् द्व्याश्रयान् लभतेऽङ्गना ।
अग्रधर्मांस्तु स्त्र्येव द्व्याश्रयान् लभते । पुरुषः पुरुषाश्रयानेव, स्त्रीत्वस्या-
प्रतिसंख्यानिरोधलाभात् ।
कथं निर्वेधभागीयानां त्यागः ?
भूमित्यागात् त्यजत्यार्यस्तानि,
“कामाश्रयाणि” इति । यस्मादिहैव सत्याभिसमयो नान्यधातौ । नोर्ध्वं हि
दृक्पथः असंवेगात् । इह विधा तत्र निष्ठेति चागमादिति । त्रिषु द्वीपेषु । उत्तर-
कुरुवर्ज्येष्विति व्याख्यायते ; उत्तरकौरवाणां मृद्व

निर्देशः ] षष्ठं कोशस्थानम् ३१७
यद्भूमिकान्यनेन प्रतिलब्धानि भवन्ति तां भूमिं त्यजन्नार्यस्तान्यपि त्यजति,
नान्यथा । भूमित्यागः पुनर्भूिमिसञ्चारात् ।
अनार्यस्तु मृत्युना ॥ २१ ॥
पृथग्जनस्तु निकायसभागत्यागेनैव त्यजति सत्यसति वा भूमिसंचारे ॥ २१॥
आद्ये द्वे परिहाण्या च,
त्यजति मृत्युना च पृथग्जन एव । आर्यस्य तु नास्ति ताभ्यां परिहाणिः ।
क्षान्त्यग्रधर्माभ्यां तु पृथग्जनस्यापि नास्ति परिहाणिः ।
“भूमित्यागाद्” इति विस्तरः । यद्भूमिकानि निर्वेधभागीयानि प्रतिलब्धानि
प्रथमध्यानभूमिकानि यावच्चतुर्थध्यानभूमिकानि । तां भूमिं त्यजन् प्रथमं
ध्यानं यावच्चतुर्थं त्यजन्नार्यस्तान्यपि यथास्वं प्रथमध्यानभूमिकानि यावच्च-
चतुर्थध्यानभूमिकानि त्यजति । नान्यथा । न मृत्युना, परिहाण्या वा । यथा
पृथग्जन इत्यर्थः । भूमित्यागः पुनर्भूिमिसञ्चारादिति । न वैराग्यत इति
दर्शयति ।
पृथग्जनस्त्विति विस्तरः । पृथग्जनस्तु निकायसभागत्यागेनैव त्यजति निर्वेध-
भागीयानि सत्यसति वा भूमिसञ्चारे । तथा हि—पृथग्जनो यद्भूमिकनिर्वेध-
भागीयलाभी भवति, तत ऊर्ध्वमुपपद्यमानस्तानि भूमिसञ्चारेऽपि मृत्युनैव
त्यजति । अवीतरागस्त्वसति भूमिसञ्चारे मृत्युना त्यजति । कामधातावेवो-
पद्यते । न त्वेवमार्यपुद्गलः; तत्कुशलमूलसन्ततेर्दर्शनमार्गोपबृंहितत्वात् ।
पृथग्जन एव तथा त्यजतीति कथं गम्यते ? 'अण्डकल्लादिगतः पृथग्जनः कायेन
समन्वागतः, न कायकर्मणा' इति शास्त्रे वचनात् ।
आचार्यवसुमित्रस्तु व्याचष्टे—पृथग्जनस्तु निकायसभागत्यागेनैव त्यजति
सत्यसति वा भूमिसञ्चार इति । सकलं ध्यानमत्र भूमग्रहणेन गृह्यते । तत्र
पृथग्जनो यदा ब्राह्मकायिकेभ्यश्च्युत्वा ब्रह्मपुरोहितेषूपपद्यते, तदा निकाय-
सभागत्यागेन त्यजति । यदा तु प्रथमात् ध्यानाच्च्युत्वा द्वितीय उपपद्यते,
तदा भूमित्यागनिकायसभागत्यागाभ्यामिति ।
तदयुक्तम्; ब्रह्मलोकोपपन्नानां निर्वेधभागीयाभावात् । कामधातौ हि
निर्वेधभागीयान्युत्पद्यन्ते । कामधातुच्यवनादेव च तेषां निर्वेधभागीयत्याग
इति ।
अभि० को० ३ : ११

६१८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
मौलेस्तत्रैव सत्यदृक् ।
यो मौलध्यानभूमिकानि निर्वेधभागीयान्युत्पादयति स तत्रैव जन्मनि
सत्यान्यवश्यं पश्यति; तीव्रसंवेगत्वात् ।
अपूर्वाप्तिर्विहीनेषु,
यदा विहीनेषु पुनर्लाभो भवत्यपूर्वाण्येव तदा लभ्यन्ते, न पूर्वं त्यक्तानि;
प्रतिमोक्षसंवरवदनुचितयत्नसाध्यत्वात् । सति प्रतिसीमादेशिके परेणोत्पादयति,
असति मूलादेव ।
एते पुनर्विहानि-परिहाणी किंस्वभावे ?
हानी द्वे असमन्वितिः ॥ २२ ॥
उभे अप्येते असमन्वागमस्वभावे । परिहाणिस्तु दोषकृता, नावश्यं
आचार्यसङ्घभद्रेणापि दर्शितमेतत्—‘ननु च पृथग्जनोऽपि यद्भूमिक-
निर्वेधभागीयलाभी भवति, तत ऊर्ध्वमुपपद्यमानो निर्वेधभागीयानि
विजह्यान्’ इति । नास्त्येतत् ; निकायसभागत्यागादेव त्यक्तत्वात् । मरणभवा-
वस्थितो हि तानि त्यजति । अन्तराभवस्थितेन तु त्यक्तानि । अत ऊर्ध्वमुपपद्य-
मानस्य तन्नास्ति यद्विजह्यादिति । मृत्युर्नैवेत्युच्यत इति ॥ २१ ॥
प्रातिमोक्षसंवरवदिति । यथा प्रातिमोक्षसंवरस्त्यक्तः पुनरादीयमानोऽपूर्व
एव लभ्यते । कस्मात् ? अनुचितयत्नसाध्यत्वात् । अनुचितत्वात्, यत्न-
साध्यत्वाच्च । यस्मादनादिमतिसंसारे नोचितानि भवन्ति, आर्यमार्गपरिवार-
त्वात्; तस्माच्च वैराग्यलभ्यानि । यस्माद्यत्नसाध्यानि, तस्माच्च पूर्वत्यक्तानि
लभ्यन्त इति । सति प्रतिसीमादेशिक इति । सीमा नाम मर्यादा, तस्या देशिको
दर्शयिता प्रणिधिज्ञानलाभी । तस्मिन् सति लब्धविहीनान् परेणोत्पादयति ।
यदुत्पादितम्, तदुत्पादयतीत्यर्थः । असति प्रतिसीमादेशिके मूलादेवोष्मगतान्
प्रभृतीत्यर्थः ।
एते पुनर्विहानिपरिहाणी इति । “भूमित्यागात् त्यजत्यार्यः” (अभि० को०
६.२१) इत्यादि वचनाद् विहानिरुक्ता । “आद्ये द्वे परिहाण्या च” (अभि०
को० ६.२२) इति वचनात् परिहाणिरप्युक्ता । तेनैते इति निर्दिशति ।
हानी इति । विहानि-परिहाण्योः सामान्यरूपपरिग्रहादुभयोर्ग्रहणम् ।

निर्देशः ] षष्ठं कोशस्थानम् ६१६
विहानिः । गुणविशेषकृता च सा । परिहीणोऽप्यूष्मगतलाभी नियतं परिनिर्वाण-
धर्मा भवति ।
मोक्षभागीयात् को विशेषः ? सत्यदर्शनासन्नतरत्वमसत्यन्तराये ॥ २२ ॥
मूर्धलाभी न मूलच्छित्,
परिहीणोऽपि मूर्धलाभी कुशलमूलानि न समुच्छिनत्ति । अपायांस्तु
यायादानन्तर्याण्यपि१ कुर्यात् ।
क्षान्तिलाभ्यनपायगः ।
विहीनायामपि क्षान्तौ न पुनरपायान् याति; तद्भूमिककर्मक्लेशदूरीकरणात् ।
क्षान्तिलाभादेव हि गतियोन्युपपत्त्याश्रयाष्टमादिभवक्लेशानां केषांचिदनुत्पत्तिधर्मतां
प्रतिलभते । अपायगतीनामण्डजसंस्वेदजयोन्योरसंज्ञिसत्त्वोत्तरकुरुमहाब्रह्मोपपत्तीनां
षण्ढपण्डकोभयव्यञ्जनाश्रयाणामष्टमादिभवानां२ दर्शनहेयक्लेशानां च । तां तु
यथायोगं मृद्वधिमात्रायां च । मृद्व्यामपायगतीनाम् । अधिमात्रायामितरेषाम् ।
निर्वेधभागीयानि त्रिगोत्राणि श्रावकादिगोत्रभेदात् । तत्र
शिष्यगोत्रान्निवर्त्य द्वे बुद्धः स्यात्,
ऊष्मगतं मूर्धानं च श्रावकगोत्रादुत्पन्नं व्यावृत्य पुनर्बुद्धः स्यादित्यस्ति सम्भवः ।
परिहाणिस्तु दोषकृता । क्लेशकृतेत्यर्थः । नावश्यं विहानिरिति । सा हि
गुणकृतापि भवति, न केवलं दोषकृता । गुणकृता तद्यथा—दर्शनमार्गोत्पत्तौ
पृथग्जनत्वस्य विहानिः । दोषकृता तु तद्यथा—मिथ्यादृष्ट्या कुशलमूलविहानिः ।
प्रतिसन्धिचित्तेन वा केषाञ्चिद् धर्माणां विहानिरिति । तदेवं या परिहाणिः,
विहानिरपि सा । या तु विहानिः, नावश्यमसौ परिहाणिः । गुणविशेषेभ्य एव
हि परिहाणिरिति ॥ २२ ॥
अनुत्पत्तिधर्मतां प्रतिलभत इति । अपरिसंख्यानिरोधं तेषां गत्यादीनां
प्रतिलभत इत्यर्थः । तां तु यथायोगमिति । तां त्वनुत्पत्तिधर्मताम् । यथासम्भवं
मृद्व्यामधिमात्रायां च क्षान्तौ प्रतिलभत इति वर्तते । कथं कृत्वा ? मृद्व्यां
क्षान्त्यामपायगतीनामनुत्पत्तिधर्मतां प्रतिलभते । अधिमात्रायामण्डजसंस्वेदज-
१. पापादा०—का० । २. शण्ठ०—का० ।

६१८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ मार्गपुद्गल-
मौलैस्तत्रैव सत्यदृक् ।
यो मौलध्यानभूमिकानि निर्वेधभागीयान्युत्पादयति स तत्रैव जन्मनि
सत्यान्यवश्यं पश्यति; तीव्रसंवेगात् ।
अपूर्वाप्तिर्विहीनेषु,
यदा विहीनेषु पुनर्लाभो भवत्यपूर्वाण्येव तदा लभ्यन्ते, न पूर्वं त्यक्तानि;
प्रतिमोक्षसंवरवदनुचितयत्नसाध्यत्वात् । सति प्रतिसीमादैशिके परेणोत्पादयति,
असति मूलादेव ।
एते पुनर्विहानि-परिहाणी किंस्वभावे ?
हानी द्वे असमन्वितिः ॥ २२ ॥
उभे अप्येते असमन्वागमस्वभावे । परिहाणिस्तु दोषकृता, नावश्यं ॰
आचार्यसङ्घभद्रेणापि दर्शितमेतत्—'ननु च पृथग्जनोऽपि यद्भूमिक-
निर्वेधभागीयलाभी भवति, तत ऊर्ध्वमुपपद्यमानो निर्वेधभागीयानि
विजह्यात्' इति । नास्त्येतत् ; निकायसभागत्यागादेव त्यक्तत्वात् । मरणभवा-
वस्थितो हि तानि त्यजति । अन्तराभवस्थितेन तु त्यक्तानि । अत ऊर्ध्वमुपपद्य-
मानस्य तन्नास्ति यद्विजह्यादिति । मृत्युर्वेत्युच्यत इति ॥ २१ ॥
प्रातिमोक्षसंवरवदिति । यथा प्रातिमोक्षसंवरस्त्यक्तः पुनरादीयमानोऽपूर्व
एव लभ्यते । कस्मात् ? अनुचितयत्नसाध्यत्वात् । अनुचितत्वात्, यत्न-
साध्यत्वाच्च । यस्मादनादिमतिसंसारे नोचितानि भवन्ति, आर्यमार्गपरिवार-
त्वात्; तस्मान्न वैराग्यलभ्यानि । यस्माद्यत्नसाध्यानि, तस्मान्न पूर्वंत्यक्तानि
लभ्यन्त इति । सति प्रतिसीमादैशिक इति । सीमा नाम मर्यादा, तस्या दैशिको
देशयिता प्रणिधिज्ञानलाभी । तस्मिन् सति लब्धविहीनात् परेणोत्पादयति ।
यदनुत्पादितम्, तदुत्पादयतीत्यर्थः । असति प्रतिसीमादैशिके मूलादेवोष्मगतात्
प्रभृतीत्यर्थः ।
एते पुनर्विहानिपरिहाणी इति । "भूमित्यागात् त्यजत्यार्यः" (अभि० को०
६.२१) इत्यादि वचनाद् विहानिरुक्ता । "आद्ये द्वे परिहाण्या च" (अभि०
को० ६.२२) इति वचनात् परिहाणिरप्युक्ता । तेनैते इति निर्दिशति ।
हानी इति । विहानि-परिहाण्योः सामान्यरूपपरिग्रहादुभयोर्ग्रहणम् ।

निर्देशः ] षष्ठं कोशस्थानम् ६१६
विहानिः । गुणविशेषकृता च सा । परिहीणोऽप्यूष्मगतलाभी नियतं परिनिर्वाण-
धर्मा भवति ।
मोक्षभागीयात् को विशेषः ? सत्यदर्शनासन्नतरत्वमसत्यन्तराये ॥ २२॥
मूर्धलाभी न मूलच्छित्,
परिहीणोऽपि मूर्धलाभो कुशलमूलानि न समुच्छिनत्ति । अपायांस्तु
यायादानन्तर्याण्यपि¹ कुर्यात् ।
क्षान्तिलाभ्यनपायगः ।
विहीनायामपिक्षान्तौ न पुनरपायान् याति; तद्भूमिककर्मक्लेशदूरीकरणात् ।
क्षान्तिलाभादेव हि गतियोन्युपपत्त्याश्रयाष्टमादिभवक्लेशानां केषांचिदनुत्पत्तिधर्मतां
प्रतिलभते । अपायगतीनामण्डजसंस्वेदजयोन्योरसंज्ञिसत्त्वोत्तरकुरुमहाब्रह्मोपपत्तीनां
षण्ढपण्डकोभयव्यञ्जनाश्रयाणामष्टमादिभवानां² दर्शनहेयक्लेशानां च । तां तु
यथायोगं मृद्वधिमात्रायां च । मृद्व्यामपायगतीनाम् । अधिमात्रायामितरेषाम् ।
निर्वेधभागीयानि त्रिगोत्राणि श्रावकादिगोत्रभेदात् । तत्र
शिष्यगोत्रानिवर्त्य द्वे बुद्धः स्यात्,
ऊष्मगतं मूर्धानं च श्रावकगोत्रादुत्पन्नं व्यावृत्य पुनर्बुद्धः स्यादित्यस्ति सम्भवः ।
परिहाणिस्तु दोषकृता । क्लेशकृतेत्यर्थः । नावश्यं विहानिरिति । सा हि
गुणकृतापि भवति, न केवलं दोषकृता । गुणकृता तद्यथा—दर्शनमार्गोत्पत्तौ
पृथग्जनत्वस्य विहानिः । दोषकृता तु तद्यथा—मिथ्यादृष्ट्या कुशलमूलविहानिः ।
प्रतिसन्धिचित्तेन वा केषाञ्चिद् धर्माणां विहानिरिति । तदेवं या परिहाणिः,
विहानिरपि सा । या तु विहानिः, नावश्यमसौ परिहाणिः । गुणविशेषेभ्य एव
हि परिहाणिरिति ॥ २२ ॥
अनुत्पत्तिधर्मतां प्रतिलभत इति । अपरिसंख्यानिरोधं तेषां गत्यादीनां
प्रतिलभत इत्यर्थः । तां तु यथायोगमिति । तां अनुत्पत्तिधर्मताम् । यथासम्भवं
मृद्व्यामधिमात्रायां च क्षान्तौ प्रतिलभत इति वर्तते । कथं कृत्वा ? मृद्व्यां
क्षान्त्यामपायगतीनामनुत्पत्तिधर्मतां प्रतिलभते । अधिमात्रायामण्डजसंस्वेदज-
१. पापादा०—का० । २. षण्ड०—का० ।

: it has 'न्' + 'न' = 'न्नि'!
So: निश्रित्यानिञ्ज्यपटुसमाधित्वाद्निर्वेधभागीयानारभ्य or निश्रित्यानिञ्ज्यपटुसमाधित्वाच्चिर्वेध-?
Wait, look at the first consonant of that cluster:
Is it 'न्नि'? Yes, 'न्' on the left, 'नि' on the right, with 'i' matra over both: 'न्नि'.
Wait, what about the space: there is no space between 'त्वा' and 'न्नि'.
So: निश्रित्यानिञ्ज्यपटुसमाधित्वाद्निर्वेधभागीयानारभ्य or निश्रित्यानिञ्ज्यपटुसमाधित्वात्तिर्वेध...?
Wait, why did I think 'च्चि' earlier? Because the left part looks curved. But 'न्नि' in this font: look at 'अपायानप्यवगाहन्त' or 'क्षान्तिपरिभावितत्वेनाविवर्त्यत्वादित्यभिप्रायः' (line 20).
In line 11: "निश्रित्यानिञ्ज्यपटुसमाधित्वाच्चिर्वेध..." or "निश्रित्यानिञ्ज्यपटुसमाधित्वाद्निर्वेध..."?
Wait, if it's "त्वाद्", the letter would be 'द्' + 'नि' = 'द्

निर्देशः ] षष्ठं कोशस्थानम् ६२१
किं पुनः प्रथम एव जन्मनि कृतयोगो निर्वेधभागीयान्युत्पादयेत् ?
नैतदस्ति । अवश्यं हि
प्राक्तेभ्यो मोक्षभागीयम्
उत्पादयितव्यम् । सर्वस्वल्पं हि
क्षिप्रं मोक्षस्त्रिभिर्भवैः ॥ २४ ॥
एकस्मिन् जन्मनि मोक्षभागीयं कुशलमूलमुत्पादयेत् । द्वितीये निर्वेध-
भागीयानि । तृतीये आर्यमार्गम् । बीजावरोपणशस्याभिवृद्धिफलोत्पत्तिक्रमवत् ।
क्रमेण हि सन्तानस्यास्यां धर्मतायामवतारविपाकविमुक्तयो भवन्तीति ॥ २४ ॥
तच्च पुनर्मोक्षभागीयं वर्णयन्ति—
श्रुतचिन्तामयम्,
न भावनामयम् ।
कति कर्माणि ?
त्रीणि कर्माणि,
प्राधान्येन तु मनस्कर्म्म । तत्प्रणिधानपरिग्रहणात्² कायवाक्कमापि मोक्ष-
प्रायः । तेषामूष्मगतमूर्धभ्यां तद्गोत्राणां व्यावर्तनस्याप्रतिषेधः । खड्गविषाण-
कल्पस्यैवावधारणात् ।
“क्षिप्रं मोक्षस्त्रिभिर्भवैः” इति । यः क्षिप्रं मोक्षं प्राप्नोति, स एकस्मिन्
जन्मनि मोक्षभागीयमुत्पादयेत् । द्वितीये निर्वेधभागीयानि । तृतीये आर्यमार्ग-
मिति । यस्तु पूर्वस्मिन् जन्मनि सम्भृतमोक्षभागीयो भवति, स एकस्मिन्नपि
जन्मनि निर्वेधभागीयान्य्यायमार्गं चोत्पादयेतीत्यवगन्तव्यम् । बीजावरोपणे-
त्यादि । बीजावरोपणं मोक्षभागीयोत्पादनम् । शस्याभिवृद्धिर्निर्वेधभागीयोत्पत्तिः ।
फलोत्पत्तिरार्यमार्गः । अस्यां धर्मतायामिति । प्रवचनधर्मतायाम् । अवतारपरि-
पाकविमुक्तयो भवन्तीति । अवतारो मोक्षभागीयेन । परिपाको निर्वेधभागीयैः ।
विमुक्तिरार्यमार्गेणेति ॥ २४ ॥
तत्प्रणिधानपरिग्रहणादिति । मनःप्रणिधानपरिग्रहात् । प्रणिधानं
१. बीजविरोपण०—का० । २. ०परिग्रहात्त—क०

भागीयं भवति। कश्चिदेकभिक्षामपि दत्त्वा, एकशिक्षामपि चादाय मोक्षाभिलाष-
बलाधानान्मोक्षभागीयान्यक्षिपति।
तच्चैतत्
आक्षिप्यते नृषु।
मनुष्येष्वेव त्रिषु द्वीपेषु, नान्यत्र। प्रज्ञानिर्वेदयोरभावाद्यथायोगम्।
उक्तं प्रसङ्गेन मोक्षभागीयम् ॥
अभिसमयक्रमस्तु वक्तुमारब्धः। तत्र च यावदग्रधर्मा उक्ताः। शेषं
वक्तव्यम्। अत इदमुच्यते—
लौकिकेभ्योऽग्रधर्मेभ्यो धर्मक्षान्तिरनास्रवा ॥ २५ ॥
लौकिकाग्रधर्मानन्तरमनास्रवधर्मज्ञानक्षान्तिरुत्पद्यते ॥ २५ ॥
कस्मिन्नालम्बने ?
कामदुःखे,
कामावचरदुःखमस्या आलम्बनम्। सेयं दुःखे धर्मज्ञानक्षान्तिरित्युच्यते।
अनास्रवज्ञानार्थं निःष्यन्देन विशेषणम्। धर्मज्ञानार्थं¹ क्षान्तिः। पुष्पफलवृक्षवत्।
पुनश्चेतनाविशेषः। एकभिक्षामपि दत्त्वेति। कायकर्म। एकशिक्षामपि चादायेति।
वाक्कर्म। तच्च मनस्कर्मोत्थानमिति। त्रिकर्मस्वभावमल्पकमप्येतत्
मोक्षाभिलाषबलाधानान्मोक्षभागीयमाक्षिपति। मोक्षस्य भागः प्राप्तिर्मोक्षभागः,
तस्मै हितं मोक्षभागीयमिति।
नान्यत्र प्रज्ञानिर्वेदयोरभावाद्यथायोगमिति। कुरुषु तावदुभयं नास्ति।
अपायेषु निर्वेदोऽस्ति, प्रज्ञा नास्ति। देवेषु प्रज्ञास्ति, निर्वेदो नास्तीति। अतो
मनुष्येष्वेव त्रिषु द्वीपेष्वाक्षिप्यते, नान्यत्र।
अभिसमयक्रमस्तु वक्तुमारब्ध इति। "वृत्तस्थः श्रुतचिन्तावान् भावनायां
प्रयुज्यते" (अभि० को० ६. ५) इत्यारभ्य निर्वेधभागीयानुक्रमः। तत्प्रसङ्गेन
मोक्षभागीयोपन्यास इति।
"धर्मक्षान्तिरनास्रवा" इति। निर्वेधभागीयैरपि धर्मक्षमणम्। अतो निष्यन्देन
विशेषणम्। यस्या धर्मज्ञानं निष्यन्दः, सा धर्मज्ञानक्षान्तिः। धर्मज्ञानार्थं क्षान्ति-
१. कर्मज्ञाना०—का० ।

निर्देशः ] षष्ठं कोशस्थानम् ६२३

सैव च नियामावक्रान्तिरित्युच्यते; सम्यक्त्वनियामावक्रमणात् । "सम्यक्त्वं
निर्वाणम्" इत्युक्तं सूत्रे । तत्र नियमो नियाम एकान्तीभावः, तस्याभिगमनमवक्र-
मणम् । तस्यां चोत्पन्नायामार्यपुद्गल उच्यते । अनागतया पृथग्जनत्वं व्यावत्र्त्यते ।
एतदेव तस्याः कारित्रमनागतायामभ्युपगम्यते नान्यत्, प्रदीपजातिवत् ।
लौकिकैरग्रधर्मैरित्यपरे२ । न; तद्धर्मत्वात्.तद्विरोधित्वाददोषः, शत्रुस्कन्धा-
रूढतद्घातनवत् ।
उभयैरित्यपरे । आनन्तर्यमुक्तिमार्गसाधर्म्यादिति ।


धर्मज्ञानक्षान्तिः । पुष्पफलवृक्षवत् । यथा—पुष्पार्थ वृक्षः पुष्पवृक्षः । फलार्थ
वृक्षः फलवृक्षः । कारिकायां तु धर्मक्षान्तिरिति वचनमेकदेशग्रहणात्ः, देवदत्तो
दत्त इति यथा । सम्यक्त्वं निर्वाणमित्युक्तमिति । सम्यक्त्वं कतमत् ? यत्तत्पर्या-
दाय रागप्रहाणमिति विस्तरः । तत्र नियमो नियाम इति । तत्र सम्यक्त्वे नियम
एकान्तीभावो नियाम इति घञि रूपम् । अपि तु नियम इति; “यमः समुपनिविषु
च” (पा० सू० ३.३.६३) इत्यप्प्रत्ययस्य विभाषितत्वात् । तस्याभिगमनमव-
क्रमणमिति । तस्यैकान्तीभावस्याभिगमनं प्राप्तिः । तदेव विपर्यासस्यापक्रमान्नि-
यामावक्रान्तिरित्युच्यते । तस्यां चेति । धर्मज्ञानक्षान्तौ । प्रदीपजातिवदिति ।
प्रदीपस्येव जातेरिव चेत्यर्थः । यथा प्रदीपस्यानागतस्य तमोविनाशने सामर्थ्यम्,
जातेश्वानागताया जन्यजनने, तथा पृथग्जनत्वव्यावर्त्तने सामर्थ्यमनागताया
धर्मज्ञानक्षान्तेरभ्युपगम्यते । नान्यदिति । क्लेशप्रहाणं कारित्रम् ।
लौकिकैरग्रधर्मैरित्यपर इति । 'पृथग्जनत्वं व्यावर्तते' इति प्रकृतम् । न तद्धर्मत्वा-
दिति । न युक्तमेतल्लौकिकैरग्रधर्मैस्तद्व्यावर्तेत इति । कस्मात् ? तेऽपि हि पृथग्जन-
धर्माः, कथं पृथग्जनधर्मस्य पृथग्जनधर्मं व्यावर्तयिष्यन्त इति । तद्विरोधित्वाददोषः
अग्रधर्माणां पृथग्जनत्वविरोधित्वाददोष एषः । किं यथा ? इत्याह—शत्रुस्कन्धा-
रूढतद्घातनवदिति यथा शत्रुस्कन्धारूढ एव कश्चिच्छत्रुं घातयेत् । एवं
किलाधर्माः । पृथग्जनत्वशत्रुस्कन्धारूढास्तदेव पृथग्जनत्वं घातयेयुरिति ।
उभयैरिति । लौकिकैरग्रधर्मैः क्षान्त्या च पृथग्जनत्वं व्यावत्र्यंते । कथम् ?
इत्याह—आनन्तर्यविमुक्तिमार्गसाधर्म्यादिति । लौकिकानामग्रधर्माणांमानन्तर्य-
मार्गेण साधर्म्यम् । क्षान्तेर्विमुक्तिमार्गेण । यथा ह्यानन्तर्यमार्गेण क्लेशः प्रहीयते


१. युक्तं—का० । २. लौकिकाग्र०—का ।

९२४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
ततोऽत्रैव धर्मज्ञानम्,
ततः पुनर्दुःखे धर्मज्ञानक्षान्तेरनन्तरमत्रैव कामावचरे दुःखे धर्मज्ञान-
मुत्पद्यते। तद् दुःखे धर्मज्ञानमित्युच्यते। अनास्रवाधिकारः सर्वत्र वेदितव्यः।
यथा च कामावचरे दुःखे धर्मज्ञानक्षान्तिर्धर्मज्ञानं चोत्पद्यते
तथा पुनः।
शेषे दुःखेऽन्वयक्षान्तिज्ञाने,
दुःखे धर्मज्ञानानन्तरं रूपारूप्यावचरे दुःखे समस्तालम्बनान्वयज्ञानक्षान्ति-
रुत्पद्यते। सा दुःखे अन्वयज्ञानक्षान्तिरित्युच्यते। ततः अन्वयज्ञानमुत्पद्यते।
तद् दुःखेऽन्वयज्ञानमित्युच्यते। प्रथमो धर्मतत्त्वज्ञानाद्धर्मज्ञानम्, तदन्वयादूर्ध्वं
दुःखालम्बनमन्वयज्ञानम्; तथैवानुगमात्।
यथा चैतानि दुःखसत्ये चत्वारि क्षान्तिज्ञानान्युत्पद्य