सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 962, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 962

निर्देशः ] षष्ठं कोशस्थानम् ६३६
अक्षीणभावनाहेयः फलस्थः सप्तकृत् परः ।
यस्य हि फलस्थस्यैकोऽपि भावनाहेयः प्रकारोऽप्रहीणः, स स्रोतआपन्नः ।
सप्तजन्मानि करोति सप्तकृत् । परः सर्वान्त्यः । न हि सर्वसप्तकृदिति ।
सप्तकृत्वःपरम इति सूत्रपाठः । सप्तकृत्वः परमं जन्म अस्येत्यर्थः ।
प्रकर्षे परमशब्दः । निर्वाणस्रोतो हि मार्गः; तेन तत्र गमनात् । तदसावापन्न
आगतः प्राप्त इति स्रोतआपन्नः ।
कथमापन्नः ? आद्यमार्गलाभाच्चेत्, अष्टमकोऽपि स्यात् ; आद्यफलला-
भाच्चेत्, भूयोवीतरागोऽपि स्यात् । एवं कामवीतरागोऽपि स्यात् । सर्वफल-
प्रापिणमधिकृत्याद्यफललाभात् ।
किं पुनः कारणं स एव, नाष्टमकः ? प्रतिपन्नकफलमार्गलाभात् दर्शन-
सप्तकृत्वः परमं जन्मास्येति । सप्तकृत्वो जन्मप्रकर्षेणा अस्य । नातः
परमित्यर्थः । तेन मार्गेण निर्वाणगमनादित्यर्थः । स्रोतसा हि लोके गम्यते ।
आद्यमार्गलाभाच्चेत् । आद्योऽनास्रवो मार्गो दर्शनमार्गस्तस्य लाभाच्चेत्
स्रोतआपन्नः। अष्टमकोऽपि स्यात् । स्रोतआपत्तिफलप्रतिपन्नकोऽपि स्यादित्यर्थः ।
तथा हि प्रतिलोमक्रमेणार्हत आरभ्याष्टानां पुरुषपुद्गलानामर्हत्प्रतिपन्नकादीनां
स्रोतआपत्तिफलप्रतिपन्नोऽष्टमको भवति श्रद्धानुसारी धर्मानुसारी
वा, तस्याप्याद्यमार्गलाभात् सोऽपि स्रोतआपन्नः स्यात् । आद्यफललाभाच्चेत् ।
अथ मतम्—अपूर्वफलस्य लाभात्स्रोतआपन्न इति । भूयोवीतरागोऽपि स्यात् । यः
प्रहीणषट्क्लेशप्रकारः षोडशे क्षणे सकृदागामी, सोऽपि स्रोतआपन्नः स्यात् ।
तस्याप्यपूर्वफललाभात् । एवं कामवीतरागोऽपि स्यात् । तस्यापि तदाद्यं फलमिति ।
इदानीं परिहार उच्यते—सर्वफलप्रापिणमधिकृत्य आद्यफललाभादिति । सर्व-
फलमिति स्रोतआपत्तिफलादीनि चत्वारि, तत्प्राप्तुं शीलमस्येति सर्वफलप्रापी ।
सर्वफलप्राप्तिरस्यास्तीति वा सर्वफलप्रापी । तमधिकृत्य तमभिसन्धायाऽऽद्यफल-
लाभादपूर्वफललाभात् स्रोतआपन्न उच्यते ।
किं पुनः कारणमिति विस्तरः । कस्मात् स एव स्रोतआपन्न उच्यते,
नाष्टमकः । स चापि ह्यार्यमार्गस्रोतआपन्न इति । प्रतिपन्नकफलमार्गलाभादिति
१-१. कामवीतरागः—का० । २. आशीविष०—का० ।