अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 956, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] षष्ठं कोशस्थानम् ६३५
श्रद्धाधिमुक्तदृष्टप्राप्ता मृदुतीक्ष्णेन्द्रियौ तदा ॥ ३१ ॥
तस्मिन् काले यो मृद्विन्द्रियः श्रद्धानुसारिपूर्वी स श्रद्धाधिमुक्त इत्युच्यते ।
यस्तीक्ष्णेन्द्रियो धर्मानुसारिपूर्वी स दृष्टिप्राप्त इत्युच्यते; श्रद्धाप्रज्ञाधिकत्वेनाधि-
मोक्षदृष्टिप्रभावितत्वात् ॥ ३१ ॥
किं पुनः कारणं प्रहीणपञ्चाकारोऽपि षोडशे चित्ते स्रोतआपन्न एवोच्यते,
न सकृदागामिफलप्रतिपन्नकः ? यस्मात्
फले फलविशिष्टस्य लाभो मार्गस्य नास्यतः ।
नाप्रयुक्तो विशेषाय फलस्थः प्रतिपन्नकः ॥ ३२ ॥
फले हि लभ्यमाने फलविशिष्टो मार्गो न लभ्यत इत्येष नियमः । अतः
मार्गेण भावाग्रिकाणां भावनाहेयानां प्रहाणमस्तीति । यथा दर्शनमार्गस्वभावेषु
पञ्चदशसु क्षणेषु वर्तमानः आदितस्तृतीयफलप्रतिपन्नकादर्हत्त्वफलसाक्षात्क्रियायै
प्रतिपन्नकः स्यात् । षोडशे तु चित्त उत्पन्ने आदितोऽनागामिनोऽर्हन् स्यात् ।
भावाग्रिकभावनाहेयप्रहाणाद्ध्यर्हत्त्वं प्रतिष्ठाप्यते । आह—यदि दर्शनमार्गेण
भावाग्रिकाणां भावनाहेयानां प्रहाणं नास्तीत्यतोऽर्हत्त्वं प्राप्तुमशक्यम्, पूर्वमेव
तर्हि पृथग्जनावस्थायामेव भावनामार्गेण भावनावैराग्यात् तत्फलप्रतिपन्नकः ।
तेषु वर्तमानोऽर्हत्त्वफलसाक्षात्क्रियायै प्रतिपन्नको भविष्यति । षोडशे तु
चित्तक्षण आदितोऽर्हन्निति । अत उच्यते— पूर्वं च भवाग्रवैराग्यासम्भवादिति ।
न हि पूर्वं पृथग्जनावस्थायां लौकिकेन मार्गेण भवाग्रवैराग्यसम्भवः; उपरि-
भूम्यभावात् । तस्मादादितः प्रतिपन्नकोऽर्हन्न न स्यादिति ।
श्रद्धाप्रज्ञाधिकत्वेनाधिमोक्षदृष्टिप्रभावितत्वादिति । श्रद्धाधिकत्वेनाधिमोक्ष-
प्रभावितत्वाच्छ्रद्धाधिमुक्तः । श्रद्धाधिको मुक्तः श्रद्धाधिमुक्त इति कृत्वा । न तु
तस्य प्रज्ञा नैवास्ति । तया न तु प्रभावित इति न तन्नाम लभते । प्रज्ञाधिकत्वेन
दृष्टिप्रभावितत्वात् दृष्टिप्राप्तः । न तु तस्य श्रद्धा नास्तीति पूर्ववद् वाच्यम् ।
अपरे तु पुनः नैरुक्तविधिमालम्ब्य व्याचक्षते—श्रद्धाधिपत्येन दर्शनहेयेभ्यो
मुक्तः श्रद्धाधिमुक्तः । दृष्ट्याधिपत्येन प्राप्तफलो (प्राप्तफला) दृष्टिप्राप्त
इति ॥ ३१ ॥
“यावत्पञ्चप्रकारघ्नौ” (अभि० को० ६.३०) इति उक्तम् । अतः पृच्छति—
किं पुनः कारणमिति विस्तरः ।
फलविशिष्टो मार्गो न लभ्यत इति । फलाद्विशिष्टो मार्गः सकृदागामि-