सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

निर्देशः ] प्रथमं कोशस्थानम् ५९
अतीतादीनां स्वशब्देनाभिहितत्वात् । एवं वेदनादयोऽपि वेदितव्याः । दूरान्तिकत्वं
तु तेषामाश्रयवशात् । औदारिकसूक्ष्मत्वं¹ पूर्ववद् ( ) इति ।
चित्तचैत्तायद्वारार्थ आयतनार्थः । निर्वचनं तु—चित्तचैत्तानामायं
तन्वन्तीति आयतनानि । विस्तृण्वन्तीत्यर्थः । गोत्रार्थो धात्वर्थः । यथैकस्मिन्
पर्वते बहून्ययस्ताम्ररूप्यसुवर्णादिगोत्राणि धातव उच्यन्ते, एवमेकस्मिन्नाश्रये
सन्ताने वा अष्टादश गोत्राणि अष्टादश धातव उच्यन्ते । आकरास्तत्र
गोत्राण्युच्यन्ते ।
त इमे चक्षुरादयः कस्याकराः ? स्वस्या जातेः; सभागहेतुत्वात् ।
असंस्कृतं न² धातुः स्यात् । चित्तचैत्तानां तर्हि जातिवाचकोऽयं धातुशब्द
चात्र द्रष्टव्यम्—"पूर्वत्रासिद्धम्" ( पा० सू० ८.२.१ ) इति ईषदर्थे नञ्परि-
ग्रहात् किञ्चित्सिद्धमित्येकसवर्णदीर्घत्वम् । दूरमदृश्यदेशमिति । आधारदेशमा-
श्रयाधारदेशं चाधिकृत्य । द्रष्टुं शक्यो दृश्य, दृश्यो देशोऽस्येति दृश्यदेशं
दृश्याधारदेशम्, दृश्याश्रयाधारदेशं वा । तद्यथा -कुण्डे बदरम्, चक्षुरादि
वा । तदन्तिकम् । अदृश्यदेशं तु तद्विपरीतं दूरम् । दूरमदृश्यमिति नोक्तम्,

  • आसन्नमपि हि किञ्चिदतिसूक्ष्मत्वान्न दृश्यते । न च तद् दूरमिष्यते, दृश्यदेशत्वात् ।
    किमर्थं पुनरेवं भदन्तेन व्याख्यायते ? अतीतादीना स्वशब्देनाभिहितत्वात् ।
    अन्यथा हि पुनरुक्तदोषः स्यात् । दूरान्तिकत्वं तु तेषामाश्रयवशादिति । तेषा
    वेदनादीनाम्, अमूर्तत्वेनादेशस्थत्वात् । तस्मादेवं वक्तव्यम्—दूरेऽदृश्यमाना-
    श्रया वेदनादय., अन्तिके दृश्यमानाश्रया इति । औदारिकसूक्ष्मत्वं पूर्ववदिति ।
    औदारिकं पञ्चेन्द्रियाश्रयम्, सूक्ष्मं मानसमिति ।
    चित्तचैत्तानामायम् उत्पत्ति तन्वन्तीत्यायतनानि । द्वयं प्रतीत्य विज्ञानस्यो-
    त्पत्तिरिति सर्वेषामायतनत्वसिद्धिः । एकस्मिन्नाश्रये संताने वेति । आश्रये=
    समुदायलक्षणे शरीरे, सन्ताने वा चित्तादीना प्रवाहलक्षणे ।
    स्वस्या जातेः । किम् ? आकरा इति प्रकृतम् । सभागहेतुत्वात् । पूर्वोत्पन्नं
    चक्षुः पश्चिमस्य सभागहेतुरित्याकरो धातुः । यतो हि सुवर्णाद्युत्पत्तिस्ते तेषा-
    माकरा. । असंस्कृतं न धातुः स्यात् । न ह्यसंस्कृतस्यान्यस्य वा सभागहेतु. ।
    चित्तचैत्तानां तर्हीति । किम् ? आकरा इति प्रकृतम् । द्वयं प्रतीत्य विज्ञान-
    १. ०सूक्ष्मत्वं तु—का० ।
    २. तर्हि न—का० ।

६० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
इत्यपरे। अष्टादशधर्माणां जातयः स्वभावा अष्टादश धातव इति ।
यदि राश्यर्थः स्कन्धार्थः, प्रज्ञप्तिसन्तः स्कन्धाः प्राप्नुवन्ति, अनेकद्रव्यसमूह-
त्वात् राशिपुद्गलवत् ? न; एकस्यापि द्रव्यपरमाणोः स्कन्धत्वात् ।
न तर्हि 'राश्यर्थः स्कन्धार्थः' इति वक्तव्यम्, न ह्येकस्यास्ति राशित्वमिति ?
कार्यभारोद्वहनार्थः स्कन्धार्थ इत्यपरे। प्रच्छेदार्थो वा । तथा हि वक्तारो
भवन्ति-त्रिभिः स्कन्धकैर्देय दास्याम इति ।
तदेतदुत्सूत्रम् । सूत्र हि राश्यर्थमेव ब्रवीति- "यत्किञ्चिद्रूपमतीतानागत-
प्रत्युत्पन्नम्" ( विभ० १.१.१.२ ) इति । विस्तरः-प्रत्येकमतीतादिरूपस्य
स्कन्धत्वं तत्र विज्ञाप्यते- सर्वमेतदतीतादि रूपमेकशो रूपस्कन्ध इति ? न
शक्यमेवं विज्ञातुम्, "तत् सर्वमैकध्यमभिसंक्षिप्य" इति वचनातिरेकात्१ ।
स्योत्पत्तिरिति सर्वे धातवो विज्ञानस्य ससम्प्रयोगस्य प्रत्ययोऽवश्यमालम्बन-
मधिपतिश्चेत्याकराः ।
राशिपुद्गलवदिति । प्रज्ञप्तिसन्तः स्कन्धा , राशिशब्दवाच्यत्वात्, धान्यराशि-
वत्, पुद्गलवद्वा। स हि प्रज्ञप्तिसन्पुद्गलः रूपादिप्रज्ञप्तिसन्पुद्गल , रूपादिप्रज्ञप्ति-
कारणनिरपेक्ष्यागृह्यमाणस्वभावत्वात्, धान्यराशिवत्।
कार्यभारोद्वहनार्थ इति । कार्यमेव भारः कार्यभार तदुह्यते तेनेत्युद्वहनम्,
कार्यभारस्योद्वहनं कार्यभारोद्वहनम्=शरीरप्रदेशः, स लोके स्कन्ध इत्युच्यते।
अनेनापि कार्यभार उह्यते, "नामरूपप्रत्ययं षडायतनम्" ( )
इत्यादिवचनात् । तस्मात् स्कन्ध इव स्कन्ध इत्यौपचारिकशब्दः। प्रच्छेदार्थो
वा। अवध्यर्थो वेत्यर्थः । रूपप्रच्छेद., यावद्विज्ञानप्रच्छेद इति ।
तदेतदुत्सूत्रमिति । तदेतदुभयं कार्यभारोद्वहनार्थं, प्रच्छेदार्थश्चेति । उत्क्रान्तं
सूत्रादुत्सूत्रम् । सूत्रं हीति । विस्तरेण तत्प्रतिपादयति । प्रत्येकमिति विस्तरः।
कथम् ? इत्याह-सर्वमेतदतीतादिरूपमेकश एकैकं रूपस्कन्ध इति । समुदायेन
समुदायिद्रव्यमुक्तम् । तेषा ह्यतीतादीना रूपाणा सं राशिरित्यभिप्रायः । सूत्रे-
ऽप्येवमेवोक्तम्- "पृथिवीधातु कतम ? केशा रोमाणि" ( विभ० ३ १ १ २)
इति । विस्तर.-एकैकं केशादिद्रव्यं पृथिवीधातुरिति विज्ञायते। अयं च परिहारः
कार्यभारोद्वहनार्थपक्षयोरपि शक्यते वक्तुम् । न शक्यमेवमिति विस्तरः।
ऐकध्यमभिसंक्षिप्येति वचनातिरेकाद् एकैकं रूपस्कन्ध इति न शक्यते विज्ञातुम् ।
१. वचनात्-का०।

निर्देशः ] प्रथमं कोशस्थानम् ६१
तस्माद् राशिवदेव स्कन्धाः प्रज्ञप्तिसन्तः ।
रूपीण्यपि तद्यायतनानि प्रज्ञप्तिसन्ति प्राप्नुवन्ति, बहूनां चक्षुरादिपरमाणू-
नामायद्वारभावात् ? न; एकशः समग्राणा कारणभावात् विषयसहकारित्वाद् वा
नेन्द्रियं पृथगायतनं स्यात् । विभाषायां तूच्यते—"यद्याभिधर्मिकः स्कन्ध-
प्रज्ञप्तिमपेक्षते, स आह—परमाणुरेकस्य धातोरेकस्यायतनस्यैकस्य स्कन्धस्य
यदि ह्येवमर्थोऽभविष्यत्, तत् सर्वं रूपस्कन्ध इत्येवावक्ष्यत्, नार्थम् 'एकध्यम-
भिसंक्षिप्य' इति वचनेन ।
तस्माद्राशिवदेव स्कन्धाः प्रज्ञप्तिसन्त इति स्थापनापक्ष आचार्यस्य ; द्रव्य-
सद्द्रूपप्रतिपत्तिस्तु स्कन्धनिर्देशे तत्समुदायत्वादित्यवगन्तव्यम् ।
रूपीण्यपीति । विस्तर.—रूपिग्रहणमरूपिविशेषणार्थम् । अरूपि हि मन-
[L12

६२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
प्रदेशः; अथ नापेक्षते, स आह—परमाणुरेको धातुरेकमायतनमेकः स्कन्धः"
इति । भवति हि प्रदेशेऽपि प्रदेशिवदुपचारः, यथा—पटैकदेशे दग्धे पटो
दग्ध इति ।
किमर्थं भगवान् स्कन्धादिमुखेन त्रिविधां देशनामारेभे ? आह—
विनेयानाम्
मोहेन्द्रियरुचित्रैधात् तिस्रः स्कन्धादिदेशनाः ॥ २० ॥
त्रयः प्रकारास्त्रैधम् । त्रिप्रकारः किल सत्त्वानां मोहः—केचिच्चैत्तेषु
रेकस्य धातोरिति । दशाना चक्षुरादीनां रूपिणा धातूनामन्यतमस्य प्रदेश ।
एवमायतनानामेषामेवान्यतमस्य रूपस्कन्धस्य च प्रदेश. । कस्मात् ? न हि
प्रज्ञाप्त्यपेक्षिताया प्रदेशिनि वृत्त शब्द. प्रदेशे व्यवस्थाप्यते । अथ नापेक्षते ।
किम् ? स्कन्धप्रज्ञप्तिरित्यधिकृतम् । स आह परमाणुरेको धातुरिति । विस्तरः—
[L13

निर्देशः ] प्रथमं कोशस्थानम् ६३
सम्मूढाः पिण्डात्मग्रहणतः, केचिद् रूप एव, केचिद् रूपचित्तयोः ।
इन्द्रियाण्यपि त्रिविधानि—तीक्ष्णमध्यमृद्विन्द्रियत्वात् ।
रुचिरपि त्रिविधा—संक्षिप्तमध्यविस्तरग्रन्थरूचित्वात् । तेषां यथाक्रमं
तिस्रः स्कन्धायतनधातुदेशना इति ॥ २० ॥
भावस्त्रैधमिति भावेऽण्प्रत्यय इत्यपरे। मोहेन्द्रियरूचीना त्रैध्यम्, तस्मादिति ।
पिण्डात्मग्रहणत इति । केचिच्चैत्तान् पिण्डतो गृहीत्वा तानेवात्मतो गृह्णन्ति,
पिण्डग्राहे सत्यात्मग्रहप्रवृत्ते । तेषा स्कन्धदेशना । तस्या हि वेदनासंज्ञा-
संस्कारभेदेन त्रिधा चैत्ता देशिता । 'नायमेक पिण्ड, चेत्तविशेषा इह'
इत्यात्मग्राहः प्रतिपक्षतो भवति। अथ वा—पिण्डरूपोऽयमात्मभाव., स चात्मा
वेदयिता, संज्ञाता, चेतयितेति केचित् सम्मूढा , तेषा स्कन्धदेशना। 'नायमात्म-
रूप पिण्ड., चैत्ता इमे वेदनासंज्ञासंस्कारा प्रवर्तन्ते' इत्यात्मग्राह प्रतिपक्षतो
भवति । केचिद् रूप एवेति । 'पिण्डात्मग्रहणत सम्मूढा ' इत्यधिकृतम्, तेषामा-
यतनदेशना । तस्या हि रूपं चक्षुरादिभेदेन बहुधा विभक्तम् । चैत्तास्त्वेकधैव
धर्मायतनत्वेन, चित्तं च मनायतनत्वेनेति । केचिद् रूपचित्तयोरिति । 'सम्मूढा
पिण्डात्मग्रहणत.' इत्यधिकृतमेव । तेषा धातुदेशना । तस्या हि रूपं चक्षुरादि-
भेदेन बहुधा विभक्तम् । चित्तं चक्षुर्विज्ञानादिधातुभेदेन । न तु चैत्ता', धर्म-
धातुत्वेनैव देशितत्वादिति । तया १ रूपचित्तपिण्डग्राहसम्मोह प्रतिपक्षतो
भवति ।
इन्द्रियाण्यपीति । विस्तर —त्रिविध पुद्गलस्ताक्ष्णमध्यमृद्विन्द्रियत्वात् ।
अथ वा त्रिविध पुद्गल —उद्घटितज्ञ, अविपञ्चितज्ञ., पदपरम इति । तत्र
१ तीक्ष्णेन्द्रियाणा स्कन्धदेशना । ते हि तीक्ष्णेन्द्रियत्वात् स्कन्धभेदेनैवायतन-
धातुभेदं प्रतिपत्तुं शक्नुवन्ति । यथोक्तम्—'यद्वृक्षो न त्वं स ते धर्म प्रहातव्य
इति । आज्ञातं भगवन्नित्याह । यथा कथमस्य भिक्षो संक्षिप्तेनोक्तस्यार्थमा-
जानासि ? रूपं भदन्त नाहम् । स मे धर्म. प्रहातव्य ” इति विस्तर. ।
२. मध्येन्द्रियाणामायतनदेशना। ते हि मध्येन्द्रियत्वान्मध्येनैव नातिविस्तीर्णेना-
यतनप्रभेदेन धातुप्रभेदं प्रतिपत्तुं शक्नुवन्ति । न तु संक्षिप्तेन स्कन्धप्रभेदेन ।
३. मृद्विन्द्रियाणा धातुदेशना । ते हि मृद्विन्द्रियत्वान्नानाविभक्तं स्वबुद्धिसामर्थ्येन
प्रतिपत्तुं शक्नुवन्ति । रुचिरपि त्रिविधेति । पूर्वाभ्यासयोगाद् रुचेस्त्रैविध्यम् ।
अथवा शमथचरिताना संक्षिप्ता रुचि , शमथविपश्यनाचरितानां मध्या रुचि˙,
विपश्यनाचरिताना विस्तीर्णा रुचिरिति ॥ २० ॥
१. धातुदेशनयेत्यर्थः ।

६४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे
किं पुनः कारणं चैतसिका एकत्र संस्कारस्कन्धनिक्षिप्ताः, वेदनासंज्ञे तु
पृथक् स्कन्धीकृते ? इत्याह—
विवादमूलसंसारहेतुत्वात् क्रमकारणात् ।
चैत्तेभ्यो वेदनासंज्ञे पृथक्स्कन्धौ निवेशितौ ॥ २१ ॥
द्वे विवादमूले—कामाध्यवसानम्, दृष्ट्यध्यवसानं च। तयोर्वेदनासंज्ञे
यथाक्रमं प्रधानहेतू। वेदनास्वादवशाद्धि कामानभिष्वजन्ते, विपरीतसंज्ञावशाच्च
दृष्टीरिति। संसारस्यापि ते प्रधानहेतू। वेदनागृद्धो¹ हि विपर्यस्तसंज्ञः
संसरति।
यच्च स्कन्धक्रमे कारणमुपदेक्ष्यमाणम्, ततोऽपि क्रमकारणादनयोः पृथक्
स्कन्धीकरणं वेदितव्यम्। एतच्च त्रेधोपपादयिष्यामः ॥ २१ ॥
किं पुनः कारणमिति विस्तर । ननु च कारणमुक्तम्—पिण्डात्मग्रहण-
तच्चैत्तसंमूढानां स्कन्धदेशनेति ? सत्यमुक्तम्; चैत्तास्तेषां विभक्ता इति ।
वेदनासंज्ञे एव तु संस्कारस्कन्धात् । पृथक्²स्कन्धीकृते । न पुनरन्य इति
किमत्र कारणम् । कामाध्यवसानमिति विस्तर । कामेषु च दृष्टिषु चाभिष्वङ्गः ।
तयोर्विवादमूलयोरध्यवसानयोर्वेदनासंज्ञे यथाक्रमं प्रधानहेतू इति । प्रधानग्रह-
णादविद्यादयोऽप्रधानहेतव इत्यर्थत उक्तं भवति । वेदनास्वादवशाद्धि कामान-
भिष्वजन्ते गृहिणः । विपरीतसंज्ञावशाच्च दृष्टीः । किम् ? अभिष्वजन्त इत्यधि-
कृतम् । अधर्मे धर्मसंज्ञिन., धर्मे चाधर्मसंज्ञिनोऽनात्मादिषु चात्मसंज्ञिनस्तास्ता
दृष्टी. शीलव्रतपरामर्शादीरभिष्वजन्ते । के ते ? प्रायेण प्रव्रजिता. । वेदनागृद्धो
हीति । विस्तरः—वेदनासतश्चतुर्भिर्विपर्यसैर्विपर्यस्तः संसारे जन्मपरम्परा
करोति ।
क्रमकारणात् इति । चत्वारि कारणानि स्कन्धानुक्रमे वक्ष्यन्ते—“यथौदारिक-
संक्लेशभाजनाद्यर्थधातुतः” ( अभि० को० १ २२ ) इति । रूपं हि सप्रतिघत्वात्
सर्वौदारिकम् । अरूपिणां वेदना । प्रचारौदारिकतया । तथा हि व्यपदिशन्ति-
हस्ते मे वेदना, पादे मे वेदनेति । द्वाभ्यामौदारिकतरा संज्ञा । विज्ञानात्
संस्कारा इत्यतो यथौदारिकं तत् पूर्वमुक्तमिति प्रथमं कारणम् । अथ वा—
अनादिमति संसारे स्त्रीपुरुषा अन्योन्यं रूपाभिरामा., ते च वेदनास्वादगर्धात्,
तद्गधं. संज्ञाविपर्यासात्, तद्विपर्यासः क्लेशैः, चित्तं च तत्संक्लिष्टमिति यथा-
संक्लेशं क्रम इति द्वितीयम् । भाजनाद्यर्थेन वा भाजनभोजनव्यञ्जनपक्तृ-
१. वेदनास्वाद०—का० ।

निर्देशः ] प्रथमं कोशस्थानम् ६५
अथ कस्मादसंस्कृतं धातुष्वायतनेषु चोक्तम्, न तु स्कन्धेषु ?
स्कन्धेष्वसंस्कृतं नोक्तम्; अर्थायोगात्
तद्धि स्कन्धेषूच्यमानं न तावदेतेष्वेवान्तर्णेतुं शक्यते, अर्थायोगात् ।
न हि तद्रूपम्, नापि यावद्विज्ञानमिति, न चापि षष्ठस्कन्धो वक्तुं शक्यते,
कुतः ? अर्थायोगात् । "राश्यर्थो हि स्कन्धार्थः” इत्युक्तम् । न चासंस्कृतमतीता-
दिभेदभिन्नं रूपादिवद्, यतस्तत् सर्वमैकध्यमभिसंक्षिप्य 'असंस्कृतस्कन्धः' इति
संख्यां गच्छेत् ।
संक्लेशवस्तुज्ञापनार्थं खलूपादानस्कन्धवचनम्, “संक्लेशव्यवदानवस्तुज्ञापनार्थं
स्कन्धवचनम्; न चोभयथाऽप्यसंस्कृतमित्यर्थायोगान्न तेषु व्यवस्थितम् । यथा
घटोपरमो न घटः, एवं स्कन्धोपरमो न स्कन्धो भवितुमर्हतीत्यपरे । तेषां
धात्वायतनेष्वप्येष प्रसङ्गः ।
उक्तः स्कन्धानामन्यः प्रकारः ॥
भोक्तृभूता हि रूपादयः स्कन्धा इति तृतीयम् । धातुतो वा—कामगुणरूप-
प्रभावितो हि कामधातुः, वेदनाप्रभावितानि ध्यानानि, संज्ञाप्रभाविताश्चय
आरूप्याः, संस्कारमात्रप्रभावितं भवाग्रम्—एता विज्ञानस्थितय , तासु च
प्रतिष्ठितं विज्ञानमिति क्षेत्रबीजसंदर्शनार्थं, स्कन्धानुक्रम इति चतुर्थं कारणम् ।
अत एव च क्रमकारणाद् वेदनासंज्ञे पृथक् स्कन्धीकृते, यत एते औदारिकतरे
संक्लेशानुक्रमहेतू भोजनव्यञ्जनभूते तत्प्रभावितं च धातुद्वयमिति ॥ २१ ॥
न तावदेष्वेवान्तर्णेतुं शक्यते; अर्थायोगात् इति । रूपणादेरर्थस्यायोगाद-
सम्भवात् । रूपस्वभावं यावद्विज्ञानस्वभावमिति वा न शक्यमेष्वेव पञ्चस्कन्धे-
ष्वन्तर्णेतुम्, अतत्स्वभाव्यात् । न चापि षष्ठस्कन्धो वक्तुं शक्यते, कुतः ?
अर्थायोगात् । अतीताद्यर्थायोगादित्यर्थः । ननु च बहुत्वादसंस्कृतानामसंस्कृत-
स्कन्धोऽन्यो योक्ष्यते, किमतीताद्यर्थेनेति ? एतच्चायुक्तम्, असंस्कृताना देश-
सन्निकर्षाभावेनाभिसंक्षेपायोगात् ।
संक्लेशवस्तुज्ञापनार्थमिति । विस्तर. — न संक्लेशवस्तु, अनास्रवत्वात् ।
न व्यवदानवस्तु; असंस्कृतत्वात् । व्यवदानहेतुर्हि व्यवदानवस्त्वित्यभिप्रायः ।

६६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
क्रमः पुनः ।
यथौदारिकसंक्लेशभाजनाद्यर्थधातुतः ॥ २२ ॥
रूपं हि सप्रतिघत्वात् सर्वौदारिकम् । अरूपिणां वेदना प्रचारौदारिकतया ।
तथा हि व्यपदिशन्ति—हस्ते मे वेदना, पादे मे वेदनेति । द्वाभ्यामौदारिकी¹
संज्ञा । विज्ञानात् संस्कारः² इति । अतो यथौदारिकतरं तत् पूर्वमुक्तम् ।
अथ वा—अनादिमति संसारे स्त्रीपुरुषा अन्योन्यं रूपाभिरामाः, ते च
वेदनास्वादगद्धर्धात्, तद्गद्धः संज्ञाविपर्यासात्, तद्विपर्यासः क्लेशैः, चित्तं च
तत्संक्लिष्टमिति यथासंक्लेशं च क्रमः ।
भाजनाद्यर्थेन वा । भाजनभोजनव्यञ्जनकर्तृभोक्तृभूता हि रूपादयः
स्कन्धाः ।
एवं धातुपरमो न धातु., आयतनोपरमो नायतनमिति धर्मधात्वायतनयो-
रप्यसंस्कृतं न व्यवस्थापितं स्यात् । सर्वधर्मसंग्रहश्च धात्वायतनेष्वभिप्रेत इत्य-
युक्तमेतत् । उक्तः स्कन्धानामन्यः प्रकारः ॥
“क्रमः पुनः” इति । अन्यप्रकारवचनापेक्ष पुनःशब्दोपन्यास इति दर्शयति ।
सर्वौदारिकमिति । सर्वेभ्यो वेदनादिभ्य औदारिकं रूपम्, सनिदर्शनप्रतिघत्वादि-
योगात् । अरूपिणा वेदनादीनाम् । निर्धारणे षष्ठी । वेदना औदारिकी । प्रचारौ-
दारिकतया समुदाचारौदारिकत्येत्यर्थ । द्वाभ्या संस्कारविज्ञानाभ्यामौदारिकी
संज्ञा; निमित्तपरिच्छेदेन सुज्ञातत्वात् । विज्ञानात्संस्कार औदारिक.; 'सुखी
स्याम्, न दुःखी स्याम्' इत्यभिसंस्कारलक्षणत्वात् । विज्ञानं तु सर्वसूक्ष्मम्, उप-
लब्धिमात्रलक्षणत्वात् । यथौदारिकं च विनेयानामर्थप्रतिपादनं न्याय्यमित्येवं
स्कन्धानुक्रम ।
ते च वेदनास्वादगर्धात् । ते च स्त्रीपुरुषा वेदनास्वादसक्तेरन्योन्यं रूपाभि-
रामा भवन्ति । तद्गधं इति । वेदनागधं । संज्ञाविपर्यासादिति । नित्यादिकाञ्चि-
मित्तोद्ग्रहणात् । सुखापि हि वेदना संस्कारविपरिणामदु.खतया दु.खा ।
भाजनभोजनमिति विस्तर. । रूपं भाजनभूतम्, वेदनाश्रयत्वात् । वेदना
भोजनभूता, आस्वाद्यत्वात् । संज्ञा व्यञ्जनभूता, वेदना तन्निमित्तोद्ग्रहणेन
व्यञ्जयतीति कृत्वा । संज्ञावशेन वा वेदना रोचत इति कृत्वा व्यञ्जनभूता संज्ञा ।
वेदना कर्तृभूता, विपाकवेदनामभिसंस्कृत्योपनयनात् । विज्ञानं भोक्तृभूतम्,
तदनुग्रहादिति भाजनाद्यर्थेन वानुक्रम. ।
१. द्वाभ्या चौदारिकतरा—का० । २. संस्कााराः—का० ।

निर्देशः ] प्रथमं कोशस्थानम् ६७
धातुतो वा। कामगुणरूपप्रभावितो हि कामधातुः, वेदनाप्रभावितानि
ध्यानानि, संज्ञाप्रभाविताः त्रय आरूप्याः, संस्कारमात्रप्रभाविते भवाग्रम् —
एता¹ विज्ञानस्थितयः, तासु चतसृषु² प्रतिष्ठितं विज्ञानमित्येवं³ क्षेत्रबीजसंदर्श-
नार्थः स्कन्धानुक्रमः । अत एव च पञ्च स्कन्धाः, नाल्पीयांसः, न भूयांसः । अत
एव च क्रमकारणाद् वेदनासंज्ञे सस्कारेभ्यः पृथक् स्कन्धीकृते, यत एते औदा-
रिकतरे संक्लेशानुक्रमहेतू भाजनव्यञ्जनभूते, तत्प्रभावितं च धातुद्वयमिति ॥२२॥
आयतनधातूनां षण्णां चक्षुरादीनामनुक्रमो वक्तव्यः । तद्दर्शनेनैव हि
तद्विषयविज्ञानानां क्रमः । तेषां च पुन. षण्णाम्
प्राक् पञ्च वर्त्तमानार्थ्यात्,
चक्षुरादीनि पञ्च वर्त्तमानविषयत्वात् पूर्वमुक्तानि । मनस्त्वनियतविषयम्—
धातुतो वेति विस्तर । कामगुणा एव रूपाणि । तै. प्रभावितः प्रकर्षित
कामधातुः । वेदनाप्रभावितानि ध्यानानि । सौमनस्यसुखेन्द्रियप्रभावित प्रथमं
ध्यानम्, सौमनस्येन्द्रियप्रभावितं द्वितीयम्, सुखेन्द्रियप्रभावितं तृतीयम्,
उपेक्षेन्द्रियपरिशुद्धिप्रभावितं चतुर्थं ध्यानम् । संज्ञाप्रभावितास्त्रय आरूप्याः ।
आकाशसंज्ञाप्रभावितमाकाशानन्त्यायतनम्, विज्ञानसंज्ञाप्रभावितं विज्ञाना-
नन्त्यायतनम्, आकिञ्चन्यसंज्ञाप्रभावितमाकिञ्चन्यायतनम् । सस्कारमात्रप्रभा-
वितं भवाग्रम् । तत्र हि चेतना अशीतिं कल्पसहस्राण्यायुराक्षिपति ।
विज्ञानं कस्मात् सर्वेषां पश्चादुक्तम् ? इत्यत आह—एता विज्ञानस्थितय
इति । विस्तर.—चतस्रो विज्ञानस्थितय । रूपोपगा विज्ञानस्थिति कामधातु.,
वेदनोपगा चत्वारि ध्यानानि, संज्ञोपगा त्रय आरूप्या., संस्कारोपगा भवा-
ग्रम् । तासु चतसृषु विज्ञानस्थितिषु प्रतिष्ठितं विज्ञानम् । तदाश्रितत्वात् सर्व-
पश्चादुक्तम् । इत्येवं क्षेत्रबीजसंदर्शनार्थः स्कन्धानुक्रम उक्तो भवति । अत एव
च पञ्च स्कन्धा नाल्पीयासो न भूयास इति । यथौदारिकादिभि. कारणैर्नाल्पी-
यांसो न भूयास इत्यर्थः ॥ २२ ॥
पञ्च वर्तमानविषयत्वात् पूर्वमुक्तानीति । यानि वर्तमानविषयाणि तानि
परिस्फुटविषयाणि । परिस्फुटविषयाणि च सुगमानीति पूर्वमुक्तानि । वर्तमान-
विषयाणि च पूर्ववृत्तीनि भवन्ति, एवं च पूर्वमुक्तानि । मनस्त्वनियतविषयमिति ।
१ एता एव—का० । २. च—का० ।
३ विज्ञानमिति—का० ।

६८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
किञ्चिद् वर्तमानविषयम्, किञ्चिद् यावत् १ त्र्यध्वानध्वविषयम् ।
भौतिकार्थ्याच्चतुष्टयम् ।
प्रागिति वर्तते । पञ्चाना पुनश्चत्वारि पूर्वमुक्तानि, भौतिकविषयत्वात् ।
कायस्य त्वनियतो विषयः—कदाचिद् भूतानि, कदाचिद् भौतिकम्, कदाचि-
दुभयम् ।
दूराशुतरवृत्त्याऽन्यत्,
शेषं पुनरितरस्माद् यथायोगं दूराशुतरवृत्त्या पूर्वमुक्तम् । चक्षुःश्रोत्रं हि
दूरविषयम्, तन् पूर्वमुक्तं द्वयात् । तयोरपि चक्षुषो दूरतरे वृत्तिः, पश्यतोऽपि
दूरान्नदीं तच्छब्दाश्रवणात्, अतस्तत् पूर्वमुक्तम् । घ्राणस्य तु नास्ति दूरे वृत्तिः,
जिह्वायाश्च तयोराशुतरवृत्तित्वान् घ्राणं पूर्वमुक्तम्, अप्राप्तस्यैव जिह्वा भोज्यस्य २
गन्धग्रहणात् ।
यथास्थानं क्रमोऽथ वा ॥ २३ ॥
आकुलविषयत्वादसुगमं पश्चाद्वृत्ति च प्रायेण । कथम् ? इत्याह—किञ्चिद् वर्त-
मानविषयं किञ्चिद् यावत् त्र्यध्वानध्वविषयमिति । यावच्छब्देन किञ्चिदतीतविष-
यम्, किञ्चिदनागतविषयम्, किञ्चित् त्र्यध्वविषयम्, “सर्वधर्मा अनात्मानः”
इति यथा । किञ्चिदनध्वविषयमसंस्कृतविषयमित्यर्थः । एवमनियतविषयं मनः,
तथा च न तत्सुगममिति पश्चादुक्तम् । सुगमं हि लोके पूर्वमुपदिश्यमानं दृश्यते ।

  • “भौतिकार्थाच्चतुष्टयम्” इति । चक्षुरादिचतुष्टयं रूपाद्युपादायरूपविषयम्,
    तस्मात् तत् कायात् पूर्वमुक्तम् । कायस्य त्वनियतो विषयः । कदाचिद् भूतानि,
    कदाचिद् भौतिकं यदि व्यवच्छेदग्रहणम् । कदाचिदुभयं यद्यव्यवच्छेदग्रहणम् ।
    शेषं पुनरितरस्माद् यथायोगम् दूराशुतरवृत्त्या पूर्वमुक्तमिति । शेषं चक्षुरादि ।
    तदितरस्मात् सम्भवतो दूराशुतरवृत्त्या—दूरवृत्त्या, दूरतरवृत्त्या, आशुतर-
    वृत्त्येति विभज्य—द्वयं द्वयात्, एकं चैकस्मात्, पुनरेकं चैकस्मादिति योज्य-
    मित्यर्थः । कथम् ? इत्याह—चक्षुःश्रोत्रं हि दूरविषयम् । तन् पूर्वमुक्तं द्वयाद्
    घ्राणजिह्वात् । तयोरपि चक्षुःश्रोत्रयोश्चक्षुषो दूरतरे वृत्तिः; पश्यतोऽपि दूरान्नदीं
    तच्छब्दाश्रवणात् । अतस्तत् पूर्वमुक्तमिति वर्तते । तच्चक्षुः श्रोत्रात् पूर्वमुक्तम् ।
    तयोराशुतरवृत्तत्वादिति । तयोर्घ्राणजिह्वयोर्घ्राणं पूर्वमुक्तं जिह्वायाः । कथम् ?
    इत्याह—अप्राप्तस्यैव जिह्वां भोज्यस्य गन्धग्रहणादिति ।
    १. का० पुस्तके नास्ति । २-२ जिह्वामोज्यस्य—का० ।

निर्देशः ] प्रथमं कोशस्थानम् ६५
अथ वा अस्मिन् शरीरे चक्षुषोऽधिष्ठानमुपरिष्टात् निविष्टम्, तस्मादधः
श्रोत्रस्य, तस्मादधो घ्राणस्य, तस्मात् जिह्वायाः, तस्याः कायस्य बाहुल्येन ।
मनः पुनस्तान्येव निश्रितमदेशस्थं चेति यथास्थानमेषां क्रमः स्यात् ॥ २३ ॥
किं पुन कारणं दशस्वायतनेषु रूपस्कन्धसंगृहीतेष्वेकं रूपायतनमुच्यते,
सर्वेषु च धर्मस्वभावेष्वेकं धर्मायतनम् ? इत्याह--
विशेषणार्थं प्राधान्याद् बहुधर्माप्रसंग्रहात् ।
एकमायतनं रूपमेकं धर्माख्यमुच्यते ॥ २४ ॥
कथम् विशेषणार्थम् ? यथा गम्येत प्रत्येकमेषां दशानामायतनत्वं विषयि-
विषयत्वेन¹ व्यवस्थानाम्, न समस्तानामिति ।
चक्षुरादिभिश्च विशेषितैर्यन्न चक्षुरादिसंज्ञकं रूपं च तद् रूपायतनं ज्ञास्यत
इत्यस्य नामान्तरं² नोच्यते ।
इदमिह विचार्यते—घ्राणजिह्वे प्राप्तविषयग्राहिण्यो, कथम् ? भोज्यस्थो
गन्धस्तेन घ्राणेन गृह्यते, न त्वभोज्यस्थो गृह्यते, वायोस्तु गन्धान्तरसमुद्भवति,
भोज्यावयवेन वा सूक्ष्मेण सहागतो गन्धो गृह्यते, निरुच्छ्वासस्य गन्धाग्रहणात्;
न तर्हीदं वक्तव्यम्—अप्राप्तस्येव जिह्वा भोज्यस्य गन्धग्रहणादिति ? यत्तत्
पिण्डरूपं भोज्यं तज्जिह्वामप्राप्तमित्यभिसन्धायवचनाददोषः । एवं ह्यानुतर-
वृत्ति घ्राणं यद्भोज्यावयवसहागतमपि गन्धं जिघ्रति, जिह्वा तु भोज्यावयव-
सहागतं रसं नास्वादयति, पिण्डभोज्यसहागतमेव तु रसमास्वादयतीति न
सानुतरवृत्तिरित्यवगन्तव्यम् ॥ २३ ॥
कथं विशेषणार्थम् इति प्रतिपादयन्नाह—यथा गम्येत प्रत्येकमिति ।
विस्तर —यथा विज्ञायेत एकैकश एषा दशानामायतनत्वम् । चक्षुरादीनां पञ्चानां
विषयित्वेन, रूपादीना च पञ्चाना विषयत्वेन व्यवस्थानात् न समस्तानामायत-
नत्वम् । रूपायतनमित्येकमेवेति । तथा च परस्परतो विशेषणं न स्यात् ।
यदि विशेषणार्थं नामान्तराप्युच्यन्ते नवानाम्—चक्षुरायतनस्य यावत्का-
यायतनस्य शब्दायतनस्य यावत्स्प्रष्टव्यायतनस्येति, रूपायतनस्यापि कस्मान्ना-
मान्तरं नोच्यते ? अत आह—चक्षुरादिभिश्च विशेषितैयेन्न चक्षुरादिसंज्ञकं रूपं
च तद् रूपायतनं ज्ञास्यत इत्यस्य नामान्तरं नोच्यते । तद्यथा सर्वासु गोष्वङ्कि-
तासु या गोर्नाङ्किता तस्या अनङ्कनमेवाङ्कनं भवति तद्वत् ।
१. विषयविषयित्वेन—का० । २. पुनर्नामा०—का० ।

७० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
अथ वा रूपायतनस्य प्राधान्यात् । तद्धि सप्रतिघत्वाच्च पाण्यादिसंस्पर्शे-
स्पृष्टं रूप्यते । सनिदर्शनत्वाच्च—‘इदमिह, अमुत्र’ इति देशनिदर्शनरूपणात्¹ ।
लोकेऽपि च तद्रूपमिति प्रतीतम्, नान्यानि। विशेषणार्थमेकैकं² धर्मायतनमुक्तम्,
न सर्वाणि ।
अपि च—अत्र बहूनां धर्माणां संग्रहो वेदनादीनाम् । अतः सामान्येना-
भिधानं क्रियते धर्मशब्देन । अग्रस्य च निर्वाणधर्मस्यात्र संग्रह , नान्येष्विति ।
विंशतिप्रकारत्वेनौदारिकत्वान्मांसदिव्यार्यप्रज्ञाचक्षुष्ट्रयगोचरत्वाच्चैकं³ रूपायतन-
मित्यपरे ॥ २४ ॥
अन्यान्यपि स्कन्धायतनधातुसंशब्दितान्युपलभ्यन्ते सूत्रेषु, तेषां किमेभिरेव
संग्रहो वेदितव्यः, आहोस्वित् व्यतिरेकः ? एभिरेव संग्रहो न व्यतिरेकः ।
तत्र तावत्—
धर्मस्कन्धसहस्राणि यान्यशीतिं जगौ मुनिः ।
तानि वाङ्नाम वेत्येषां रूपसंस्कारसंग्रहः ॥ २५ ॥
“प्राधान्यात्” इति । त्रिभि कारणै. रूपायतनस्य प्राधान्यम्—पाण्यादि-
संस्पर्शबाधनालक्षणाद् रूपणात्, इदमिहामुत्रेति देशनिदर्शनरूपणात्, इदमेव
रूपमिति लोकप्रतीतत्वाच्च । विशेषणार्थमेकैकं धर्मायतनमुक्तमिति । कथं विशेष-
णार्थम् ? यथा गम्येत प्रत्येकमेषा द्वादशानामायतनत्वम्, विषयिविषयत्वेन
व्यवस्थानाद्, न समस्तानामिति । चक्षुरादिभिंश्च विशेषितैर्यन्न चक्षुरादि-
संज्ञकं धर्मेश्च तद्धर्मायतनं ज्ञास्यत इति तस्य नामान्तरं नोच्यते ।
वेदनादीनामिति । आदिशब्देन संज्ञासंस्काराविज्ञप्त्यसंस्कृताना ग्रहणम् ।
विंशतिप्रकारत्वेनेति । “रूपं द्विधा विंशतिधा” ( अभि० को० १ १० )
इति वचनात् । चक्षुष्ट्रयगोचरत्वाच्च । मासचक्षुरस्मदादीनाम्, दिव्यं चक्षुर्देवा-
नाम्, आर्य प्रज्ञाचक्षुरार्याणाम् । अनास्रवं ज्ञानं सत्यचतुष्टयालम्बनम् । अतो
रूपमव चक्षुष्ट्रयगोचरम्, न चक्षुरादय । तस्मात् तदेव रूपायतनमुक्तम्,
नान्यानि ॥ २४ ॥
१ निरूपणात्—का० । २ विशेषणार्थमेव चैक—का० ।
३. ०चक्षुस्त्रय०—का० ।

निर्देशः ] प्रथमं कोशस्थानम् ७१
येषा वाक्-स्वभावं बुद्धवचनम्, तेषां तानि रूपस्कन्धसंगृहीतानि । येषा
नामस्वभावम्, तेषा संस्कारस्कन्धेन संगृहीतानि¹ ॥ २५ ॥
किं पुनर्धर्मस्कन्धस्य प्रमाणम् ?
शास्त्रप्रमाण इत्येके,
एके तावत् आहु —धर्मस्कन्धसंज्ञकस्यैवाभिधर्मशास्त्रस्यास्य प्रमाणमिति ।
तच्च षट्सहस्राणि । अपरे²—
स्कन्धादीनां कथैकशः ।
येषा वाक्स्वभावं बुद्धवचनमिति । येषा सौत्रान्तिकाना वाग्विज्ञप्तिस्वभावं
तेषां तानि रूपस्कन्धसंगृहीतानि । शब्दायतनस्य रूपस्कन्धसंगृहीतत्वात् । येषा
नामस्वभावमिति । येषा निकायान्तरीयाणा चित्तविप्रयुक्तं नामास्ति तेषा
संस्कारस्कन्धेन संगृहीतानि । संस्कारस्कन्धसंगृहीतत्वान्नाम्न ।
आभिधार्मिकाणा तूभयस्वभाव बुद्धवचनमिष्टम् । तथा हि ज्ञानप्रस्थान
उक्तम्—“कतमद् बुद्धवचनम् ? तथागतस्य या वाग् वचनं व्याहारो³ गीर्निरु-
क्तिर्वाक्पथो वाग्घोषो वाक्कर्म वाग्विज्ञप्ति । बुद्धवचनं कुशलं वक्तव्यम् ?
अव्याकृतं वक्तव्यम् ? स्यात् कुशलम्, स्यादब्याकृतम् । कतरत् कुशलम् ?
कुशलचित्तस्य तथागतस्य वाच भाषमाणस्य या वाग् यावद्वाग्विज्ञप्ति । कतरद-
ब्याकृतम् ? अव्याकृतचित्तस्य तथागतस्य इति पूर्ववत् ।” पुनस्तत्रैवानन्तर-
मुक्तम्—“बुद्धवचनं नाम क एष धर्म ? नामकाय-पदकाय-व्यञ्जनकायाना
या आनुपूर्वरचना, अनुपूर्वस्थापना, अनुपूर्वसमायोग” इति । तेषामभिधार्मिकाणा
रूपस्कन्धेन संस्कारस्कन्धेन च तान्यशीतिर्धर्मस्कन्धसहस्राणि संगृहीतानि ।
“सातिरेकाणि मेऽशीतिर्धर्मस्कन्धसहस्राणि भगवतोऽन्तिकात् सम्मुखमुद्गृही-
तानि” ( ) इति सूत्रवचनम् । “चतुरशीतिधर्मस्कन्धसहस्राणि”
( ) इति निकायान्तरे सूत्रपाठ ॥ २५ ॥
“शास्त्रप्रमाण इत्येके” इति । शास्त्रस्य प्रमाणं शास्त्रप्रमाणम्, शास्त्रप्रमाण
प्रमाणमस्य सोऽय धर्मस्कन्ध शास्त्रप्रमाण इत्येके तावदाहु । तच्च षट्सहस्रा-
णिति । तच्च शास्त्र धर्मस्कन्धसंज्ञकं ग्रन्थप्रामाण्येन षट्सहस्राणीति । तानि
त्वशीतिधर्मस्कन्धसहस्राण्यन्तर्हितानि, एकं त्वेतदवशिष्यत इति कथयन्ति ।
“स्कन्धादीना कथैकशः” । अपर आहुरिति वाक्याध्याहार । स्कन्धादीनामे-
कैका कथा धर्मस्कन्ध । ते च धर्मस्कन्धा अशोतिसहस्रसंख्या व्याख्यायन्ते ।
१. का० पुस्तके नास्ति । २. ०पुनराहु.—का० । ३ व्यवहारो—मुद्रितः पाठः ।

७२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
स्कन्धायतनधातुप्रतीत्यसमुत्पादसत्याहारध्यानाप्रमाणारूप्यविमोक्षाभिभ्वायत-
नकृत्स्नायतनबोधिपाक्षिकाभिज्ञाप्रतिसंवित्प्रणिधिज्ञानाऽरणादीना कथा प्रत्येकं धर्म-
स्कन्ध इति ।
चरितप्रतिपक्षस्तु धर्मस्कन्धोऽनुवर्णितः ॥ २६ ॥
एवं तु वर्णयन्ति—अशीतिश्चरितसहस्राणि सत्त्वानाम् रागद्वेषमोहमानादि-
चरितभेदेन, तेषां प्रतिपक्षेण भगवताऽशीतिर्धर्मस्कन्धसहस्राण्युक्तानि ॥२६॥
यथैतान्यशीतिर्धर्मस्कन्धसहस्राण्येतेष्वेव पञ्चस्कन्धेषु प्रतिपादितानि,
तथान्येऽपि यथायोगं स्कन्धायतनधातवः ।
प्रतिपाद्या यथोक्तेषु सम्प्रधार्य स्वलक्षणम् ॥ २७ ॥
येऽप्यन्ये स्कन्धायतनधातवः सूत्रान्तरेषूक्ताः, तेऽप्येष्वेव यथोक्तेषु
स्कन्धादिषु प्रतिपाद्याः स्वं स्व स्वभावमेषा¹ यथाव्यवस्थापितमस्मिञ्छास्त्रे²
विमृश्य³ । तत्र तावत् पञ्चानां शीलसमाधिप्रज्ञाविमुक्तिज्ञानदर्शनस्कन्धानां
शीलस्कन्धो रूपस्कन्धेन सगृहीतः, शेषाः संस्कारस्कन्धेन । दशानां कृत्स्ना-
प्रतीत्यसमुत्पादादीनि चेह व्याख्यास्यन्ते । प्रणिधिज्ञानाऽरणादीनामिति । आदि-
ग्रहणेन संग्रहवस्तुकर्मपथाशुभानापानस्मृत्यादीनि गृह्यन्ते ।
“चरितप्रतिपक्षस्तु धर्मस्कन्धोऽनुवर्णितः” इति । तुशब्दः पूर्वोक्तपक्षनिरा-
करणार्थः, अवधारणार्थो वा । रागद्वेषमोहमानादिचरितभेदेनेति । आदिशब्देन
दृष्टिविचिकित्सादीना ग्रहणम् । केचित् सत्त्वा रागचरिता., केचिद् द्वेषचरिता',
केचिन्मोहचरिताः, केचिन्मानचरिता., केचिद् दृष्टिचरिता., केचिद् विचिकित्सा-
चरिताः, केचिद् रागद्वेषचरिता , केचिद् रागद्वेषमोहचरिता., केचिद् रागाशया
द्वेषप्रयोगा., केचिद् द्वेषाशया रागप्रयोगा., केचित् कृत्रिमरागा निगूढद्वेषा.
केचित् कृत्रिमद्वेषा निगूढरागा इति । तेषां प्रतिपक्षेण भगवता तान्युक्तानीति ॥२६॥
येऽप्यन्ये स्कन्धायतनधातव इति । विस्तर.—येऽपि स्कन्धायतनधात-
वस्तेऽप्येतेष्वेव स्कन्धायतनधातुषु प्रतिपाद्याः प्रवेशयितव्या., स्वं स्वं स्वभावमेषा
यथाव्यवस्थापितमस्मिन् शास्त्रे विमृश्य—स्कन्धा स्कन्धेषु प्रतिपादयितव्याः,
आयतनान्ययतनेषु, धातवो धातुषु ।
शीलस्कन्धो रूपस्कन्धसंगृहीत इति । कायवाग्विरतिरूपस्वभावत्वाच्छील-
१. लक्षणमेषां—का० । २. यथाविहित०—का० ।
३. सम्प्रधार्य—का० ।

यतनानामष्टावलोभस्वभावत्वाद् धर्मायतनेन । सपरिवारणि तु पञ्चस्कन्धस्वभाव-
त्वात् मनोधर्मायतनाभ्याम् । तथाभिभ्वायतनानि । आकाशविज्ञानानन्त्यायतनकृत्स्ने
चत्वारि चाकाशानन्त्यायतनादीनि चतुःस्कन्धस्वभावत्वात् मनोधर्मायतनाभ्याम् । पञ्च
स्कन्धस्य । शेषाः संस्कारस्कन्धेनेति । समाध्यादीना चैतसिकत्वात् । विमुक्ति-
रिहाधिमोक्षोऽभिप्रेतः । विमुक्तिज्ञानदर्शनं च प्रज्ञाविशेष एवेति ।
अष्टावलोभस्वभावत्वाद् धर्मायतनेनेति । कतमान्यष्टौ ? पृथिव्यप्तेजोवायुनील-
पीतलोहितावदातकृत्स्नायतनानि । तानि चालोभस्वभावान्यपदेक्ष्यन्ते—
“अलोभोऽष्टौ” ( अभि० को० ८ ३६ ) इति । अलोभश्च धर्मायतनेऽन्तर्भवति,
तेन तत्संग्रह । सपरिवाराणि तु पञ्चस्कन्धस्वभावत्वान्मनोधर्मायतनाभ्याम् ।
किम् ? संगृहीतानि । तस्यालोभस्य परिवारोऽनुपरिवर्ति रूपं रूपस्कन्धः,
वेदनासंज्ञे वेदनासंज्ञास्कन्धौ, चेतनादय सम्प्रयुक्ता जात्यादयश्च विप्रयुक्ताः
संस्कारस्कन्ध , विज्ञानं चात्र कलापे विज्ञानस्कन्ध इति पञ्चस्कन्धस्वभावानि
तानि भवन्ति । नवमदशमे त्वाकाशानन्त्यायतनविज्ञानानन्त्यायतनकृत्स्ने
पश्चाद् वक्ष्यते ।
तथाभिभ्वायतनानीति । तान्यलोभस्वभावत्वाद् धर्मायतनेन, सपरिवाराणि
तु पञ्चस्कन्धस्वभावत्वान्मनोधर्मायतनेन पूर्ववद् व्याख्यातव्यानि ।
आकाशविज्ञानानन्त्यायतनकृत्स्नं चत्वारि चाकाशानन्त्यायतनादीनि, आकाश-
विज्ञानाकिञ्चन्य-नैवसंज्ञानासंज्ञायतनानि, चतुःस्कन्धस्वभावत्वान्मनोधर्माभ्यां
संगृहीतानि । न हि तत्र रूपस्कन्धोऽस्ति ।
पञ्च विमुक्त्यायनानीति । विस्तर.—सूत्र उक्तम्—'पञ्चेमानि विमुक्त्या-
यतनानि । कतमानि पञ्च ? १. इह भिक्षो शास्ता धर्मं देशयति अन्यतरान्य-
तरो वा विज्ञो गुरुस्थानीयः सब्रह्मचारी । यथा यथास्य शास्ता अन्यतरान्यतरो
वा विज्ञो गुरुस्थानीयः सब्रह्मचारी धर्मं देशयति तथा तथा तेषु धर्मेष्वर्थप्रति-
संवेदी भवति, धर्मप्रतिसंवेदी च । तस्यार्थप्रतिसंवेदिनो धर्मप्रतिसंवेदिनश्चो-
त्पद्यते प्रामोद्यम्, प्रमुदितस्य प्रीतिर्जायते, प्रीतिमनस काय. प्रस्रभ्यते, प्रस्रब्ध-
कायः सुखं वेदयते, सुखितस्य चित्तं समाधीयते, समाहितचित्तो यथाभूतं
प्रजानाति यथाभूतं पश्यति, यथाभूतं प्रजानन् यथाभूतं पश्यन्निर्विद्यते,
निर्विण्णो विरज्यते, विरक्तो विमुच्यते—इदं प्रथमं विमुक्त्यायतनम् । यत्र
स्थितस्य भिक्षोर्वा भिक्षुण्या वा अनुपस्थिता स्मृतिरुपतिष्ठते, असमाहितं
चित्तं समाधीयते, अपरिक्षीणाश्चास्रवा परिक्षीयन्ते, अननुप्राप्तं चानुत्तरं
योगक्षेमं निर्वाणमनुप्राप्नोति ।

७४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
विमुक्त्यायतन‍ानि प्रज्ञास्वभावत्वाद् धर्मायतनेन। सपरिवाराणि शब्दमनोधर्मायतनैः। १
२ "पुनरपरं न हैव भिक्षो शास्ता धर्मं देशयति अन्यतरान्यतरो वा विज्ञो
गुरुस्थानीय सब्रह्मचारी। अपि तु यथाश्रुतान् धर्मन् यथोपदिष्टान् यथा-
पर्यवाप्तान् विस्तरेण स्वरेण स्वाध्यायं करोति। यथा यथा तान् यथाश्रुतान्
यथोपदिष्टान् यथापर्यवाप्तान् विस्तरेण स्वरेण स्वाध्यायं करोति, तथा तथा
तेषु धर्मेषु अर्थप्रतिसंवेदो भवति पूर्ववत्—इदं द्वितीयं विमुक्त्यायतनम्।
यत्र स्थितस्य इति पूर्ववत्।
३ "पुनरपरं न हैव भिक्षो शास्ता धर्मं देशयति अन्यतरान्यतरो वा विज्ञो
गुरुस्थानीय सब्रह्मचारी, नापि यथाश्रुतान् धर्मान् यथोपदिष्टान् यथापर्य
वाप्तान् विस्तरेण स्वाध्यायं करोति। अपि तु यथाश्रुतान् धर्मान् यथोपदिष्टान्
यथापर्यवाप्तान् विस्तरेण परेभ्यः सम्प्रकाशयति। यथा यथा यथाश्रुतान्
धर्मान् यथोपदिष्टान् यथापर्यवाप्तान् विस्तरेण परेभ्यः सम्प्रकाशयति, तथा
तथा तेषु धर्मेष्वर्थप्रतिसंवेदी भवतीति पूर्ववत्—इदं तृतीयं विमुक्त्या-
यतनम्। यत्र स्थितस्य इति पूर्ववत्।
४ "पुनरपरं न हैव भिक्षो शास्ता पूर्ववत् नापि स्वाध्यायम्, नापि
परेभ्य सम्प्रकाशयति। अपि तु यथाश्रुतान् यावद्यथापर्यवाप्तांश्चिन्तयति तुल-
यति उपपरीक्षते। यथा यथा यथाश्रुतान् यावद्यथापर्यवाप्तांश्चिन्तयति याव-
दुपपरीक्षते, तथा तथा तेषु धर्मेष्वर्थप्रतिसंवेदी पूर्ववत्—इदं चतुर्थं विमु-
क्त्यायतनम्। यत्र स्थितस्य इति पूर्ववन्।
५ "पुनरपरं न हैव भिक्षो शास्तेति पूर्ववत्, नापि स्वाध्यायं करोति
नापि परेभ्य सम्प्रकाशयति, नापि चिन्तयति। अपि त्वनेनान्यतमं भद्रकं
समाधिनिमित्तं साधु च सुष्ठु च सूद्गृहीतं भवति सुमनसिकृतं सुभावितं सुजुष्टं
सुप्रतिविद्धम्, तद्यथा विनीलकं वा विपूयकं वा व्याध्मातकं वा विपदुमकं वा
विलोहितकं वा विक्खादितकं वा विक्षिप्तकं वा अस्थि वा अस्थिसंकलिका वा।
यथा यथा खल्वनेनान्यतमान्यतमं भद्रकं समाधिनिमित्तं पूर्ववद् यावत्सुप्रति-
विद्धम् तथा तथा तेषु धर्मेष्वर्थप्रतिसंवेदी भवति पूर्ववत्—इदं पञ्चमं
विमुक्त्यायतनम्। यत्र स्थितस्य इति पूर्ववत्।"
विमुक्तेरायद्वारं प्रज्ञाविशेषः। प्रज्ञा च धर्मायतनेन संगृहीता। सपरिवाराणि
शब्दमनोधर्मायतनैः। देशनास्वाध्यायपरसम्प्रकाशनेषु शब्दग्रहणाच्छब्दायतन-
मस्ति, मनोधर्मायतने तु प्रज्ञापरिवारभूते सर्वत्रस्थे—इति त्रिभि संग्रहः।

१. तु शब्दो मनो०—का०।

निर्देशः ] ' प्रथमं कोशस्थानम् ७५
द्वयोरायतनयोरसंज्ञिसत्त्वा दशभिरायतनै, गन्धरसायतनयोरेवाभावात्¹ । नैव-
संज्ञानासंज्ञायनोपगा मनोधर्मायतनाभ्याम् ।
एवं बहुधातुकेऽपि द्वाषष्टिर्धातवो देशिता ।
द्वयोरायतनयोरिति । सूत्र उक्तम्—"रूपिण, सन्ति सत्त्वा असंज्ञिनो-
ऽप्रतिसंज्ञिन,, तद्यथा—देवा असंज्ञिसत्त्वा । इदं प्रथममायतनम् । अरू-
पिण सन्ति सत्त्वा, सर्वश आकिञ्चन्यायतनं समतिक्रम्य नैवसंज्ञानासंज्ञायतन-
मुपसंपद्य विहरन्ति, तद्यथा—देवा नैवसंज्ञानासंज्ञायतनोपगा । इदं द्वितीय
मायतनम्" ( ) इति । अनयोर्द्वयोरायतनयोरसंज्ञिसत्त्वा
दशभिरायतनैः संगृहीताः, गन्धरसायतनयोरेव तत्राभावात् । भवति हि
च्युत्युपपत्तिकालयोस्तेषां मनआयतनमिति । नैवसंज्ञानासंज्ञायतनोपगा मनो
धर्मायतनाभ्याम् । संगृहीता इत्यधिकृतम्, तेषामरूपित्वात् ।
बहुधातुकेऽपि द्वाषष्टिर्धातव इति । सूत्र उक्तम्—"आयुष्मानानन्दो भग-
वन्तमेतदवोचत्—'कियता भदन्त पण्डितो धातुकुशलो भवति ?' भगवानाह-
"पण्डित आनन्द अष्टादश धातून्जानाति पश्यति यथाभूतम्—चक्षुर्धातुम्, रूप-
धातुम्, चक्षुर्विज्ञानधातुम् एवं यावन्मनोधातुं धर्मधातुं मनोविज्ञानधातुमिति ।
इतीमानानन्द अष्टादश धातून्जानाति पश्यति यथाभूतम् ।
"षडपि धातून् जानाति पश्यति यथाभूतम्—पृथिवीधातुमब्धातुं तेजोधातुं
वायुधातुमाकाशधातुं विज्ञानधातुमिति ।
"अपरानपि षड् धातून् जानाति पश्यति यथाभूतम्—कामधातुं व्यापादधातुं
विहिंसाधातुं नैष्क्रम्यधातुमव्यापादधातुमविहिंसाधातुमिति ।
"अपरानपि षड् धातून् जानाति पश्यति यथाभूतम्—सुखधातुं दुःखधातुं
सौमनस्यधातुं दौर्मनस्यधातुमुपेक्षाधातुमविद्याधातुमिति ।
"चतुरोऽपि धातून् जानाति पश्यति यथाभूतम्—वेदनाधातु संज्ञाधातुं
संस्कारधातुं विज्ञानधातुमिति ।
"त्रीनपि धातून् जानाति पश्यति यथाभूतम्—कामधातुं रूपधातुमारूप्य-
धातुमिति ।
"अपरानपि त्रीन् धातून् जानाति पश्यति यथाभूतम्—रूपधातुमारूप्यधातुं
निरोधधातुमिति ।
"अपरानपि त्रीन् धातून् जानाति पश्यति यथाभूतम्—अतीतं धातुमनागतं
धातुं प्रत्युत्पन्नं धातुम् ।
१. गन्धरसायतनाभावात्—का० ।

तेषां यथायोगं संग्रहो वेदितव्यः ॥ २७ ॥
"अपरानपि त्रीन् धातून् जानाति पश्यति यथाभूतम्—हीनं धातुं मध्यमं
धातुं प्रणीतं धातुमिति ।
"अपरानपि त्रीन् धातून् जानाति पश्यति यथाभूतम्—कुशलं धातुमकुशलं
धातुमव्याकृतं धातुमिति ।
"अपरानपि त्रीन् धातून् जानाति पश्यति यथाभूतम्—शैक्षं धातुमशैक्षं
धातुं नैवशैक्षनाशैक्षं धातुमिति ।
"द्वावपि धातू जानाति पश्यति यथाभूतम्—सास्रवं धातुमनास्रवं धातु-
मिति ।
"अपरावपि द्वौ धातू जानाति पश्यति यथाभूतम्—संस्कृतं धातुमसंस्कृतं
धातुमिति । इमौ द्वौ धातू जानाति पश्यति यथाभूतम् । इयता चानन्द
पण्डितो धातुकुशलो भवति" ( ) इति ।
इतीमान्यत्र हि निर्भेदीनि वाक्यानि प्रत्येकं मध्येऽपि पठितव्यानि ।
विस्तरभयात्तु मया न लिखितानीति बोद्धव्यम् ।
यथायोगं संग्रहो वेदितव्य इति । अष्टादश तावद्धातवः । त एव त इत्ये-
भिस्ते संगृहीता एव अष्टादशसु धातुषु । ये तु पृथिवीधातवादय. षट् , तेषा-
माद्यानां चतुर्णां स्प्रष्टव्यधातौ संग्रह । आकाशधातो रूपधातौ, आलोकतम-
स्वभावत्वात् । विज्ञानधातो. सप्तसु चित्तधातुषु संग्रह. । कामधात्वादीना
तु षण्णाम् । कामधातु. कामराग इहाभिप्रेतः । स च चैतसिक. । व्यापाद-
धात्वादयोऽपि चैतसिका एवेति तेषा धर्मधातौ संग्रह । सुखधात्वादीनामपि
षण्णा तस्मिन्नेव संग्रह । वेदनाधात्वादीना चतुर्णां त्रयाणा धर्मधातौ । विज्ञान-
धातो सप्तसु विज्ञानधातुषु । कामधात्वादीना त्रयाणा कामधातोष्टादशसु
धातुषु । रूपधातोश्चतुर्दशसु विना गन्धरसघ्राणजिह्वाविज्ञानधातुभिः ।
आरूप्यधातोर्मनोधर्ममनोविज्ञानधातुषु । रूपधात्वादीना तु त्रयाणां द्वयोरुक्त.
संग्रह । निरोधधातोर्धर्मधातौ । अतीतधात्वादीनां त्रयाणा प्रत्येक मष्टादशसु
धातुषु संग्रह. । हीनादयस्त्रयो धातव कामधात्वादय एव—इत्येषामुक्त. संग्रह. ।
कुशलादीना त्रयाणा कुशलाकुशलधात्वो रूपशब्दधर्मधातुषु सप्तसु च चित्त-
धातुषु । अव्याकृतधातोष्टादशसु धातुषु, शैक्षाशैक्षधात्वादीना त्रयाणा द्वयो-
र्मनोधर्ममनोविज्ञानधातुषु, तृतीयस्याष्टादशसु धातुपु । सास्रवानास्रवधात्वो-
राद्यस्याष्टादशसु धातुषु । द्वितीयस्य मनोधर्ममनोविज्ञानधातुषु । संस्कृता-
संस्कृतधात्वोराद्यस्याष्टादशसु धातुपु, द्वितीयस्य धर्मधातौ संग्रह. । त एते
द्वासष्टिर्धातव. ॥ २७ ॥

निर्देशः ] प्रथमं कोशस्थानम् ४७
य इमे तत्र षड् धातवः उक्ताः—पृथिवीधातुः, अब्धातुः, तेजोधातुः,
वायुधातुः, आकाशधातुः, विज्ञानधातुरिति, एतेषां द्वयोर्लक्षणमनुक्तम् । तत्
किं सर्वमेवाकाशधातुर्वेदितव्यः, सर्वं च विज्ञानं विज्ञानधातुः ? नेत्याह । किं
तर्हि ? द्वारवातायनमुखनासिकादिषु—
छिद्रमाकाशधात्वाख्यम्,
छिद्रमित्युच्यमानं किं वेदितव्यम् ?
आलोकतमी किल ।
नहि छिद्रमालोकतमोभ्यामन्यद् गृह्यते । तस्मात् किलाकाशधातुरलोक-
तमःस्वभावो रात्रिनिन्दवस्वभावो वेदितव्यः । स एव चाघसामन्तकं रूपमि-
त्युच्यते । अघं किल चित्तस्थं रूपम् ; अत्यर्थं घाताद् तस्य तत् सामन्तक-
य इमे तत्रेति बहुधातुके । एतेषां द्वयोर्लक्षणमनुक्तमिति । पृथिवीधात्वा-
दीनामुक्तं लक्षणम् । अमी “धृत्यादिकर्मसंसिद्धाः खरस्नेहोष्णतेरणा.” ( अभि०
को० १.१२ ) इति । ननु च विज्ञानधातोरप्युक्तं लक्षणम्—“विज्ञानं प्रति-
विज्ञप्ति.” ( अभि० को० १ १२ ) इति वचनात् ? सत्यम्, उक्तं सर्वेशा विज्ञा-
नाना लक्षणम्, विज्ञानधातुस्तु किमिह कश्चिदेव विज्ञानमित्यभिप्रेतम्, उताहो
सर्वमिति न विवेचितम् । असंस्कृतं चाकाशमुक्तलक्षणम्, न त्वाकाशधातु.,
अवश्यं ह्ययमन्य आकाशात् । तथा हि—“षड्धातुरयं भिक्षो पुरुष.”
( ) इति सूत्रान्तरमुक्तम् । इत्यनया बुद्ध्याभिहितम्—द्वयो-
र्लक्षणमनुक्तमिति । अत एवमाह—तत्किमाकाशमेवाकाशधातुर्वेदितव्यः, सर्वं च
विज्ञानं विज्ञानधातुरिति । मुखनासिकादिष्विति । आदिशब्देन श्रोत्रादीना ग्रहणम्।
“आलोकतभसी किल” इति । किलशब्द परमतद्योतनार्थं । स्वमतं तु
सप्रतिघद्रव्याभावमात्रमाकाशमित्यभिप्रायो लक्ष्यते । रात्रिनिन्दवस्वभाव इति ।
रात्रिवर्तिनस्तमस , भास्करातपलक्षणस्य चालोकस्याभिप्रेतत्वात् । बाहुलिको
द्वायं निर्देश । अघं किल चित्तस्थ रूपमिति । चित्तस्थं सङ्घातस्थम् । अत्यर्थं
हन्ति हन्यते वेत्यघम् । नैरक्तेन विधिना अत्यर्थशब्दस्य अकारादेशः कृत,
हन्तेश्च घादेशः । तस्य तत् सामन्तकमिति । तस्याघस्य कुड्यादिकस्य सामन्त-
कम्=समीपस्थम् । तदपेक्ष्य व्यवस्थापितमित्यर्थः । अत्रापि व्याख्याने किलशब्दो
वैभाषिकव्याख्यानप्रदर्शनार्थं. । स्वमतं तु यत्, तत् पश्चादुच्यते । तदाह—
१. एषां—का० ।

७८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
मिति। अघं च तदन्यस्य रूपस्य तत्राप्रतिघातात्, सामन्तकं चान्यस्य
रूपस्येत्यपरे।
विज्ञानधातुर्विज्ञानं सास्रवं,
कस्मादनास्रवं नोच्यते ? यस्मादिमे षड् धातव इष्टाः
जन्मनिश्श्रयाः ॥ २८ ॥
एते हि जन्मनः प्रतिसन्धिचित्ताद् यावत् च्युतिचित्तसाधारणभूताः ।
अनास्रवास्तु धर्मा नैवमिति । तदेवं सत्येषां चत्वारो धातव स्प्रष्टव्यधातावन्त-
र्भूताः, पञ्चमो रूपधातौ, षष्ठः सप्तसु विज्ञानधातुष्विति ॥ २८ ॥
ये पुनरिमे अष्टादश धातव उक्तास्तेषा कति सनिदर्शनाः, कत्यनिदर्शनाः ?
सनिदर्शन एकोऽत्र रूपम्;
स हि शक्यते निदर्शयितुम्- इदमिह, अमुत्रेति । उक्त भवति-अनिदर्शनाः
शेषा इति ॥
अघं च तत् । अन्यस्य रूपस्य तत्राप्रतिघातात् । न प्रतिहन्यतेऽन्यद् रूपमस्मिन्निति
कृत्वा । सामन्तकं चान्यस्य रूपस्येति चित्तस्थस्य । अस्मिन् पक्षे कर्मधारय
समासः-अघं च तत् सामन्तकं च तदित्यघसामन्तकम् ।
“विज्ञानं सास्रवम्” इति । जन्मनो हेतोर्विज्ञानस्याभिप्रेतत्वात् । कुत
इति चेत् ? अत आह-यस्मादिमे षड् धातव इष्टाः “जन्मनिश्श्रयाः” । “षड्-
धातुरयं भिक्षो पुरुष " । ) इति, “षट् खलु धातून् प्रतीत्य
मातु कुक्षौ गर्भस्यावक्रान्तिः" ! , इति वचनात् । एते हि
जन्मन इति । विस्तर - एते हि जन्मनो जनकपोषकसंर्वर्धकत्वादाधारभूताः ।
जनको ह्यत्र विज्ञानधातु, प्रतिसन्धिबीजत्वात् । पोषकाणि भूतानि,
तत्सन्निश्रयभावात् । संवर्धकमकाशधातुः, अवकाशदानात् । अत एवैषां धातु-
त्ववचनम् । प्रतिसन्धिं दधत इति धातव । अनास्रवास्तु धर्मा नैवमिति । न
जन्मनिश्श्रयाः, जन्मनिरोधकत्वात् ॥ २८ ॥
“सनिदर्शन एकोऽत्र रूपम्” इति । किमिदं निदर्शनं नाम ? येन विशेषेण
योगाद् तद्वस्तु तथा निदर्शयितुं शक्यते स विशेषो निदर्शनमित्युच्यते । वचनेन
परस्य चक्षुर्विज्ञानमुत्पन्नं वा निदर्शनम्, तेन सह वर्तते सनिदर्शनं एको रूप-
धातुरत्राष्टादशसु धातुषु । रूपधातुरेवैक सनिदर्शन इत्यवधारणादुक्तं भवति ।