अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
निर्देशः ] चतुर्थं कोशस्थानम् ७२५
पटुबुद्धीनां स्यादाजानेयवदिति भदन्तः । मनुष्यस्याप्यमानुषं¹ माता-
पितरं¹ मारयतो न स्यादानन्तर्यम् ॥
उक्तं कर्मावरणम् ॥
शेषे गतिषु पञ्चसु ॥ ९७ ॥
के पुनः शेषे ? क्लेशविपाकावरणे । मनुष्येषु विपाकावरणम् । कौरवा
देवेष्वसंज्ञिसत्त्वाः ।
किंस्वभावान्यानन्तर्याणि ? चत्वारि कायकर्म, एकं वाक्कर्म, त्रीणि
प्राणातिपातः, एकं मृषावादः, एकं प्राणातिपातप्रयोगः । अनुपक्रमधर्माणो हि
तथागताः ॥ ९७ ॥
हेतौ फलोपचारात् सङ्घभेद आनन्तर्यमुक्तम्, भिद्यते वा अनेनेति कृत्वा ।
सङ्घभेदस्त्वसामग्री स्वभावो विप्रयुक्तकः ।
अश्वाजानेयवदिति । पटुबुद्धीनां स्यादानन्तर्यम् । तिर्यक्प्रेतानामपीत्यधि-
कृतम् । अश्वाजानेयवदिति । श्रूयते यथा—कश्चिदेव विशिष्टाश्व आजानेयो मातरं
न गच्छतीति वाससा मुखं प्रच्छाद्य मातरं गमितस्तेन पश्चात् ज्ञात्वा
स्वमङ्गजातमुत्पाटितमिति । एवमाजानेयोऽश्वः पटुबुद्धिः । अस्यानन्तर्यं
स्यादित्यभिप्रायः । मनुष्यस्याप्यमानुषं मातापितरं मारयतो न स्यादानन्तर्यम् ।
नैव भवेदानन्तर्यमित्यर्थः । कथम् ? अल्पोपकारालज्जित्वादेव । न हि मनुष्या-
नुरूपमुपकारममनुष्ययोर्मातापित्रोरन्तिके तीव्रं ह्रीव्यपत्राप्यं सन्तिष्ठते; गति-
हैन्यविपर्ययहेतुत्वात् ।
चत्वारि कायकर्मेति । मातृवधादीनि । एकं वाक्कर्मेति । सङ्घभेदः । त्रीणि
प्राणातिपात इति । मातृवधादीनि । एकं मृषावादः । सङ्घभेदः । एकं प्राणाति-
पातप्रयोगः । तथागतशरीरे दुष्टचित्तरुधिरोत्पादनं कस्मान्न प्राणातिपातः ?
इत्याह—अनुपक्रमधर्माणो हि तथागता इति । अपरोपक्रम-मरणधर्माण
इत्यर्थः ॥ ९७ ॥
हेतौ फलोपचारादिति । मृषावादो हेतुः सङ्घभेदस्य चित्तविप्रयुक्तलक्ष-
णस्य, तस्मिन् हेतौ फलोपचारः । चित्तविप्रयुक्तो धर्मः फलमुपचर्यते । सङ्घभेद
इति । भिद्यते वानेनेति । करणसाधनपरिग्रहाद्वा मृषावादः सङ्घभेद इत्युच्यते ।
मृषावादेन हि सङ्घो भिद्यते, न तु सङ्घभेद इति भावसाधनपरिग्रहः ।
“सङ्घभेदस्त्वसामग्री” इति । मुख्यवृत्त्या वैभाषिकाणां द्रव्यसत्ता । तेनाह—
१. अमानुषो मातापितरौ—का० ।
७२६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
अक्लिष्टाव्याकृतो धर्मः,
असामग्री नानाचित्तविप्रयुक्तः¹ संस्कारोऽनिवृताव्याकृतः सङ्घभेदः ।
स किमानन्तर्यं भविष्यति ? नैव च तेन भेत्ता समन्वागतः । किं तर्हि ?
सङ्घस्तेन समन्वितः ॥ ९८ ॥
यो हि भिन्नस्तस्य भेदः, न भेत्तुः ॥ ९८ ॥
अथ भेत्ता केन समन्वागतः
तदवद्यमृषावादस्तेन² भेत्ता समन्वितः ।
सङ्घभेदावद्येन भेत्ता समन्वागतः । तत् पुनर्मृषावादः । स पुनः सङ्घ-
भेदसहजे वाग्विज्ञप्त्यविज्ञप्ती । स च तेनावद्येन समन्वागतो भेत्ता ।
अवीचौ पच्यते कल्पम्,
अन्तरकल्पमवीचौ महानरके विपच्यते । अन्यैस्तु नावश्यमवीचौ ।
अथ येन बहून्यानन्तर्याणि कृतानि भवन्ति, अनन्तरमेव तानि विपच्यन्ते ।
किन्तु तैस्तस्य भवन्ति³
अधिकैरधिका रुजः ॥ ९९ ॥
स हि भूयोभिरानन्तर्यैस्तस्मिन्नवीचौ घनतरं सुकुमारतरं चाश्रयं लभते,
कारणाश्च बहुतरास्तीव्रतराश्च, येन द्वित्रिचतुष्पञ्चगुणां वेदनां वेदयते ॥ ९९ ॥
कः पुनरेष सङ्घं भिनत्ति ?
भिक्षुर्द्दृक्चरितो वृत्ती भिनत्ति,
भिक्षुर्भिनत्ति, न गृही न भिक्षुण्यादयः । स च दृष्टिचरित एव, न
“स्वभावोऽपि विप्रयुक्तकः । अक्लिष्टाव्याकृतो धर्मः” इति । स किमानन्तर्यं
भविष्यतीति । नैवासावेवंलक्षणमानन्तर्यं भवतीत्यर्थः । नैव च तेन विप्रयुक्तेन
धर्मेण भेत्ता समन्वागतः । तेन नासावानन्तर्यमित्यभिप्रायः ॥ ९८ ॥
स पुनर्मृषावादः सङ्घभेदसहजो विप्रयुक्तधर्मसहजो वाग्विज्ञप्त्यविज्ञप्तिस्वभाव
इत्यर्थः ॥ ९९ ॥
भिक्षुर्भिनत्तीति । बुद्धस्य भिक्षुत्वात् । तत्प्रतिस्पर्धिवृत्तित्वाच्च भेत्तुः । न
गृही न⁴ भिक्षुण्यादय इति । तेषामनादेयाश्रयत्वात् । स च दृष्टिचरित एव ।
दृढगूढाशयत्वात् । सत्कार्यदृष्ट्यादिषु पञ्चसु चरितः प्रवृत्तो दृष्टिचरितः ।
१. नाम०—का० । २. तदवद्यं—पाठा० ।
३. भवति—का० । ४. मुद्रितपुस्तके नास्ति ।
निर्देशः ] चतुर्थं कोशस्थानम् ७२७
तृष्णाचरितः । वृत्तस्थो न भिन्नवृत्तः, तस्यानादेयवाक्यत्वात् ।
क्व भिनत्ति ? यत्र भगवान् सन्निहितस्ततः
अन्यत्र,
नहि शास्तुरेव सन्निधौ शक्यो भेत्तुम्; तथागतानां दुष्प्रसहत्वाद्, आदेय-
वाक्यत्वाच्च ।
कान् भिनत्ति !
बालिशान् ।
पृथग्जनानेव, नार्यान् ; प्रत्यक्षधर्मत्वात् ।
तानपि न क्षान्तिलाभिन इत्यपरे ।
कियता भिन्नः सङ्घो भवति !
शास्तृमार्गान्तरक्षान्तौ¹ भिन्नः,
यदा तेभ्यस्तथागतादन्यः शास्ता क्षमते, तदुपदिष्टाच्च मार्गादन्यो मार्ग
इयता भिन्नः सङ्घो वक्तव्यः ।
कियन्तं कालं भिन्न आस्ते ? तामेव रात्रिं
न विवसत्यसौ ॥ १०० ॥
अपर्युषित एव हि सङ्घभेदे सङ्घोऽवश्यं प्रतिसन्धीयते ॥ १०० ॥
योऽयं सङ्घभेद उक्तः
चक्रभेदः स च मतः,
दृष्टिर्वा चरितमस्येति दृष्टिचरितः । स दृढोहापोहसामर्थ्यादन्यं शास्तारं मार्गा-
न्तरञ्च ग्राहयितुं समर्थः । न तृष्णाचरित इति । संक्लेशव्यवदानपक्षयोरस्थि-
राशयत्वात् ।
दुष्प्रसहत्वादिति । दुरभिभवत्वात् ।
प्रत्यक्षधर्मत्वादिति । आगमाधिगमधर्मयोः साक्षात्कारित्वादित्यर्थः ।
न क्षान्तिलाभिन इति । न निर्वेधभागीयक्षान्तिलाभिन इत्यर्थः । दृष्टि-
सत्यकल्पत्वात् ।
“न विवसत्यसौ” । न तां रात्रिं परिवसतीत्यर्थः ॥ १०० ॥
१. ०न्तरक्-शान्तो—स्फु० मू० पाठः ।
७२८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
धर्मचक्रं हि तदा भगवतो भिन्नं भवति; मार्गप्रवृत्तिविष्ठापनात् । अत एव
चक्रभेदश्चोच्यते, सङ्घभेदश्च ।
क्व पुनश्चक्रभेदो भवति ?
जम्बूद्वीपे,
नान्येषु द्वीपेषु ।
कतिभिर्भिक्षुभिः ?
नवादिभिः ।
नवादिं कृत्वा । परेणानियमः । अष्टौ भिक्षवः संघो भवति । नवमो भेत्ता ।
अवश्यं हि संघेन द्वयोः पक्षयोः स्थातव्यम् । एवं भिन्नो भवति ।
अन्यस्तु संघभेदः कर्मभेदाद् भवति । यद्येकसीमायां व्यग्राः कर्माणि¹
कुर्वन्ति । स चैष --
कर्मभेदस्त्रिषु द्वीपेषु,
येष्वेव शासनम् ।
कतिभिर्भिक्षुभिः ?
अष्टाभिरधिकैश्च सः ॥ १०१ ॥
चक्रभेदस्तु षट्सु कालेषु न भवति ॥ १०१ ॥
भिन्नं भवतीति । कथं भिन्नम् ? इत्याह—मार्गप्रवृत्तिविष्ठापनादिति । मार्ग-
प्रवृत्तिविबन्धनादित्यर्थः । यावद्धि सङ्घो न प्रतिसन्धीयते, तावन्मार्गप्रवृत्ति-
विष्ठिता भवति । न कस्यचित् सन्ताने मार्गः सम्मुखीभवतीत्यर्थः ।
चक्रभेदनिमित्तत्वात् सङ्घभेदश्चक्रभेद इत्युच्यते ।
अवश्यं हि सङ्घेन द्वयोः पक्षयोः स्थातव्यमिति । बुद्धपक्षे भेत्तृपक्षे च स्थातव्य-
मित्यर्थः । संघो हि चत्वारो भिक्षवः । संघद्वयेन च भवितव्यमित्यष्टाभिर्भिक्षु-
भिर्भेदैर्भवितव्यम्, नवमेन च भेत्रा ।
अन्यस्तु सङ्घभेद इति । चक्रभेदादन्यः । नात्रानन्तर्यमित्यभिप्रायः । यस्मा-
दसो कर्मभेदाद् भवति । व्यग्रा इति । नानामतयः । कर्माणि । पोषधादीनि
सङ्घकर्माणि ।
“अष्टाभिरधिकैश्च सः” इति । सङ्घद्वयेनात्रापि भवितव्यम् । न भेत्ता
शास्तृमानी भवतीत्यष्टाभिरेव भिक्षुभिर्भवितव्यम्, न नवादिभिरिति ॥१०१॥
१. कर्म—का०।
निर्देशः ] चतुर्थं कोशस्थानम् ७२९
कतमेषु ?
आदावन्तेऽर्बुदात् पूर्वं युगाच्चोपरते मुनौ ।
सीमायां चाप्यबद्धायां चक्रभेदो न जायते ॥ १०२ ॥
आदावचिरप्रवर्तिते धर्मचक्रे ।
अन्ते परिनिर्वाणकाले भगवतः । एतयोर्हि द्वयोरवस्थयोः संघ एकरसो
भवति ।
मध्येऽप्यर्बुदात् पूर्वं न भिद्यते, यावच्छासने शीलार्बुदं दृष्ट्यर्बुदं च
नोत्पन्नं भवति ।
युगाच्च पूर्वं न भिद्यते यावच्छावकाग्रयुगं नोत्पन्नं भवति । भिन्नन्याय-
परिवासात् तेन च प्रतिसन्धानीयत्वात् ।
उपरते मुनौ, शास्तरि परिनिर्वृते प्रतिद्वन्द्वाभावात् ।
सीमायामबद्धायाम्, यावत् सीमा न बद्धा भवति । एकसीमायां हि
एकरसो भवतीति । अव्यग्र एकमतिर्भवतीत्यर्थः । पूर्वस्यामवस्थायां प्रीति-
प्रामोद्यजातः, पश्चिमायामतीव मनसि उद्विग्नसंजातसंवेगः ।
अर्बुदात् पूर्वमिति । दोषः = अर्बुदम्, दृष्ट्यर्बुदं शीलार्बुदं वा । अत्र दृष्ट्यर्बुदं
यथोक्तम्- “यथाहं भगवतो भाषितस्यार्थमाजानामि । य इमे भगवता-
ऽऽन्तरायिका धर्मा आख्याताः ते प्रतिषेव्यमाणा नालमन्तराय” इति । तथा
“तदेव चित्तं सन्धावति संसरति” ( ) इत्यादि । शीलार्बुदम् ।
दौःशील्यम् ।
तेन च प्रतिसन्धानीयत्वादिति । तेन च श्रावकयुगेन यस्मात् प्रतिसन्धानीय
इत्यर्थः । अवश्यं च सर्वेषां बुद्धानां श्रावकयुगं भवति । एकः प्रज्ञावतामग्रः,
द्वितीय ऋद्धिमताम् । इह शाक्यमुनेरार्यशारद्वतीपुत्रः प्रज्ञावतामग्रः । आर्यो
महामौद्गल्यायन ऋद्धिमताम् ।
प्रतिद्वन्द्वाभावादिति । यस्मात् परिनिर्वृते भगवति तस्य भेत्तुः प्रतिद्वन्द्व-
भूतो नास्ति ।
सीमायामबद्धायामिति । मण्डलसीमायाम् । एकस्यां हि सीमायां पृथक्कर्म-
करणात् सङ्घद्वैधं भवति । ननु च प्रकृतिसीमास्ति ग्रामनगरादि ? सत्यमस्ति;
ज्ञप्तिसीमायां सत्यां सा प्रकृतिसीमा व्यवस्थाप्यत इति । तस्या अपि बन्धो
७३० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
पक्षद्वयावस्थानात् संघभेद इति। एषु कालेषु चक्रभेदो न भवति। न च
पुनः सर्वेषां बुद्धानां चक्रभेदः, कर्माधीनत्वात् ॥ १०२ ॥
कस्मात् मातृवधादिष्वानन्तर्यम् , नान्यत्र ?
उपकारिगुणक्षेत्रनिराकृतिविपादनात् ।
मातापितृवधे तावदुपकारिणो निराकरणात् । कथं तावुपकारिणौ ? आत्म-
भावस्य तत्प्रभवत्वात् । किं तयोर्निराकरणम् ? परित्यागः। गुणक्षेत्रत्वादहं द्वधाद्
आनन्तर्यम् ।
यदि पुनर्मातुर्व्यञ्जनं परिवृत्तं स्यात्, पितुर्वा, तत्रैकस्मिन्नाम्नायो
व्यञ्जनान्तरितोऽपि स्यात्,
अत एवोच्यते—"स्यात् पुरुषं जीविताद् व्यपरोपयेन्न पितरम्,
नार्हन्तम्। आनन्तर्यावधेन च स्पृश्येत। स्यान्मातुर्व्यञ्जनं परिवृत्तं स्यादिति।
स्यात् स्त्रीं जीविताद् व्यपरोपयेन्न मातरम्, नार्हन्तीम्, आनन्तर्यावधेन च
स्पृश्येत। स्यात् पितुर्व्यञ्जनं परिवृत्तं स्यात्" ( ) इति ।
अन्यस्याः स्त्रियाः कललं प्रसृतमन्यया योन्या पीतम् । कतरा तस्य माता
व्यवस्थाप्यत एवेति वेदितव्यम् : कर्माधीनत्वादिति। येन शिष्यसङ्घभेद-संवर्त-
नीयं कर्म कृतं भवति, तस्यैव तद्भेदो भवति, नान्यस्य। शाक्यमुनिना च
किल बोधिसत्त्वावस्थायां पञ्चाभिज्ञस्य ऋषेः पर्षद्भेदः कृत आसीत्। येनास्य
देवदत्तेन सङ्घो भिन्न इति ॥ १०२ ॥
गुणक्षेत्रत्वादिति। गुणानामाश्रयत्वादित्यर्थः। अथवा—गुणैः क्षेत्रं गुणक्षेत्रम्।
गुणयोगाद्धि तत् पुण्यस्य क्षेत्रं भवति। यथा क्षेत्रे बीजमुप्तं महाफलं भवति,
एवं पुण्यबीजमत्रोप्तं महाफलं भवति। नान्यत्रेति। न सामान्यस्त्रीवधादिषु।
उपकारि-गुणक्षेत्रनिराकृति-विपादनाद्" इति। उपकारिक्षेत्रस्य, गुणक्षेत्रस्य
वा निराकृतेः परित्यागान् मातृपितृवधादिष्वानन्तर्यम्। तस्य विपादनाच्च
विक्षोपादानन्तर्यम्। तथागतशरीरे दुष्टचित्तरुधिरोत्पादनम्। संघस्यापि यद्
भेदनं तदपि तद्विपादनम्। तदेतदुक्तं भवति—उपकारिक्षेत्रत्वात् गुणक्षेत्र-
त्वाच्च। तन्निराकरणविपादनान् मातृवधादिष्वेवानन्तर्यम्, नान्यत्रेति।
यदि पुनर्मातुर्व्यञ्जनपरिवृत्तं स्यात्, पितुर्वेति। व्यञ्जनपरावृत्त्या तन्मातृत्वं
तत्पितृत्वं वा विनष्टमिति।
निर्देश: ] चतुर्थं कोशस्थानम् ७३१
यां घ्नतः स्यादानन्तर्यम् ?
माता यच्छोणितोद्भवः ॥ १०३ ॥
यस्याः शोणितादसावुद्भूतः सत्त्वः, सास्य माता । द्वितीया तु सर्वकृत्ये-
ष्ववलोक्या । सा ह्याप्यायिका १, पोषिका, संवर्धिका च ।
यदि मातरि प्रयोगं कृत्वाऽन्यां मारयेत्, न स्यादानन्तर्यम् । अमातृप्रयोगेण
मारयेत्, तथापि न स्यात् । मञ्चतलावलीनमातृमारणं चात्रोदाहार्यम्, धावकस्य
च पुत्रेण मशकप्रयोगेण पितृमारणं च ।
एकेन प्रहारेण मातरमन्यां च मारयतो द्वे अविज्ञप्ती भवतः । विज्ञप्ति-
स्त्वानन्तर्यमेव; तस्य कर्मणो बलीयस्त्वात् ।
परमाणुसञ्चितत्वाद् विज्ञप्तिरपि द्विधेति भदन्तघोषकः । अनर्हत्संज्ञयाऽपि
अर्हद्घाते भवत्यानन्तर्यम्, 'अहम् हन्मि' इत्याश्रयावधारणात् । यः पितरमर्हन्तं
हिंस्यात्, तस्याप्येकमेव स्यादानन्तर्यम् ; आश्रयैकत्वात् ।
इदमवदानं कथं नीयते—"गच्छ शिखण्डिनं ब्रूहि, द्वे आनन्तर्ये भवता
कृते—यच्च पिता जीविताद् व्यपरोपितः, यच्चार्हन्" ( ) इति ।
मातृमारणाभावात् पितृमारणाभावाद्वा न स्यादानन्तर्यमिति, तदभावा-
शङ्कया पृच्छति । “यच्छोणितोद्भवः” इति । यस्याः शोणितादुद्भवोऽस्येति
यच्छोणितोद्भवः । सर्वकृत्येष्ववलोक्येति । सर्वमातृयोग्येषु कार्येषु द्रष्टव्येत्यभि-
प्रायः; मातृकल्पत्वात् । आपायिका कटाहारिका । पोषिका स्तन्यदायिका ।
संवर्द्धिका औदारिकाहारादिकल्पिका । अपरे व्याचक्षते—आप्यायिका स्तन्य-
धातृकेति योऽर्थः । पोषिका औदारिकाहाराभ्यासतः । संवर्द्धिका स्नानोध्वर्त्त-
विषमपरिहारत इति ।
मञ्चतलावलीनेति । मञ्चोपरि प्रावरणकल्पनेन पुरुषोऽत्र सुप्त इति मन्यमानेन
पुत्रेण तत्र शस्त्रप्रहारेण मञ्चतलावलीना माता मारितेत्युदाहार्यम् । धावकस्य
च रजकस्य पुत्रेण 'मशकं मारयामि' इति मशकप्रयोगेण पितृमारणमिति । द्वे
अविज्ञप्ती । आनन्तर्याविज्ञप्तिः, केवलप्राणातिपाताविज्ञप्तिश्च । विज्ञप्तिस्त्वा-
नन्तर्यमेव । तत्संगृहीतैव, सा नान्येत्यर्थः । तस्याप्येकमेवेति । अर्हद्घातस्यम् ।
गच्छ शिखण्डिनं ब्रूहीति । रौरुके नगरे उद्रायणो नाम राजा शिखण्डिनं
नाम पुत्रमभिषिच्य प्रव्रजितः । प्रव्रज्य अर्हत्त्वमधिगतवान् । स रौरुकाभ्यासमा-
१. ह्यापायिका—क० ।
अभि० को० २ : २३
द्वाभ्यां कारणाभ्यामिति वक्तव्यम् । द्वाभ्यां वा मुखाभ्यां परिभाषितः ॥ १०३ ॥
किमवश्यं तथागतस्यास्ति कुदुष्टचित्तरुधिरोत्पादनादानन्तर्यम् ? वधाभि-
प्रायस्य स्यात् ।
बुद्धे न ताडनेच्छस्य,
यदि ताडनाभिप्राय उत्पादयेत्, न स्यात् ।
यद्यनर्हति प्रहरेत्, स च प्रहारादूर्ध्वमर्हन् स्यात्
प्रहाराज्ञोर्ध्वमर्हति ।
‘स्यादानन्तर्यम्’ इति वर्तते । न हि तेन तत्र प्रयोगः कृतः ।
किमानन्तर्ये प्रयोगं कृत्वा तस्मिन्नव्यावर्तिते वैराग्यम्, फलं वा न
प्राप्नुयात् ?
नानन्तर्यप्रयुक्तस्य वैराग्यफलसम्भवः ॥ १०४ ॥
-अन्यकर्मपथप्रयोगं तु कृत्वाऽर्यमार्गोत्पत्तौ न पुनः कर्मपथोत्पत्तिः, आश्रय-
स्यात्यन्तं तद्विरुद्धत्वात् ॥ १०४ ॥
एषामानन्तर्याणां कतमत् महासाव
निर्देशः ] चतुर्थं कोशस्थानम् ७३३
दुश्चरितानां महावद्यतमः । किं कारणम् ? तथागतधर्मशरीरप्रहारित्वात्, लोकानां
च स्वर्गापवर्गमार्गान्तरायकत्वात् । संघे हि भिन्ने लोकस्य नियामावक्रान्तिफल-
प्राप्तिवैराग्यास्त्रवक्षयाः प्रतिबध्यन्ते, ध्यानाध्ययनस्वाध्यायचिन्ताकर्माण्यपि न
प्रवर्तन्ते, सदेवनागमनुष्यं जगच्चाकुलं विमनस्कं वर्तते, यावत् पुनर्न प्रतिसन्धितो
भवति, यस्माच्चावीचौ कल्पं विपाकः ।
शेषाणामानन्तर्याणां यथाक्रमं पञ्चमतृतीयप्रथमानि गुरुतराणि, सर्वलघुः
पितृवधः ।
यत्तर्हि भगवता त्रयाणां दण्डानां मनोदण्डो महासावद्य उक्तः, पुनर्मिथ्या-
दृष्टिः परमवद्यानामित्युक्तम्, आनन्तर्याणि नियमस्य सङ्घभेदो महासावद्य उक्तः ?
त्रीणि कर्माणि नियमय्य मनोदण्डः, दृष्टीर्नियमय्य मिथ्यादृष्टिः । अथ वा विपाक-
विस्तरम्, महाजनव्यापादनम्, कुशलमूलसमुच्छेदं चाधिकृत्य यथाक्रमम् ।
सुचरितानां पुनः कतमत् महाफलतमम् ?
भवाग्रचेतना लोके महाफलतमा शुभे ॥ १०५ ॥
कुशले पुनः कर्मणि भवाग्रचेतना सर्वेषां महाफलतमा । तस्या
अशीतिकल्पसहस्राण्यतिप्रशान्तो विपाकः । विपाकफलं चाधिकृत्यैतदुक्तम् ।
विसंयोगफलं त्वधिकृत्य वज्रोपमसमाधिचेतना सर्वेषां महाफला; सर्वसंयो-
जनप्रहाणफलत्वात् । अत एव लोक इत्युक्तम् ।
पञ्चमतृतीयप्रथमानि गुरुतराणीति । इयमानन्तर्यकर्मपथानुपूर्वी—मातृवधः,
पितृवधः, अर्हद्वधः, संघभेदः, तथागते दुष्टचित्तरुधिरोत्पादनमिति । पञ्चमं
दुष्टचित्तरुधिरोत्पादनम्, तत् सङ्घभेदवर्जेभ्योऽवशिष्टेभ्यश्चतुर्भ्यो गुरुतरम् ।
तृतीयमर्हद्वधः, तन्मातृपितृवधाभ्यां गुरुतरम् । प्रथमं मातृवधः, तत् पितृव-
धाद् गुरुतरम् । तेनाह—सर्वलघुः पितृवध इति ।
नियमस्येति । तदेवावधार्येत्यर्थः । विपाकविस्तरमधिकृत्य संघभेदो महा-
सावद्य उक्तः; अन्तरकल्पविपाकदानात् । महाजनव्यापादनमधिकृत्य मनोदण्डः;
दण्डकारण्यादिशून्यकरणात् । न ह्यन्येन कायकर्मणा वाक्कर्मणा वा तावतो
महाजनस्य व्यापादः सम्भवतीति । कुशलमूलसमुच्छेदमधिकृत्य मिथ्यादृष्टिर्महा-
सावद्या । न ह्यन्यदकुशलमूलं कुशलमूलानि समुच्छिनत्ति; समुदाचार-
मात्रविरोधित्वादिति ।
७३४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
किमानन्तर्यैरेवावश्यं नरकेषूपपद्यते ? आनन्तर्यसभागैरप्यवश्यमुपपद्यते । न
त्वनन्तरमेवेत्यपरे ॥ १०५ ॥
कतमानि तानि ? इत्याह—
दूषणं मातुरर्हन्त्या नियतिस्थस्य मारणम् ।
बोधिसत्त्वस्य शैक्षस्य सङ्घायद्वारहारिका ॥ १०६ ॥
आनन्तर्यसभागानि पञ्चमं स्तूपभेदनम् ।
एतानि पञ्च पञ्चानामानन्तर्याणां यथाक्रमं सभागानि—१. यदि मातर-
मर्हन्तीं दूषयत्यब्रह्मचर्यकरणात्, २. नियतिपतितं बोधिसत्त्वं मारयति, ३. शैक्षं
मारयति, ४. संघस्य सुखायद्वारिकं हरति, ५. स्तूपभेदं करोति ।
अन्यदपि तु कर्म सविपाकं त्रिषु कालेष्वत्यर्थं विप्रयति ॥
कतमेषु त्रिषु ?
क्षान्त्यानागामिताऽर्हत्त्वप्राप्तौ कर्मातिविघ्नकृत् ॥ १०७ ॥
मूर्धभ्यः क्षान्तिमाक्रित आपायिकानि कर्माणि विप्रायोपतिष्ठन्ते; तद्विपाक-
भूम्यतिक्रमात् । यथा पुरुषस्य देशत्यागं कुर्वतो धनिका उत्तिष्ठन्ते¹ ।
न त्वनन्तरमेवेति । नरकेऽवश्यमुत्पत्त्या तानि तत्सादृश्यात् सभागान्यु-
च्यन्ते, न तु तत्रानन्तरोत्पत्त्या । अन्यथा ह्यानन्तर्याण्येव स्युरित्यपरेषा-
मभिप्रायः । अनन्तरभावित्वेऽपि न तान्यानन्तर्याण्येव सम्भवन्ति; अतुल्यकाल-
विपाकत्वादिति प्रथमपाक्षिकाणां परिहारः ॥ १०५ ॥
“दूषणं मातुरर्हन्त्याः” । मातृवघानन्तर्यसभागम् ॥ १०६ ॥
नियतिपतितबोधिसत्त्वमारणं पितृवघानन्तर्यसभागम् । शैक्षमरणमर्हद्वघा-
नन्तर्यसभागम् । सङ्घायद्वारहारिका सङ्घभेदानन्तर्यसभागम् । स्तूपभेदनं तथा-
गतदुष्टचित्तरुधिरोत्पादनानन्तर्यसभागम् ।
सङ्घायद्वारहारिका पुनरक्षयनीव्यपहार इत्याचार्यवसुमित्रः । एवं तु
व्याचक्षते—सुखायद्वारहारिकेत । यत् सुखोपयोगिकं येन सङ्घो जीविकां
कल्पयति तस्यापहार इति ।
तद्विपाकभूम्यतिक्रमादिति । क्षान्तिलाभ्यनपायग इत्यपायमुच्यतेऽत्रोत् ।
१. उपतिष्ठन्ते—का० ।
निर्देशः ४ ] चतुर्थं कोशस्थानम् ७३५
अनागामिफलं प्राप्नुवतः कामावचराणि विप्रायेणोपतिष्ठन्ते, तथैव स्थापयित्वा
दृष्टधर्मवेदनीयं कर्म ।
अर्हत्त्वं प्राप्नुवतो रूपारूप्यावचराणि तथैव ॥ १०६-१०७ ॥
यदुक्तम्—"बोधिसत्त्वस्य मारणम्” इति,
बोधिसत्त्वः कुतो यावत्,
कुत उपादाय बोधिसत्त्वो वक्तव्यः ?
यतो लक्षणकर्मकृत् ।
यतः प्रभृति लक्षणविपाकानि कर्माण्यारभते कर्तुम्, स हि तदानीं नियति-
पतितो भवति । कथं कृत्वा ? स हि तस्मात् कालात् प्रभृति नित्यं भवति ।
सुगतिः कुलजोऽव्यक्षः पुमान् जातिस्मरोऽनिवृत् ॥ १०८ ॥
प्रशस्ता गतिरस्येति सुगतिः; देवमनुष्योपपत्तेः ।
तस्यां च सुगतौ क्षत्रिय-ब्राह्मण-गृहपतिमहाशालकुलजो भवति, नान्यः
कुलीनः ।
विकलान्यक्षाण्यस्येति व्यक्षः, न व्यक्षोऽव्यक्षः । अविकलेन्द्रियः इत्यर्थः ।
पुरुष एव न स्त्री, कुत एव षण्ढादिः । जातिस्मरश्च भवति ।
सर्वस्यां जातौ निवर्तत इति निवृत्, न निवृदनिवृत् । अनिवर्तक
इत्यर्थः । सत्त्वहितार्थं सर्वदुःखप्रकारैः सर्वसत्त्वविप्रतिपत्तिभिश्चाखेदितत्वात् ।
यल्लोक उच्यते—'आपणक्रीतो दासः' इति । बोधिसत्त्वास्ते हि महात्मनः
सर्वसम्पत्प्रकर्षविशेषाप्ता अपि सन्तो निष्कारणकरुणापारतन्त्र्यात् सर्वसत्त्वेषु
चण्डालकुमारकसदृशमात्मानं निर्मानतया व्यवस्थाप्य सत्त्वेभ्यः सर्वकदर्थ-
नानां १ सोढारो भवन्ति, सर्वश्रमयन्त्रणानां चोद्वोढारः । यच्चैतल्लक्षणविपाकं
कर्मेत्युक्तम् ॥ १०८ ॥
तथैवेति । तद्विपाकभूम्यतिक्रमात् । यथा पुरुषस्य देशत्यागं कुर्वन्तो धनिका
उत्तिष्ठन्ते, तथैवेत्यर्थः ॥ १०७ ॥
महाशालकुलज इति । महाप्राकारकुलज इत्यर्थः । क्षत्रियमहाशालकुलजो
यावद् गृहपतिमहाशालकुलज इति । महागृहपतिकुलज इत्यर्थः । कदर्थना ।
महापरिभवपूर्विका विहेठना । ययोः कायवाचोः प्रवृत्त्या परस्य दुःखदौर्मनस्ये
१. सर्वकदर्थनां—का० ।
७३६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
जम्बूद्वीपे पुमानेव सम्मुखं बुद्धचेतनः ।
चिन्तामयं कल्पशते शेष आक्षिपते हि तत् ॥ १०९ ॥
जम्बूद्वीप एव बोधिसत्त्वो लक्षणविपाकं कर्माक्षिपति, नान्यत्र; जाम्बूद्वीप-
कानां तीक्ष्णबुद्धित्वात् ।
पुरुष एव, न स्त्री ।
सम्मुखीभूत एव शास्तरि, बुद्धालम्बनयैव चेतनया ।
चिन्तामयं तत्कर्म; न श्रुतमयम्, न भावनामयम् ।
कल्पशते च शेष आक्षिपति न बहुभवेषु । भगवता तु शाक्यमुनिनोत्त-
प्तवीर्यतया नव कल्पा अपावर्तिता एकनवत्या कल्पैराक्षिप्तम् ।
अत एव चोक्तम्—“इतोऽहं ग्रामणि¹ एकनवतं¹ कल्पमुपादाय न सम-
नुस्मरामि नाभिजानामि यदेककुलमपि पक्षभिक्षाप्रदानहेतोः क्षतं वा स्यादुपहतं
वा” ( ) इति ।
ततः प्रभृति प्रकृतिजातिस्मरत्वात् प्रथमकल्पासंख्येयनिर्यांत एव बोधिसत्त्व
एतांश्चतुरो दोषान् व्यावर्तयति, द्वौ च गुणौ प्रतिलभत इति पूर्वाचार्याः ॥ १०९ ॥
तेषां च लक्षणानाम्
एकैकं पुण्यशतजम्,
किं पुण्यस्य परिमाणम् ?
भवतः, तदपेक्षया तन्निग्रहो यन्त्रणेत्युच्यते ॥ १०८ ॥
एकनवतं कल्पमुपादायेति । एकनवतेः पूरणः कल्प एकनवतः, तदुपादाय ।
असिबद्धकेन ग्रामण्या निर्ग्रन्थश्रावकेण भगवानुक्तः—“किमनर्थयासि भो
गौतम कुलानां प्रतिपन्नो यस्त्वमीदृशे दुर्भिक्ष इयता भिक्षुसंघेन सार्द्धमशनि-
वदुत्सादयंन् भिक्षामटसि” इति । स भगवताभिहितः—“इतोऽहं ग्रामणि
एकनवतं कल्पमुपादाय” ( ) इति विस्तरः ।
एतांश्चतुरो दोषान् व्यावर्तयतीति । दुर्गतिदोषम्, अकुलीनतादोषम्,
विकलेन्द्रियतादोषम्, स्त्रीभावदोषं चेति । द्वौ च गुणौ प्रतिलभते । जाति-
स्मरतागुणम्, अनिवर्तकतागुणं चेति ॥ १०९ ॥
१-१. ग्रामणीरेक०—का० ।
निर्देशः ] चतुर्थं कोशस्थानम् ७३७
सन्निकृष्टं बोधिसत्त्वं स्थापयित्वा यावत् सर्वसत्त्वानां भोगफलमित्येके।
यावत् सर्वसत्त्वानां कर्माधिपत्येन त्रिसाहस्रमहासाहस्रो लोको निर्वर्तत¹
इत्यपरे।
बुद्धा एव च तत्परिमाणज्ञा इत्यपरे।
अन्य बोधिसत्त्वभूतो भगवान् कियतो बुद्धान् पर्युपासयामास ? प्रथमे
कल्पासंख्येये पञ्चसप्ततिसहस्राणि, द्वितीये षट्सप्ततिम्, तृतीये सप्तसप्ततिम्।
अथ कस्य कल्पासंख्येयस्यान्ते कतमो बुद्ध आसीत् ? प्रतिलोमानुक्रमेण
यथाक्रमम्—
सन्निकृष्टं बोधिसत्त्वं स्थापयित्वेति। यो लक्षणविपाककर्मकारी। त्रिसाहस्र-
महासाहस्रो निर्वर्तत इति। येन सर्वसत्त्वकर्माधिपत्येन त्रिसाहस्रमहासाहस्र-
प्रादुर्भावः, तस्य तत् परिमाणमिति। उक्तं पुण्यस्य परिमाणम्।
—तेषामेवं कृतपरिमाणानां शतेनैकं महापुरुषलक्षणं निर्वर्तते। एवं यावद्
द्वात्रिंशत्तममपीति। केचित् तं व्याचक्षते—बुद्धालम्बनमनस्कारसम्मुखीभावात्
पञ्चाशच्चेतना भवन्ति। ‘अहमपीत्थं स्याम्’ इत्यपराः पञ्चाशदित्येवं पुण्यशतं
भवतीति।
अपरे वर्णयन्ति—कामधातुर्विंशतिस्थानानि, रूपधातुः षोडश, आरूप्या-
श्चत्वारः, अष्टौ च शीटनरका इत्यष्टचत्वारिंशद्विकल्पं त्रैधातुकं भवति।
तदालम्बनमस्य बोधिसत्त्वस्य करुणाचित्तमुत्पद्यते। ततस्तत्सम्प्रयुक्ताश्चेतना
अष्टचत्वारिंशद् भवन्ति। अतोऽनन्तरं बुद्धालम्बनचेतनोत्पद्यते। यथानेनास्मात्
त्रैधातुकात् सत्त्वा मोचिता इत्येका चेतना। अतोऽनन्तरं द्वितीया चेतनोत्पद्यते।
‘अहमप्येवं मोचयेयम्’ इत्यात्मालम्बनेति पञ्चाशच्चेतना भवन्ति। तासां
पुनर्द्विःसम्मुखीभावाच्चेतनाशतं भवतीति।
अन्य आहुः—प्राणातिपातविरतिर्बुद्धस्य भगवतः पञ्चभिः कारणैरुपैता
भवति। पञ्च कारणानि—मौलकर्मपथपरिशुद्धिः, सामन्तकपरिशुद्धिः, वित-
र्कानुपघातः, स्मृत्यनुपरिगृहीतत्वम्, निर्वाणपरिणामितत्वं चेति। तदालम्बना
अपि चेतनाः पञ्च भवन्ति। एवं दश कर्मपथालम्बना दश पञ्चकाश्चेतनानां
पञ्चाशच्चेतना भवन्ति। तासां द्विःसम्मुखीभावाच्चेतनाशतं भवतीत्येतत्
पुण्यशतम्। ‘यथा अयमसाधारणदशकुशलकर्मपथनिर्जातो भगवान्, एवमह-
मपि स्याम्’ इति कृत्वा। तदेवं सत्येकैकं पुण्यशतजमित्येतत् सिध्यति।
पर्युपासयामासेति। लिट्ण्याम्-प्रत्ययान्तस्यासेरेतद्रूपम्। पर्युपासितवा-
१. ॰ऽभिनिवर्तत—का०।
असंख्येयत्रयान्त्यजाः¹ ।
विपश्यी दीपकृद् रत्नशिखी,
रत्नशिखिनि सम्यक्सम्बुद्धे प्रथमोऽसङ्ख्येयः समाप्तः। दीपङ्करे भगवति
द्वितीयः। विपश्यिनि तथागते तृतीयः।
सर्वेषां तु तेषां—
शाक्यमुनिः पुरा ॥ ११० ॥
शाक्यमुनिर्नाम सम्यक्सम्बुद्धः पूर्वं बभूव। यत्र भगवता बोधिसत्त्वभूतेन
आद्यं प्रणिधानं कृतम्—'एवम्प्रकार एवाहं बुद्धो भवेयम्' इति, नोऽप्येवं कलियुग
एवोत्पन्नवानार्यवत्, तस्याप्येवं वर्षसहस्रान्तं शासनं बभूव ॥ ११० ॥
अथ कस्यामवस्थायां बोधिसत्त्वः कां पारमितां परिपूरयते ?
सर्वत्र सर्वं ददतः कारुण्याद् दानपूरणम्।
यदा सर्वस्मै सर्वं ददाति आ अक्ष्णः, आ मज्जायाः, कारुण्यात् नाभ्यु-
दयविशेषं लिप्समानः—इयता दानपारमिता परिपूर्णा भवति।
अङ्गच्छेदेऽप्यकोपात्तु रागिणः क्षान्तिशीलयोः ॥ १११ ॥
यदायमवीतरागोऽपि छिद्यमानेष्वङ्गेषु नाल्पमपि कुप्यति, तदा अस्य
क्षान्तिशीलपारमिते परिपूर्णे भवतः ॥ १११ ॥
तिष्यस्तोत्रेण वीर्यस्य,
तिष्यं तथागतरत्नगुहायां तेजोधातुसमापन्नन्दृष्ट्वा भगवान् बोधिसत्त्वभूत
एकेन पादेन स्थित्वा सप्त दिवसान् स्तुतवानेकगाथया—
“न दिवि भुवि वा नास्मिन् लोके न वैश्रवणालये।
नित्यर्थः। यत्र भगवतेति विस्तरः। प्रभासनाम्ना कुम्भकारकुमारभूतेनासुखो-
दरकाभ्याञ्चपरिचर्याभिरुपस्थानं कृत्वाद्यं प्रणिधानं कृतम् ॥ ११० ॥
तदास्य क्षान्तिशीलपारमिते परिपूर्णे इति। चेतसा तावदकोपत: क्षान्तिपार-
मितापरिपूरिः, कायवाग्भ्यां दुश्चरिताकरणाच्छीलपारमितापरिपूरिरिति ॥
न दिवि भुवि चेति विस्तरः। दिवि, भुवि वेति उद्देशपदन्यायेनोक्तम्।
१. ०न्तजाः—स्फु० मुद्रितः पाठः।
निर्देशः ] चतुर्थं कोशस्थानम् ७३९
न मरुभवने दिव्यस्थाने¹ न दिक्षु विदिक्षु च² ॥
चरतु वसुधां स्फीतां कृत्स्नां सपर्वतकाननाम् ।
पुरुषवृषभस्त्वत्तुल्योऽन्यो महाश्रमणः कुतः" ॥ ( ) इति ।
तदा किल वीर्यपारमिता परिपूर्णा, नव च कल्पाः प्रत्युदावर्तिताः ।
धीसमाध्योरनन्तरम् ।
बोधेः पूर्वसमनन्तरं ध्यानप्रज्ञापारमितयोः परिपूरिः । वज्रोपमसमाधौ
स्वस्याः सम्पदः पारगमनात् पारमिताः ।
सूत्र उक्तम्—"त्रीणि पुण्यक्रियावस्तूनि । दानमयं पुण्यक्रियावस्तु,
शीलमयम्, भावनामयम्" ( ) इति । कथमेतत् त्रयं
पुण्यक्रियावस्तु !
पुण्यं क्रियाऽथ तद्वस्तु त्रयं कर्मपथा यथा ॥ ११२ ॥
पुण्यमप्येतत् त्रयं क्रियापि, वस्त्वपि, यथायोगमिति पुण्यक्रियावस्तु ।
तद्यथा—कर्म च ते पन्थानश्च पन्थान एव च कर्मण इति कर्मपथा उक्ताः ।
नास्मिँल्लोके न वैश्रवणालये न मरुभवने दिव्यस्थान इति । तद्व्यक्त्यर्थनिर्देशपदानि ।
अस्मिन् लोक इति । मनुष्यलोके। वैश्रवणालय इति। चातुर्महाराजिकस्थाने ।
मरुभवन इति । मरुद्भवे । त्रायस्त्रिंशभवन इत्यर्थः । दिव्यस्थाने । यामादिस्थाने ।
लोकधात्वन्तरेष्वपि तत्सदृशस्याभावज्ञापनाथर्माह—न दिक्षु विदिक्षु चेति ।
अथ न श्रद्धीयते, चरतु नरः कश्चिद् वसुधामिमां कृत्स्नां स्फीतां
बहुसत्त्वाध्यासितां सह पर्वतैः काननेश्च । सपर्वतकाननां स्वयं प्रत्यवेक्ष्यताम्
इत्यभिप्रायः ।
नव च कल्पाः प्रत्युदावर्तिता इति । तेन वीर्यारम्भेणैकनवत्या कल्पैः परिपूर्णा
वीर्यपारमितेति कृत्वा । अत एवोक्तम्—एकनवत्यां कल्पेष्वाक्षिप्तमिति ।
बोधेः पूर्वसमनन्तरमिति । क्षयानुत्पादज्ञानलक्षणाया बोधेः पूर्वसम-
नन्तरम् । किं कारणम् ? परिपूर्णपारमितो हि बोधिमधिगच्छति, नापरिपूर्ण-
पारमित इति ।
यथायोगमिति । किञ्चित् पुण्यञ्च क्रिया च वस्तु च, किञ्चित् पुण्यं च क्रिया
च, किञ्चित् पुण्यमेव क्रिया च, किञ्चित् पुण्यं च वस्तु च, किञ्चिद्वस्त्वेवेति ।
कथम् ? इत्याह—तद्यथेति विस्तरः । कर्म च ते पन्थानश्च । प्राणातिपातादयः
१. दिव्ये स्थाने—का० । २. वा—का० ।
७४० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
तत्र दानमये तावत् पुण्यक्रियावस्तुनि कायवाक्कर्म त्रिधा भवति-तत्-
समुत्थापिका चेतना, पुण्यं च, क्रिया च। तत्सहभुवो धर्माः पुण्यमेव।
शीलमयं तु---कायवाक्कर्मैवेति त्रिधा भवति।
भावनामयम्-मैत्री, पुण्यं च, पुण्यक्रियायाश्च वस्तु। तत्सम्प्रयुक्तायाश्चेत-
नाया मैत्रीमुखेनाभिसंस्करणात् तत्सहभूश्चेतना, शीलं च, पुण्यं च, क्रिया च।
अन्ये तत्सहभुवः पुण्यमेव, पुण्यस्य वा कारणं पुण्यक्रिया पुण्यप्रयोगस्तस्या
एतानि त्रीणि वस्तूनि। एषां सम्पादनार्थं पुण्यप्रयोगाम्भादिति।
कुशलचेतनापरमार्थेन पुण्यक्रिया। तस्या एतानि वस्तूनीत्यपरे ॥११२॥
किमिदं दानं नाम? यदपि दीयते तद् दानम्। इह तु
दीयते येन तद्दानम्,
सप्त कर्मपथाः, कर्मस्वभावत्वात् चेतनापथत्वाच्च। त्रयस्त्वभिध्यादयः पन्थान एव
कर्मणश्चेतनाख्यस्येति कर्मपथाः।
कायवाक्कर्म त्रिविधेति। पुण्यं तावदिष्टविपाकत्वात्। क्रिया कर्मस्वभाव-
त्वात्। वस्तु तत्समुत्थानचेतनायास्तदधिष्ठाय प्रवृत्तेः। तत्समुत्थापिका चेतना
कायवाक्कर्मसमुत्थापिका। पुण्यमिष्टविपाकत्वात्। क्रिया मनस्कर्मत्वात् न वस्तु,
क्रियानधिष्ठानत्वात्। तत्सहभुवो वेदनादयः। इष्टविपाकत्वात् पुण्यमेव, न तु
क्रियाधिष्ठानं वा; तल्लक्षणाभांवात्।
शीलमयमिति। पूर्ववत् त्रेधं योज्यम्।
मैत्रीं पुण्यमिति पूर्ववद् योज्यम्। पुण्यक्रियायाश्च वस्तु। तत्सम्प्रयुक्ताया मैत्री-
सम्प्रयुक्तायाश्चेतनाया मैत्रीमुखेन मैत्रीवशेनार्भिसंस्करणाद् अभिसञ्चेतनात्
तत्सहभूः मैत्रीसहभूश्चेतना शालञ्च ध्यानसंवरसंगृहीतम्, पुण्यं च क्रिया च पूर्ववत्।
'न हि ध्यानसंवरं प्रवर्तयेयम्' इत्यधिष्ठाय चेतना प्रवर्तते। तेन न क्रियाविष्ठा-
नम्। अन्ये तत्सहभुवो वेदनादयः पुण्यमेव पूर्ववत्। तदेवम् दानमये-पुण्यं च
क्रिया च वस्तु च, पुण्यं क्रिया च, पुण्यं चं, पुण्यक्रियावस्तु। शीलमये-पुण्यं
च क्रिया च क्रियावस्तु च पुण्यक्रियावस्तु। भावनामये-पुण्यक्रियावस्तु च,
पुण्यं क्रिया च, पुण्यं चेति पुण्यक्रियावस्तु। अवयवरूपाणामप्येकशेष
इष्यते; "गुणो यङ्लुकोः" ( पा० सू० ७.४.८२ ) इति यथा ॥ ११२ ॥
यदपि दीयते तद्दानमिति। देयं वस्तु, कर्मणि ल्युडिति कृत्वा। "दीयते येन
तद्दानम्" इति। इह तु कुशलमिष्टं दानमिति। देयस्य हि वस्त्रादेर्व्या-
वृत्तत्वम्।
निर्देशः ] चतुर्थं कोशस्थानम् ७४१
भवति स्म । रागादिभिरपि दीयते, न चात्र तदिष्टम्, अतो विशेषणार्थ-
माह—
पूजानुग्रहकामया¹ ।
परेषां पूजानुग्रहकामताभ्यां येन दीयते । किं पुनस्तत्त्यागेन दीयते?
कायवाक्कर्म सोत्थानम्,
किं पुनस्तदुत्थानम् ? येन कलापेन तदुत्थाप्यते । आह चात्र—
“शुभेन मनसा द्रव्यं स्वं ददाति यदा पुमान् ।
तत् क्षणं कुशलाः स्कन्धाः दानमित्यभिधीयते ॥” ( ) इति ।
महाभोग्यफलं च तत् ॥ ११३ ॥
तच्चैतद् दानमयं पुण्यक्रियावस्तु महाभोग्यफलम् । स्वभावे चैष मयड्
बेदितव्यः । तद्यथा—तृणमयं गृहम्, पर्णमयं भाजनमिति ॥ ११३ ॥
तत् खल्वेतद् दानम्—
स्वपरार्थोभयार्थाय नोभयार्थाय दीयते ।
तत्र यदवीतरागः आर्यः पृथग्जनो वा वीतरागश्चैत्ये दानं ददाति, तदस्यात्मन
एवार्थाय; परेषां तेनानुग्रहाभावात् ।
यदार्यो वीतरागः परसत्त्वेभ्यो दानं ददाति स्थापयित्वा दृष्टधर्मवेदनीयं तत्र
दानं परेषामर्थाय; तेन तेषामनुग्रहात् । नात्मनोऽर्थाय; तद्विपाकभूमेरत्यन्त-
समतिक्रान्तत्वात् ।
रागादिभिरपीति । आदिशब्देन क्रोधेर्ष्यादीनां ग्रहणम् । पूजानुग्रहकामत-
येति । चैत्यापरिनिर्वृतेभ्यः
७४२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
यद्वीतरागः पृथग्जनो वा वीतरागः परसत्त्वेभ्यो ददाति तद्दानमुभयेषामर्थाय।
यदार्यो वीतरागश्चैत्ये ददाति स्थापयित्वा दृष्टधर्मवेदनीयम्, तद्दानमुभयेषां
नार्थाय। तद्धि केवलं गौरवं कृतज्ञाभ्यां दीयते।
सामान्येन दानं महाभोगफलमुक्तम्।
तद्विशेषः पुनर्दातृवस्तुक्षेत्रविशेषतः ॥ ११४ ॥
तत्र तावत्—
दाता विशिष्टः श्रद्धाद्यैः,
श्रद्धाशीलश्रुतादिगुणयुक्तो दाता विशिष्टो भवति। तद् दानदातृविशेषेण
फलदानं प्रति विशिष्यते।
स च तादृशो दाता
सत्कृत्यादि ददाति,
सत्कृत्य स्वहस्तं काले परानुपहत्य ददाति।
अतः।
सत्कारोदाररुचिता कालानाच्छेद्यलाभिता ॥ ११५ ॥
अतोऽस्य दातुस्तत् तादृशं दानं दत्त्वा यथाक्रमं चत्वारो विशेषा भवन्ति—
१. सत्कारलाभी भवति। २. उदारेभ्यो¹ भोगेभ्यो¹ रुचिं लभते। ३. काले²
भोगान् लभते नातिक्रान्तिकालान्³। ४. अनाच्छेद्यांश्च भोगान् लभते। नास्य
भोगाः परैराच्छाद्यन्ते, नाप्यग्न्यादिभिर्विनाश्यन्ते। उक्तं यथा—दाता विशिष्यते,
तद्विशेषाच्च दानविशेषः ॥ ११५ ॥
स्थापयित्वा दृष्टधर्मवेदनीयमिति। तदुभयार्थमिति कृत्वा स्थाप्यते। तद्वि-
पाकभूमेरत्यन्तसमतिक्रान्तत्वात्। कामधातोरत्यन्तसमतिक्रान्तत्वादित्यर्थः।
कामधातुर्हि दानस्य विपाकभूमिरिति ॥ ११४ ॥
श्रुतादिगुणयुक्त इति। आदि-शब्देन त्यागप्रज्ञाल्येच्छतादिगुणयुक्तः। “सत्कृ-
त्यादि ददाति” इति। सत्कृत्येत्यादिरस्येति सत्कृत्यादि। क्रियाविशेषणमेतत्।
यथाक्रमं चत्वारो विशेषा इति। सत्कृत्य दाता सत्कारलाभी भवति।
स्वहस्तदाता उदारेभ्यो भोगेभ्यो रुचिं लभते। कालदाता काले भोगान् लभते;
नातिक्रान्तकालात्। यद् भोक्तुमेवासमर्थः। परानुपहत्य दाता अनाच्छेद्यान्
१-१. उदारेषु च भोगेषु—का०। २. कालेन च—का०। ३. ०कालेन—का०।
निर्देशः ] चतुर्थं कोशस्थानम् ७४३
अथ वस्तु कथं विशिष्यते ?
वर्णादिसम्पदा वस्तु
'विशिष्टम्' इति वर्तते । यदि यद्दीयते तद् वर्णगन्धरसस्पर्शानामन्यतमेनापि
सम्पन्नं भवति । एवं वस्तु विशिष्यते ।
तादृशं वस्तु दत्त्वा किं भवति ? यथाक्रमम्
सुरूपत्वं यशस्वि वा ।
प्रियता सुकुमारर्तुसुखस्पर्शाङ्गता ततः ॥ ११६॥
वर्णसम्पन्नं दत्त्वा सुरूपो भवति ।
गन्धसम्पन्नं दत्त्वा यशस्वी भवति; गन्धवद् यशसो दिक्षु विधारणात् ।
रससम्पन्नं दत्त्वा प्रियो भवति । रस इव स्वादुः ।
स्पर्शसम्पन्नं दत्त्वा सुकुमाराङ्गश्च भवति, ऋतुसुखस्पर्शानि चास्याङ्गानि
भवन्ति, यथा क्षीरलस्य ॥ ११६ ॥
अथ क्षेत्रं कथं विशिष्यते ?
गतिदुःखोपकारित्वगुणैः क्षेत्रं विशिष्यते ।
गतिविशेषाव तावद् विशिष्यते । तथा ह्युक्तं भगवता—"तिर्यग्योनिगताय
दानं दत्त्वा शतगुणो विपाकः प्रतिकाङ्क्षितव्यः । दुःशीलाय मनुष्यभूताय दानं
दत्त्वा सहस्रगुणः” ( ) इति ।
दुःखविशेषाद् विशिष्यते । तथा ह्यौपधिकेषु पुण्यक्रियावस्तुषु, ग्लाने
दानम्, ग्लानोपस्थापके दानम्, शीतलिकादिषु च दानमुक्त्वोक्तम्—"एभिः
सप्तभिः औपधिकैः पुण्यक्रियावस्तुभिः समन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा
कुलदुहितुर्वा न लभ्यं पुण्यानां प्रमाणमुद्ग्रहीतुम्” ( ) इति ।
भोगान् लभते ॥ ११५ ॥
ऋत-सुख-स्पर्शानि चास्याङ्गानीति। शीते उष्णानि, उष्णे शीतानि, साधारणे
साधारणानि ॥ ११६ ॥
शीतलिकादिषु चेति । आदि-शब्देन वर्दनिका-वर्षलिकादिषु यथासूत्रमूह्य-
मेतत् ।
७४४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
उपकारित्वविशेषाद् यथा—मातापित्रोरन्येषां चोपकारिणाम्; ऋक्षमृग-
जातकाद्युदाहरणात् ।
गुणविशेषाद् यथा—“शीलवते दत्त्वा शतसहस्रगुणो विपाकः”
( ) इत्येवमादि ।
सर्वेषां तु दानानाम्
अग्रं मुक्तस्य मुक्ताय,
“यद्वीतरागो वीतरागाय दत्त्वाऽतिदानम्, इदं श्रेष्ठमामिषदानेषु दानम्”
( ) इत्युक्तं भगवता ।
बोधिसत्त्वस्य च,
यद्वा दानं बोधिसत्त्वे ददाति सर्वसत्त्वहितहेतोः, तदमुक्तस्याप्यमुक्तेऽभ्या-
दानमग्रम् । तत् स्थापयित्वा यानि भगवतोऽन्यान्यष्टौ दानान्युक्तानि, तेषाम्—
अष्टमम् ॥ ११७ ॥
‘अग्रम्’ इति वर्तते । कतमान्यष्टौ ? १. आसाद्य दानम्, २. भयदानम्,
३. ‘अदान्मे दानम्, ४. दास्यति मे दानम्, ५. दत्तपूर्वं मे दानं पितृभिश्च
पितामहैश्च’ इति दानं ददाति, ६. स्वर्गार्थं दानम्, ७. कीर्त्यर्थं दानम्,
८. चित्तालङ्कारार्थं दानम्, चित्तपरिष्कारार्थम्, योगसम्भारार्थमुत्तमार्थस्य प्राप्तये
दानं ददाति ।
तत्रासाद्य दानं यत् आसन्नेभ्य उपगतेभ्यो दानं ददातीति पौराणाः ।
भयदानं यद् विनाशाभिमुखं दृष्ट्वा वरं ददामीति ददाति ।
यथा मातापित्रोरिति । उपकारित्वविशेषात् कारापकारौ महाफलौ तयो-
र्भवतः—इत्यर्थोऽवगन्तव्यः । ऋक्षमृगजातकाद्युदाहरणाद् विपाक इति । एवम्
ऋक्षमृगयोर्गुहां प्रविश्य गात्रोष्मेशीतोपनयेनोह्यमाननद्युत्तारणेन चोपकारि-
णोरपकारकरणेन सद्योऽङ्गपातात् । आदिशब्देन कपिजातकाद्युदाहार्यम् ।
शीलवते दत्त्वा शतसहस्रगुणो विपाक इत्येवमादीति । आदिशब्देन स्रोत-
आपत्तिफलप्रतिपन्नकाय दत्त्वा अप्रमेयो भवति विपाकः, ततोऽप्रमेयतरः स्रोत-
आपन्नायेत्यादि ।
तत् स्थापयित्वेति । अनन्तरोक्तं बोधिसत्त्वदानम् । तद्धि सम्यक्सम्बोध्यर्थं