सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 754, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 754

निर्देशः ४ ] चतुर्थं कोशस्थानम् ७३५
अनागामिफलं प्राप्नुवतः कामावचराणि विप्रायेणोपतिष्ठन्ते, तथैव स्थापयित्वा
दृष्टधर्मवेदनीयं कर्म ।
अर्हत्त्वं प्राप्नुवतो रूपारूप्यावचराणि तथैव ॥ १०६-१०७ ॥
यदुक्तम्—"बोधिसत्त्वस्य मारणम्” इति,
बोधिसत्त्वः कुतो यावत्,
कुत उपादाय बोधिसत्त्वो वक्तव्यः ?
यतो लक्षणकर्मकृत् ।
यतः प्रभृति लक्षणविपाकानि कर्माण्यारभते कर्तुम्, स हि तदानीं नियति-
पतितो भवति । कथं कृत्वा ? स हि तस्मात् कालात् प्रभृति नित्यं भवति ।
सुगतिः कुलजोऽव्यक्षः पुमान् जातिस्मरोऽनिवृत् ॥ १०८ ॥
प्रशस्ता गतिरस्येति सुगतिः; देवमनुष्योपपत्तेः ।
तस्यां च सुगतौ क्षत्रिय-ब्राह्मण-गृहपतिमहाशालकुलजो भवति, नान्यः
कुलीनः ।
विकलान्यक्षाण्यस्येति व्यक्षः, न व्यक्षोऽव्यक्षः । अविकलेन्द्रियः इत्यर्थः ।
पुरुष एव न स्त्री, कुत एव षण्ढादिः । जातिस्मरश्च भवति ।
सर्वस्यां जातौ निवर्तत इति निवृत्, न निवृदनिवृत् । अनिवर्तक
इत्यर्थः । सत्त्वहितार्थं सर्वदुःखप्रकारैः सर्वसत्त्वविप्रतिपत्तिभिश्चाखेदितत्वात् ।
यल्लोक उच्यते—'आपणक्रीतो दासः' इति । बोधिसत्त्वास्ते हि महात्मनः
सर्वसम्पत्प्रकर्षविशेषाप्ता अपि सन्तो निष्कारणकरुणापारतन्त्र्यात् सर्वसत्त्वेषु
चण्डालकुमारकसदृशमात्मानं निर्मानतया व्यवस्थाप्य सत्त्वेभ्यः सर्वकदर्थ-
नानां १ सोढारो भवन्ति, सर्वश्रमयन्त्रणानां चोद्वोढारः । यच्चैतल्लक्षणविपाकं
कर्मेत्युक्तम् ॥ १०८ ॥
तथैवेति । तद्विपाकभूम्यतिक्रमात् । यथा पुरुषस्य देशत्यागं कुर्वन्तो धनिका
उत्तिष्ठन्ते, तथैवेत्यर्थः ॥ १०७ ॥
महाशालकुलज इति । महाप्राकारकुलज इत्यर्थः । क्षत्रियमहाशालकुलजो
यावद् गृहपतिमहाशालकुलज इति । महागृहपतिकुलज इत्यर्थः । कदर्थना ।
महापरिभवपूर्विका विहेठना । ययोः कायवाचोः प्रवृत्त्या परस्य दुःखदौर्मनस्ये
१. सर्वकदर्थनां—का० ।