अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 751, कुल 1258 में से
संदर्भ में पढ़ेंद्वाभ्यां कारणाभ्यामिति वक्तव्यम् । द्वाभ्यां वा मुखाभ्यां परिभाषितः ॥ १०३ ॥
किमवश्यं तथागतस्यास्ति कुदुष्टचित्तरुधिरोत्पादनादानन्तर्यम् ? वधाभि-
प्रायस्य स्यात् ।
बुद्धे न ताडनेच्छस्य,
यदि ताडनाभिप्राय उत्पादयेत्, न स्यात् ।
यद्यनर्हति प्रहरेत्, स च प्रहारादूर्ध्वमर्हन् स्यात्
प्रहाराज्ञोर्ध्वमर्हति ।
‘स्यादानन्तर्यम्’ इति वर्तते । न हि तेन तत्र प्रयोगः कृतः ।
किमानन्तर्ये प्रयोगं कृत्वा तस्मिन्नव्यावर्तिते वैराग्यम्, फलं वा न
प्राप्नुयात् ?
नानन्तर्यप्रयुक्तस्य वैराग्यफलसम्भवः ॥ १०४ ॥
-अन्यकर्मपथप्रयोगं तु कृत्वाऽर्यमार्गोत्पत्तौ न पुनः कर्मपथोत्पत्तिः, आश्रय-
स्यात्यन्तं तद्विरुद्धत्वात् ॥ १०४ ॥
एषामानन्तर्याणां कतमत् महासाव