सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 745, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 745

७२६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
अक्लिष्टाव्याकृतो धर्मः,
असामग्री नानाचित्तविप्रयुक्तः¹ संस्कारोऽनिवृताव्याकृतः सङ्घभेदः ।
स किमानन्तर्यं भविष्यति ? नैव च तेन भेत्ता समन्वागतः । किं तर्हि ?
सङ्घस्तेन समन्वितः ॥ ९८ ॥
यो हि भिन्नस्तस्य भेदः, न भेत्तुः ॥ ९८ ॥
अथ भेत्ता केन समन्वागतः
तदवद्यमृषावादस्तेन² भेत्ता समन्वितः ।
सङ्घभेदावद्येन भेत्ता समन्वागतः । तत् पुनर्मृषावादः । स पुनः सङ्घ-
भेदसहजे वाग्विज्ञप्त्यविज्ञप्ती । स च तेनावद्येन समन्वागतो भेत्ता ।
अवीचौ पच्यते कल्पम्,
अन्तरकल्पमवीचौ महानरके विपच्यते । अन्यैस्तु नावश्यमवीचौ ।
अथ येन बहून्यानन्तर्याणि कृतानि भवन्ति, अनन्तरमेव तानि विपच्यन्ते ।
किन्तु तैस्तस्य भवन्ति³
अधिकैरधिका रुजः ॥ ९९ ॥
स हि भूयोभिरानन्तर्यैस्तस्मिन्नवीचौ घनतरं सुकुमारतरं चाश्रयं लभते,
कारणाश्च बहुतरास्तीव्रतराश्च, येन द्वित्रिचतुष्पञ्चगुणां वेदनां वेदयते ॥ ९९ ॥
कः पुनरेष सङ्घं भिनत्ति ?
भिक्षुर्द्दृक्चरितो वृत्ती भिनत्ति,
भिक्षुर्भिनत्ति, न गृही न भिक्षुण्यादयः । स च दृष्टिचरित एव, न
“स्वभावोऽपि विप्रयुक्तकः । अक्लिष्टाव्याकृतो धर्मः” इति । स किमानन्तर्यं
भविष्यतीति । नैवासावेवंलक्षणमानन्तर्यं भवतीत्यर्थः । नैव च तेन विप्रयुक्तेन
धर्मेण भेत्ता समन्वागतः । तेन नासावानन्तर्यमित्यभिप्रायः ॥ ९८ ॥
स पुनर्मृषावादः सङ्घभेदसहजो विप्रयुक्तधर्मसहजो वाग्विज्ञप्त्यविज्ञप्तिस्वभाव
इत्यर्थः ॥ ९९ ॥
भिक्षुर्भिनत्तीति । बुद्धस्य भिक्षुत्वात् । तत्प्रतिस्पर्धिवृत्तित्वाच्च भेत्तुः । न
गृही न⁴ भिक्षुण्यादय इति । तेषामनादेयाश्रयत्वात् । स च दृष्टिचरित एव ।
दृढगूढाशयत्वात् । सत्कार्यदृष्ट्यादिषु पञ्चसु चरितः प्रवृत्तो दृष्टिचरितः ।
१. नाम०—का० । २. तदवद्यं—पाठा० ।
३. भवति—का० । ४. मुद्रितपुस्तके नास्ति ।