सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 752, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 752

निर्देशः ] चतुर्थं कोशस्थानम् ७३३
दुश्चरितानां महावद्यतमः । किं कारणम् ? तथागतधर्मशरीरप्रहारित्वात्, लोकानां
च स्वर्गापवर्गमार्गान्तरायकत्वात् । संघे हि भिन्ने लोकस्य नियामावक्रान्तिफल-
प्राप्तिवैराग्यास्त्रवक्षयाः प्रतिबध्यन्ते, ध्यानाध्ययनस्वाध्यायचिन्ताकर्माण्यपि न
प्रवर्तन्ते, सदेवनागमनुष्यं जगच्चाकुलं विमनस्कं वर्तते, यावत् पुनर्न प्रतिसन्धितो
भवति, यस्माच्चावीचौ कल्पं विपाकः ।
शेषाणामानन्तर्याणां यथाक्रमं पञ्चमतृतीयप्रथमानि गुरुतराणि, सर्वलघुः
पितृवधः ।
यत्तर्हि भगवता त्रयाणां दण्डानां मनोदण्डो महासावद्य उक्तः, पुनर्मिथ्या-
दृष्टिः परमवद्यानामित्युक्तम्, आनन्तर्याणि नियमस्य सङ्घभेदो महासावद्य उक्तः ?
त्रीणि कर्माणि नियमय्य मनोदण्डः, दृष्टीर्नियमय्य मिथ्यादृष्टिः । अथ वा विपाक-
विस्तरम्, महाजनव्यापादनम्, कुशलमूलसमुच्छेदं चाधिकृत्य यथाक्रमम् ।
सुचरितानां पुनः कतमत् महाफलतमम् ?
भवाग्रचेतना लोके महाफलतमा शुभे ॥ १०५ ॥
कुशले पुनः कर्मणि भवाग्रचेतना सर्वेषां महाफलतमा । तस्या
अशीतिकल्पसहस्राण्यतिप्रशान्तो विपाकः । विपाकफलं चाधिकृत्यैतदुक्तम् ।
विसंयोगफलं त्वधिकृत्य वज्रोपमसमाधिचेतना सर्वेषां महाफला; सर्वसंयो-
जनप्रहाणफलत्वात् । अत एव लोक इत्युक्तम् ।
पञ्चमतृतीयप्रथमानि गुरुतराणीति । इयमानन्तर्यकर्मपथानुपूर्वी—मातृवधः,
पितृवधः, अर्हद्वधः, संघभेदः, तथागते दुष्टचित्तरुधिरोत्पादनमिति । पञ्चमं
दुष्टचित्तरुधिरोत्पादनम्, तत् सङ्घभेदवर्जेभ्योऽवशिष्टेभ्यश्चतुर्भ्यो गुरुतरम् ।
तृतीयमर्हद्वधः, तन्मातृपितृवधाभ्यां गुरुतरम् । प्रथमं मातृवधः, तत् पितृव-
धाद् गुरुतरम् । तेनाह—सर्वलघुः पितृवध इति ।
नियमस्येति । तदेवावधार्येत्यर्थः । विपाकविस्तरमधिकृत्य संघभेदो महा-
सावद्य उक्तः; अन्तरकल्पविपाकदानात् । महाजनव्यापादनमधिकृत्य मनोदण्डः;
दण्डकारण्यादिशून्यकरणात् । न ह्यन्येन कायकर्मणा वाक्कर्मणा वा तावतो
महाजनस्य व्यापादः सम्भवतीति । कुशलमूलसमुच्छेदमधिकृत्य मिथ्यादृष्टिर्महा-
सावद्या । न ह्यन्यदकुशलमूलं कुशलमूलानि समुच्छिनत्ति; समुदाचार-
मात्रविरोधित्वादिति ।