अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
DevanagariSanskritpublished1,258 पृष्ठ
पृष्ठ 755, कुल 1258 में से
संदर्भ में पढ़ेंपृष्ठ 755७३६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
७३६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
जम्बूद्वीपे पुमानेव सम्मुखं बुद्धचेतनः ।
चिन्तामयं कल्पशते शेष आक्षिपते हि तत् ॥ १०९ ॥
जम्बूद्वीप एव बोधिसत्त्वो लक्षणविपाकं कर्माक्षिपति, नान्यत्र; जाम्बूद्वीप-
कानां तीक्ष्णबुद्धित्वात् ।
पुरुष एव, न स्त्री ।
सम्मुखीभूत एव शास्तरि, बुद्धालम्बनयैव चेतनया ।
चिन्तामयं तत्कर्म; न श्रुतमयम्, न भावनामयम् ।
कल्पशते च शेष आक्षिपति न बहुभवेषु । भगवता तु शाक्यमुनिनोत्त-
प्तवीर्यतया नव कल्पा अपावर्तिता एकनवत्या कल्पैराक्षिप्तम् ।
अत एव चोक्तम्—“इतोऽहं ग्रामणि¹ एकनवतं¹ कल्पमुपादाय न सम-
नुस्मरामि नाभिजानामि यदेककुलमपि पक्षभिक्षाप्रदानहेतोः क्षतं वा स्यादुपहतं
वा” ( ) इति ।
ततः प्रभृति प्रकृतिजातिस्मरत्वात् प्रथमकल्पासंख्येयनिर्यांत एव बोधिसत्त्व
एतांश्चतुरो दोषान् व्यावर्तयति, द्वौ च गुणौ प्रतिलभत इति पूर्वाचार्याः ॥ १०९ ॥
तेषां च लक्षणानाम्
एकैकं पुण्यशतजम्,
किं पुण्यस्य परिमाणम् ?
भवतः, तदपेक्षया तन्निग्रहो यन्त्रणेत्युच्यते ॥ १०८ ॥
एकनवतं कल्पमुपादायेति । एकनवतेः पूरणः कल्प एकनवतः, तदुपादाय ।
असिबद्धकेन ग्रामण्या निर्ग्रन्थश्रावकेण भगवानुक्तः—“किमनर्थयासि भो
गौतम कुलानां प्रतिपन्नो यस्त्वमीदृशे दुर्भिक्ष इयता भिक्षुसंघेन सार्द्धमशनि-
वदुत्सादयंन् भिक्षामटसि” इति । स भगवताभिहितः—“इतोऽहं ग्रामणि
एकनवतं कल्पमुपादाय” ( ) इति विस्तरः ।
एतांश्चतुरो दोषान् व्यावर्तयतीति । दुर्गतिदोषम्, अकुलीनतादोषम्,
विकलेन्द्रियतादोषम्, स्त्रीभावदोषं चेति । द्वौ च गुणौ प्रतिलभते । जाति-
स्मरतागुणम्, अनिवर्तकतागुणं चेति ॥ १०९ ॥
१-१. ग्रामणीरेक०—का० ।