अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
निर्देशः ] चतुर्थं कोशस्थानम् ५७७
वेविदितं¹ चैतदेवम् । यत् कदाचिदनिर्धार्यमाणपरिच्छेदं सङ्घातमात्रमव्यक्तं
दृश्यते किमप्येतदिति ।
अथेदानों कायस्य गतिं निराकृत्य संस्थानं च तत्रभवन्तः सौत्रान्तिकाः
कां कायविज्ञप्तिं प्रज्ञापयन्ति ? संस्थानमेव हि ते कायविज्ञप्तिं प्रज्ञापयन्ति, न तु
पुनर्द्रव्यतः ।
तां च प्रज्ञापयन्तः कथं कायकर्म प्रज्ञापयन्ति ? कायाधिष्ठानं कर्म कायकर्म,
या चेतना कायस्य तत्र तत्र प्रणेत्री ।
एवं वाङ्मनस्कमंणी अपि यथायोगं वेदितव्ये ।
यत्तर्हि "चेतना कर्म चेतयित्वा च" ( ) इत्युक्तम् !
सङ्कल्पचेतना पूर्वं भवति—'एवं चैवं च करिष्यामि' इति । तथा चेतयित्वा
पश्चात् क्रिया चेतनोत्पद्यते । यया कायः प्रेर्यते सासौ चेतयित्वा कर्मेत्युच्यते ।
एवं तर्हि विज्ञप्त्यभावादविज्ञप्तिरपि कामावचरी न² स्यादिति² महान्तो
तमस्यव्यक्तं पक्षिणः पिपीलिका वा दृष्ट्वा दीर्घा पंक्तिरिति परिकल्पयन्ति,
यथा वा तमस्येव हस्त्यादीनव्यक्तं दृष्ट्वा परिमण्डलेयं सेना व्यवस्थितेति परि-
कल्पयन्ति, तद्वत् । वेविदितं चैतदेवमिति । यथेदानीमुक्तम्—असत्यपि जात्यन्तरे
संस्थाने वर्णमेव ते तत्राव्यक्तं दृष्ट्वा दीर्घादिपरिकल्पं कुर्वन्ति । यत् कदाचिदिति
विस्तरः । अनिवार्यमाणपरिच्छेदमिति । अनिर्द्धार्यमाणसंस्थानसंघातमात्रमव्यक्त-
मलक्ष्यमाणनीलत्वादिकं दृश्यते । न च वर्णसंस्थानव्यतिरिक्तं रूपायतनम-
स्तीति । यथा नान्यद् किञ्चिद् द्रव्यं कल्प्यते, तद्वत् संस्थानमपि न वर्णव्यति-
रिक्तं कल्पयितव्यम् ।
तत्रभवन्त इति । ते भवन्त इत्यर्थः । "इतराभ्योऽपि दृश्यन्ते" (पा० सू०
५.३.१४ ) इति वचनात् । कथं कायकर्म प्रज्ञापयन्तीति । प्रज्ञप्तिसत्त्वात् काय-
कर्मयोग इति मन्यमानः पृच्छति । कायाधिष्ठानमिति । कायालम्बनमित्यर्थः ।
यस्य हि कायः प्रवर्त्यः, तत्कायाधिष्ठानं कर्म । तेनाह—या चेतना कायस्य तत्र
तत्र प्रणेत्रीति³ । यथायोगं वेदितव्ये इति । वागधिष्ठानं कर्म वाक्कर्म । मनस्कर्म
तु मनसः कर्म, मनसा वा संयुक्तं कर्म मनस्कर्म । तेन यथायोगमित्युक्तम् ।
विज्ञप्त्यभावादिति विस्तरः । यदि विज्ञप्तिर्न स्यात् अविज्ञप्तिरपि कामावचरी
न स्यात् । विज्ञप्त्यधीना हि कामावचर्यविज्ञप्तिः, न चित्तानुपरिवर्तिनीति । सा
१. इत्थं—का० । २-२. नास्तीति—का० । ३. पश्वतोति—मुद्रितः पाठः ।
५७८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
दोषा अनुषज्यन्ते, अनुषङ्गाणां१ पुनः प्रत्यनुषङ्गा भविष्यन्ति; यदि तस्मादेव
कायकर्मसंशब्दिताच्चेतनाविशेषादविज्ञप्तिः स्यात्, चित्तानुपरिवर्तिनी स्यात् समा-
हिताविज्ञप्तिवत् !
नैवं भविष्यति; चेतनाविशेषेण तदाक्षेपविशेषात् । सापि च विज्ञप्तिः
सती तदाक्षेपे उत्पादनचेतनाया२ बलं निभाल्यते; जडत्वात् । द्रव्यमेव तु
संस्थानं वैभाषिका वर्णयन्ति, संस्थानात्मिकां तु कायविज्ञप्तिम् ।
वाग्विज्ञप्तिस्तु वाग्ध्वनिः ॥ ३ ॥
वाक्स्वभावो यः शब्दः सैव वाग्विज्ञप्तिः ॥ ३ ॥
अविज्ञप्तिः पूर्वमेवोक्ता। सापि द्रव्यतो नास्तीति सौत्रान्तिकाः; अभ्यु-
पेत्याकरणमात्रत्वात् । अतीतान्यपि महाभूतान्युपादाय प्रज्ञप्तेः, तेषां चाविद्यमान-
चैवं नास्तीति महान्तो दोषा अनुषज्यन्ते । संवरासंवराभावदोषः, सत्तौपधिक-
पुण्यक्रियावस्तु-पुण्यवृद्ध्यभावदोष इत्येवमादयोऽनुषङ्गाः । अनुषङ्गाणां पुनः
प्रत्यनुषङ्गा इति । तत्परिहारा भविष्यन्तीत्यर्थः । कायकर्मसंशब्दितादिति ।
कायाधिष्ठानादित्यर्थः । समाहिताविज्ञप्तिवदिति । यथा समाहिताविज्ञप्तिश्चित्ता-
नुपरिवर्तिनी, एवं प्रातिमोक्षसंवरादिलक्षणाप्यविज्ञप्तिः स्यात् ।
सौत्रान्तिका आहुः—नैवं भविष्यति । न चित्तानुपरिवर्तिनी भविष्यति; चेतना-
विशेषेणासमाहितेन तदाक्षेपविशेषाद् । असमाहिताया अविज्ञप्तेराक्षेपादित्यर्थः ।
सापि च विज्ञप्तिर्भवदीया सती विद्यमाना अविज्ञप्तेराक्षेपे उत्पादनचेतनाया बलं
सामर्थ्यं निभाल्यते अपेक्षते । कस्मात् ? जडत्वाद् । अपटुत्वाच्चेतनाबलमन्तरेण
तामविज्ञप्तिं जनयितुं न शक्नोति । न ह्यसत्यां समादानचेतनायां यदृच्छोत्पन्ना
विज्ञप्तिरविज्ञप्तिं जनयति ।
“वाग्विज्ञप्तिस्तु” इति । तु-शब्दो विशेषणेन । यथा कायविज्ञप्तिः संस्थाना-
त्मिका, न तथा वाग्विज्ञप्तिः । किं तर्हि ? वागात्मको ध्वनिः, वर्णात्मकः शब्द
इत्यर्थः ॥ ३ ॥
अविज्ञप्तिः पूर्वमेवोक्तेति । “ते तु विज्ञप्त्यविज्ञप्ती” इत्युक्तम् । तत्र विज्ञप्ति-
रुक्ता, अविज्ञप्तिर्वक्तव्या । सा च पूर्वमेवोक्ता—“विक्षिप्ताचित्तकस्य” (अभि०
को० १.११) इति वचनात् । सापि द्रव्यतो नास्ति । साप्यविज्ञप्तिर्द्रव्यतो नास्ति ।
न केवला विज्ञप्तिरित्यपिशब्दः । अभ्युपेत्याकरणमात्रत्वादिति । “इमं दिवसमुपा-
१. अनुषङ्गानां—का० । २. चेतनायाः—का० ।
[निर्देशः ] चतुर्थं कोशस्थानम् ५७९
स्वभावत्वाद्, रूपलक्षणाभावाच्च।
अस्तीति वैभाषिकाः । कथं ज्ञायते ?
त्रिविधामलरूपोक्तिवृद्ध्यकुर्वत्पथादिभिः ।
त्रिविधं रूपमुक्तं सूत्रे—"त्रिभिः स्थानै रूपस्य रूपसंग्रहो भवति—
अस्ति रूपं सनिदर्शनं सप्रतिघम्, अस्ति रूपमनिदर्शनं सप्रतिघम्, अस्ति
रूपमनिदर्शनमप्रतिघम्” ( ) इति । अनास्रवं च भगवता रूप-
मुक्तम्—"अनास्रवाः धर्माः कतमे ? यस्मिन् रूपेऽतीतानागतप्रत्युत्पन्नो
नोत्पद्यतेऽनुनयो वा प्रतिघो वा यावद् यस्मिन् विज्ञाने, इम उच्यन्तेऽनास्रवा
धर्माः” ( ) इति । नाविज्ञप्तिं १ विरहय्यास्ति रूपमनिदर्शनम-
प्रतिघम्, नाप्यनास्रवम् ।
दाय प्राणातिपातादिभ्यः प्रतिविरमामि' इत्यभ्युपेत्य । तस्मात् परेण तेषामक-
रणमात्रमविज्ञप्तिरित्येवं द्रव्यतो नास्तीति सौत्रान्तिकाः । तेषां चातीतानां महा-
भूतानाम् । न ह्यतीतानां प्रत्युत्पन्नस्वभावोऽस्ति । पञ्चमे च कोशस्थान एतद्
दर्शयिष्यत इति । कथम् ? अविद्यमानान्यस्या आश्रय इत्यतो न द्रव्यतोऽस्ति ।
रूपलक्षणाभावाच्च । रूप्यत इति रूपलक्षणम्, तच्चास्या अप्रतिघत्वान्नास्ति ।
तस्मान्न द्रव्यतोऽस्ति ।
त्रिविधेति विस्तरः। त्रिविधञ्च तदमलञ्च त्रिविधामलरूपम्, तस्योक्तिः।
अकुर्वतः पन्था अकुर्वत्पथः। परेण कारयतः स्वयमकुर्वतः कर्म इत्यर्थः ।
त्रिविधामलरूपोक्तिश्च वृद्धिश्चाकुर्वत्पथश्चादिरेषाम्, तानीमानि त्रिविधामलरूपो-
क्तिवृद्ध्यकुर्वत्पथादीनि । आदिशब्देन धर्मो भिक्षो इत्यत्रारूपीत्यवचनम्, आर्या-
ष्टाङ्गवचनम्, प्रातिमोक्षसंवरसेतुवचनं च गृह्यते ।
रूपस्य रूपसंग्रह इति । रूपस्य रूपेणैव संग्रहो भवति, नान्यैर्वेदनादिभिः ।
अस्ति रूपं सनिदर्शनं सप्रतिघम् । यच्चक्षुर्विज्ञानविज्ञेयं रूपम् । अस्त्यनिदर्शनं
सप्रतिघम् । यानि चक्षुरादीनि तत् पुनर्नव रूपायतनानि । अस्ति रूपम-
निदर्शनमप्रतिघम् । यन्मनोविज्ञानविज्ञेयम् अविज्ञप्तिरूपं धर्मायतनसंगृहीतम् ।
नाविज्ञप्तिं विरहय्येति विस्तरः। अविज्ञप्तिं मुक्त्वा नास्ति रूपमनिदर्शनमप्रतिघं
यद् रूपसंग्रहसूत्रे उक्तम् । नाप्यनास्रवमस्ति रूपम् । अविज्ञप्तिं विरहय्येति वर्तते ।
न हि मार्गसत्यसमापन्नस्य कायवाग्विज्ञप्तिरूपं युज्यते ।
१. न चाविज्ञप्ति—का० ।
वृद्धिरपि चोक्ता—"एभिः सप्तभिरौपधिकैः पुण्यक्रियावस्तुभिः समन्वा-
गतस्य श्राद्धस्य कुलपुत्रस्य वा १ कुलदुहितुर्वा चरतो वा स्वपतो वा तिष्ठतो
वा जाग्रतो वा सततसमितमभिवर्धत एव पुण्यम्, उपजायत एव पुण्यम्। एवं
निरौपधिकैः" ( ) इति। न चाविज्ञप्तिमन्तरेणान्यमनसोऽपि
पुण्यस्याभिवृद्धियुज्यते। अकुर्वतश्च स्वयं परैः कारयतः कर्मपथा न सिध्येयु-
रसत्यामविज्ञप्तौ।
सप्तभिरौपधिकैरिति। उपधिः=आरामविहारादिः, तत्र भवमौपधिकम्।
तस्योपधेरभावान्निरौपधिकम्। सततमभीक्ष्णम्। समितं निरन्तरम्।
अत्र सूत्रम्—"भगवान् कौशाम्ब्यां विहरति स्म घोषीतारामे। अथा-
युष्मान् महाचुन्दो येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ
शिरसा वन्दित्वा एकान्तेऽस्थात्। एकान्ते स्थित आयुष्मान् महाचुन्दो भगवन्त-
मेतदवोचत्—'लभ्यं भदन्त औपधिकं पुण्यक्रियावस्तु प्रज्ञपयितुं महाफलं महानु-
शंसं महाद्युतिकं महावैस्तारिकम्' ? 'लभ्यं चुन्द' इति भगवांस्तस्यावोचत्।
'सप्तेमानि चुन्दौपधिकानि पुण्यक्रियावस्तूनि महाफलानि यावन्महावैस्ता-
रिकानि। यैः समन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर्वा चरतो
वा तिष्ठतो वा स्वपतो वा जायतो वा सततसमितमभिवर्धते एव पुण्यम्, उपजायते
एव पुण्यम्'।
'कतमानि सप्त' ? १. 'इह चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा चातु-
र्दिशाय भिक्षुसङ्घायारामं प्रतिपादयति। इदं चुन्द प्रथमौपधिकं पुण्यक्रियावस्तु
महाफलं यावन्महावैस्तारिकम्, येन समन्वागतस्य कुलपुत्रस्य वा विस्तरेण
यावदुपजायत एव पुण्यम्।
२. 'पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्मिन्नेवारामे विहारं
प्रतिष्ठापयति। इदं द्वितीयमौपधिकं पुण्यक्रियावस्तु महाफलं यावदुपजायत
एव पुण्यम्।
३. 'पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्मिन्नेव विहारे
शयनासनं प्रयच्छति। तद्यथा—मञ्चं पीठं वृषिं कोच्चवं बिम्बोपधानं चतु-
रस्त्रकं ददाति। इदं चुन्द तृतीयमौपधिकं पुण्यक्रियावस्तु पूर्ववत्।
४. 'पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्मिन्नेव विहारे
ध्रुवभिक्षां प्रज्ञपयत्यनुकूलयज्ञाम्। इदं चुन्द चतुर्थमौपधिकं पुण्यक्रियावस्तु
महाफलं पूर्ववत्।
१. का० पुस्तके नास्ति ।
निर्देशः ] चतुर्थं कोशस्थानम् ५८१
५. 'पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा आगन्तुकाय गमि-
काय वा दानं ददाति। इदं चुन्द पञ्चममौपधिकं पुण्यक्रियावस्तु पूर्ववत्।
६. 'पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा ग्लानाय ग्लानोप-
स्थापकाय वा दानं ददाति। इदं चुन्द षष्ठमौपधिकं पुण्यक्रियावस्तु पूर्ववत्।
७. 'पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा यास्ता भवन्ति शीत-
लिका वा वह्लिका वा वातलिका वा वर्षलिका वा, तद्रूपासु शीतलिकासु
यावद्वर्षलिकासु भक्तानि वा तर्पणानि वा यवागूपानानि वा तानि सङ्घाया-
भिनिर्हृत्यानुप्रयच्छति—इदमार्या अस्माकमनाद्रेर्गात्राः अनभिवृष्टचीवराः परि-
भुज्य सुखस्पर्शं विहरन्तु। इदं च चुन्द सप्तममौपधिकं ऽपुण्यक्रियावस्तु महाफलं
यावदुपजायत एव पुण्यम्।
'एभिः सप्तभिरोपधिकैः पुण्यक्रियावस्तुभिः समन्वागतस्य श्राद्धस्य कुल-
पुत्रस्य वा कुलदुहितुर्वा न लभ्यं पुण्यस्य प्रमाणमुद्ग्रहीतुम्—एतावत् पुण्यं वा,
पुण्यफलं वा, पुण्यविपाकं वा। अपि तु बहुत्वात् पुण्यस्य 'महापुण्यस्कन्धः' इति
संख्यां गच्छतीत्येवमादि"।'
"द्विरप्यायुष्मान् महाचुन्दो भगवन्तमेतदवोचत्—'लभ्यं भदन्त निरोपधिकं
पुण्यक्रियावस्तु प्रज्ञपयितुं महाफलं यावन्महावैस्तारिकम् ? 'लभ्यं चुन्द' इति
भगवांस्तस्यावोचत्। 'सप्तेमानि चुन्द निरोपाधिकानि पुण्यक्रियावस्तूनि यैः
समन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर्वा चरतो वा तिष्ठतो वा
विस्तरेण यावदुपजायत एव पुण्यम्'।
कतमानि सप्त' ? १. 'इह चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति
तथागतं वा तथागतश्रावकं वा अमुकं ग्रामक्षेत्रमुपनिश्रित्य विहरतीति। श्रुत्वा
पुनरधिगच्छति प्रीतिप्रामोद्यमुदारं कुशलं नैष्क्रम्योपसंहितम्। इदं चुन्द प्रथमं
निरोपधिकं पुण्यक्रियावस्तु पूर्ववत् यावदुपजायत एव पुण्यम्।
२. 'पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति तथागतं वा
तथागतश्रावकं वा उद्युक्तमागमानाय। श्रुत्वा च पुनरधिगच्छतीति पूर्ववत्।
इदं चुन्द द्वितीयं निरोपधिकं पुण्यक्रियावस्तु।
३. 'पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति तमेव तथा-
गतं वा तथागतश्रावकं वा अध्वानमार्गप्रतिपन्नं तमेव ग्रामक्षेत्रमनुप्राप्तम्।
श्रुत्वा च पुनरधिगच्छतीति पूर्ववत्। इदं चुन्द तृतीयं निरोपधिकं पुण्यक्रिया-
वस्तु यावदुपजायत एव पुण्यम्।
४. 'पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति तमेव तथागतं
वा तथागतश्रावकं वा तदेव ग्रामक्षेत्रमनुप्राप्तम्। श्रुत्वा च पुनरधिगच्छतीति
पूर्ववत्। इदं चुन्द चतुर्थं निरोपधिकं पुण्यक्रियावस्तु यावदुपजायत एव पुण्यम्।
५८२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
न ह्याज्ञापनविज्ञप्तेः१ कर्मपथ उपयुज्यते१; तस्य कर्मणोऽकृतत्वात् ।
कृतेऽपि च तस्याः स्वभावविशेषादिति ।
उक्तं च भगवता—"धर्मा भिक्षवो बाह्यमायतनमेकादशभिरायतनैरसंगृ-
हीतमनिदर्शनमप्रतिघम्" ( ) इति । न त्वरूपीत्युक्तम् । तत्र
किं प्रयोजनं स्याद् यदि धर्मायतनान्तर्गतमविज्ञप्तिरूपं नेष्येत !
अष्टाङ्गश्च मार्गो न स्यादविज्ञप्तिमन्तरेण । समापन्नस्य वाक्कर्मान्ताजीवा-
नामयोगात्२ ।
यत्तर्हीदमुक्तम्—"तस्यैवं जानत एवं पश्यतः सम्यग्दृष्टिर्भावनापरिपूरिं
५ 'पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा तमेव तथागतं वा
तथागतश्रावकं वा दर्शनायोपसंक्रामति, दृष्ट्वा च पुनरधिगच्छतीति पूर्ववत् ।
इदं चुन्द पञ्चमं निरौपधिकं पुण्यक्रियावस्तु ।
६. 'पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्यैव तथागतस्य
वा तथागतश्रावकस्य वा अन्तिकाद् धर्मं शृणोति । श्रुत्वा च पुनरधिगच्छ-
तीति पूर्ववत् । इदं चुन्द षष्ठं निरौपधिकं पुण्यक्रियावस्तु ।
७. 'पुनरपरं चुन्द श्राद्धः कुल०त्रो वा कुलदुहिता वा तस्यैव तथागतस्य
वा तथागतश्रावकस्य वा अन्तिकाद् धर्मं शृणोति । श्रुत्वा च बुद्धं शरणं
गच्छति, धर्मं शरणं गच्छति, सङ्घं शरणं गच्छति, शिक्षापदानि च प्रति-
गृह्णाति । इदं चुन्द सप्तमं निरौपधिकं पुण्यक्रियावस्तु महाफलमिति पूर्ववत्' ।
बहुग्रन्थभयात् न सर्वं लिखितम् ।
न ह्याज्ञापनविज्ञप्तेः कर्मपथ उपयुज्यते; तस्य प्राणातिपातादिकर्मणोऽकृतत्वात् ।
स्यान्मतम्, कृते तस्मिन् कर्मणि तदाज्ञापनविज्ञप्तेः कर्मपथो भविष्यतीति ?
अत्रेदमुच्यते—कृतेऽपि च तस्याः स्वभावाविशेषादिति । परेण कृतेऽपि तस्मिन्
कर्मणि तस्या आज्ञापनविज्ञप्तेर्न कश्चित् स्वभावविशेषोऽस्ति, येन तदानीं कर्म-
पथः स्यात् । तस्मात् पूर्ववत् । तस्याः स्वभावाविशेषात् । यथैव पूर्ववत् कर्मपथो
न व्यवस्थाप्यते, तथैव पश्चादित्यतोऽस्तीत्यभ्युपगन्तव्या यासौ तदानीमुत्पद्यते
कर्मपथसंगृहीतेति ।
एकादशभिरायतनैरसंगृहीतमिति ॥ धर्मायतनवर्जैः । वाक्कर्मान्ताजीवाना-
योगादिति । विज्ञप्तिस्वभावानामेवासम्भवादित्यर्थः ।
यत्तर्हीदमुक्तमिति विस्तरः । कोऽस्याभिसम्बन्धः । यदि वा मतम्—यद्य-
१-१. ०विज्ञप्तिः मौलः कर्मपथो युज्यते—का० । २. सम्यग्वाक्क०—का० ।
Here is the line-by-line transcription of the Sanskrit philosophical text from the image:
निर्देशः ] 'चतुर्थं कोशस्थानम् ५८३
गच्छति, सम्यक्सङ्कल्पः, सम्यग्व्यायामः, सम्यक्स्मृतिः, सम्यक्समाधिः । पूर्वमेव
चास्य सम्यग्वाक्कर्मान्ताजीवाः परिशुद्धा भवन्ति पर्यवदाताः” ( )
इति ? लौकिकमार्गवैराग्यं पूर्वकृतमभिसन्धायैतदुक्तम् ।
प्रातिमोक्षसंवरश्चापि न स्यादसत्यामविज्ञप्तौ । न हि समादानादूर्ध्वं तदस्ति,
येनान्यमनस्कोऽप्ययं भिक्षुः स्यात्, भिक्षुणी वेति । सेतुश्च सूत्रे विरक्तिरुक्ता;
दौःशील्यविवन्धत्वात् । न वा भवन्ती सेतुर्भवितुमर्हन्तीत्यस्यैवाविज्ञप्तिः ।
अत्र सौत्रान्तिका आहुः— बह्वप्येतत्, चित्रमप्येतत् । नैवं त्वेतत् । किं
कारणम् ? यच्चावदुक्तम्—"त्रिविधरूपोक्तेः” इति ।
तत्र योगाचारा उपदिशन्ति—ध्यायिनां समाधिविषयरूपं$^१$ समाधिप्रभा-
वादुत्पद्यते, चक्षुरिन्द्रियाविषयत्वाद् अनिदर्शनम्, देशानावरणाद् अप्रतिघमिति$^२$ ।
अथ मतम्—कथमिदानीं तद् रूपमिति ? एतदविज्ञप्तौ समानम् ।
यदप्युक्तम्—'अनास्रवरूपोक्तेः' इति, तदेव समाधिप्रभावसम्भूतं रूपमनास्रवे
समाधावनास्रवं वर्णयन्ति योगाचाराः ।
विज्ञप्तिर्न स्यादष्टाङ्गोऽयं मार्गो न स्यात्; तत्र विज्ञप्त्ययोगात् । तस्माद् अस्त्य-
विज्ञप्तिरिति ।
यत्तर्हीदमुक्तमिति विस्तरेणोक्त्वा यावत् सम्यक् समाधिरिति किमर्थमेव-
मुच्यते ? पूर्वमेव चास्येति सर्वम् । मार्गस्य समापत्तिकालान् पूर्वमित्यर्थः ।
विज्ञप्तिरूपास्त उक्ता इत्यभिप्रायः । वैभाषिका परिहरन्ति—लौकिकमार्गवैराग्य-
मिति विस्तरः । लौकिकमार्गवैराग्यावस्थायां वागादिस्वभावं विज्ञप्तिरूपम् ।
एतदभिसन्धायैतदुक्तम् । न तु मार्गकाले तत् संगृहीतं वागाद्यविज्ञप्तिरूपं
नास्तीति ।
समाधिविषयरूपमिति । समाधेरालम्बनमस्थिसङ्कलादि । देशानावरणादप्रति-
घमिति । यद्रूपं देशमावृणोति तत् प्रतिघम् । विपर्ययादप्रतिघमिति सिद्धम् ।
कथमिदानीं तद्रूपमिति । यदि न रूपयितुं शक्यत इत्यभिप्रायः । एतद-
विज्ञप्तौ समानम् । अविज्ञप्तिरपि वा देशं नावृणोतीति तुल्यम् । अनास्रवे समाधौ
अनास्रवमिति । मार्गं सम्मुखीकुर्वाणो योगाचारस्तद्रूपमाशयं चाश्रयञ्च प्रति-
लभते यत् सम्यग्दृष्टिवदनास्रवं शीलं प्रतिलभते । यस्मिन् सति प्रकृतिशील-
तायां सन्तिष्ठते ।
१. ०विषयो रूपं—का० । २. ०नावरणत्वाद्०—का० ।
५८४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
अर्हतो यद् रूपं बाह्यं चेत्यपरे; आस्रवाणामनिःश्रयत्वात् ।
यत्तर्हि सूत्र उक्तम्—“सास्रवा धर्माः कतमे ? यावदेव चक्षुर्यावदेव
रूपाणि” इति विस्तरः ? तत् १ पुनरास्रवाणामप्रतिपक्षत्वात् सास्रवमुक्तम् । पर्या-
येण तर्हि तदेव सास्रवं चानास्रवं च स्यात् ? किं स्यात् ? लक्षणसङ्करः स्यात् ।
यथा तत् सास्रवं तथा न कदाचिदनास्रवमिति कोऽत्र सङ्करः ? यदि च
रूपायतनादीनि एकान्तेन सास्रवाणि स्युः, इह सूत्रे किमर्थं विशेषितानि स्युः—
“यानि रूपाणि सास्रवाणि सोपादानीयानि चेतःखिलम्रक्षवस्तु” इति विस्तरः ।
यदप्युक्तम्—“पुण्याभिवृद्धिवचनाद्” इति, तत्रापि पूर्वाचार्या निर्दि-
शन्ति—“धर्मता ह्येषा यथा यथा दातृणां दायाः परिभुज्यन्ते तथा तथा भोक्तॄणां
गुणविशेषादनुग्रहविशेषाच्चान्यमनसामपि दातृणां तदालम्बनदानचेतनापरिभाविताः २
सन्ततयः सूक्ष्मं परिणामविशेषं प्राप्नुवन्ति, येनायत्यां बहुतरफलाभिनिष्पत्तये
अथवा अनास्रवेऽपि समाधौ तदेवंविधं रूपं त आचार्या इच्छन्ति। अर्हतो
यद्रूपं बाह्यं चेत्यपर इति । अपर आचार्या वर्णयन्ति—अर्हतो यद्रूपं चक्षुरायत-
नादि बाह्यं च काष्ठकुड्यादि तदनास्रवं रूपम् । कुतः ? आस्रवाणामनिश्रय-
त्वात् । न ह्यर्हत्सान्तानिकं रूपं बाह्यं चास्रवाणां क्लेशानां निश्रय इति ।
यद्येवम्, यत्तर्ह्यविशेषेण सूत्र उक्तम्—सास्रवा धर्माः कतमे ? यावदेव चक्षुर्याव-
देव रूपाणीति विस्तरः। तत् पुनरास्रवाणामप्रतिपक्षत्वात् सास्रवमुक्तम्। चित्तचैत्त-
विशेषो हि आस्रवप्रतिपक्ष इति । पर्यायेण तर्हीति विस्तरः। तदेवार्हतो रूपं
बाह्यं चास्रवाणामप्रतिपक्षत्वात् सास्रवम्, आस्रवाणामनिश्रयत्वादनास्रवमिति ।
तथा च लक्षणसंकरः स्यादिति दोषः । यानि रूपाणीति । यानि रूपाण्याय-
तनानीत्यर्थः । विस्तरेण यावद् ये धर्माः सास्रवाः सोपादानीयाश्चेतःखिल-
म्रक्षवस्त्विति वचनात् । सन्त्यनास्रवाणि रूपायतनानीति । तानि पुनः
कतमानि सास्रवाणि ? सोपादानीयानि पृथग्जनरूपाणि; आस्रवाणां निःश्रय-
त्वात्तदप्रतिपक्षत्वाच्च । कतमान्यनास्रवाणि ? यान्यर्हतो रूपाणि बाह्यानि
च; आस्रवाणामनिःश्रयत्वात् ।
धर्मता ह्येषेति । कर्मणामनादिकालिका शक्तिः । गुणविशेषादिति । ध्याना-
प्रमाणादिगुणविशेषात् । अनुग्रहविशेषाच्चेति । शरीरस्य वर्णबलादिविशेषात् ।
तदालम्बनेति विस्तरः । सप्रतिग्राहकमालम्बनमस्याः सेयं तदालम्बना दान-
चेतना, तया परिभाविताः सन्ततयः सूक्ष्मं परिणामविशेषं फलोत्पत्तिनिमित्तं
१. तत्र—का० । २. ०चेतनाभाविताः—का० ।
निर्देशः ] चतुर्थं कोशस्थानम् ५८५
समर्था भवन्ति"। इदमभिसन्धायोक्तं भवेद्—“अभिवर्धत एव पुण्यमुपजायत
एव पुण्यम्” इति।
अथ मतम्--कथमिदानीं सन्तानान्तरविशेषादन्यमनसोऽपि सन्तानान्तरस्य
परिणामः सेत्स्यतीति ? एतदविज्ञप्तौ समानम्।
कथमिदानीं सन्तानान्तरविशेषात् सन्तानान्तरे धर्मान्तरमविज्ञप्तिः सेत्स्य-
तीति निरौपधिकेष्विदानीं पुण्यक्रियावस्तुषु कथं भविष्यतीति ? अभीक्ष्णं तदा-
लम्बनचेतनाभ्यासात् स्वप्नेष्वपि ता अनुषङ्गिण्यो भवन्ति। अविज्ञप्तिवादिनस्तु
निरौपधिके यत्र विज्ञप्तिर्नास्ति तत्र कथमविज्ञप्तिः स्यात् !
यच्च¹ औपधिकेष्वप्येवमभीक्ष्णम्², तदालम्बनचेतनाभ्यासादित्यपरे²।
यत्तर्हि सूत्रमुक्तम्³—“यस्योग्रभिक्षुः शीलवान् कल्याणधर्मा पिण्डकं
परिभुज्याप्रमाणं चेतःसमाधिं कायेन साक्षात्कृत्वोपसम्पद्य विहरति, अप्रमाणस्तन्नि-
दानदायकस्य दानपतेः पुण्याभिस्यन्दः कुशलाभिस्यन्दः सुखास्वादधारः प्रति-
प्राप्नुवन्ति। कथं भविष्यतीति। बहुतरफलाभिनिष्पत्तये कथं भविष्यतीत्यभि-
प्रायः। नह्यत्र दातॄणां दाया परिभुज्यन्ते, यत्परिभोगात् भोक्तॄणां गुण-
विशेषादनुग्रहविशेषाच्चान्यमनसामपि दातॄणामिति विस्तरेण यावत् समर्था
भवन्ति यावदुपजायत एव पुण्यमिति वा।
तदालम्बनचेतनाभ्यासादिति। तथागततच्छ्रावकालम्बनचेतनाभ्यासात्
सन्ततयः सूक्ष्मं परिणामविशेषं प्राप्नुवन्ति। येनायत्यां बहुंतरफलाभिनिष्पत्तये
समर्था भवन्ति। चरतस्तिष्ठतो जाग्रतो युक्तम्, एवं स्वपतस्तु कथम् ? इत्यत
आह-स्वप्नेष्वपि ताश्चेतना अनुषङ्गिण्यो भवन्तीति। अविज्ञप्तिवादिनस्तु वैभाषिकस्य
निरौपधिके पुण्यक्रियावस्तुनि यत्र विज्ञप्तिर्नास्ति, केवलं तं श्रुत्वाधिगच्छति प्रीति-
प्रामोद्यमुदारं कुशलम्, तत्र कथमविज्ञप्तिः स्यात्; तस्य श्रोतुर्विज्ञप्तिसमाध्यो-
रसम्भवात्। अविज्ञप्तिर्हि विज्ञप्तेः समाधेर्वा सम्भवेत्।
औपधिकेष्वपीति विस्तरः। आरामादानादिष्वपि तदालम्बनचेतनाभ्यासात्।
प्रतिग्राहक आलम्बनमस्याश्चेतनाया इति पूर्ववत्। आह—यच्चौपधिकेष्व-
प्येवमभीक्ष्णं तदालम्बनचेतनाभ्यासात्।
यत्तर्हि सूत्रमिति विस्तरः। अप्रमाणं चेतःसमाधिमिति। मैत्र्यादिसम्प्रयुक्तं
१-१. औपधिकेष्वप्यमी०—का०। २. तदालम्बने—का०।
३. सूत्रे उक्तम्—का०।
ङ्काङ्क्षितव्यः” इति, अत्र तदानीं दातुः कश्चेतनाविशेषः ? तस्मात् सन्तति-
परिणामविशेष एव न्याय्यः ।
यदप्युक्तम्—"कारयतः कथं कर्मपथाः सेत्स्यन्ति" इति ? तत्राप्येवं वर्ण-
यन्ति—तत्प्रयोगेण परेषामुपघातविशेषात् प्रयोक्तुः सूक्ष्मः सन्ततिपरिणामविशेषो
जायते, यत आयत्यां समन्तेऽपि बहुतरफलाभिनिर्वर्त्तनसमर्थो भवतीति ।
स्वयमपि च कुर्वतः क्रियाफलपरिसमाप्तावेष एव न्यायो वेदितव्यः ।
सोऽसौ सन्ततिपरिणामविशेषः 'कर्मपथः' इत्याख्यायते; कार्ये कारणो-
पचारात् । कायिकवाचिकत्वं तु तस्य¹ तत्क्रियाफलत्वाद्, यथा अविज्ञप्तिवादि-
नामविज्ञप्तिरिति² ।
उपात्तेषु स्कन्धेषु त्रिकाल्या चेतनया प्राणातिपातावद्येन स्पृश्यते घातक³
इति भदन्तः । 'हनिष्यामि', 'हन्मि', 'हतम्' इति चास्य यदा भवतीति ।
न त्वियता कर्मपथः परिसमाप्यते । मा भूदहतेऽपि मात्रादौ हताभिमानिना-
चेतनाविशेष इति । एतदालम्बनचेतनस्यापि दायकस्याप्रमाणः पुण्याभिष्यन्दो-
ऽस्तीति दर्शयति ।
क्रियाफलपरिसमाप्ताविति । मौलकर्मपथप्रयोगः क्रिया। मौलकर्मपथफलं
तस्य परिसमाप्तौ । एष एव न्याय इति । स्वयं प्रयोगेण परेषामुपघातविशेषात्
कर्तुः सूक्ष्मः सन्ततिपरिणामविशेषो जायत इति सर्वम् ।
कार्ये कारणोपचारादिति । सन्ततिपरिणामविशेषः कर्मपथो भवतीति ।
सन्ततिपरिणामविशेषः कार्यम्, कर्मपथः कारणम् । योऽसौ कायवाचोः प्रयोगः,
स हि चेतनालक्षणस्य कर्मणः पन्था इति । तस्मिन् कार्ये कर्मपथ इति कारणो-
पचारः । कायिकवाचिकत्वं तु तस्य सन्ततिपरिणामविशेषस्य तत्क्रियाफलत्वात् ।
कायवाक्क्रियायाः फलत्वादित्यर्थः । यथा अविज्ञप्तिवादिनाम् अविज्ञप्तिरिति ।
यथा वैभाषिकाणामविज्ञप्तिवादिनामविज्ञप्तिः कर्मपथ इत्याख्यायते; कार्यकारणो-
पचारात् । कायिकवाचिकत्वं तु तत्क्रियाफलत्वादिति ।
अविज्ञप्तिरद्रव्यमिति प्रकारान्तरेण दर्शयन् भदन्त आह—उपात्तेषु स्कन्धे-
ष्विति विस्तरः । सत्त्वसंख्यातेषु वर्तमानेषु स्कन्धेषु त्रिकाल्या चेतनया प्राणा-
तिपातावद्येन स्पृश्यते घातक इति । कथं त्रिकाल्या ? इत्याह—हनिष्यामि हन्मि
हतमिति चास्य यदा भवतीति । तदेवमत्र चेतनैव कर्मेत्युक्तं भवति । आचार्यो
भदन्तमतं केनचिद् भागेनाभिप्रेतं केनचिद्भागेनानभिप्रेतं दर्शयन्नाह—न त्वियेतति
१. का० पुस्तके नास्ति । २. ०मविज्ञप्तेरिति—का० । ३. का० पुस्तके नास्ति ।
, it is definitely "विज्ञाप्यभावाद्" or "विज्ञप्यभावाद्"? Look at the stroke: it has an aa-matra: "विज्ञाप्यभावाद्".
Line 11:
विज्ञप्तेरभावः ।
Line 12:
यदप्युक्तम्—"धर्मायतनस्यारूपित्वं यस्मान्नोक्तम्" इति ? तद्यदेवात्र रूप-
Line 13:
विस्तरः । यदि कश्चिद्देवं प्रयोजयेत्—मन्मातरं मारयेति । उच्चलिते च मारके
Wait, "कश्चिद्देवं" or "कश्चिदेवं"?
Look at line 13:
क (ka) श्चि (ści) द्दे (dde) वं (vaṃ) -> कश्चिद्देवं! Yes, 'द्दे'!
Line 14:
तस्यैवं भवेद्—हृता तेन मन्मातेति । तस्य हताभिमानिन आनन्तर्यकर्म स्यात् ।
Wait, "हृता" or "हता"?
Look at line 14:
हृ (hṛ) or ह (ha)?
Wait, "हता तेन मन्मातेति" - wait, the letter is ह with a bottom curve?
Look at "हता तेन" vs "हृता तेन":
Wait, the first word after भवेद्—:
मनिदर्शनमप्रतिघं चोक्तम्, तदेवास्तु धर्मायतनपर्यापन्नम् ।
यदप्युक्तम्—अष्टाङ्ग आर्यमार्गो न स्यादिति? अङ्ग१ तावदाचक्ष्व—कथं
मार्गसमापन्नस्य सम्यग्वाक्कर्मान्ताजीवा भवन्तीति ! किमसौ वाचं भाषते, क्रियां
वा करोति, चीवरादीन् वा पर्येषते ? नेत्याह । किं तर्हि ? तद्रूपामनास्रवाम-
विज्ञप्तिं प्रतिलभते । यस्याः प्रतिलम्भाद् व्युत्थितोऽपि न पुनर्मिथ्यावागादिषु
प्रवर्तते, सम्यग्वागादिषु च प्रवर्तते । अतो निमित्ते नैमित्तिकोपचारादविज्ञप्तौ
तदा२ व्याक्रियते२ ।
यद्येवम्, इहाप्येवं किं न गृह्यते—मार्गसमापन्नो विनाप्यविज्ञप्त्या तद्रूपमाशयं
च आश्रयं च प्रतिलभते, यस्य प्रतिलम्भात् व्युत्थितोऽपि न पुनर्मिथ्यावागादिषु
प्रवर्तते, सम्यग्वागादिषु च प्रवर्तते । अतो निमित्ते नैमित्तिकोपचारं कृत्वा
अष्टौ मार्गाङ्गानि व्यवस्थाप्यन्त इति ?
अपरस्त्वाह—तदक्रियामात्रमत्राङ्गमुक्तं स्यात् । यदसावार्यमार्गसामर्थ्याद-
क्रियानियमं प्रतिलभते, तच्चानास्रवमार्गसन्निश्रयलाभादनास्रवं स्यात् ।
न हि सर्वत्र द्रव्यमन्तो धर्माः परिसंख्यायन्ते । तद्यथा अष्टौ लोकधर्माः—
त्वादि । तदेवास्तु धर्मायतनपर्यापन्नमिति। यद्ध्यायिनां समाधिविषयो रूपं
समाधिप्रभावादुत्पद्यत इत्युक्तं तद्धयनिदर्शनं चाप्रतिघं च ।
अङ्ग तावदाचक्ष्वेति । अङ्गाप्रतिलोम्य इति पठ्यते । हन्त तावदाचक्ष्वेति ।
एहि तावदाचक्ष्वेत्यर्थ इत्यपरे । अतो निमित्त इति विस्तरः । यत एवम्,
अतो निमित्तेऽविज्ञप्तौ नैमित्तिकोपचारात् सम्यग्वागाद्युपचारात् अविज्ञप्तौ तदा
व्याक्रियते । सम्यग्वाक्कर्मान्ताजीवाख्या क्रियत इत्यर्थः ।
आशयं चाश्रयं चेति । आशयः प्राणातिपाताद्यकरणाशयः, श्रद्धाद्याशयो
वा । आश्रय आश्रयपरावृत्तिः । अतो निमित्ते आशये च नैमित्तिकोपचारम् ।
सम्यग्वागाद्युपचारं कृत्वाष्टौ मार्गाङ्गानि व्यवस्थाप्यन्त इति ।
तदक्रियामात्रमिति । मिथ्यावागाद्यक्रियामात्रम् । कतमत्तद् ? इत्याह—यद-
साविति विस्तरः । यद्यक्रियामात्रमङ्गं कथं तदनास्रवम् ? इत्याह—तच्चानास्रव-
मार्गसन्निश्रयलाभादनास्रवमिति । यद्यक्रियामात्रमङ्गम्, तथाऽद्रव्यसत् ।
कथमष्टावङ्गानि भवन्ति ? इत्याह—न हि सर्वत्रेति विस्तरः । विधिपूर्व-
१. अङ्गं—का० ।
२-२. तदाख्याक्रियते—का० ।
निर्देशः ] चतुर्थं कोशस्थानम् ५८९
लाभः, अलाभः, यशः, अयशः, निन्दा, प्रशंसा, सुखम्, दुःखमिति । न चात्र
चीवरादीनामलाभो नामास्ति द्रव्यानन्तरम् । प्रातिमोक्षसंवरोऽपि स्यात्, यया
चेतनया विधिपूर्वं कृत्वाऽभ्युपगमः प्रतिषिद्धात् कर्मणः कायवाचौ संवृणोति ।
अन्यचित्तो न संवृतः स्यादिति चेत् ? न; तद्भावनया क्रियाकाले स्मरतः
तत्प्रत्युपस्थानात् सेतुभावोऽपि स्यादक्रियां प्रतिज्ञां संस्मृत्य लज्जितो दौःशील्या-
करणात् इत्यर्थमेव¹ तस्याः समादानम् । यदि पुनरविज्ञप्तिरेव दौःशील्यं
प्रतिबध्नीयात्, न कश्चित् मुषितस्मृतिः शिक्षां भिन्द्यात् ।
अलं विस्तरेण, अस्त्येव द्रव्यानन्तरमविज्ञप्तिरूपमिति वैभाषिकाः ।
यद्यस्ति, तच्च महाभूतान्युपादायेत्युक्तम्, तत् किं विज्ञप्तिमहाभूतान्येवोपा-
दायाविज्ञप्तिरुत्पद्यते ? अथान्यानि ? अन्यान्येव सा महाभूतान्युपादायोत्पद्यते ।
न हि सैव सामग्री सूक्ष्मफला चौदारिकफला च युज्यते । किं खलु !
यदातनी विज्ञप्तिस्तदातान्येव सा महाभूतान्युपादाय वर्तते । सर्वमुपादायरूपं
मिति । शीलग्रहणविधिपूर्वम् । अन्यचित्तो न संवृतः स्यादिति चेत् । यदि सा
चेतना संवरः, तस्माच्चेतनाचित्तादन्यचित्तो न संवृतः स्यात् । यया² चेतनया²
कायवाचौ संवृणोति नासौ तदानीमस्तीति । न तद्भावनयेति विस्तरः । नैत-
देवम्; तद्भावनया चित्तसन्तानभावनया क्रियाकाले प्राणातिपातादिचित्ते
प्रत्युपस्थिते स्मरतः अहं प्राणातिपातादिभ्यः प्रतिविरत इति प्रत्युपस्थितस्मृतेः ।
तत्प्रत्युपस्थानाद् यया चेतनया कायवाचौ संवृणोति; तस्याः सम्मुखीभावात् ।
इत्यर्थमेव तस्याः समादानमिति । कथम् ? अयमक्रियाप्रतिज्ञां संस्मृत्य दौःशील्यं
कुर्यादिति । न कश्चिन्मुषितस्मृतिः शिक्षां भिन्द्यादिति । यासावविज्ञप्तिः सेतुभूता
दौःशील्यं प्रतिबध्नाति सा तदानीं विद्यत इति ।
न हि सैव सामग्रीति विस्तरः । न सैव पृथिवीधात्वादीनां महाभूतानां
विज्ञप्त्याश्रयाणां सामग्री सूक्ष्मफला चानिदर्शनाप्रतिघा अविज्ञप्तिफलत्वात्, औदा-
रिकफला च सनिदर्शनसप्रतिघविज्ञप्तिफलत्वाद् युज्यते । तस्मादन्यान्येव महा-
भूतानि उपादायाविज्ञप्तिरुत्पद्यते ।
यदातनी विज्ञप्तिरिति विस्तरः । यदा भवा विज्ञप्तिः यदातनी विज्ञप्तिः ।
एवं तदातनानि महाभूतानि । यत्कालसम्भूता विज्ञप्तिः किं तत्कालसम्भूतान्येव
महाभूतान्युपादाय विज्ञप्तिरुत्पद्यते । सर्वमुपादाय रूपं विज्ञप्तिरविज्ञप्तिर्भियानास्रव-
१. ०मेव च—का० । २-२. यथा चेतना या—मुद्रितः पाठः ।
५९० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
प्रायेणैवम्, किञ्चिद्¹ वर्तमानमनागतं चातीतानि महाभूतान्युपादाय ।
किं पुनस्तदिति ?
क्षणादूर्ध्वमविज्ञप्तिः कामाप्तातीतभूतजा ॥ ४ ॥
प्रथमात् क्षणादूर्ध्वमविज्ञप्तिः कामावचरी अतीतानि महाभूतान्युपादा-
योत्पद्यते । तान्यस्या आश्रयार्थेन सम्भवन्ति² । प्रत्युत्पन्नानि शरीरमहाभूतानि
सन्निश्रयार्थेन; प्रवृत्त्यनुवृत्तिकारणत्वाद् यथाक्रमम् । चक्रस्येव भूमौ सपरिवर्तमानस्य
पाण्यावेध-भूमिप्रदेशौ ॥ ४ ॥
अथ कुतस्त्यानि महाभूतान्युपादाय कुतस्त्यं कायवाक्कर्म ?
स्वानि भूतान्युपादाय कायवाक्कर्म सास्रवम् ।
कामावचरं कायवाक्कर्म कामावचराण्येव महाभूतान्युपादाय । एवं
यावच्च चतुर्थध्यानभूमिकं तद्भूमिकान्येवोपादाय ।
संगृहीता चक्षुःश्रोत्ररूपशब्दादि चैवं समानकालान्येव महाभूतान्युपादाय वर्तते ।
प्रायेणेतिग्रहणं किञ्चित्कामावचर्यविज्ञप्तिनिरासार्थम् । अत एवाह—किञ्चिद्
वर्तमानमनागतमतीतानि महाभूतान्युपादायेति । किञ्चिदुपादाय रूपं वर्तमान-
मतीतानि महाभूतान्युपादाय वर्तते, किञ्चिदनागतमुपादायरूपमतीतानि महा-
भूतान्युपादाय वर्तते ।
किं पुनस्तदुपादायरूपं यदेवं भूतमिति दर्शयन्नाह—
“क्षणादूर्ध्वमविज्ञप्तिः कामाप्तातीतभूतजा” इति । कामावचरसंवरादि-
ग्रहणकालेऽविज्ञप्तिः सहजानि महाभूतान्युपादायोत्पद्यते । एवमन्याप्यविज्ञप्ति-
स्तान्येवोपादायोत्पद्यते; यस्मात् तान्यस्या आश्रयार्थेन सम्भवन्ति । यथान्येषामुपा-
दायरूपाणां प्रत्युत्पन्नानि महाभूतान्याश्रयः, एवं तस्यातीतान्याश्रयः । प्रवृत्त्य-
नुवृत्तिकारणत्वात् यथाक्रममिति । अतीतानि महाभूतानि प्रवृत्तिकारणत्वात्
आक्षेपकारणत्वात् आश्रयार्थेन भवन्ति । प्रत्युत्पन्नानि शरीरमहाभूतान्यनुवृत्ति-
कारणत्वादधिष्ठानकारणत्वात् सन्निश्रयार्थेन भवन्ति । चक्रस्येवेति विस्तरः ।
यथा चक्रस्य पाण्यावेधः । एवमस्याः प्रवृत्तिकारणम् । यथा भूमिप्रदेशः ।
एवमनुवृत्तिकारणम् ॥ ४ ॥
कालनियममुक्त्वा भूमिनियमं पृच्छति—अथ कुतस्त्यानीति विस्तरः ।
यावच्च चतुर्थध्यानभूमिकमिति । आरूप्येषु भूतभौतिकानामभावात् ।
१. किञ्चित्—का० । २. भवन्ति—का० ।
निर्देशः ] चतुर्थं कोशस्थानम् ५०१
अनास्रवं यत्र जातः,
अनास्रवं तु कायवाक्कर्म यस्यां भूमौ जातस्तदुत्पादयति, तद्भूमिकान्यु-
पादाय तद् वेदितव्यम् । धात्वपतितत्वाद्, अनास्रवाणां च महाभूतानामभावात् १,
तद्बलेन चोत्पत्तेः । तत्र विज्ञप्त्यविज्ञप्त्याख्यकर्मणी वेदितव्ये ।
अविज्ञप्तिरनुपात्तिका ॥ ५ ॥
नैःष्यन्दिकी च सत्त्वाख्या,
किञ्च —
निष्यन्दोपात्त भूतजा ।
नैःष्यन्दिकान्येव भूतान्युपादाय चित्तचैत्तानि चोपादायाविज्ञप्तिर्भवति ।
असमाहितभूमिकाया एष प्रकारः ॥
समाधिजौपचयिकानुपात्ताभिन्नभूतजा ॥ ६ ॥
ध्यानानास्रवसंवरो विज्ञप्तिः समाधिजा । सा समाधिसम्भूतान्यौपचयि-
धात्वपतितत्वादिति । अनास्रवस्य कायवाक्कर्मणोः धात्वप्रतिसंयुक्तत्वात् ।
नास्ति नियमत इत्यभिप्रायः । अनास्रवाणि तर्हि महाभूतान्युपादाय कस्मान्न
भवति ? इत्यत आह—अनास्रवाणाञ्च महाभूतानामभावादिति । किं पुनरस्या
महाभूतैः कार्यम् ? इत्यत आह—तद्बलेन चोत्पत्तेरिति । महाभूतबलेन चोत्पत्ते-
रित्यर्थः । अथ चित्तबलेनैव तदुत्पत्तिः कस्मान्न भवति ? अनुपादायरूपत्व-
प्रसङ्गात् ।
"अविज्ञप्तिरनुपात्तिका" इति । अमूर्तत्वान्चित्तचेत्ताधिष्ठानभावायोगाद् ॥५॥
"नैष्यन्दिकी च" इति । कुशलाकुशलत्वात् । न विपाकजा; "नाव्याकृता-
स्त्यविज्ञप्तिः" ( अभि० ४.७ ) इति वचनात् । विपाकजस्य चाव्याकृतत्वाद्
"विपाकोऽव्याकृतो धर्मः" ( अभि० को० २.५७ ) इति वचनात् । नौपचयिकी
उपचयाभावात् । परिशेष्यान्नैष्यन्दिकी ।
"सत्त्वाख्या" सत्त्वसन्तानपतितत्वात् ।
"निष्यन्दोपात्तभूतजा" इति । नैष्यन्दिकोपात्तमहाभूतजा; समुत्थापक-
चित्तापेक्षत्वात्, असमाहितचित्तविज्ञप्त्यधिकाराच्च । न स्वप्नसमाध्याक्षोप-
चयिकमहाभूतजा । अत एव च न विपाकजमहाभूतजा ।
"समाधिजा" इति विस्तरः । सास्रवानास्रवसमाधिजत्वात् । ध्यानानास्र-
१. भूतानाम०—का० ।
५९२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
कानि, अनुपात्तानि च महाभूतान्युपादायोत्पद्यते । अभिन्नानि च, यान्येव च
भूतान्युपादाय प्राणातिपाताद् विरतिरुत्पद्यते तान्येव यावत् सम्भिन्नप्रलापात् । किं
कारणम् ! चित्तवद् भूतभेदात् ।
प्रातिमोक्षसंवरे त्वन्यान्यानि महाभूतान्युपादाय सप्ताविज्ञप्तयो भवन्ति ।
विज्ञप्तिस्तु नैःष्यन्दिकी । उपात्ता तु कायिकी ।
किं पुनरियं विज्ञप्तिरुत्पद्यमाना पूर्वकस्य संस्थानस्य सन्तानं बाधित्त्वोत्पद्यते ?
उताहो न ?
किञ्चातः यदि बाधित्त्वोत्पद्यते ? न; विपाकरूपस्योच्छिन्नस्य पुनः प्रबन्धा-
द्वैभाषिकीयं प्राप्नोति ।
अथाबाधित्वा ? कथमेकस्मिन् भूतसङ्घाते संस्थानद्वयं सिध्यति । अन्यान्येव
तानि नैःष्यन्दिकानि तदानीमुपजायन्ते यान्युपादाय विज्ञप्तिर्भवति ?
वजसंवराविज्ञप्तिः समाधिजेत्युच्यते । अनुपात्तानि च महाभूतान्युपादायेति ।
समाहितचित्तवशेन तत्र शरीरे चित्तानुवृत्तित्वात् । उपात्तानि हि महाभूतानि
निरोधसमापत्त्याद्यवस्थासु चित्तमन्तरेणापि वर्तन्ते । यावत्सभिन्नप्रलापादिति ।
यावच्छब्देन अदत्तादानात् काममिथ्याचारान्मृषावादात् पैशुन्यात् पारुष्यात्
सम्भिन्नप्रलापादिति । चित्तवद् भूतभेदात् । यथा तदुत्पादकं चित्तमभिन्नम्, एवं
भूतान्यपि तदुत्पादकान्यभिन्नान्येव । न चाधारार्थनाविज्ञप्तेर्महाभूतान्याश्रयः,
किं तर्हि ? तत्प्रवर्तनार्थेन । तस्मादभिन्नभूतजेति वचनं न विरुध्यते ।
प्रातिमोक्षसंवरे त्वन्यान्यानीति । अचित्तानुपरिवर्तनीयत्वात् । विज्ञप्तिस्तु
नैष्यन्दिकीति । आक्षेपवशेनोनुवृत्तेः । उपात्ता तु कायिकीति । न वाचिकीत्यर्थः ।
कायिकी हि कायमहाभूतावनिर्भागवर्तित्वात् तदाश्रयभूतानामुपात्ता । न
तु वाचिकी; तद्विर्निभागवर्तित्वात् ।
अत्र चोदयति—शास्त्रविरुद्धमेतद् । एवं ह्याह- “यानोमान्युपासकस्य पञ्च
शिक्षापदानि, एषां कत्युपात्तानि ? कत्यनुपात्तानि ? आह—सर्वाण्यनुपात्तानि”
इति ? अविज्ञप्तिलक्षणशिक्षापदभिसन्धिवचनाद् बाहुलिकत्वाद्वा तथानिर्देश-
स्येत्यदोषः ।
पुनः प्रबन्धाद्वैभाषिकीयमिति । एकसंस्थानोत्पत्तावितरसंस्थानानिवृत्तेः ।
कथं विस्तरेण यावत् संस्थानद्वयं सिध्यतीति । अन्योन्यावकाशदानात् ।
निर्देशः ] चतुर्थे कोशस्थानम् ५२६
एवं तर्हि यद्यदेवाङ्गं निश्चित्योत्पद्यते विज्ञप्तिः, तेन तेनाङ्गेन महीयसा भवि-
तव्यम् ; तन्महाभूतैरभिव्यापनात् । अनभिव्यापने च पुनः कथं कृत्स्नेनाङ्गेन¹
विज्ञपयेत् । शुषिरत्वात् कायस्यास्ति तेषामवकाशः ॥ ६ ॥
तत् खल्वेतत् कर्म पर्ययेण द्विविधम्, त्रिविधम्, पञ्चविधं चोक्तम् । चेतना,
चेतयित्वा चेति । चेतयित्वा पुनर्द्विधा—काय-वाक्कर्म, चेतना च । कायकर्म पुनः
द्विविधम्—विज्ञप्त्याख्यम् , अविज्ञप्त्याख्यं च । एवं वाक्कर्म, चेतना चेति पञ्च-
विधं भवति । तत्र पुनरविज्ञप्तिर्द्विधा—कुशला, अकुशला च ।
नाव्याकृतास्त्यविज्ञप्तिः,
किं कारणम् ? अव्याकृतं हि चित्तं दुर्बलम्, अतो न शक्तं बलवत् कर्मा-
क्षेप्तुम्, यन्निरुद्धेऽपि तस्मिन्ननुबध्नीयात् ।
त्रिधाऽन्यत्,
अन्यत् कर्म त्रिविधम्—कुशलाकुशलाव्याकृतम् । किं तदन्यत् ? विज्ञप्तिः,
चेतना च ।
अशुभं पुनः ।
तन्महाभूतैरभिव्यापनादिति । विज्ञप्त्याश्रयैर्महाभूतैरङ्गस्याभिव्यापनात् ।
अनभिव्यापने च पुनर्विज्ञप्तिमहाभूतैः कथं कृत्स्नेनाङ्गेन विज्ञापयेत् । न हि शक्यते
वक्तुम्—कायैकदेशेनासौ विज्ञापयति न सर्वकायेनेति । विज्ञप्त्याश्रयाणि
महाभूतानि तदङ्गं न व्याप्यावतिष्ठन्त इति । शुषिरत्वात् कायस्यास्ति तेषाम-
वकाश इति । अभिव्यापनेऽपि न महीयसाङ्गेन भवितव्यम्; शुषिरत्वेन काया-
नुप्रवेशात् । पीनेन तर्हि गुरुणा वा तेनाङ्गेन न भवितव्यम्; सूक्ष्मत्वात् ॥ ६.॥
द्विविधं त्रिविधं पञ्चविधं चोक्तमिति । "चेतना तत्कृतं च तत्" (अभि०
को० ४.१) इति वचनाद् द्विविधमुक्तम् । "चेतना मानसं कर्म तज्जे वाक्काय-
कर्मणी" (अभि० को० ४.२) इति वचनात् त्रिविधमुक्तम् । "ते तु विज्ञप्त्य-
विज्ञप्ती" (अभि० को० ४.३) इति कायवाक्कर्मणोर्विज्ञप्यविज्ञप्तित्वे भेदस्त्
चेतनात्मकस्य कर्मणश्च पञ्चसत्त्वात् पञ्चविधमुक्तम् ।
“नाव्याकृतास्त्यविज्ञप्तिः” इति । कुशलाकुशलेवाविज्ञप्तिरित्यर्थादुक्तं भवति ।
बलवत्कर्मेति । अविज्ञप्तिलक्षणम् ।
१. कृत्स्नाङ्गेन—का० ।
५५४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
कामे,
अकुशलं वस्तु कर्म कामधातौ वेदितव्यम्, नान्यत्र; अकुशलभूतानां
प्रहीणत्वाद्, आहीक्यानपत्राप्ययोश्च । कुशलाव्याकृतं तु सर्वत्राप्रतिवेधात् । तत्र—
रूपेऽप्यविज्ञप्तिः,
कामेऽपीति; अपिशब्दात् । आरूप्येषु नास्ति; भूताभावात् । यत्र हि काय-
वाचोः प्रवृत्तिस्तत्र कायवाक्संवरौ ।
इह तर्हि समापन्नस्य स्यादनास्रवाविज्ञप्तिवत् ? न; तस्या धात्वपतितत्वात् ।
आरूप्यावचरी त्वविज्ञप्तिर्नाहति कामरूपावचराणि¹ विसभागानि महा-
भूतान्युपादाय² भवितुम् ।
सर्वरूपवैमुख्याच्चारूप्यसमापत्तिर्नलं³ रूपोत्पत्तये; विभूतरूपसंज्ञत्वात् ।
दौःशील्यप्रतिपक्षेण शीलम् । तच्च दौःशील्यं कामावचरम् । आरूप्याश्च
कामेऽपीति अपिशब्दादिति । च-शब्दार्थेनापिशब्देन काम इत्याकृष्यते ।
अनास्रवाविज्ञप्तिवदिति । यथा न च तावदनास्रवाया अविज्ञप्तेरनास्रवाणि
महाभूतानि; अथ च पुनर्यस्यां भूमौ जातस्तामुत्पादयति, तद्भूमिकानि
महाभूतान्युपादायोत्पद्यते । एवं न च तावदारूप्याणि महाभूतानि स्युः ।
अथ च पुनर्यस्यां भूमौ जातस्तामुत्पादयति, तद्भूमिकानि महाभूतान्यु-
पादायारूप्यावचर्याऽविज्ञप्तिर्भविष्यतीति ? न; तस्या धात्वपतित्वादिति ।
नैह; असाम्यात् । यस्मादविज्ञप्तिरनास्रवा धात्वपतिता कामरूपारूप्यावचरीति
युष्माभिरस्वीकृतत्वात् तस्या धातुतो भूमितो वा नैव सभागानि, नापि
विसभागानि महाभूतानि भवन्तीति, अतो यत्र जातस्तत्रजानि महाभूतान्यु-
पादायोत्पद्यते । आरूप्यावचरी त्वज्ञप्तिर्नाहति कामरूपावचराणि विसभागानि
महाभूतान्युपादाय भवितुम् । धातुपतितत्वादित्यभिप्रायः ।
किञ्च—सर्वरूपवैमुख्याच्चारूप्यसमापत्तिर्नलं रूपोत्पत्तये । रूपभूमिका त्वना-
स्रवा समापत्तिरलं रूपोत्पत्तये, अविज्ञप्त्युत्पत्तये इत्यर्थः । कस्
कामधातोरश्रायाकारालम्बनप्रतिपक्षदूरताभिर्दूरै । अत एष्वविज्ञप्तिर्नास्तीति वैभा-
षिकाः ।
विज्ञप्तिः सविचारयोः ॥ ७ ॥
विज्ञप्तिस्तु सविचारयोरेव भूम्योः । कामधातौ प्रथमे च ध्याने न तत
ऊर्ध्वम् ॥ ७ ॥
कामेऽपि निवृता नास्ति,
निवृता तु विज्ञप्तिः कामधातावपि नास्ति । ब्रह्मलोक एवास्ति । महा-
ब्रह्मणो हि शाठ्यसमुत्थितं कायकर्म श्रूयते । स हि स्वपर्षन्मध्ये आयुष्मतो-
ऽश्वजितः क्षेपार्थमात्मानं क्षिप्तवान् ।
तत ऊर्ध्वमसत्यां वाग्विज्ञप्तौ कथं तत्र शब्दायतनं बाह्यमहाभूतहेतुकम् ।
समुत्थानत्वात् । तस्य रूपभूमिकं शीलमविज्ञप्तिलक्षणं प्रतिपक्ष इति युज्यते ।
आरूप्यावचरमप्येवं भविष्यतीति चेद् ? अत आह—आरूप्याश्च कामधातोरिति
विस्तरः । आरूप्याः कामधातोश्चतसृभिर्दूरताभिर्दूरे । दूरत्वाच्चारूप्यसंगृहीतं
शीलं कामधातुप्रतिपक्षे न कल्पते । चतस्रश्च दूरता व्याख्याताः पुरस्तादिति¹
न पुनर्व्याख्यायन्ते । प्रतिपक्षदूरता चात्रोदाहरणम् ।
“विज्ञप्तिः सविचारयोः” इति । सविचारयोरेव भूम्योरिति । अवधारणार्थ
आरम्भः । “वितर्क्य विचार्य वाचं भाषते” इति वितर्कविचारपूर्वकत्वात्
कायवाक्कर्मणोः ॥ ७ ॥
“कामेऽपि निवृता नास्ति” इति । न केवलमविचारासु भूमिष्विति
दर्शयति । ब्रह्मलोक एवास्तीत्युक्तं भवति ।
तत ऊर्ध्वमिति । ब्रह्मलोकादूर्ध्वम् । बाह्यमहाभूतहेतुकमिति । वायुप्रभृतीनां
शब्दायतनम् । विज्ञप्तिशब्दप्रतिषेधपरमेतद्वचनम् । न तु बाह्यमहाभूतहेतुक-
मिति । पाण्याद्यङ्गशब्दोऽपि हि द्वितीयादिषु ध्यानेषु सम्भवति । अन्यथा हि
शास्त्रविरोधः स्यात् । तथा हि शास्त्र उक्तम्—“शब्दधातुना कः समन्वागतः ?
आह—कामरूपावचरः । कोऽसमन्वागतः ? आह—आरूप्यावचरः” (
) इति । न हि बाह्येन सत्त्वसंख्यातेन समन्वागतो युज्यते; “प्राप्य-
प्राप्तिस्वसन्तानपतितानाम्” (अभि० को० २.३६) इति वचनात् ।
१. द्र०—अभि० को० स्फु० २.६७; पृ० ३५८ ।
अन्ये पुनराहुः—द्वितीयादिष्वपि ध्यानेषु विज्ञप्तिरस्त्यनिवृताव्याकृता ।
न तु १कुशला, न क्लिष्टा । किं कारणम् ? न हि तेषूपपन्नस्तथाजातीयमधोभूमिकं २
चित्तं सम्मुखीकरोति, येन तां विज्ञप्तिं समुत्थापयेत्; न्यूनत्वात्, प्रहीणत्वाच्च ।
पूर्वमेव तु वर्णयन्ति ।
किं पुनः कारणमूर्ध्वं ब्रह्मलोकान्नास्ति विज्ञप्तिः, कामधातौ च निवृतान्या-
कृता नास्ति ?
समुत्थानमसद्भूतः ।
सवितर्कविचारेण हि चित्तेन विज्ञप्तिः समुत्थाप्यते । तच्च द्वितीयादिषु
ध्यानेषु नास्ति, भावनाप्रहातव्येन चोत्थाप्यते; दर्शनप्रहातव्यस्यान्तर्मुखप्रवृत्तत्वात् ।
अस्येव च दोषपरिहारार्थमन्ये पुनराहुरिति । द्वितीयादिष्वपि ध्यानेषु विज्ञप्ति-
रस्तीति । किम्भूमिक ? प्रथमध्यानभूमिका । वैभाषिकपक्ष एवायम्, न
पक्षन्तरम्;
“कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत् ।
द्वितीयादौ तदा व्याप्तमक्लिष्टाव्याकृतं च तत्” ॥
इति सिद्धान्तात् । एवं तर्हि द्वितीयादिध्यानभूमिका भवति पक्षान्तरम् ।
सा तु किं व्याकृता, उताव्याकृता ? इत्याह—अनिवृताव्याकृता । न तु कुशला
न क्लिष्टेति । परस्परसम्भाषणादि कुर्वतां ततस्त्यानामव्याकृता विज्ञप्तिर्भवति ।
किं कारणं न कुशला न क्लिष्टाऽस्ति ? इत्याह—न हि तेषूपपन्न इति विस्तरः ।
न हि द्वितीयादिषु ध्यानेषूपपन्नः तथाजातीयं कुशलक्लिष्टजातीयमधोभूमिकं
चित्तं सम्मुखीकरोति । येन चित्तेन कुशलां क्लिष्टां वा विज्ञप्तिं समुत्थापयेत् । किं
कारणम् ? इति आह—न्यूनत्वात् प्रहीणत्वाच्चेति । कुशलमधोभूमिकं न्यूनत्वात्
न सम्मुखीकरोति । प्रहीणत्वाच्चेति न क्लिष्टम् । अथदितदुक्तं भवति—
अव्याकृतमधोभूमिकं चित्तं सम्मुखीकरोति, तेन तां समुत्थापयतीति । एतदुक्तं
भवति—अधोभूमिकेन चित्तेनोर्ध्वभूमिका विज्ञप्तिरुत्थाप्यत इति । तदेवं
नेच्छन्ति वैभाषिकाः । प्रथमध्यानिकैव हि सा विज्ञप्तिः, प्रथमध्यानभूमिकचित्त-
समुत्थापितत्वात् । तस्मादाह—पूर्वमेव तु वर्णयन्तीति ।
तच्च कामाधाताविति । तच्च भावनाप्रहातव्यं निवृताव्याकृतं चित्तं काम-
धातौ नास्ति । सत्कार्यान्तर्ग्राहदृष्टिसम्प्रयुक्तमेव हि कामधातौ निवृताव्याकृतं
चित्तमिष्यते । तेन च न विज्ञप्तिः समुत्थाप्यते । अन्तर्मुखप्रवृत्तत्वात् ।
१. का० पुस्तके नास्ति । २. ०ञ्स्तज्जातीय०—का० ।