सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 613, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 613

५५४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
कामे,
अकुशलं वस्तु कर्म कामधातौ वेदितव्यम्, नान्यत्र; अकुशलभूतानां
प्रहीणत्वाद्, आहीक्यानपत्राप्ययोश्च । कुशलाव्याकृतं तु सर्वत्राप्रतिवेधात् । तत्र—
रूपेऽप्यविज्ञप्तिः,
कामेऽपीति; अपिशब्दात् । आरूप्येषु नास्ति; भूताभावात् । यत्र हि काय-
वाचोः प्रवृत्तिस्तत्र कायवाक्संवरौ ।
इह तर्हि समापन्नस्य स्यादनास्रवाविज्ञप्तिवत् ? न; तस्या धात्वपतितत्वात् ।
आरूप्यावचरी त्वविज्ञप्तिर्नाहति कामरूपावचराणि¹ विसभागानि महा-
भूतान्युपादाय² भवितुम् ।
सर्वरूपवैमुख्याच्चारूप्यसमापत्तिर्नलं³ रूपोत्पत्तये; विभूतरूपसंज्ञत्वात् ।
दौःशील्यप्रतिपक्षेण शीलम् । तच्च दौःशील्यं कामावचरम् । आरूप्याश्च
कामेऽपीति अपिशब्दादिति । च-शब्दार्थेनापिशब्देन काम इत्याकृष्यते ।
अनास्रवाविज्ञप्तिवदिति । यथा न च तावदनास्रवाया अविज्ञप्तेरनास्रवाणि
महाभूतानि; अथ च पुनर्यस्यां भूमौ जातस्तामुत्पादयति, तद्भूमिकानि
महाभूतान्युपादायोत्पद्यते । एवं न च तावदारूप्याणि महाभूतानि स्युः ।
अथ च पुनर्यस्यां भूमौ जातस्तामुत्पादयति, तद्भूमिकानि महाभूतान्यु-
पादायारूप्यावचर्याऽविज्ञप्तिर्भविष्यतीति ? न; तस्या धात्वपतित्वादिति ।
नैह; असाम्यात् । यस्मादविज्ञप्तिरनास्रवा धात्वपतिता कामरूपारूप्यावचरीति
युष्माभिरस्वीकृतत्वात् तस्या धातुतो भूमितो वा नैव सभागानि, नापि
विसभागानि महाभूतानि भवन्तीति, अतो यत्र जातस्तत्रजानि महाभूतान्यु-
पादायोत्पद्यते । आरूप्यावचरी त्वज्ञप्तिर्नाहति कामरूपावचराणि विसभागानि
महाभूतान्युपादाय भवितुम् । धातुपतितत्वादित्यभिप्रायः ।
किञ्च—सर्वरूपवैमुख्याच्चारूप्यसमापत्तिर्नलं रूपोत्पत्तये । रूपभूमिका त्वना-
स्रवा समापत्तिरलं रूपोत्पत्तये, अविज्ञप्त्युत्पत्तये इत्यर्थः । कस्