अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 603, कुल 1258 में से
संदर्भ में पढ़ें५८४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
अर्हतो यद् रूपं बाह्यं चेत्यपरे; आस्रवाणामनिःश्रयत्वात् ।
यत्तर्हि सूत्र उक्तम्—“सास्रवा धर्माः कतमे ? यावदेव चक्षुर्यावदेव
रूपाणि” इति विस्तरः ? तत् १ पुनरास्रवाणामप्रतिपक्षत्वात् सास्रवमुक्तम् । पर्या-
येण तर्हि तदेव सास्रवं चानास्रवं च स्यात् ? किं स्यात् ? लक्षणसङ्करः स्यात् ।
यथा तत् सास्रवं तथा न कदाचिदनास्रवमिति कोऽत्र सङ्करः ? यदि च
रूपायतनादीनि एकान्तेन सास्रवाणि स्युः, इह सूत्रे किमर्थं विशेषितानि स्युः—
“यानि रूपाणि सास्रवाणि सोपादानीयानि चेतःखिलम्रक्षवस्तु” इति विस्तरः ।
यदप्युक्तम्—“पुण्याभिवृद्धिवचनाद्” इति, तत्रापि पूर्वाचार्या निर्दि-
शन्ति—“धर्मता ह्येषा यथा यथा दातृणां दायाः परिभुज्यन्ते तथा तथा भोक्तॄणां
गुणविशेषादनुग्रहविशेषाच्चान्यमनसामपि दातृणां तदालम्बनदानचेतनापरिभाविताः २
सन्ततयः सूक्ष्मं परिणामविशेषं प्राप्नुवन्ति, येनायत्यां बहुतरफलाभिनिष्पत्तये
अथवा अनास्रवेऽपि समाधौ तदेवंविधं रूपं त आचार्या इच्छन्ति। अर्हतो
यद्रूपं बाह्यं चेत्यपर इति । अपर आचार्या वर्णयन्ति—अर्हतो यद्रूपं चक्षुरायत-
नादि बाह्यं च काष्ठकुड्यादि तदनास्रवं रूपम् । कुतः ? आस्रवाणामनिश्रय-
त्वात् । न ह्यर्हत्सान्तानिकं रूपं बाह्यं चास्रवाणां क्लेशानां निश्रय इति ।
यद्येवम्, यत्तर्ह्यविशेषेण सूत्र उक्तम्—सास्रवा धर्माः कतमे ? यावदेव चक्षुर्याव-
देव रूपाणीति विस्तरः। तत् पुनरास्रवाणामप्रतिपक्षत्वात् सास्रवमुक्तम्। चित्तचैत्त-
विशेषो हि आस्रवप्रतिपक्ष इति । पर्यायेण तर्हीति विस्तरः। तदेवार्हतो रूपं
बाह्यं चास्रवाणामप्रतिपक्षत्वात् सास्रवम्, आस्रवाणामनिश्रयत्वादनास्रवमिति ।
तथा च लक्षणसंकरः स्यादिति दोषः । यानि रूपाणीति । यानि रूपाण्याय-
तनानीत्यर्थः । विस्तरेण यावद् ये धर्माः सास्रवाः सोपादानीयाश्चेतःखिल-
म्रक्षवस्त्विति वचनात् । सन्त्यनास्रवाणि रूपायतनानीति । तानि पुनः
कतमानि सास्रवाणि ? सोपादानीयानि पृथग्जनरूपाणि; आस्रवाणां निःश्रय-
त्वात्तदप्रतिपक्षत्वाच्च । कतमान्यनास्रवाणि ? यान्यर्हतो रूपाणि बाह्यानि
च; आस्रवाणामनिःश्रयत्वात् ।
धर्मता ह्येषेति । कर्मणामनादिकालिका शक्तिः । गुणविशेषादिति । ध्याना-
प्रमाणादिगुणविशेषात् । अनुग्रहविशेषाच्चेति । शरीरस्य वर्णबलादिविशेषात् ।
तदालम्बनेति विस्तरः । सप्रतिग्राहकमालम्बनमस्याः सेयं तदालम्बना दान-
चेतना, तया परिभाविताः सन्ततयः सूक्ष्मं परिणामविशेषं फलोत्पत्तिनिमित्तं
१. तत्र—का० । २. ०चेतनाभाविताः—का० ।