अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 614, कुल 1258 में से
संदर्भ में पढ़ेंकामधातोरश्रायाकारालम्बनप्रतिपक्षदूरताभिर्दूरै । अत एष्वविज्ञप्तिर्नास्तीति वैभा-
षिकाः ।
विज्ञप्तिः सविचारयोः ॥ ७ ॥
विज्ञप्तिस्तु सविचारयोरेव भूम्योः । कामधातौ प्रथमे च ध्याने न तत
ऊर्ध्वम् ॥ ७ ॥
कामेऽपि निवृता नास्ति,
निवृता तु विज्ञप्तिः कामधातावपि नास्ति । ब्रह्मलोक एवास्ति । महा-
ब्रह्मणो हि शाठ्यसमुत्थितं कायकर्म श्रूयते । स हि स्वपर्षन्मध्ये आयुष्मतो-
ऽश्वजितः क्षेपार्थमात्मानं क्षिप्तवान् ।
तत ऊर्ध्वमसत्यां वाग्विज्ञप्तौ कथं तत्र शब्दायतनं बाह्यमहाभूतहेतुकम् ।
समुत्थानत्वात् । तस्य रूपभूमिकं शीलमविज्ञप्तिलक्षणं प्रतिपक्ष इति युज्यते ।
आरूप्यावचरमप्येवं भविष्यतीति चेद् ? अत आह—आरूप्याश्च कामधातोरिति
विस्तरः । आरूप्याः कामधातोश्चतसृभिर्दूरताभिर्दूरे । दूरत्वाच्चारूप्यसंगृहीतं
शीलं कामधातुप्रतिपक्षे न कल्पते । चतस्रश्च दूरता व्याख्याताः पुरस्तादिति¹
न पुनर्व्याख्यायन्ते । प्रतिपक्षदूरता चात्रोदाहरणम् ।
“विज्ञप्तिः सविचारयोः” इति । सविचारयोरेव भूम्योरिति । अवधारणार्थ
आरम्भः । “वितर्क्य विचार्य वाचं भाषते” इति वितर्कविचारपूर्वकत्वात्
कायवाक्कर्मणोः ॥ ७ ॥
“कामेऽपि निवृता नास्ति” इति । न केवलमविचारासु भूमिष्विति
दर्शयति । ब्रह्मलोक एवास्तीत्युक्तं भवति ।
तत ऊर्ध्वमिति । ब्रह्मलोकादूर्ध्वम् । बाह्यमहाभूतहेतुकमिति । वायुप्रभृतीनां
शब्दायतनम् । विज्ञप्तिशब्दप्रतिषेधपरमेतद्वचनम् । न तु बाह्यमहाभूतहेतुक-
मिति । पाण्याद्यङ्गशब्दोऽपि हि द्वितीयादिषु ध्यानेषु सम्भवति । अन्यथा हि
शास्त्रविरोधः स्यात् । तथा हि शास्त्र उक्तम्—“शब्दधातुना कः समन्वागतः ?
आह—कामरूपावचरः । कोऽसमन्वागतः ? आह—आरूप्यावचरः” (
) इति । न हि बाह्येन सत्त्वसंख्यातेन समन्वागतो युज्यते; “प्राप्य-
प्राप्तिस्वसन्तानपतितानाम्” (अभि० को० २.३६) इति वचनात् ।
१. द्र०—अभि० को० स्फु० २.६७; पृ० ३५८ ।