अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 596, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] चतुर्थं कोशस्थानम् ५७७
वेविदितं¹ चैतदेवम् । यत् कदाचिदनिर्धार्यमाणपरिच्छेदं सङ्घातमात्रमव्यक्तं
दृश्यते किमप्येतदिति ।
अथेदानों कायस्य गतिं निराकृत्य संस्थानं च तत्रभवन्तः सौत्रान्तिकाः
कां कायविज्ञप्तिं प्रज्ञापयन्ति ? संस्थानमेव हि ते कायविज्ञप्तिं प्रज्ञापयन्ति, न तु
पुनर्द्रव्यतः ।
तां च प्रज्ञापयन्तः कथं कायकर्म प्रज्ञापयन्ति ? कायाधिष्ठानं कर्म कायकर्म,
या चेतना कायस्य तत्र तत्र प्रणेत्री ।
एवं वाङ्मनस्कमंणी अपि यथायोगं वेदितव्ये ।
यत्तर्हि "चेतना कर्म चेतयित्वा च" ( ) इत्युक्तम् !
सङ्कल्पचेतना पूर्वं भवति—'एवं चैवं च करिष्यामि' इति । तथा चेतयित्वा
पश्चात् क्रिया चेतनोत्पद्यते । यया कायः प्रेर्यते सासौ चेतयित्वा कर्मेत्युच्यते ।
एवं तर्हि विज्ञप्त्यभावादविज्ञप्तिरपि कामावचरी न² स्यादिति² महान्तो
तमस्यव्यक्तं पक्षिणः पिपीलिका वा दृष्ट्वा दीर्घा पंक्तिरिति परिकल्पयन्ति,
यथा वा तमस्येव हस्त्यादीनव्यक्तं दृष्ट्वा परिमण्डलेयं सेना व्यवस्थितेति परि-
कल्पयन्ति, तद्वत् । वेविदितं चैतदेवमिति । यथेदानीमुक्तम्—असत्यपि जात्यन्तरे
संस्थाने वर्णमेव ते तत्राव्यक्तं दृष्ट्वा दीर्घादिपरिकल्पं कुर्वन्ति । यत् कदाचिदिति
विस्तरः । अनिवार्यमाणपरिच्छेदमिति । अनिर्द्धार्यमाणसंस्थानसंघातमात्रमव्यक्त-
मलक्ष्यमाणनीलत्वादिकं दृश्यते । न च वर्णसंस्थानव्यतिरिक्तं रूपायतनम-
स्तीति । यथा नान्यद् किञ्चिद् द्रव्यं कल्प्यते, तद्वत् संस्थानमपि न वर्णव्यति-
रिक्तं कल्पयितव्यम् ।
तत्रभवन्त इति । ते भवन्त इत्यर्थः । "इतराभ्योऽपि दृश्यन्ते" (पा० सू०
५.३.१४ ) इति वचनात् । कथं कायकर्म प्रज्ञापयन्तीति । प्रज्ञप्तिसत्त्वात् काय-
कर्मयोग इति मन्यमानः पृच्छति । कायाधिष्ठानमिति । कायालम्बनमित्यर्थः ।
यस्य हि कायः प्रवर्त्यः, तत्कायाधिष्ठानं कर्म । तेनाह—या चेतना कायस्य तत्र
तत्र प्रणेत्रीति³ । यथायोगं वेदितव्ये इति । वागधिष्ठानं कर्म वाक्कर्म । मनस्कर्म
तु मनसः कर्म, मनसा वा संयुक्तं कर्म मनस्कर्म । तेन यथायोगमित्युक्तम् ।
विज्ञप्त्यभावादिति विस्तरः । यदि विज्ञप्तिर्न स्यात् अविज्ञप्तिरपि कामावचरी
न स्यात् । विज्ञप्त्यधीना हि कामावचर्यविज्ञप्तिः, न चित्तानुपरिवर्तिनीति । सा
१. इत्थं—का० । २-२. नास्तीति—का० । ३. पश्वतोति—मुद्रितः पाठः ।