सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 602, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 602

Here is the line-by-line transcription of the Sanskrit philosophical text from the image:

निर्देशः ] 'चतुर्थं कोशस्थानम् ५८३
गच्छति, सम्यक्सङ्कल्पः, सम्यग्व्यायामः, सम्यक्स्मृतिः, सम्यक्समाधिः । पूर्वमेव
चास्य सम्यग्वाक्कर्मान्ताजीवाः परिशुद्धा भवन्ति पर्यवदाताः” ( )
इति ? लौकिकमार्गवैराग्यं पूर्वकृतमभिसन्धायैतदुक्तम् ।
प्रातिमोक्षसंवरश्चापि न स्यादसत्यामविज्ञप्तौ । न हि समादानादूर्ध्वं तदस्ति,
येनान्यमनस्कोऽप्ययं भिक्षुः स्यात्, भिक्षुणी वेति । सेतुश्च सूत्रे विरक्तिरुक्ता;
दौःशील्यविवन्धत्वात् । न वा भवन्ती सेतुर्भवितुमर्हन्तीत्यस्यैवाविज्ञप्तिः ।
अत्र सौत्रान्तिका आहुः— बह्वप्येतत्, चित्रमप्येतत् । नैवं त्वेतत् । किं
कारणम् ? यच्चावदुक्तम्—"त्रिविधरूपोक्तेः” इति ।
तत्र योगाचारा उपदिशन्ति—ध्यायिनां समाधिविषयरूपं$^१$ समाधिप्रभा-
वादुत्पद्यते, चक्षुरिन्द्रियाविषयत्वाद् अनिदर्शनम्, देशानावरणाद् अप्रतिघमिति$^२$ ।
अथ मतम्—कथमिदानीं तद् रूपमिति ? एतदविज्ञप्तौ समानम् ।
यदप्युक्तम्—'अनास्रवरूपोक्तेः' इति, तदेव समाधिप्रभावसम्भूतं रूपमनास्रवे
समाधावनास्रवं वर्णयन्ति योगाचाराः ।
विज्ञप्तिर्न स्यादष्टाङ्गोऽयं मार्गो न स्यात्; तत्र विज्ञप्त्ययोगात् । तस्माद् अस्त्य-
विज्ञप्तिरिति ।
यत्तर्हीदमुक्तमिति विस्तरेणोक्त्वा यावत् सम्यक् समाधिरिति किमर्थमेव-
मुच्यते ? पूर्वमेव चास्येति सर्वम् । मार्गस्य समापत्तिकालान् पूर्वमित्यर्थः ।
विज्ञप्तिरूपास्त उक्ता इत्यभिप्रायः । वैभाषिका परिहरन्ति—लौकिकमार्गवैराग्य-
मिति विस्तरः । लौकिकमार्गवैराग्यावस्थायां वागादिस्वभावं विज्ञप्तिरूपम् ।
एतदभिसन्धायैतदुक्तम् । न तु मार्गकाले तत् संगृहीतं वागाद्यविज्ञप्तिरूपं
नास्तीति ।
समाधिविषयरूपमिति । समाधेरालम्बनमस्थिसङ्कलादि । देशानावरणादप्रति-
घमिति । यद्रूपं देशमावृणोति तत् प्रतिघम् । विपर्ययादप्रतिघमिति सिद्धम् ।
कथमिदानीं तद्रूपमिति । यदि न रूपयितुं शक्यत इत्यभिप्रायः । एतद-
विज्ञप्तौ समानम् । अविज्ञप्तिरपि वा देशं नावृणोतीति तुल्यम् । अनास्रवे समाधौ
अनास्रवमिति । मार्गं सम्मुखीकुर्वाणो योगाचारस्तद्रूपमाशयं चाश्रयञ्च प्रति-
लभते यत् सम्यग्दृष्टिवदनास्रवं शीलं प्रतिलभते । यस्मिन् सति प्रकृतिशील-
तायां सन्तिष्ठते ।
१. ०विषयो रूपं—का० । २. ०नावरणत्वाद्०—का० ।