अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 600, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] चतुर्थं कोशस्थानम् ५८१
५. 'पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा आगन्तुकाय गमि-
काय वा दानं ददाति। इदं चुन्द पञ्चममौपधिकं पुण्यक्रियावस्तु पूर्ववत्।
६. 'पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा ग्लानाय ग्लानोप-
स्थापकाय वा दानं ददाति। इदं चुन्द षष्ठमौपधिकं पुण्यक्रियावस्तु पूर्ववत्।
७. 'पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा यास्ता भवन्ति शीत-
लिका वा वह्लिका वा वातलिका वा वर्षलिका वा, तद्रूपासु शीतलिकासु
यावद्वर्षलिकासु भक्तानि वा तर्पणानि वा यवागूपानानि वा तानि सङ्घाया-
भिनिर्हृत्यानुप्रयच्छति—इदमार्या अस्माकमनाद्रेर्गात्राः अनभिवृष्टचीवराः परि-
भुज्य सुखस्पर्शं विहरन्तु। इदं च चुन्द सप्तममौपधिकं ऽपुण्यक्रियावस्तु महाफलं
यावदुपजायत एव पुण्यम्।
'एभिः सप्तभिरोपधिकैः पुण्यक्रियावस्तुभिः समन्वागतस्य श्राद्धस्य कुल-
पुत्रस्य वा कुलदुहितुर्वा न लभ्यं पुण्यस्य प्रमाणमुद्ग्रहीतुम्—एतावत् पुण्यं वा,
पुण्यफलं वा, पुण्यविपाकं वा। अपि तु बहुत्वात् पुण्यस्य 'महापुण्यस्कन्धः' इति
संख्यां गच्छतीत्येवमादि"।'
"द्विरप्यायुष्मान् महाचुन्दो भगवन्तमेतदवोचत्—'लभ्यं भदन्त निरोपधिकं
पुण्यक्रियावस्तु प्रज्ञपयितुं महाफलं यावन्महावैस्तारिकम् ? 'लभ्यं चुन्द' इति
भगवांस्तस्यावोचत्। 'सप्तेमानि चुन्द निरोपाधिकानि पुण्यक्रियावस्तूनि यैः
समन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर्वा चरतो वा तिष्ठतो वा
विस्तरेण यावदुपजायत एव पुण्यम्'।
कतमानि सप्त' ? १. 'इह चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति
तथागतं वा तथागतश्रावकं वा अमुकं ग्रामक्षेत्रमुपनिश्रित्य विहरतीति। श्रुत्वा
पुनरधिगच्छति प्रीतिप्रामोद्यमुदारं कुशलं नैष्क्रम्योपसंहितम्। इदं चुन्द प्रथमं
निरोपधिकं पुण्यक्रियावस्तु पूर्ववत् यावदुपजायत एव पुण्यम्।
२. 'पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति तथागतं वा
तथागतश्रावकं वा उद्युक्तमागमानाय। श्रुत्वा च पुनरधिगच्छतीति पूर्ववत्।
इदं चुन्द द्वितीयं निरोपधिकं पुण्यक्रियावस्तु।
३. 'पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति तमेव तथा-
गतं वा तथागतश्रावकं वा अध्वानमार्गप्रतिपन्नं तमेव ग्रामक्षेत्रमनुप्राप्तम्।
श्रुत्वा च पुनरधिगच्छतीति पूर्ववत्। इदं चुन्द तृतीयं निरोपधिकं पुण्यक्रिया-
वस्तु यावदुपजायत एव पुण्यम्।
४. 'पुनरपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति तमेव तथागतं
वा तथागतश्रावकं वा तदेव ग्रामक्षेत्रमनुप्राप्तम्। श्रुत्वा च पुनरधिगच्छतीति
पूर्ववत्। इदं चुन्द चतुर्थं निरोपधिकं पुण्यक्रियावस्तु यावदुपजायत एव पुण्यम्।