अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 598, कुल 1258 में से
संदर्भ में पढ़ें[निर्देशः ] चतुर्थं कोशस्थानम् ५७९
स्वभावत्वाद्, रूपलक्षणाभावाच्च।
अस्तीति वैभाषिकाः । कथं ज्ञायते ?
त्रिविधामलरूपोक्तिवृद्ध्यकुर्वत्पथादिभिः ।
त्रिविधं रूपमुक्तं सूत्रे—"त्रिभिः स्थानै रूपस्य रूपसंग्रहो भवति—
अस्ति रूपं सनिदर्शनं सप्रतिघम्, अस्ति रूपमनिदर्शनं सप्रतिघम्, अस्ति
रूपमनिदर्शनमप्रतिघम्” ( ) इति । अनास्रवं च भगवता रूप-
मुक्तम्—"अनास्रवाः धर्माः कतमे ? यस्मिन् रूपेऽतीतानागतप्रत्युत्पन्नो
नोत्पद्यतेऽनुनयो वा प्रतिघो वा यावद् यस्मिन् विज्ञाने, इम उच्यन्तेऽनास्रवा
धर्माः” ( ) इति । नाविज्ञप्तिं १ विरहय्यास्ति रूपमनिदर्शनम-
प्रतिघम्, नाप्यनास्रवम् ।
दाय प्राणातिपातादिभ्यः प्रतिविरमामि' इत्यभ्युपेत्य । तस्मात् परेण तेषामक-
रणमात्रमविज्ञप्तिरित्येवं द्रव्यतो नास्तीति सौत्रान्तिकाः । तेषां चातीतानां महा-
भूतानाम् । न ह्यतीतानां प्रत्युत्पन्नस्वभावोऽस्ति । पञ्चमे च कोशस्थान एतद्
दर्शयिष्यत इति । कथम् ? अविद्यमानान्यस्या आश्रय इत्यतो न द्रव्यतोऽस्ति ।
रूपलक्षणाभावाच्च । रूप्यत इति रूपलक्षणम्, तच्चास्या अप्रतिघत्वान्नास्ति ।
तस्मान्न द्रव्यतोऽस्ति ।
त्रिविधेति विस्तरः। त्रिविधञ्च तदमलञ्च त्रिविधामलरूपम्, तस्योक्तिः।
अकुर्वतः पन्था अकुर्वत्पथः। परेण कारयतः स्वयमकुर्वतः कर्म इत्यर्थः ।
त्रिविधामलरूपोक्तिश्च वृद्धिश्चाकुर्वत्पथश्चादिरेषाम्, तानीमानि त्रिविधामलरूपो-
क्तिवृद्ध्यकुर्वत्पथादीनि । आदिशब्देन धर्मो भिक्षो इत्यत्रारूपीत्यवचनम्, आर्या-
ष्टाङ्गवचनम्, प्रातिमोक्षसंवरसेतुवचनं च गृह्यते ।
रूपस्य रूपसंग्रह इति । रूपस्य रूपेणैव संग्रहो भवति, नान्यैर्वेदनादिभिः ।
अस्ति रूपं सनिदर्शनं सप्रतिघम् । यच्चक्षुर्विज्ञानविज्ञेयं रूपम् । अस्त्यनिदर्शनं
सप्रतिघम् । यानि चक्षुरादीनि तत् पुनर्नव रूपायतनानि । अस्ति रूपम-
निदर्शनमप्रतिघम् । यन्मनोविज्ञानविज्ञेयम् अविज्ञप्तिरूपं धर्मायतनसंगृहीतम् ।
नाविज्ञप्तिं विरहय्येति विस्तरः। अविज्ञप्तिं मुक्त्वा नास्ति रूपमनिदर्शनमप्रतिघं
यद् रूपसंग्रहसूत्रे उक्तम् । नाप्यनास्रवमस्ति रूपम् । अविज्ञप्तिं विरहय्येति वर्तते ।
न हि मार्गसत्यसमापन्नस्य कायवाग्विज्ञप्तिरूपं युज्यते ।
१. न चाविज्ञप्ति—का० ।