सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 597, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 597

५७८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
दोषा अनुषज्यन्ते, अनुषङ्गाणां१ पुनः प्रत्यनुषङ्गा भविष्यन्ति; यदि तस्मादेव
कायकर्मसंशब्दिताच्चेतनाविशेषादविज्ञप्तिः स्यात्, चित्तानुपरिवर्तिनी स्यात् समा-
हिताविज्ञप्तिवत् !
नैवं भविष्यति; चेतनाविशेषेण तदाक्षेपविशेषात् । सापि च विज्ञप्तिः
सती तदाक्षेपे उत्पादनचेतनाया२ बलं निभाल्यते; जडत्वात् । द्रव्यमेव तु
संस्थानं वैभाषिका वर्णयन्ति, संस्थानात्मिकां तु कायविज्ञप्तिम् ।
वाग्विज्ञप्तिस्तु वाग्ध्वनिः ॥ ३ ॥
वाक्स्वभावो यः शब्दः सैव वाग्विज्ञप्तिः ॥ ३ ॥
अविज्ञप्तिः पूर्वमेवोक्ता। सापि द्रव्यतो नास्तीति सौत्रान्तिकाः; अभ्यु-
पेत्याकरणमात्रत्वात् । अतीतान्यपि महाभूतान्युपादाय प्रज्ञप्तेः, तेषां चाविद्यमान-
चैवं नास्तीति महान्तो दोषा अनुषज्यन्ते । संवरासंवराभावदोषः, सत्तौपधिक-
पुण्यक्रियावस्तु-पुण्यवृद्ध्यभावदोष इत्येवमादयोऽनुषङ्गाः । अनुषङ्गाणां पुनः
प्रत्यनुषङ्गा इति । तत्परिहारा भविष्यन्तीत्यर्थः । कायकर्मसंशब्दितादिति ।
कायाधिष्ठानादित्यर्थः । समाहिताविज्ञप्तिवदिति । यथा समाहिताविज्ञप्तिश्चित्ता-
नुपरिवर्तिनी, एवं प्रातिमोक्षसंवरादिलक्षणाप्यविज्ञप्तिः स्यात् ।
सौत्रान्तिका आहुः—नैवं भविष्यति । न चित्तानुपरिवर्तिनी भविष्यति; चेतना-
विशेषेणासमाहितेन तदाक्षेपविशेषाद् । असमाहिताया अविज्ञप्तेराक्षेपादित्यर्थः ।
सापि च विज्ञप्तिर्भवदीया सती विद्यमाना अविज्ञप्तेराक्षेपे उत्पादनचेतनाया बलं
सामर्थ्यं निभाल्यते अपेक्षते । कस्मात् ? जडत्वाद् । अपटुत्वाच्चेतनाबलमन्तरेण
तामविज्ञप्तिं जनयितुं न शक्नोति । न ह्यसत्यां समादानचेतनायां यदृच्छोत्पन्ना
विज्ञप्तिरविज्ञप्तिं जनयति ।
“वाग्विज्ञप्तिस्तु” इति । तु-शब्दो विशेषणेन । यथा कायविज्ञप्तिः संस्थाना-
त्मिका, न तथा वाग्विज्ञप्तिः । किं तर्हि ? वागात्मको ध्वनिः, वर्णात्मकः शब्द
इत्यर्थः ॥ ३ ॥
अविज्ञप्तिः पूर्वमेवोक्तेति । “ते तु विज्ञप्त्यविज्ञप्ती” इत्युक्तम् । तत्र विज्ञप्ति-
रुक्ता, अविज्ञप्तिर्वक्तव्या । सा च पूर्वमेवोक्ता—“विक्षिप्ताचित्तकस्य” (अभि०
को० १.११) इति वचनात् । सापि द्रव्यतो नास्ति । साप्यविज्ञप्तिर्द्रव्यतो नास्ति ।
न केवला विज्ञप्तिरित्यपिशब्दः । अभ्युपेत्याकरणमात्रत्वादिति । “इमं दिवसमुपा-
१. अनुषङ्गानां—का० । २. चेतनायाः—का० ।