अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 487, कुल 1258 में से
संदर्भ में पढ़ेंनामसप्रख्यानम् ।
एतच्चैव न ज्ञायते किमिदमसप्रख्यानं नामेति ?
यदि यन्न सप्रख्यानम् ? सप्रख्यानाभावेऽपि तथैव दोषो यथा अविद्यायाम् ।
अथ सप्रख्यानविपक्षभूतं धर्मान्तरम् ? तदिदं तथैव न ज्ञायते किं
तदिति ।
एवञ्जातीयकोऽपि धर्माणां निर्देशो भवति, तद्यथा—“चक्षुः कतमत् ?
यो रूपप्रसादश्चक्षुर्विज्ञानस्याश्रय” ( ) इति ॥
अस्मीति सत्त्वमयताऽविद्येति भदन्तधर्मत्रातः । का पुनरस्मिमानादन्या
मयता ! याऽसौ सूत्र उक्ता—“सोऽहमेवं ज्ञात्वा एवं दृष्ट्वा सर्वासां तृष्णानां
सर्वासां दृष्टीनां सर्वासां मयतानां सर्वेषामहङ्कारममकारास्मिमानाभिनिवेशानुशयानां
प्रहाणात् परिज्ञानान्निश्छायो निर्वृतः” ( ) इति ।
अस्त्येषा मयता, सा त्वियमविद्येति कुत एतत् ?
वेति, मा भूत् सर्वक्लेशग्रहणप्रसङ्ग इति । इष्ट इति चेत् ? चित्तेऽपि न विशेषणं
कर्त्तव्यं स्यात् । अविद्योपक्लिष्टं चित्तं न विमुच्यत इत्येवमेव तु वक्तव्यं स्यात् ।
सप्रख्यानम् । प्रज्ञानमित्येकोऽर्थः । तथैव दोषो यथाविद्यायामिति । अथा-
सप्रख्यानमिति कोऽर्थः ? यन्न संप्रख्यानम् । चक्षुरादिष्वपि प्रसङ्गः । सप्रख्याना-
भावस्तर्हि ? एवं सति न किञ्चित् स्यात् । न चैतद् युक्तमिति । अथ सप्रख्यान-
विपक्षभूतं धर्मान्तरम् । तदिदं तथैव न ज्ञायते यथैवाविद्या, किं तदिति ।
एवञ्जातीयकोऽपीति विस्तरः । एवञ्जातीयकः, कर्मप्रभावित इत्यर्थः ।
तस्मादविद्यायाः कर्मणा कारित्रेण स्वभावो विज्ञातव्यः—अस्त्यसौ कश्चिद्धर्मो
यो विद्याविपक्ष इति । विद्याविपक्षत्वं तस्याः कर्मेति । तद्यथा चक्षुः कतमत् ?
यो रूपप्रसादश्चक्षुर्विज्ञानस्याश्रय इति । ननु च रूपप्रसाद इति स्वभावप्रभावि-
तोऽस्य निर्देश इति ? न; अप्रत्यक्षत्वान्नित्यं चक्षुर्विज्ञानमेयत्वाच्च ।
अस्मीति सत्त्वमयतेति । अविज्ञातार्थमेतत् । न तेन स्थविरेणास्याभिधेय-
मवधारितम् । मयता पुनः सौत्रान्तिकैरविद्या प्रकारभिन्ना वर्ण्यते, मानो वा ।
यासौ सूत्र उक्तेति विस्तरः । मयतानामित्यविद्यानां प्रकारभिन्नानां नामेति
ग्रहणम् । तृष्णादीनां पृथगुपदेशादिति भदन्तधर्मत्रातस्याभिप्रायः । आचार्य
आह—अस्त्येषा मयता, अस्ति सूत्रे उक्ता मयता, तत्र जातिनिर्देशादेकवचनम्,
सा त्वविद्येति । कुतः कारणादेतत् परिच्छिद्यते—साविद्येति ? भदन्तधर्मत्रातः