अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 470, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] तृतीयं कोशस्थानम् ४४९.
चोच्यते तज्जातीयत्वादित्यदोषः ॥ २७ ॥
सूत्राभिप्रायस्त्वयमुच्यते—
हेतुरत्र समुत्पादः समुत्पन्नं फलं मतम् ।
हेतुभूतमङ्गं प्रतीत्यसमुत्पादः, समुत्पद्यतेऽस्मादिति कृत्वा । फलभूतमङ्गं
प्रतीत्यसमुत्पन्नम् । एवं सर्वाण्यङ्गान्यभयथा सिध्यन्ति; हेतुफलभावात् । न
चैवं सत्यव्यवस्थानं¹ भवति, भिन्नापेक्षत्वात्¹ । यदपेक्ष्य प्रतीत्यसमुत्पादो न
तदेवापेक्ष्य प्रतीत्यसमुत्पन्नम्, हेतुफलवत् पितृपुत्रवच्च ।
स्थविरपूर्णशः किलाह—स्यात् प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पन्ना
धर्मा इति । चतुष्कोटिकः । प्रथमा कोटिरनागता धर्माः । द्वितीयाऽर्हत्श्वरमाः ।
तृतीया तदन्येऽतीतप्रत्युत्पन्ना धर्माः । चतुर्थ्यसंस्कृता धर्मा इति ।
अत्र तु सौत्रान्तिका विज्ञापयन्ति—किं खल्वेता इष्टय उच्यन्ते या
यस्येष्टिः, आहोस्वित् सूत्रार्थः ? सूत्रार्थ इत्याह । यदि सूत्रार्थः ? नैष सूत्रार्थः ।
कथं कृत्वा ? यत्तावदुक्तम्—"आवस्थिक एष प्रतीत्यसमुत्पादो द्वादश पञ्च-
हेतुफलभावादिति । यस्मात्तदेवाङ्गं हेतुस्तदेव फलम् । न चैवं सत्यव्यवस्थानं
भवतीति । पारापारवत् । हेतुफलवदिति । नाव्यवस्थितः प्रतीत्यसमुत्पादः
प्रतीत्यसमुत्पन्नो भिन्नापेक्षत्वात् । हेतुफलवत् पितृपुत्रवद्वा । तत्र हेतुफलम्, तद्
यथा—बीजाङ्कुरादि । यथा यदपेक्ष्य हेतुर्व्यवस्थाप्यते न तदपेक्ष्य फलम्, यदपेक्ष्य
फलं व्यवस्थाप्यते न तदपेक्ष्य हेतुः । किं तर्हि ? फलमपेक्ष्य हेतुर्व्यवस्थाप्यते,
हेतुञ्चापेक्ष्य फलमिति । यथा च यमपेक्ष्य पिता न तमपेक्ष्य पुत्रः, यमपेक्ष्य पुत्रो
न तमपेक्ष्य पिता, किं तर्हि ? तत्पुत्रमपेक्ष्य पितेति, पितरं चापेक्ष्य पुत्र इति ।
न च तदव्यवस्थितम्, तद्वदेतत् ।
किलेत्यसम्भावनायाम् । प्रथमा कोटिरनागता धर्मा इति । अन्यधर्म-
हेतुत्वात् प्रतीत्यसमुत्पादः समुत्पद्यतेऽस्मादिति कृत्वा । न प्रतीत्यसमुत्पन्नाः,
अनुत्पन्नत्वात् । द्वितीयार्हतश्चरमा इति । उत्पन्नत्वात्ततः फलानुत्पत्तेश्च । तृतीया
तदन्य इति । अर्हतश्चरमेभ्योऽन्येऽतीतप्रत्युत्पन्ना धर्माः । चतुर्थ्यसंस्कृता इति ।
तत्फलाभावादनुत्पत्तिमत्त्वाच्च ।
किं खल्वेता इष्टय उच्यन्त इति । आवस्थिकः प्रतीत्यसमुत्पादः स्यात्
१-१. ०वस्था भवन्त्यपेक्षाभेदात्—का० ।