सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

? No, the third glyph has a loop and then goes down: ग? य? Wait, look at the characters: स पwith subर? Wait, look at: स म ् प ा द ् य? No, the glyphs are: स प(orभorम?) ् र यorण? Wait, look at it: सप्रय! Wait, look at the letters: स- standard Devanagarisa भorप्र? There is a vertical stem and left loop: looks like प्रorभाorग? Wait, it's सthenप्र(orम?) then य(with right bar cut off? It'sसप्रयorसम्प्र?). Wait, look at the very end: सप्रयis clearly visible:स पwith vat-rekha् र, then य! Yes, सप्रय! It cuts off right after य. It looks like सप्रय-orसप्रय. Wait, why सप्रय`? "सप्रयासं सृष्ट्वा"? "सप्रयासेन"?

३५४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
सुगीतश्चायं तमारभ्य श्लोको भवति—
“यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् ।
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ॥ ( ) इति ।
एवं खल्वपि जगतः कारणं परिगृह्यतोऽन्येषामर्थानां प्रत्यक्षः पुरुषकारो
निह्नुतः स्यात् । सहापि च कारणैः कारणमीश्वरं कल्पयतां केवलो भक्तिवादः
स्यात्; कारणेभ्योऽन्यस्य व्यापारादर्शनात् । किञ्च—सहकारिषु चान्येषु कारणे-
ष्वीश्वरो नेश्वरः स्यात् ।
अथादिसर्ग ईश्वरहेतुकः ? तस्याप्यन्यकारणानपेक्षत्वाद्दीश्वरवदनादित्वप्रसङ्गः ।
एवं प्रधानेऽपि यथायोगं वाच्यम् ।
यदि प्रीयेत नमोऽस्तु तस्मै इत्युत्त्रासवचनमेतत् । सुगीतश्चेति विस्तरः । सूक्तश्चायं
तमारभ्य तमीश्वरमधिकृत्य श्लोकः शतरुद्रीये व्यासेन ।
“यन्निर्दहति” इत्यादि । यस्मान्निर्दहति तस्माद् रुद्र इत्येवं सर्वत्र । अन्येषा-
मिति । बीजादीनाम् । अङ्कुरादिषु प्रत्यक्षः पुरुषकारो निह्नुतः स्यात्, कारणेभ्योऽन्यस्य
व्यापारादर्शनादिति । चक्षूरूपालोकमनस्कारादिभ्यश्च चक्षुर्विज्ञानाद्युत्पत्तौ,
बीजक्षेत्रोदकादिभ्यश्चाङ्कुराद्युत्पत्तावन्यस्य व्यापारानुपलब्धेः । यथा हि चक्षु
रादीनां चक्षुर्विज्ञानाद्युत्पत्तौ बीजादीनां चाङ्कुराद्युत्पत्तौ व्यापारो दृश्यते—
तद्भावे भावात्, तदभावे चाभावात्; न तथा चक्षुरादिभावे चेश्वरस्याभावे
चक्षुर्विज्ञानाङ्कुराद्यभावो दृष्टः । पुनश्च तद्भावे भावः; यतस्तस्यापि तदुत्पत्तौ
व्यापारो गम्येत, इत्यतस्तद्व्यापारादर्शनात् सह कारणैरीश्वरं कारणं कल्पयतां
केवलो भक्तिवादः स्यात् । किञ्च सहकारिषु चेति विस्तरः । यानि सहकारीण्यन्यानि
तस्येश्वरस्य किं तेष्वीश्वरो नेश्वरः स्यात् । तानि हि कार्योत्पत्तौ स्वसामर्थ्येन
व्याप्रियन्ते । अन्येषु तु सहकारिष्वीश्वरः स्यादित्यन्यग्रहणम् ।
आदिसर्ग ईश्वरहेतुकः । तथा हि प्रत्यक्षपुरुषकारनिह्नवो न स्यात्,
कारणेभ्योऽन्यस्य व्यापारादर्शने चादोषो जगतश्चेश्वरः कारणमिति । तस्या-
प्यन्यकारणानपेक्षत्वात् । तस्याप्यादिसर्गस्यान्यकारणानपेक्षत्वात् । ईश्वरः
एकः कारणं नान्यदिति । ईश्वरवदनादित्वप्रसङ्गः । अनिष्टं चैतत्, तस्मान्ने-
श्वरः कारणम् ।
एवं प्रधानेऽपि यथायोगं योज्यमिति । प्रधानमचेतनम् । तस्मात्तत्र छन्दवि-
कल्पनां हित्वा शेषप्रतिषेधविधानं योज्यम् । यद्येकमेव कारणं प्रधानं स्यात्,
युगपत् सर्वेण जगता भवितव्यं स्यात् । दृश्यते च भावानां क्रमसम्भवः ।

निर्देशः ] 355/370 द्वितीयं कोशस्थानम् ३५५
तस्मान्न लोकस्यैकं कारणमस्ति । स्वान्येवैषां कर्माणि तस्यां जातौ
जनयन्ति । अकृतबुद्धयस्तु वराकाः स्वं स्वं विपाकफलं चानुभवन्त ईश्वरमपरं
मिथ्या परिकल्पयन्ति ।
अथ कथं भूतानि भूतानां हेतुप्रत्ययः ?
द्विधा भूतानि तद्धेतुः
भूतहेतुरित्यर्थः । सभागसहभूहेतुभ्यां
भौतिकस्य तु पञ्चधा ।
भौतिकस्य तु भूतानि पञ्चप्रकारो हेतुः । कथम् ?
“जननान्निश्रयात् स्थानादुपस्तम्भोपबृंहणात्” ।
सोऽयं कारणहेतुरेव पुनः पञ्चधा भिन्नः; १. जननहेतुः; तेभ्य उत्पत्तेः ।
२. निश्रयहेतुः; जातस्य भूतानुविधायित्वात्, पुरुषकारफलाद्, आचार्यादिनि-
श्रयवत् । ३. प्रतिष्ठाहेतुः; आधारभावात्, चित्रकृत्यवत् । ४. उपस्तम्भहेतुः;
अनुच्छेदहेतुत्वात् । ५. वृद्धिहेतुतुः; उपबृंहणहेतुत्वात् ।
कारणान्तरभेदापेक्षणे वा न प्रधानमेव कारणं स्यात् । तेषामपि क्रमोत्पत्तौ
कारणान्तरभेदापेक्षणादनवस्थाप्रसङ्गः स्यादिति विस्तरः । एवं खल्वपि जगतः
कारणं परिगृह्णता अन्येषामर्थानां प्रत्यक्षः पुरुषकारो निह्नुतः स्यात् । सहापि
च कारणैः कारणं प्रधानं कल्पयतां केवलॊ भक्तिवादः स्यात्; कारणेभ्योऽन्यस्य
व्यापारादर्शनात् । सहकारिषु चान्येषु कारणेषु तत् प्रधानमप्रधानं स्यात् ।
अथादिसर्गः प्रधानहेतुकः ? तस्यापि महदाद्युत्पादस्वभावस्यादिसर्गस्याद्य-
लक्षणत्वात् प्रधानवचनादित्वप्रसङ्गः । नित्यं हि प्रधानम्, प्रधानञ्च महतः
कारणमिति पूर्वं प्रधानं पश्चान्महानिति न सिध्यति । प्रसवधर्मि च प्रधानमिति
तेन नित्यं प्रवर्तितव्यम्; कारणान्तरनिरपेक्षत्वात् । न हि प्रकाशः प्रकाश्यमर्थं
प्रकाश्य पुनर्न प्रकाशयतीति । स्वभावो हि कृतार्थमां नोपेक्षते । अकृतबुद्धयः ।
परमार्थशास्त्रैरसंस्कृतबुद्धयः इत्यर्थः ॥ ६४ ॥
“द्विधा भूतानि तद्धेतुः” इति । पूर्वोत्पन्नानि भूतानि पश्चादुत्पन्नानां
स्वासन्तानिकानां सभागहेतुरविनिर्भागवर्त्तीनि सहभूहेतुः । भूतानुविधायित्वा-
दिति । भौतिकं भूतान्यनुविधत्ते; तद्विकारे विकारात् । आचार्यादिनिश्रयवदिति ।
[य]था भिक्षुराचार्यमाश्रयते, आदिशब्देन उपाध्यायञ्च निश्रयते, तद्वद्भूतानि

३५६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
एवमेषां जन्मविकाराधारस्थितिवृद्धिहेतुत्वमाख्यातं भवति ।
त्रिधा भौतिकमन्योन्यं
हेतुःसहभूसभागविपाकहेतुभिः कारणहेतुरविशेषवर्तित्वात् न सर्वदा
गण्यते ।
तत्र सहभूहेतुरन्योन्यं चित्तानुपरिवर्त्ति कायवाक्कर्म, नान्यदुपादायरूपम् !
सभागहेतुः सर्वं पूर्वोत्पन्नं सभागस्य । विपाकहेतुर्यस्य वाकर्मणश्चक्षुरादयो
विपाकः ।
भूतानामेकधैव तत् ॥ ६५ ॥
भूतानां तु तद्भौतिकं रूपं विपाकहेतुरेव, यस्य कायवाक्कर्मणो भूतानि
विपाकाः; पृथक्कलापत्वात १ ॥ ६५ ॥
अभेदेन चित्तचैत्ताः समनन्तरप्रत्यय उक्ताः । नियमस्तु नोक्तः—कस्य
चित्तस्यानन्तरं कस्योत्पत्तिरिति, स इदानीं वक्तव्यः ।
भौतिकं निश्रयते । एवमेषामिति विस्तरः । जन्महेतुत्वमेषां भूतानाम् आख्यातं तु;
भौतिकस्य तेभ्य उत्पत्तेः । विकारहेतुत्वं तदनुविधायित्वात् । आधारहेतुत्व-
माधारभावात् । स्थितिहेतुत्वमनुच्छेदहेतुत्वात् । वृद्धिहेतुत्वमुपबृंहणहेतु-
त्वादिति । अविशेषवर्तित्वादिति । अविघ्नभावावस्थानेनान्येषामपि हेतुत्वा-
दित्यर्थः ।
अन्योन्यं चित्तानुपरिवर्तिकायवाक्.. : चित्तानुपरिवर्त्ति ध्याना-
नास्रवसंवरसंगृहीतं त्रिविधं प्राणा... त्तिादानकायमिथ्याचारविरति-
भेदेन । वाक्कर्मापि चित्तानुपरिवर्ति ध्यानानास्रवसंवरसंगृहीतमेव चतुर्विधम्
मृषावादपैशुन्यपारुष्यसम्भिन्नप्रलापविरतिभेदेन । तदेवं सप्तविधं कायवाक्-
कर्मान्योन्यं सहभूहेतुः, प्राणातिपातविरतिरुपादायरूपमितरेषां षण्णां सहभूहेतुः ।
तान्यपि षट् तस्य सहभूहेतुरिति सर्वं योज्यम् । नान्यदिति । चक्षुरादिकं सर्व-
मुपादायरूपं प्रातिमोक्षसंवरदिसंगृहीतमपि यावन्नान्योऽन्यं सहभूहेतुः पृथक्-
कलापत्वात । सभागस्येति । कुशलं कुशलस्य स्वासन्तानिकस्य, क्लिष्टं क्लिष्ट
स्येत्यादि । यस्य कायवाक्कर्मण इति । विज्ञप्त्यविज्ञप्तिस्वभावस्य समाहितस्य
वा यथायोगम् । एकधैव तदिति । विपाकहेतुरेवैक इत्यवधारणम्; कारण-
हेतोस्तथैवागण्यमानत्वात् । पृथक्कलापत्वादिति । सहभूहेत्वाद्ययोगात् ॥ ६५ ॥
१. का० पुस्तके नास्ति ।

निर्देशः ] द्वितीयं कोशस्थानम् ३५७
तत्र तावत् समासेन द्वादश चित्तानि। किमर्थम् ? इत्याह—
कुशलाकुशलं कामे निवृतानिवृतं मनः।
कामधातौ चत्वारि—कुशलम्, अकुशलम्, निवृताव्याकृतम्, अनिवृता-
व्याकृतं च।
रूपारूप्येष्वकुशलादन्यत्र
रूपधातावकुशलं नास्ति, त्रीणि सन्ति। एवमारूप्यधातौ। इत्येतानि
सास्रवाणि दश चित्तानि भवन्ति।
अनास्रवं द्विधा॥ ६६॥
शैक्षमशैक्षं च। एवमेतानि द्वादश चित्तानि भवन्ति॥ ६६॥
तत्र—
कामे नव शुभाच्चित्ताच्चित्तानि
अनन्तरमिति पश्चाद् वक्ष्यते१। कामधातौ यत् कुशलं चित्तं तस्मादनन्तरं
नव चित्तान्युत्पद्यन्ते। स्वभूमिकानि चत्वारि। रूपावचरे द्वे। समापत्तिकाले
कुशलं प्रतिसन्धिकाले निवृतम्। आरूप्यावचरं निवृतमेव प्रतिसन्धिकाले।
रूपधातावकुशलं नास्तीति। "स विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः
सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसम्पद्य विहरति" इति वच-
नात्। तत्र रूपधातावकुशलं नास्ति। अकुशलविवेकाद्धि यज्जातं शुभं तद्विवेक-
जमित्युच्यते। यथा च हेतुः, तथा फलमिति। तत्रोपपत्तावपि नास्त्यकुशलमिति
गम्यते। रूपारूप्यधातौ सर्व एव क्लेशोपक्लेशा अविपाकत्वान्निवृता एव,
नाकुशलाः॥ ६६॥
अनन्तरमिति पश्चाद् वक्ष्यत इति। कारिकान्ते। तदिह सम्बन्धनीयम्।
समापत्तिकाले कुशलमिति। कामावचरप्रायोगिककुशलचित्तानन्तरं प्रथमध्यान-
भूमिकं सामन्तकीयं मौलीयं वा चित्तमुत्पद्यते। प्रतिसन्धिकाले निवृतमिति।
कामावचरोपपत्तिप्रतिलम्भिकमरणचित्तानन्तरं रूपावचरं निवृताव्याकृतं
चित्तमुत्पद्यते प्रतिसन्धिकाले; "उपपत्तिभवः क्लिष्टः सर्वक्लेशैः स्वभूमिकैः"
(अभि० को० ३।३८) इति वचनात्। उपपत्तिरत्रान्तराभवोपपत्तिरभिप्रेता।
१. वक्ष्यति—का०।

३५८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
अतिविप्रकृष्टत्वात् न कुशलम् । आरूप्या हि कामधातोश्चतसृभिर्दूरताभिर्दूरे ।
आश्रयाकारालम्बनप्रतिपक्षदूरताभिः । शैक्षमशैक्षं चेति ।
अष्टाभ्य एव तत् ।
तत्र पुनः कामावचरं कुशलं चित्तमष्टाभ्यः समनन्तरमुत्पद्यते ।
स्वभूमिकेभ्यश्चतुर्भ्यः । रूपावचराभ्यां द्वाभ्याम् । कुशलाच्च व्युत्थानकाले ।
निवृताच्च क्लिष्टसमापत्त्युत्पीडितस्याधरकुशलभूमिसंश्रयणात् । शैक्षाशैक्षाभ्यां च
व्युत्थानकाले ।
दशभ्योऽकुशलं
शैक्षाशैक्षे हित्वा कामधातौ हि प्रतिसन्धिमुखतः सर्वेभ्यो रूपारूप्यचित्तेभ्यः
समनन्तरमकुशलं चित्तमुत्पद्यते ।
एवमन्तराभवप्रतिसन्धिरपि क्लिष्टो वेदितव्यः । चतसृभिर्दूरताभिर्दूर इति ।

निर्देशः ] द्वितीयं कोशस्थानम् ३५९
तस्माच्चत्वारि
अकुशलाच्चित्तात् समनन्तरं चित्तान्युत्पद्यन्ते स्वभूमिकान्येव ।
यथा—अकुशलमुक्तं कामधातौ,
निवृत्तं तथा ॥ ६७ ॥
दशभ्य एव समनन्तरम् । तस्माच्च पुनश्चत्वार्येव ।
पञ्चभ्योऽनिवृतं
काम इति वर्त्तते । अनिवृत्ताव्याकृतं चित्तं पञ्चभ्यः समनन्तरमुत्पद्यते ।
स्वभूमिकेभ्यश्चतुर्भ्यो रूपावचराच्च कुशलान्निर्माणचित्तम् ॥ ६७ ॥
तस्मात् सप्त चित्तान्यनन्तरम् ।
अनिवृत्ताव्याकृतात् कामावचरात् स्वभूमिकानि चत्वारि । रूपावचरे द्वे ।
कुशलं निर्माणचित्तादनन्तरम् । क्लिष्टं प्रतिसन्धिकाले । आरूप्याचरं च क्लिष्टं
प्रतिसन्धिकाल एव ।
रूपे दशैकं च शुभात्
रूपे धातौ यत् कुशलं चित्तं तस्मादनन्तरमेकादश चित्तान्युत्पद्यन्ते,
आरूप्यावचरमनिवृत्ताव्याकृतं वर्जयित्वा ।
नवभ्यस्तदनन्तरम् ॥ ६८ ॥
'रूपावचरं तु कुशलं चित्तं नवभ्यः समनन्तरमुत्पद्यते, कामावचरं च'
“तस्माच्चत्वारि” इति । तस्मादकुशलाच्चत्वारि स्वभूमिकान्येव, अकुशलस्यो-
र्ध्वभूमिकुलप्रयोगतदारम्भावादप्रहाणाच्चोर्ध्वभूम्युपपत्तित्त्रित्तानुत्पादात् ॥६७॥
कुशलं निर्माणचित्तादनन्तरमिति । निर्माणाद् व्युत्थानकाले ।
तस्मादनन्तरमेकादशेति । प्रतिसन्धिसमापत्तितद्व्युत्थाननिर्माणप्रवेशकाले-
ष्वेकादशचित्तोत्पत्तिसम्भवः । कथम् ? स्वभूमिकानि त्रीणि कामावचराणि च,
व्युत्थानकाले कुशलम्, प्रतिसन्धिकाले क्लिष्टद्वयम्, अनिवृत्ताव्याकृतं च
निर्माणचित्तम्, आरूप्यावचरं च निवृत्ताव्याकृतं प्रतिसन्धिकाले, कुशलं च
समापत्तिकाले । शैक्षमशैक्षं चेति । न त्वारूप्यावचरमनिवृत्ताव्याकृतम् । अवश्या-
क्लिष्टत्वात्, समापत्त्याद्ययोगाच्च । न हि तत् प्रयोगलभ्यं यथा रूपावचरं
कामावचरं च निर्माणचित्तम् ।
१. का० पुस्तके नास्ति ।

३६० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
क्लिष्टद्वयमारूप्यावचरं चानिवृतान्याकृतं हित्वा ॥ ६८ ॥
अष्टाभ्यो निवृतं
निवृतान्याकृतं रूपावचरं चित्तमष्टाभ्य उत्पद्यते। कामावचरं क्लिष्टद्वयं
शैक्षाशैक्षे च स्थापयित्वा।
तस्मात् षट्
रूपावचरानिवृतान्याकृतादनन्तरं षट्। स्वभूमिकानि त्रीणि कामावचराणि
चानिवृतान्याकृतं मुक्त्वा।
त्रिभ्योऽनिवृतं पुनः।
रूपावचरमनिवृतान्याकृतं त्रिभ्यः स्वभूमिकेभ्य एव।
तस्मात् षट्
स्वभूमिकानि त्रीणि, कामावचरे च क्लिष्टे, आरूप्यावचरं च।
यथा रूपधातावनिवृतान्याकृतमुक्तम्,
एवमारूप्ये तस्य नीतिः
ततस्तदप्यनिवृतान्याकृतं त्रिभ्य एवोत्पद्यते स्वभूमिकेभ्यः। तस्मादपि च
च षडेवोत्पद्यन्ते—स्वभूमिकानि त्रीणि, अधरधातुकानि च क्लिष्टानि।
शुभात् पुनः॥ ६९ ॥
कामावचरं च क्लिष्टद्वयमारूप्यावचरं चानिवृत्ताव्याकृतं हित्वेति। न कामा-
वचरात् क्लिष्टद्वयाद् रूपावचरं कुशलमुत्पद्यते; तस्य क्लिष्टद्वयस्य तत्प्रयोगा-
नर्हत्वात्। अत एव च नारूप्यावचरादनिवृत्तान्याकृतात् तदुत्पद्यते; कुशलेन
च प्रतिसन्धिबन्धनाभावात् ॥ ६८ ॥
कामावचरं क्लिष्टद्वयं शैक्षाशैक्षे च स्थापयित्वेति। न कामावचरात् क्लिष्ट-
द्वयाद् रूपावचरं निवृत्ताव्याकृतमुत्पद्यते, तदप्रहाणे रूपधातौ प्रतिसन्धिबन्धा-
भावेन निवृताव्याकृतचित्तासम्भवात्। न शैक्षाशैक्षाभ्याम्; ततस्त्येन क्लिष्टेन
व्युत्थानासम्भवात्।
कामावचराणि चेति। त्रीणीत्यधिकृतम्। प्रतिसन्धिकाले क्लिष्टद्वयं क्लिष्ट-
समाध्युत्पीडितस्य च कुशलम्।
कामावचरं च क्लिष्टं आरूप्यावचरं चेति। प्रतिसन्धिकाले।
अधरधातुकानि च क्लिष्टानि। प्रतिसन्धिकाले ॥ ६९ ॥

निर्देशः ] द्वितीयं कोशस्थानम् ३६१
नव चित्तानि
आरूप्यावचरात् कुशलान्नव चित्तान्युत्पद्यन्ते । कामावचरं कुशलम्,
कामरूपावचरे चानिवृताव्याकृते हित्वा ।
तत् षण्णां
आरूप्यावचरं कुशलं स्वेभ्यस्त्रिभ्यः—रूपावचरात् कुशलात्, शैक्षा-
शैक्षाभ्यां च ।
निवृतात् सप्त
आरूप्यावचरानिवृतात् स्वभूमिकानि त्रीणि रूपावचरं कुशलं च कामा-
वरं क्लिष्टद्वयम् ।
तत् तथा ।
तदपि सप्तभ्य एवोत्पद्यते । कामरूपावचराणि क्लिष्टानि शैक्षाशैक्षे
च हित्वा ।
चतुर्भ्यः शैक्षम्
त्रैधातुकेभ्यः कुशलेभ्यः, शैक्षाच्च ।
अश्माक्षं तु पञ्च
तान्येव चत्वारि, अशैक्षं च ।
आरूप्यावचरात् कुशलान्नवेति । स्वभूमिकानि त्रीणि, रूपावचरं कुशलम्,
तत्समापत्तिव्युत्थानकाले प्रतिलोमसमापत्तौ च । अधरभूमिकानि च क्लिष्टानि
प्रतिसन्धिकाले । शैक्षमशैक्षं च ।
कामावचरं कुशलं कामरूपावचरे चानिवृताव्याकृते हित्वाति । न कामावचरेण
कुशलेन तत्समापत्तेर्व्युत्थानं सम्भवति; अतिविप्रकृष्टत्वात् । अत एव च
नानिवृताव्याकृतेनाप्यपटुत्वाच्च । अत एव च न रूपावचरेणानिवृता-
व्याकृतेन व्युत्थानम् । न चैभिः प्रतिसन्धिवन्धोऽस्तीति नैषामत उत्पत्तिः ।
तत् षण्णामनन्तरमिति वर्तते ।
रूपावचरात् कुशलादिति । समापत्तिकोले। शैक्षाशैक्षाभ्यां चेति व्युत्थानकाले।
रूपावचरं कुशलमिति । क्लिष्टसमाध्युत्पीडितस्य । निवृत्तं चेत्यादि। प्रतिसन्धिकाले
कामरूपावचराणि क्लिष्टानि शैक्षाशैक्षे च हित्वेति । अधोभूम्यवीतरागस्य तेन
प्रतिसन्धेरभावात् शैक्षाशैक्षाभ्यां च तेन व्युत्थानासम्भवान्न तेभ्यस्तदुत्पत्तिः ।
तान्येव चत्वार्यशैक्षं चेति । त्रीणि त्रैधातुकारि कुशलानाि व्युत्थानकाले, शैक्षं च

त्रिषु द्विधा ॥ ७१ ॥`
Wait, let's look at द्विधा:
Is it द्विधा or द्विविधा?
Line 11: "त्रिषु द्विधा ॥ ७१ ॥"
Wait, look at "द्विधा":
The 'द्वि' has a conjunct 'द्' and 'वि', with 'i' matra. It looks like 'द्विधा'.

Line 12:
त्रिषु धातुषु चित्तं द्विधा भिद्यते---प्रायोगिकं च, औपपत्तिलाभिकं च ।
Wait, the dash: in the image it's --प्रायोगिकं (two dashes/hyphens).

Line 13:
विपाकजैर्यापथिक-शैलपस्थानिक-नैर्मितम् ।

Line 14:
चतुर्धाऽव्याकृतं कामे

Line 15:
'भित्त्वा' इति वर्तते । कामावचरमनावृताव्याकृतं चतुर्धा भिद्यते—

Line 16:
विपाकजम्, ऐर्यापथिकम्, शैलपस्थानिकम्, निर्माणचित्तं च ।

Line 17:
Under the horizontal rule/divider:
Wait, is there a divider?
Yes, there's a broken horizontal line between the upper section (Bhāṣya) and the lower section (Sphuṭārthā vyākhyā)!
Line 1

..."
Let's find the exact text around line 18-19 in Sphutartha:
"...ईर्यापथाद्यभावादिति । ईर्यापथशिल्पस्थाननिर्माणाभावात् । एतानि त्रीण्यारूप्यधातौ न सन्ति; आलम्बनभूतस्य रूपस्याभावात् ।"
And what comes next in Yashomitra?
Let's think: the Bhasya text says: "रूपगन्धरसस्प्रष्टव्यान्येषामालम्बनम् ।"
Yashomitra explains:
"रूपगन्धरसस्प्रष्टव्यान्येषामालम्बनमिति ।" or "रूपगन्धरसस्प्रष्टव्यादीत्येषामालम्बनमिति"?
Wait! In Yashomitra:
Does he say "रूपगन्धरसस्प्रष्टव्यादीत्येषामालम्बनमिति" or "रूपगन्धरसस्प्रष्टव्यान्येषामालम्बनम्"?
Wait, look at what's printed in our book:
In L18: "...भावात् । पगन्धरसस्प्रष्टव्या-"
In L19: wait, look at L19:
Could it be: "दीत्येषामालम्बनमिति ।" ?
Wait, what if the text in this edition (Pradhan or Dwarikadas Shastri) is:
Let's check Dwarikadas Shastri's edition of Abhidharmakosa with Sphutartha:
Wait! In Dwar

३६४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
एषां पुनर्विंशतेश्चित्तानां कस्य कतमत् समनन्तरम् ?
कामावचराणां तावदष्टानां प्रायोगिकानन्तरं दश चित्तान्युत्पद्यन्ते ।
स्वभूमिकानि सप्त, अन्यत्राभिज्ञाफलात् ।
रूपावचरं प्रायोगिकं शैक्षमशैक्षं च । तत् पुनरष्टचित्तानन्तरम् । स्वेभ्यः
कुशलक्लिष्टेभ्यः रूपावचराभ्यां प्रायोगिकक्लिष्टाभ्यां शैक्षाशैक्षाभ्यां च ।
उपपत्तिप्रतिलम्भिकानन्तरं नव । स्वभूमिकानि सप्त, अन्यत्राभिज्ञाफलाद् ।
रूपारूप्यावचरे च क्लिष्टे ।
तत् पुनरेकादशानन्तरम् । स्वेभ्यः सप्तभ्यः पूर्ववत्, रूपावचराभ्यां प्रायो-
गिकक्लिष्टाभ्यां शैक्षाशैक्षाभ्यां च ।


मुत्पादितं मनोविज्ञानमस्ति द्वादशायतनालम्बनम् । चक्षुरायतनालम्बनं यावद्
धर्मायतनालम्बनमनिवृताव्याकृतस्वभावमित्यपरे । तदेवं प्रदर्शयन्ति--अन्य-
दप्यनिवृताव्याकृतमस्ति यदैर्यापथिकादिषु नान्तर्भवतीति । इत्थमेव च
प्रतिपत्तव्यम् । अन्यथा हि यद् वक्ष्यति--
“कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकञ्च यत् ।
द्वितीयादौ तदाद्यप्तमक्लिष्टाव्याकृतञ्च तत्” ॥ ( अभि० को० ७.१३ )
स्वभूमिकेन निर्माणं भाषणं त्वधरेण च ।” ( अभि० को० ७.५६ )
इत्यादि, तानि विज्ञानान्येषां चतुर्णां कतमेन संगृहीतानि ! न तावद्
विपाकजानि, ऊर्ध्वोपपन्नानामधरभूमिकविपाकासम्भवात् । नैर्यापथिकादीनि,
ईर्यापथाद्यभावात् । अज्ञानादिवासनाचित्तं च क्व प्रवेशयितव्यम् ! भदन्ता-
नन्तवर्मणापि विभाषाव्याख्यान उक्तम्--एतच्चतुष्टयव्यतिरिक्तान्यव्याकृतानि
विज्ञानानि सन्तीति । सावशेषमेतद् भाष्यमित्यवगन्तव्यम् ।
अन्यत्राभिज्ञाफलादिति । कामावचरं निर्माणचित्तं रूपावचरप्रायोगिका-
नन्तरमेवोत्पद्यते, न कामावचरप्रायोगिकानन्तरम् । रूपावचरं प्रायोगिकं
शैक्षमशैक्षं चेति । समापत्तिकोले । स्वेभ्यः कुशलक्लिष्टेभ्य इति । स्वाभ्यां
कुशलाभ्यां क्लिष्टाभ्याञ्च; प्रयोगकाले क्लिष्टासद्भावात् । क्लेशपरिखिन्नस्य
च प्रायोगिकोत्पत्तेः । नानिवृताव्याकृतेभ्यो दुर्बलानभिसंस्कारिकत्वात् । रूपा-
वचराभ्यां प्रायोगिकक्लिष्टाभ्यामिति । प्रायोगिकात् क्लिष्टात् । शैक्षाशैक्षाभ्याञ्च
व्युत्थानकाले । क्लिष्टात् क्लिष्टसमाध्युत्पीडितस्य । रूपारूप्यावचरे च क्लिष्टे
इति । प्रतिसन्धिकाले । सम्भवति ह्युपपत्तिप्रतिलम्भिकचित्तस्य मरणम् ।
पूर्ववदिति । अन्यत्राभिज्ञाफलादित्यर्थः । तद्धि रूपावचरप्रायोगिकानन्तरमेवे-

निर्देशः ] द्वितीयं कोशस्थानम् ३६५
अकुशलनिवृताव्याकृतानन्तरं सप्त । स्वान्येव पूर्ववत् ।
ते पुनश्चतुर्दशचित्तानन्तरम् । स्वेभ्यः सप्तभ्यः रूपावचरेभ्यश्चतुर्भ्योऽन्यत्र
प्रायोगिकाभिज्ञाफलाभ्याम् । आरूप्यावचरेभ्यस्त्रिभ्योऽन्यत्र प्रायोगिकात् ।
ऐर्यापथिकविपाकजानन्तरमष्टौ । स्वभूमिकानि षडन्यत्र प्रायोगिकाभिज्ञाफला-
भ्यां रूपारूप्यावचरे च क्लिष्टे । ते पुनः सप्तचित्तानन्तरं स्वेभ्य एव पूर्ववत् ।
शैल्पस्थानिकानन्तरं षट् । स्वान्येवा, अन्यत्र प्रायोगिकाभिज्ञाफलाभ्याम् ।
तत् पुनः सप्तानन्तरम्; स्वेभ्य एवान्यत्राभिज्ञाफलात् ।
अभिज्ञाफलानन्तरं द्वे । स्वं चाभिज्ञाफलमेव, रूपावचरं च प्रायोगिकम् ।
तदप्यस्मादेव द्वयात् ।
रूपावचराणामिदानीं षण्णां वक्ष्यामः¹ । प्रायोगिकानन्तरं द्वादश ।
कामावचरकुशले² अभिज्ञाफलं च स्वानि षट् आरूप्यावचरं च प्रायोगिकं
शैक्षमशैक्षं च ।
त्युक्तम् । रूपावचराभ्यां चेति विस्तरेण पूर्ववद् व्याख्यानम् । अकुशलनिवृता-
व्याकृतानन्तरमिति । अकुशलानन्तरं निवृताव्याकृतानन्तरं चेति विभक्तव्यम् ।
तुल्यत्वाद्धि तद् युगपद्वचनम् ।
रूपावचरेभ्यश्चतुर्भ्यः । अन्यत्र प्रायोगिकाभिज्ञाफलाभ्यामिति । प्रतिसन्धि-
काले, प्रायोगिकेऽभिज्ञाफे च स्थितस्य नास्ति मरणम् । अतस्ताभ्यां तत्
क्लिष्टद्वयं नोत्पद्यते । शेषेषु तु स्थितस्यास्ति मरणम् । अतस्तेभ्यस्तत् क्लिष्ट-
द्वयमुत्पद्यते । प्रतिसन्धिकाले । एवमन्यत्राप्यन्यत्र प्रायोगिकादिति व्याख्येयम् ।
षडन्यत्र प्रायोगिकाभिज्ञाफलाभ्यामिति । दुर्बलानभिसंस्कारिकत्वात् । अन-
योरनन्तरं प्रायोगिकं नोत्पद्यते । रूपावचप्रायोगिकानन्तरोत्पत्तेश्च न ताभ्यामं-
भिज्ञाफलोत्पत्तिः । रूपारूप्यावचरे च क्लिष्टे इति । प्रतिसन्धिकाले । शैल्पस्था-
निकानन्तरं षडिति । तत्रस्थस्य मरणासम्भवादैर्यापथिकविपाकजवदिह रूपा-
रूप्यावचरक्लिष्टयोरसम्भवः । स्वं चाभिज्ञाफलमेवेति । प्रवाहकाले । रूपावचरं
च प्रायोगिकमिति । तद्व्युत्थाने । न तदित्यप्रविश्य ध्यानमभिज्ञाफलाद् व्युत्थान-
मस्तीति । तदप्यस्मादेव द्वयादिति । तदभिज्ञाफलम् । प्रवाहे तत्प्रवेशकाले च ।
कामावचरकुशले इति । व्युत्थानकाले । अस्ति हि सम्भव उपपत्तिप्रति-
लम्भिकेनापि समापत्तिव्युत्थानं पटुत्वात् । अतो द्वयोरपि कुशलयोर्ग्रहणम् ।
१. वक्षामः—का० । २. कामावचरे०--का० ।

३६६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
तत् पुनर्द्दशचित्तानन्तरम् । कामावचराभ्यां प्रायोगिकाभिज्ञाफलाभ्यां
स्वेभ्यश्चतुर्भ्यः, अन्यत्रैर्यापथिकविपाकजाभ्यामारूप्यावचराभ्यां प्रायोगिकक्लिष्टा-
भ्यां शैक्षाशैक्षाभ्यां च ।
उपपत्तिप्रतिलम्भिकानन्तरमष्टौ । कामावचरे क्लिष्टे स्वानि पञ्चान्यत्राभि-
ज्ञाफलात् । आरूप्यावचरं क्लिष्टम् ।
तत् पुनः पञ्चभ्यः स्वेभ्यः एव, अन्यत्राभिज्ञाफलात् ।
क्लिष्टानन्तरं नव । कामावचराणि चत्वारि कुशलक्लिष्टानि स्वानि
पञ्च, अन्यत्राभिज्ञाफलात् ।
तत् पुनरेकादशचित्तानन्तरम् । कामावचरेभ्य उत्पत्तिप्रतिलम्भिकैर्या-
पथिकविपाकजेभ्यः स्वेभ्यः पञ्चभ्यः, अन्यत्राभिज्ञाफलात् । आरूप्यावचरेभ्यस्त्रिभ्यः,
अन्यत्र प्रायोगिकात् ।
ऐर्यापथिकानन्तरं सप्त । कामावचरे क्लिष्टे स्वानि चत्वारि, अन्यत्र प्रायो-
गिकाभिज्ञाफलाभ्यामारूप्यावचरं च क्लिष्टम् ।
तत् पुनः पञ्चानन्तरं स्वेभ्य एव, अन्यत्राभिज्ञाफलात् ।
एवं विपाकजं वक्तव्यम् ।
अभिज्ञाफलं चेति । कामावचरं निर्माणचित्तम् । आरूप्यावचरप्रायोगिक-
शैक्षाशैक्षाणि समापत्तिकाले ।
अन्यत्रैर्यापथिकविपाकजाभ्यामिति । तयोर्दुर्बलानभिसंस्कारिकत्वात् ।
प्रायोगिकक्लिष्टाभ्यामिति । व्युत्थानक्लिष्टसमापत्त्युत्पीडितकालयोः ।
कामावचरे क्लिष्टे इति । प्रतिसन्धिकाले । अन्यत्राभिज्ञाफलादिति । निर्माण-
चित्तस्य प्रायोगिकानन्तरोत्पत्ते । आरूप्यावचरं क्लिष्टमिति । प्रतिसन्धिकाले ।
कुशलक्लिष्टानीति । कुशले च क्लिष्टे च कुशलक्लिष्टानीति समासः । कुशलाधर-
भूमिकाश्रयणात् कुशले, क्लिष्टे तु प्रतिसन्धिकाले । कामावचरेभ्य इति ।
विस्तरः—प्रतिसन्धिकाले प्रायोगिकशौल्पस्थानिकाभिज्ञाफलेषु मृत्युनस्तीति
न तेभ्यः । कामावचरे क्लिष्टे इति प्रतिसन्धिकाले ।
आरूप्यावचरमपि क्लिष्टमस्मिन्नेव स्वं प्रायोगिकम्, अतो नोत्पद्यते ।
ऐर्यापथिकस्य दुर्बलानभिसंस्कारित्वेन प्रयोगानर्हत्वात् ।
एवं विपाकजमिति । यथैर्यापथिकमुक्तम्, तथेदं विपाकजानन्तरं सप्त यावद-
न्यत्राभिज्ञाफलादिति । तावेव ग्रन्थार्थौ ।

निर्देशः ] द्वितीयं कोशस्थानम् ३६७
अभिज्ञाफलानन्तरं द्वे स्वे एव प्रायोगिकाभिज्ञाफले । तदप्याभ्यामेव ।
आरूप्यावचराणामिदानीं चतुर्णां वक्ष्यामः ।
प्रायोगिकानन्तरं सप्त । रूपावचरं प्रायोगिकं स्वानि चत्वारि, शैक्षमशैक्षं
च स्वानि¹ चत्वारि¹ ।
तत् पुनः षट्चित्तानन्तरम् । रूपावचरात् प्रायोगिकात् । स्वेभ्यस्त्रिभ्यः,
अन्यत्र विपाकजात् शैक्षाशैक्षाभ्यां च ।
उपपत्तिप्रातिलम्भिकानन्तरं सप्त । स्वानि चत्वार्यधरधातुकानि² च
क्लिष्टानि ।
तत् पुनश्चतुर्भ्यः स्वेभ्य एव ।
क्लिष्टानन्तरमष्टौ । स्वानि चत्वारि रूपावचरे प्रायोगिकक्लिष्टे, कामावचरे
अपि³ क्लिष्टे ।
तत् पुनर्द्दशानन्तरम् । स्वेभ्यश्चतुर्भ्यः कामावचररूपावचरेभ्यश्चोपपत्ति-
प्रातिलम्भिकैर्यापथिकविपाकजेभ्यः ।
विपाकजानन्तरं षट् । स्वानि त्रीण्यन्यत्र प्रायोगिकादधराणि त्रीणि
क्लिष्टानि । तत् पुनश्चतुर्भ्यः स्वेभ्य एव ।
अभिज्ञाफलानन्तरं द्वे स्वे इति । व्युत्थाने प्रवाहे च । तदप्याभ्यामेवेति ।
प्रवेशे प्रवाहे च । रूपावचरं प्रायोगिकमिति । व्युत्थानकाले । एवं शैक्षमशैक्षञ्च
स्वानि चत्वारीति । कुशलं भवतीति स्फुटम् । क्लिष्टमास्वादनाकाले, अनिवृत्ता-
व्याकृतं तु व्युत्थानकाले ।
रूपावचरात् प्रायोगिकादिति । समापत्तिकाल । अन्यत्र विपाकजादिति । दुर्ब-
लानभिसंस्कारवाहित्वादिति कारणं वक्ष्यते । शैक्षाशैक्षाभ्याञ्चेति । समापत्तिकोले ।
अधरधातुकानि च क्लिष्टानीति । रूपावचरकामावचराणि प्रतिसन्धि-
काले । प्रायोगिकक्लिष्टे इति । प्रायोगिकं क्लिष्टसमाध्युत्पीडनात् । क्लिष्टं
प्रतिसन्धिकाले । कामावचरेऽपि क्लिष्टे प्रतिसन्धिकाले एव ।
कामावचररूपावचरेभ्य इति विस्तरः । तच्चित्तस्थमरणसम्भवात् ।
अन्यत्र प्रायोगिकादिति । विपाकजानन्तरं प्रायोगिकानुत्पत्तेः । अधराणि
त्रीणि क्लिष्टानीति । द्विधातुकानि प्रतिसन्धिकाले ।
१-१. का० पुस्तके नास्ति । २. ०भूमिकानि-ब०। ३. का० पुस्तके नास्ति ।

... what are the words in Dwarikadas Shastri's edition?
Wait! In the verse:
"प्रायोगिकाच्छुभात् कामे दशाष्टभ्यस्तदन्यतः ।
शुभान्नवैकादशतस्तत् सप्त क्लिष्टतः पृथक् ॥
चतुर्दशभ्यस्तच्चैतेऽपि..."
Wait, why does page 368 have that garbled text?
In the Bauddha Bharati edition, page 368, there is a famous typographical error / printer's smash!
Look at L10: The typesetter dropped something or types got smashed:
"चतुर्दशभ्यस्तच्चैतेऽपि नै... विपाकजात् ।"
Wait, what did the typesetter actually set?
Let's look closely at the image:
चतुर्दशभ्यस्तच्चैतेऽपि नै... विपाकजात् ।
Underneath च्चैतेऽपि नै:
ष्टोष्टावेनपि?
Wait! Look at the letters:
चतुर्दशभ्यस्त
Then:
top: च्चैतेऽपि नै
bottom: ...ष्टोष्टावेनपि...
Wait, is that चतुर्दशभ्यस्तच्चैतेऽष्टौ...?
Wait, look at:
ष्टो (ṣṭo) ष्टा (ṣṭā) वे (ve) न (na)

निर्देशः ] द्वितीयं कोशस्थानम् ३६९
दुर्बलानभिसंस्कारवाहित्वाच्चैतानि न प्रायोगिकानुकूलानि । निष्क्रमणचित्तं
त्वनभिसंस्कारवाहीति युक्तोऽस्य प्रायोगिकचित्तानन्तरमुत्पादः ।
एवं तर्हि क्लिष्टेभ्योऽपि प्रायोगिकं नोत्पद्यते, विगुणत्वात् ? तथापि क्लेश-
समुदाचारपरिखिन्नस्य तत्परिज्ञानाद् युक्तः प्रायोगिकसम्मुखीभावः । कामाव-
चरमुपपत्तिप्रतिलम्भिकं पटुत्वात् शैक्षाशैक्षाभ्यां रूपावचरप्रायोगिकाच्चानन्तर-
मुत्पद्यते । अनभिसंस्कारवाहित्वात् तस्मादेतानि नोत्पद्यन्ते । रूपावचरक्लिष्टानन्तरं
संस्करणे प्रवृत्तम्, गमनाद्याकारत्वात् । शैलपस्थानिकं च शिल्पाभिसंस्करणे
प्रवृत्तम्, 'इदमेव करोमीदमेव करोमि' इत्येवमाकारप्रवृत्तत्वात् । दुर्बलानभि-
संस्कारवाहित्वान्न विपाकजानन्तरं प्रायोगिकं नोत्पद्यते । तद्धि विपाकजमव्या-
कृतत्वाद् दुर्बलम्; पूर्वकर्माक्षेपात् । अयत्नेन च प्रवृत्तेरनभिसंस्कारवाहीति ।
अथ वा—ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वाद् ऐर्यापथिकशैलपस्थानिका-
नन्तरं न प्रायोगिकमुत्पद्यते । दुर्बलानभिसंस्कारवाहित्वाच्च ऐर्यापथिक-
शैलपस्थानिकविपाकजानन्तरं प्रायोगिकं नोत्पद्यते; सर्वेषामव्याकृतत्वेन
दुर्बलत्वात् । अनभिसंस्कारवाहित्वाच्च विपाकजस्यैवैकस्य ऐर्यापथिक-
शैलपस्थानिकयोरपि वा प्रायोगिकाभिसंस्काराभावात् । अन्यव्यापारपरत्व-
मात्राद्धि तयोरभिसंस्करणप्रवृत्तत्वमुक्तम् । अथ वा—अयमेवास्य वाक्यस्याभि-
सम्बन्धः—ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वात्, दुर्बलानभिसंस्कारवाहित्वा-
च्चैतानि विपाकजैर्यापथिकशैलपस्थानिकानि न प्रायोगिकानुकूलानि । अतो न
तदनन्तरं प्रायोगिकमुत्पद्यत इति सम्बन्धनीयम् । निष्क्रमणचित्तं त्वनभि-
संस्कारवाहीति । प्रायोगिकचित्तप्रवाहाद् यदन्यच्चित्तं तन्निष्क्रमणचित्तम् ।
तेन ह्यसौ योगी ततः प्रवाहान्निष्क्रामति; तदवसानत्वात् । निष्क्रमणचित्तमन-
भिसंस्कारवाह्यानाभोगवाहीति युक्तोऽस्य निष्क्रमणचित्तस्य विपाकजादीना-
मन्यतमस्वभावस्य प्रायोगिकचित्तादनन्तरमुत्पादः ।
एवं तर्हीति । यदि न प्रायोगिकानुकूलानीति विपाकजादिभ्योऽनन्तरं
प्रायोगिकं नोत्पद्यते, एवं तर्हि क्लिष्टेभ्योऽपि प्रायोगिकं नोत्पद्यते विगुणत्वात् ।
विगुणो हि क्लिष्टो धर्मः कुशलस्य नानुकूल इत्यर्थः; तद्विरोधित्वात् । तथापीति
विस्तरः । यद्यपि तद्विगुणम्, तथापि क्लेशसमुदाचारपरिखिन्नस्य योगिनस्तत्-
परिज्ञानात् क्लेशसमुदाचारपरिज्ञानाद् युक्तः प्रायोगिकसम्मुखीभावः । तत्परि-
ज्ञानमेव हि प्रायोगिकं चित्तमिति । पटुत्वादिति । कामावचरमुत्पत्तिप्रतिलम्भिकं पटु
तच्छैक्षादिभ्यो व्युत्थानचित्तं सम्भवति । अत एव च क्लिष्टसमाध्युत्पीडितस्य
तदाश्रयणं भवति । अनभिसंस्कारवाहित्वात् तु तस्य तस्माच्छैक्षादीनि नोत्पद्यन्ते ।
अभि० को० २४

३७० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
कामावचरमुपपत्तिप्रतिलम्भिकमुत्पद्यते; पटुत्वात् । आरूप्यावचरक्लिष्टानन्तरं
तु रूपावचरमुपपत्तिप्रतिलम्भिकं नोत्पद्यते; अपटुत्वादिति ॥
त्रयो मनस्काराः—१. स्वलक्षणमनस्कारः, तद्यथा—“रूपणालक्षणं
रूपम्” इत्येवमादि; २. सामान्यलक्षणमनस्कारः षोडशाकारसम्प्रयुक्तः;
३. अधिमुक्तिमनस्कारः, अशुभाप्रमाणारूप्यविमोक्षाभिभ्वायतनकृत्स्नायतनादिषु ।
त्रिविधमनस्कारानन्तरमार्यमार्ग सम्मुखीकरोति, तस्मादपि त्रिविधं मनस्कारम् ।
एवं सति युक्तमिदं भवति—“अशुभासहगतं स्मृतिसम्बोध्यङ्गं भावयति” इति ?
सामान्यमनस्कारानन्तरमेवार्यमार्ग सम्मुखीकरोति । तस्मात् तु त्रिविधमि-
त्यपरे ।
अशुभाया तु चित्तं दमयित्वा सामान्यमनस्कारानन्तरमार्य

करोति । अतः पारम्पर्यमभिसन्धायोक्तम्—"अशुभासहगतं स्मृतिसम्बोध्याङ्गं
॰ावयति" इति ।
आर्यमार्गानन्तरमपि सामान्यमनस्कारमेवेत्यपरे ।
स्यात् तावदनागम्यादित्रीभूमिसन्निश्रयेण¹ नियामावक्रान्तौ तन्मार्गानन्तरं
कामावचरं सामान्यमनस्कारं सम्मुखीकुर्याद्, अथ द्वितीयादिध्यानसन्निश्रयेण
नियामावक्रान्तौ कथम् ? न हि कामावचरः शक्योऽतिविप्रकृष्टत्वात् । न च
तद्भूमिकः प्रतिलब्धोऽन्यत्र निर्वेधभागीयात् । न चार्यो निर्वेधभागीय पुनः
सम्मुखीकरोति । न हि प्राप्तफलस्य तत्प्रयोगसम्मुखीभावो युक्त इति अन्यो-
ऽप्यस्य तज्जातीयः सामान्यमनस्कारो भावनां गच्छति । तद्यथा—"सर्व-
आर्यमार्गानन्तरमपीति विस्तरः । न केवलं सामान्यमनस्कारानन्तरमार्य-
मार्गं सम्मुखीकरोति, आर्यमार्गानन्तरमपि सामान्यमनस्कारमेव सम्मुखीकरोती-
त्यपरे ।
स्यात्तावदिति विस्तरः । अनागम्यादीति । आदिशब्देनानागम्यप्रथमध्यान-
ध्यानान्तर-त्रिभूमिसन्निश्रयेण नियामावक्रान्तौ तन्मार्गानन्तरं त्रिमार्गानन्तरं कामा-
वचरं सामान्यमनस्कारं श्रुतमयं चिन्तामयं वा सम्मुखीकुर्यात्; सन्निकृष्टत्वात् ।
अथ द्वितीयादिध्यानसन्निश्रयेण द्वितीयतृतीयचतुर्थध्यानसन्निश्रयेण नियामाव-
क्रान्तौ कथमार्यमार्गानन्तरं कथं सामान्यमनस्कारं सम्मुखीकरोति । न हि
कामावचरः शक्यः सम्मुखीकर्त्तुमिति वाक्यशेषः । कस्मात् ? प्रथमध्यानाव्यवहित-
त्वेनातिविप्रकृष्टत्वात् । ब्रूयास्त्वम्—द्वितीयादिध्यानभूमिकमेव सम्मुखीकरिष्य-
तीति ? अत आह—न च तद्भूमिकः प्रतिलब्धोऽन्यत्र निर्वेधभागीयादिति ।
द्वितीयध्यानादिभूमिकोऽनागम्यादिभूमिको वानास्रवो मार्गोऽन्यत्र निर्वेधभागी-
यान्न प्रतिलब्ध आसीत् । अनाकारापतितस्तु लौकिको मार्गः प्रतिलब्ध आसीत् ,
न तु सः । तस्मादार्याय व्युत्थानाथं रोचते । निर्वेधभागीयंतर्हि सामान्यमन-
स्कारं सम्मुखीकरिष्यतीति ? अत आह—न चार्यो निर्वेधभागीयमिति विस्तरः ।
किमर्थमिति चेत् ? अत आह—न हि प्राप्तफलस्य तत्प्रयोगसम्मुखीभावो युक्त इति ।
प्रयोगस्य कृतार्थत्वान्निहीनत्वाच्च निर्वेधभागीयानि चार्यमार्गस्य प्रयोग इति ।
अन्योऽप्यस्य तज्जातीय इति । यः सत्यालम्बनत्वान्निर्वेधभागीयजातीयः सामान्य-
मनस्कारो भावनां गच्छति । अनास्रवमार्गोत्पत्तिककाले प्राप्यत इत्यर्थः ।
१. ०संनिश्रयेण—का० ।

३७२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
संस्कारा अनित्याः", "सर्वधर्मा अनात्मानः", "शान्तं निर्वाणम्" इति, तत्
सम्मुखीकरिष्यति ?
तदेतन्न वर्णयन्ति । अनागम्यं निश्रित्यार्हत्त्वं प्राप्नुवतः तद्भूमिकं कामावचरं
वा व्युत्थानं चित्तम् । आकिञ्चन्यायतनं निश्रित्य तद्भूमिकं भावाग्रिकं वा ।
शेषासु स्वभूमिकमेव । कामधातौ त्रयो मनस्काराः—श्रुतचिन्तामयोपपत्तिप्रति-
लम्भिकाः, भावनामयो नास्ति । रूपधातौ त्रयः—श्रुतभावनामयोपपत्तिप्रति-
लम्भिकाः, चिन्तामयो नास्ति । यदा चिन्तयितुमारभन्ते तदैषां समाधिरेवोप-
तिष्ठते । आरूप्यधातौ भावनामयोपपत्तिप्रतिलम्भिकौ । तत्र पञ्चविधमनस्कारानन्तर-
मार्यमार्गसम्मुखीभावोऽन्यत्रोपपत्तिप्रतिलम्भिकेभ्यः; प्रयोगप्रतिबद्धत्वात् । मार्गानन्तरं
तूपपत्तिप्रतिलम्भिकस्यापि कामावचरस्य सम्मुखीभावः, पटुत्वादिति ॥ ७२ ॥
यानि द्वादश चित्तानि उक्तानि, एषां कतमस्मिंश्चित्ते कतीनां लाभः ?
क्लिष्टे त्रिधातुके¹ लाभः षण्णां षण्णां द्वयोः
कामावचरे हि² क्लिष्टे चित्ते सम्मुखीभूते षण्णां चित्तानां लाभः ।
कथम् ? 'शान्तं निर्वाणम्' इति सामान्यमनस्कारः; सर्वनिर्वाणालम्बनत्वात् ।
तान्मुक्त्वाऽन्यानि । सर्वसंस्कारा अनित्या इति वा, सर्वधर्मा अनात्मान
इति वा, शान्तं निर्वाणमिति वा आर्यमार्गानन्तरं सम्मुखीकरिष्यतीति ।
तदेतन्न वर्णयन्ति । कस्मात् ? एषां तज्जातीयानां सामान्यमनस्काराणां
निर्वेधभागीयप्रतिबद्धभावनत्वात् । न किलैषामनास्रवमार्गप्रतिबद्धभावेनेति ।
अनागम्यं निश्रित्येति विस्तरः । तद्भूमिकमिति । अनागम्यभूमिकम् । तद्भूमिकं
भावाग्रिकं वेति । आकिञ्चन्यायतनभूमिकं भावाग्रिकं वा यदि भवाग्रोपपन्नो
भवति । शेषासु भूमिषु, स्वभूमिकमेव व्युत्थानचित्तम्, नान्यभूमिकम् ; अन्यभूमि
कस्य प्रयोगसाध्यत्वात् । स्वभूमिकमनभिसंस्कारेण भवतीति ।
प्रयोगप्रतिबद्धत्वादिति । कस्य ? आर्यमार्गस्य । मार्गानन्तरं तूपपत्तिप्रति
लम्भिकस्यापि कामावचरस्य सम्मुखीभाव इत्यधिकृतम् ॥ ७२ ॥
“क्लिष्टे त्रिधातुके लाभः षण्णां षण्णां द्वयोः” इति । यथासंख्येन निर्देशः ।
कामावचरे क्लिष्टे षण्णां चित्तानां लाभः । प्रतिलम्भ इत्यर्थः । रूपावचरे षण्णाम्,
आरूप्यावचरे द्वयोरिति । तेनाह-कामावचरे हि क्लिष्ट इति विस्तरः । तैरसमन्या-
१. त्रैधातुके—का० । २. का० पुस्तके नास्ति ।