सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 379, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 379

३५८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
अतिविप्रकृष्टत्वात् न कुशलम् । आरूप्या हि कामधातोश्चतसृभिर्दूरताभिर्दूरे ।
आश्रयाकारालम्बनप्रतिपक्षदूरताभिः । शैक्षमशैक्षं चेति ।
अष्टाभ्य एव तत् ।
तत्र पुनः कामावचरं कुशलं चित्तमष्टाभ्यः समनन्तरमुत्पद्यते ।
स्वभूमिकेभ्यश्चतुर्भ्यः । रूपावचराभ्यां द्वाभ्याम् । कुशलाच्च व्युत्थानकाले ।
निवृताच्च क्लिष्टसमापत्त्युत्पीडितस्याधरकुशलभूमिसंश्रयणात् । शैक्षाशैक्षाभ्यां च
व्युत्थानकाले ।
दशभ्योऽकुशलं
शैक्षाशैक्षे हित्वा कामधातौ हि प्रतिसन्धिमुखतः सर्वेभ्यो रूपारूप्यचित्तेभ्यः
समनन्तरमकुशलं चित्तमुत्पद्यते ।
एवमन्तराभवप्रतिसन्धिरपि क्लिष्टो वेदितव्यः । चतसृभिर्दूरताभिर्दूर इति ।