सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 381, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 381

३६० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
क्लिष्टद्वयमारूप्यावचरं चानिवृतान्याकृतं हित्वा ॥ ६८ ॥
अष्टाभ्यो निवृतं
निवृतान्याकृतं रूपावचरं चित्तमष्टाभ्य उत्पद्यते। कामावचरं क्लिष्टद्वयं
शैक्षाशैक्षे च स्थापयित्वा।
तस्मात् षट्
रूपावचरानिवृतान्याकृतादनन्तरं षट्। स्वभूमिकानि त्रीणि कामावचराणि
चानिवृतान्याकृतं मुक्त्वा।
त्रिभ्योऽनिवृतं पुनः।
रूपावचरमनिवृतान्याकृतं त्रिभ्यः स्वभूमिकेभ्य एव।
तस्मात् षट्
स्वभूमिकानि त्रीणि, कामावचरे च क्लिष्टे, आरूप्यावचरं च।
यथा रूपधातावनिवृतान्याकृतमुक्तम्,
एवमारूप्ये तस्य नीतिः
ततस्तदप्यनिवृतान्याकृतं त्रिभ्य एवोत्पद्यते स्वभूमिकेभ्यः। तस्मादपि च
च षडेवोत्पद्यन्ते—स्वभूमिकानि त्रीणि, अधरधातुकानि च क्लिष्टानि।
शुभात् पुनः॥ ६९ ॥
कामावचरं च क्लिष्टद्वयमारूप्यावचरं चानिवृत्ताव्याकृतं हित्वेति। न कामा-
वचरात् क्लिष्टद्वयाद् रूपावचरं कुशलमुत्पद्यते; तस्य क्लिष्टद्वयस्य तत्प्रयोगा-
नर्हत्वात्। अत एव च नारूप्यावचरादनिवृत्तान्याकृतात् तदुत्पद्यते; कुशलेन
च प्रतिसन्धिबन्धनाभावात् ॥ ६८ ॥
कामावचरं क्लिष्टद्वयं शैक्षाशैक्षे च स्थापयित्वेति। न कामावचरात् क्लिष्ट-
द्वयाद् रूपावचरं निवृत्ताव्याकृतमुत्पद्यते, तदप्रहाणे रूपधातौ प्रतिसन्धिबन्धा-
भावेन निवृताव्याकृतचित्तासम्भवात्। न शैक्षाशैक्षाभ्याम्; ततस्त्येन क्लिष्टेन
व्युत्थानासम्भवात्।
कामावचराणि चेति। त्रीणीत्यधिकृतम्। प्रतिसन्धिकाले क्लिष्टद्वयं क्लिष्ट-
समाध्युत्पीडितस्य च कुशलम्।
कामावचरं च क्लिष्टं आरूप्यावचरं चेति। प्रतिसन्धिकाले।
अधरधातुकानि च क्लिष्टानि। प्रतिसन्धिकाले ॥ ६९ ॥