अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 380, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] द्वितीयं कोशस्थानम् ३५९
तस्माच्चत्वारि
अकुशलाच्चित्तात् समनन्तरं चित्तान्युत्पद्यन्ते स्वभूमिकान्येव ।
यथा—अकुशलमुक्तं कामधातौ,
निवृत्तं तथा ॥ ६७ ॥
दशभ्य एव समनन्तरम् । तस्माच्च पुनश्चत्वार्येव ।
पञ्चभ्योऽनिवृतं
काम इति वर्त्तते । अनिवृत्ताव्याकृतं चित्तं पञ्चभ्यः समनन्तरमुत्पद्यते ।
स्वभूमिकेभ्यश्चतुर्भ्यो रूपावचराच्च कुशलान्निर्माणचित्तम् ॥ ६७ ॥
तस्मात् सप्त चित्तान्यनन्तरम् ।
अनिवृत्ताव्याकृतात् कामावचरात् स्वभूमिकानि चत्वारि । रूपावचरे द्वे ।
कुशलं निर्माणचित्तादनन्तरम् । क्लिष्टं प्रतिसन्धिकाले । आरूप्याचरं च क्लिष्टं
प्रतिसन्धिकाल एव ।
रूपे दशैकं च शुभात्
रूपे धातौ यत् कुशलं चित्तं तस्मादनन्तरमेकादश चित्तान्युत्पद्यन्ते,
आरूप्यावचरमनिवृत्ताव्याकृतं वर्जयित्वा ।
नवभ्यस्तदनन्तरम् ॥ ६८ ॥
'रूपावचरं तु कुशलं चित्तं नवभ्यः समनन्तरमुत्पद्यते, कामावचरं च'
“तस्माच्चत्वारि” इति । तस्मादकुशलाच्चत्वारि स्वभूमिकान्येव, अकुशलस्यो-
र्ध्वभूमिकुलप्रयोगतदारम्भावादप्रहाणाच्चोर्ध्वभूम्युपपत्तित्त्रित्तानुत्पादात् ॥६७॥
कुशलं निर्माणचित्तादनन्तरमिति । निर्माणाद् व्युत्थानकाले ।
तस्मादनन्तरमेकादशेति । प्रतिसन्धिसमापत्तितद्व्युत्थाननिर्माणप्रवेशकाले-
ष्वेकादशचित्तोत्पत्तिसम्भवः । कथम् ? स्वभूमिकानि त्रीणि कामावचराणि च,
व्युत्थानकाले कुशलम्, प्रतिसन्धिकाले क्लिष्टद्वयम्, अनिवृत्ताव्याकृतं च
निर्माणचित्तम्, आरूप्यावचरं च निवृत्ताव्याकृतं प्रतिसन्धिकाले, कुशलं च
समापत्तिकाले । शैक्षमशैक्षं चेति । न त्वारूप्यावचरमनिवृत्ताव्याकृतम् । अवश्या-
क्लिष्टत्वात्, समापत्त्याद्ययोगाच्च । न हि तत् प्रयोगलभ्यं यथा रूपावचरं
कामावचरं च निर्माणचित्तम् ।
१. का० पुस्तके नास्ति ।