सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 375, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 375

३५४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
सुगीतश्चायं तमारभ्य श्लोको भवति—
“यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् ।
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ॥ ( ) इति ।
एवं खल्वपि जगतः कारणं परिगृह्यतोऽन्येषामर्थानां प्रत्यक्षः पुरुषकारो
निह्नुतः स्यात् । सहापि च कारणैः कारणमीश्वरं कल्पयतां केवलो भक्तिवादः
स्यात्; कारणेभ्योऽन्यस्य व्यापारादर्शनात् । किञ्च—सहकारिषु चान्येषु कारणे-
ष्वीश्वरो नेश्वरः स्यात् ।
अथादिसर्ग ईश्वरहेतुकः ? तस्याप्यन्यकारणानपेक्षत्वाद्दीश्वरवदनादित्वप्रसङ्गः ।
एवं प्रधानेऽपि यथायोगं वाच्यम् ।
यदि प्रीयेत नमोऽस्तु तस्मै इत्युत्त्रासवचनमेतत् । सुगीतश्चेति विस्तरः । सूक्तश्चायं
तमारभ्य तमीश्वरमधिकृत्य श्लोकः शतरुद्रीये व्यासेन ।
“यन्निर्दहति” इत्यादि । यस्मान्निर्दहति तस्माद् रुद्र इत्येवं सर्वत्र । अन्येषा-
मिति । बीजादीनाम् । अङ्कुरादिषु प्रत्यक्षः पुरुषकारो निह्नुतः स्यात्, कारणेभ्योऽन्यस्य
व्यापारादर्शनादिति । चक्षूरूपालोकमनस्कारादिभ्यश्च चक्षुर्विज्ञानाद्युत्पत्तौ,
बीजक्षेत्रोदकादिभ्यश्चाङ्कुराद्युत्पत्तावन्यस्य व्यापारानुपलब्धेः । यथा हि चक्षु
रादीनां चक्षुर्विज्ञानाद्युत्पत्तौ बीजादीनां चाङ्कुराद्युत्पत्तौ व्यापारो दृश्यते—
तद्भावे भावात्, तदभावे चाभावात्; न तथा चक्षुरादिभावे चेश्वरस्याभावे
चक्षुर्विज्ञानाङ्कुराद्यभावो दृष्टः । पुनश्च तद्भावे भावः; यतस्तस्यापि तदुत्पत्तौ
व्यापारो गम्येत, इत्यतस्तद्व्यापारादर्शनात् सह कारणैरीश्वरं कारणं कल्पयतां
केवलो भक्तिवादः स्यात् । किञ्च सहकारिषु चेति विस्तरः । यानि सहकारीण्यन्यानि
तस्येश्वरस्य किं तेष्वीश्वरो नेश्वरः स्यात् । तानि हि कार्योत्पत्तौ स्वसामर्थ्येन
व्याप्रियन्ते । अन्येषु तु सहकारिष्वीश्वरः स्यादित्यन्यग्रहणम् ।
आदिसर्ग ईश्वरहेतुकः । तथा हि प्रत्यक्षपुरुषकारनिह्नवो न स्यात्,
कारणेभ्योऽन्यस्य व्यापारादर्शने चादोषो जगतश्चेश्वरः कारणमिति । तस्या-
प्यन्यकारणानपेक्षत्वात् । तस्याप्यादिसर्गस्यान्यकारणानपेक्षत्वात् । ईश्वरः
एकः कारणं नान्यदिति । ईश्वरवदनादित्वप्रसङ्गः । अनिष्टं चैतत्, तस्मान्ने-
श्वरः कारणम् ।
एवं प्रधानेऽपि यथायोगं योज्यमिति । प्रधानमचेतनम् । तस्मात्तत्र छन्दवि-
कल्पनां हित्वा शेषप्रतिषेधविधानं योज्यम् । यद्येकमेव कारणं प्रधानं स्यात्,
युगपत् सर्वेण जगता भवितव्यं स्यात् । दृश्यते च भावानां क्रमसम्भवः ।