अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 376, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] 355/370 द्वितीयं कोशस्थानम् ३५५
तस्मान्न लोकस्यैकं कारणमस्ति । स्वान्येवैषां कर्माणि तस्यां जातौ
जनयन्ति । अकृतबुद्धयस्तु वराकाः स्वं स्वं विपाकफलं चानुभवन्त ईश्वरमपरं
मिथ्या परिकल्पयन्ति ।
अथ कथं भूतानि भूतानां हेतुप्रत्ययः ?
द्विधा भूतानि तद्धेतुः
भूतहेतुरित्यर्थः । सभागसहभूहेतुभ्यां
भौतिकस्य तु पञ्चधा ।
भौतिकस्य तु भूतानि पञ्चप्रकारो हेतुः । कथम् ?
“जननान्निश्रयात् स्थानादुपस्तम्भोपबृंहणात्” ।
सोऽयं कारणहेतुरेव पुनः पञ्चधा भिन्नः; १. जननहेतुः; तेभ्य उत्पत्तेः ।
२. निश्रयहेतुः; जातस्य भूतानुविधायित्वात्, पुरुषकारफलाद्, आचार्यादिनि-
श्रयवत् । ३. प्रतिष्ठाहेतुः; आधारभावात्, चित्रकृत्यवत् । ४. उपस्तम्भहेतुः;
अनुच्छेदहेतुत्वात् । ५. वृद्धिहेतुतुः; उपबृंहणहेतुत्वात् ।
कारणान्तरभेदापेक्षणे वा न प्रधानमेव कारणं स्यात् । तेषामपि क्रमोत्पत्तौ
कारणान्तरभेदापेक्षणादनवस्थाप्रसङ्गः स्यादिति विस्तरः । एवं खल्वपि जगतः
कारणं परिगृह्णता अन्येषामर्थानां प्रत्यक्षः पुरुषकारो निह्नुतः स्यात् । सहापि
च कारणैः कारणं प्रधानं कल्पयतां केवलॊ भक्तिवादः स्यात्; कारणेभ्योऽन्यस्य
व्यापारादर्शनात् । सहकारिषु चान्येषु कारणेषु तत् प्रधानमप्रधानं स्यात् ।
अथादिसर्गः प्रधानहेतुकः ? तस्यापि महदाद्युत्पादस्वभावस्यादिसर्गस्याद्य-
लक्षणत्वात् प्रधानवचनादित्वप्रसङ्गः । नित्यं हि प्रधानम्, प्रधानञ्च महतः
कारणमिति पूर्वं प्रधानं पश्चान्महानिति न सिध्यति । प्रसवधर्मि च प्रधानमिति
तेन नित्यं प्रवर्तितव्यम्; कारणान्तरनिरपेक्षत्वात् । न हि प्रकाशः प्रकाश्यमर्थं
प्रकाश्य पुनर्न प्रकाशयतीति । स्वभावो हि कृतार्थमां नोपेक्षते । अकृतबुद्धयः ।
परमार्थशास्त्रैरसंस्कृतबुद्धयः इत्यर्थः ॥ ६४ ॥
“द्विधा भूतानि तद्धेतुः” इति । पूर्वोत्पन्नानि भूतानि पश्चादुत्पन्नानां
स्वासन्तानिकानां सभागहेतुरविनिर्भागवर्त्तीनि सहभूहेतुः । भूतानुविधायित्वा-
दिति । भौतिकं भूतान्यनुविधत्ते; तद्विकारे विकारात् । आचार्यादिनिश्रयवदिति ।
[य]था भिक्षुराचार्यमाश्रयते, आदिशब्देन उपाध्यायञ्च निश्रयते, तद्वद्भूतानि