सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

निर्देशः ] द्वितीयं कोशस्थानम् ३३१
हेतोर्यः सदृशो धर्मः स निष्यन्दफलम्, तद्यथा—सभागासर्वत्रगहेत्वोः ।
यदि सर्वत्रगहेतोरपि समानं फलम्, कस्मान्न सभागहेतोरेवेष्यते ? यस्मात्
भूमितः क्लिष्टतया चास्य सादृश्यम्, न तु प्रकारतः । यस्य तु प्रकारतोऽपि
सादृश्यं सोऽभ्युपगम्यत एव सभागहेतुः ।
अत एव यो यस्य सभागहेतुः सर्वत्रगहेतुरपि स तस्येति चतुष्कोटिकः
क्रियते । प्रथमा कोटिः-असर्वत्रगः सभागहेतुः, द्वितीया—अन्यनैकायिकः सर्वत्र-
गहेतुः, तृतीया-एकनैकायिकः सर्वत्रगहेतुः, चतुर्थी-एतानाकारान् स्थापयित्वेति ।
कुशलक्लिष्टानिवृत्ताव्याकृतसादृश्यमधिकृत्य । यद्येवम्, कुशलसास्रवस्य हेतो-
रनास्रवं निष्यन्दफलं प्राप्नोति, कुशलसादृश्यात् ? न; निकायसादृश्याभावात् ।
समाननिकायो हि सभागहेतुरिष्यते, न सर्वः ।
भूमितः क्लिष्टतया चास्य सादृश्यमिति । अस्य सर्वत्रगहेतोः सादृश्यं भूमितः
क्लिष्टतया च । केन सह ? स्वफलेन । कथमिति ? भूमितस्तावत् सर्वत्रगहेतुः
कामावचरो यावद्भावाग्रिकः । तत्फलमपि कामावचरं यावद्भावाग्रिकमिति ।
क्लिष्टतया च सर्वत्रगहेतुरपि क्लिष्टः, तत्फलमपि क्लिष्टम् । न तु प्रकारतः
सादृश्यं यथा सभागहेतोः । यस्य तु प्रकारतोऽपि सादृश्यम् । यस्य सर्वत्रगहेतोः
स्वफलेन सह प्रकारतोऽपि सादृश्यम् । स सर्वत्रगहेतुरभ्युपगम्यत एव सभाग-
हेतुरिति । भूमिक्लिष्टत्वसादृश्याद्धि सर्वत्रगहेतुर्भवति, सभागहेतुश्च स भवति;
प्रकारतोऽपि सादृश्यात् ।
अत एव चतुष्कोटिकः क्रियते । उभयस्वभावतया तृतायकोटिसम्भवात् ।
प्रथमा कोटिरसर्वत्रगः सभागहेतुरिति । रागादिकः सभागहेतुः । स हि सभाग-
हेतुरेव स्वनैकायिकस्य क्लेशस्य, न तु सर्वत्रगहेतुः; असर्वत्रगस्वभावत्वात् ।
द्वितीयान्यनैकायिकः सर्वत्रगहेतुरिति । सत्कायदृष्ट्यादिकः सर्वत्रगः । स हि
सर्वत्रगहेतुरेव सर्वत्रगस्वभावत्वात्, अन्यनैकायिकक्लिष्टहेतुत्वाच्च । न सभाग-
हेतुः; अन्यनैकायिके क्लिष्टे सभागहेतुत्वाभावात् । तृतीयाैकनैकायिकः सर्वत्रग-
हेतुरिति । सत्कायदृष्ट्यादिकः सर्वत्रगः । स ह्येकनैकायिकस्य क्लेशस्य
सभागहेतुः, एकनैकायिकक्लिष्टसादृश्यात् । सर्वत्रगहेतुश्च सः, तस्य सर्वत्र-
गत्वादेकनैकायिकक्लिष्टहेतुत्वयोगेन सर्वत्रगहेतुत्वयोगाच्च । चतुर्थ्येतानाकारान्
स्थापयित्वेति । त्रिकोट्युक्तां धर्मप्रकारां वर्जयित्वेत्यर्थः । तद्यथा क्लिष्टा
धर्माः कुशलानां न सभागहेतुः; सादृश्यात् । न सर्वत्रगहेतुरत एव कुशलानां
चाक्लिष्टत्वात् ।

३४२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
विसंयोगः क्षयो धिया ॥ ५७ ॥
क्षयः = निरोधः । धीः = प्रज्ञा । तेन प्रतिसंख्यानिरोधो विसंयोग-
फलमित्युक्तं भवति ॥ ५७ ॥
यद्बलाज्जायते यत्तत् फलं पुरुषकारजम् ।
तद्यथा अधरभूमिकस्य प्रयोगचित्तस्योपरिभूमिकः समाधिः सास्रवस्याना-
स्रवो ध्यानचित्तस्य निर्माणचित्तमित्येवमादि ।
एवं कुशलाः क्लिष्टानां योज्यम् । क्लिष्टा अपि क्लिष्टानां न सभागहेतुः,
नापि सर्वत्रगहेतुर्भवन्ति, तद्यथा रागादयोऽन्यनैकायिकानां न सभागहेतुरन्य-
नैकायिकत्वात्, न सर्वत्रगहेतुरसर्वत्रत्वाद् रागादीनामिति । सर्वत्रगा अपि धर्माः
क्लिष्टानामेकनैकायिकानामपि न सभागहेतुर्न सर्वत्रगहेतुः । यद्यनागतास्ते
भवन्तीति योज्यम् ।
“विसंयोगः क्षयो धिया” इति । धिया प्राप्यमाणो निरोधो विसंयोगफल-
मित्यर्थः । तेनेति । तेन कारणेन यस्मात् क्षयो निरोधः, धी प्रज्ञा, तेन कारणेन
प्रतिसंख्यानिरोधो विसंयोगफलमित्युक्तं भवतीत्याचष्टे ॥ ५७ ॥
“यद्बलाज्जायते” इति विस्तरः । यस्य बलं यद्बलमिति षष्ठीसमासः । यस्य
बलाज्जायते यत्संस्कृतम्, तत्फलम्, तस्य पुरुषकारजम् । पुरुषकाराज्जातं पुरुष-
कारजम् । पुरुषकारफलमित्यर्थः ।
उदाहरणं कथयति—तद्यथा अधरभूमिकस्य कामावचरस्य प्रथमध्यान-
भूमिकस्य वा प्रयोगचित्तस्योपरिभूमिकः प्रथमध्यानभूमिको द्वितीयध्यान-
भूमिको वा समाधिः । फलं पुरुषकारजमित्यधिकृतम् । सास्रवस्य धर्मस्याना-
स्रवः । ध्यानचित्तस्य निर्माणचित्तं तदेव फलं भवति । आदिशब्देनान्यदपि ।
तद्यथा कामावचरान्मरणचित्ताद् रूपावचरः प्रथमोऽन्तराभवक्षण इत्येवमादि
विजातीयोदाहरणं निष्पन्दफलविवेचनार्थम् । अधरभूमिकस्य हि प्रयोगचित्त-
स्योपरिभूमिकः समाधिर्न निष्पन्दफलम् । भिन्नभूमिकं हि न हेतुसदृशम् । नापि
सास्रवस्यानास्रवमिति वक्तव्यम् । न तु सर्वं निष्पन्दफलं पुरुषकारफलं भवति ।
यद्धि यस्य बलाज्जायते सदृशं समानभूमिकमनन्तरं च भवति, तत्तस्य पुरुष-
कारफलं निष्पन्दफलं च भवति । चतुष्कोटिकं चात्र भवति—अस्ति पुरुषकार-
फलमेव न निष्पन्दफलम्, यथोदाहृतम्; अस्ति निष्पन्दफलमेव न पुरुषकार-
फलम्, सभागसर्वत्रगहेत्वोर्व्यवहितं फलम्; अस्त्युभयम्, समनन्तरोत्पन्नं
सभागसर्वत्रगहेत्वो फलम्; अस्ति नोभयम्, तद्यथा विपाकहेतोर्विपाकफलम् ।
प्रतिसंख्यानिरोधोऽपि पुरुषकारफलमिष्यते ।

निर्देशः ] द्वितीयं कोशस्थानम् ३३३
प्रतिसंख्यानिरोधस्तु यद्बलात् प्राप्यत इति वक्तव्यम् ।
अपूर्वः संस्कृतस्यैव संस्कृतोऽधिपतेः फलम् ॥ ५८ ॥
पूर्वोत्पन्नादन्यः संस्कृतो धर्मः संस्कृतस्यैव सर्वस्याधिपतिफलम् ।
पुरुषाधिपतिफलयोः किं नाना कारणम् ? कर्तुः पुरुषकारफलम् ।
अकर्तुरप्यधिपतिफलमेव, तद्यथा—शिल्पिनि शिल्पं पुरुषकारफलमधिपतिफलं
च । अन्येषामधिपतिफलमेव ॥ ५८ ॥
अथैषां हेतूनां कतमो हेतुः कस्मिन् काले फलं प्रतिगृह्णाति ? ददाति वा ?
वर्त्तमानाः फलं पञ्च गृह्णन्ति
नातीताः प्रतिगृहीतत्वात्, नाप्यनागता निष्पुरुषकारत्वात् । कारणहेतु-
रप्येवम् । स तु नावश्यं सफल इति नोच्यते ।
न चासौ हेतुबलाज्जायते नित्यत्वादित्यतः कारिकायामनुक्तं तदुपसंगृह्णते—
प्रतिसंख्यानिरोधस्तु यद्बलात् प्राप्यत इति वक्तव्यमिति । प्रतिसंख्याबलेन हि
प्रतिसंख्यानिरोधः प्राप्यते । तस्मात् स प्रतिसंख्यायाः पुरुषकारफलं भवति ।
“अपूर्वः” इति विस्तरः । अपूर्वः पूर्वोत्पन्नादन्यः । कः पुनरसौ ? सहोत्पन्नः
पश्चादुत्पन्नश्च न हि पूर्वं फलं पश्चाद्धेतुर्भवति । संस्कृत एव धर्मोऽधिपतिफलम्,
नासंस्कृतः । संस्कृतस्यैव नासंस्कृतस्य फलप्रतिग्रहप्रदानसमर्थत्वात् । सर्वस्येति ।
जनकस्याविघ्नभावावस्थायिनश्च । कर्तुः पुरुषकारफलमिति । “यदबलाज्जायते
यावत् फलं पुरुषकारजम्” इति वचनात् ।
अकर्तुरप्यधिपतिफलमेवेति । “अपूर्वः संस्कृतस्यैव संस्कृतोऽधिपतेः फलम्”
इति वचनात् । अन्येषामधिपतिफलमेवेति । अशिल्पिनामविघ्नभावावस्थायिनां
तच्छिल्पमधिपतिफलमेव न पुरुषकारफलम् । तदेवं चतुःकोटिकं भवति—
१. अस्ति पुरुषकारफलमेव नाधिपतिफलम्, तद्यथा विसंयोगफलम् । २. अस्त्य-
धिपतिफलमेव न पुरुषकारफलम्, उदासीनस्य हेतोर्व्यवहितञ्च फलम् ।
३. अस्त्युभयम्, सहोत्पन्नानन्तरोत्पन्नश्च कारकस्य हेतोः । ४. अस्ति नोभयम्,
तद्यथा आकाशमप्रतिसंख्यानिरोधश्चेति ॥ ५८ ॥
“वर्त्तमानाः फलं पञ्च” इति । वर्त्तमाना एव फलम् ।
“गृह्णन्ति” इत्यवधारणम् । प्रतिगृह्णन्तीति । आक्षिपन्ति हेतुभावेनाव-
तिष्ठन्त इत्यर्थः । कारणहेतुरप्येवमिति । वर्त्तमान एव फलं प्रतिगृह्णाति नातीतो
नानागतो वा । स तु नावश्यं सफल इति नोच्यते । तथा हि—असंस्कृतं

..."
Wait, look at the quotes:
“द्वौ प्रयच्छतः” इति। वर्त्तमानावधिकृतम् । सहभूसम्प्रयुक्तकहेतुवर्त्तमानावेव
Wait, look at "सहभूसम्प्रयुक्तकहेतुवर्त्तमानावेव":
Is it "हेतुवर्त्तमानावेव" or "हेतू वर्त्तमानावेव"?
Look at 'तु': there is no dirgha 'तू'?
It looks like 'तु' (short u) or 'तू'? It curves down: 'तु'.
And then "वर्त्तमानावेव".

Line 15:
"फलं प्रयच्छतः । युक्तं तावद् यदतीताविति । निष्पन्दफलेन सफलावेतावुक्तौ;"
Wait, look at:
"युक्तं तावद् यदतीताविति ।"
Wait, is it "यदतीताविति"?
In the image: "युक्तं तावद् यदतीताविति ।"
Wait, look at the text in the middle of line 15:
"युक्तं तावद् यदतीताविति ।" - wait, is it faint?
Ah! The text in the middle of line 15 is partially faint/damaged!
"फलं प्रयच्छतः । युक्तं तावद् यदतीताविति । निष्पन्दफलेन सफलावेतावुक्तौ;"
Look at "युक्तं तावद् यदतीताविति ।": the print is slightly lighter

द्वितीया—कुशलमूलानि प्रतिसन्दधानो याः सर्वप्रथमं प्रतिसन्दधानस्य ।
तृतीया—असमुच्छिन्नकुशलमूलस्य शेषास्ववस्थासु । चतुर्थी—एतानाकारान्
स्थापयित्वा ।
अकुशलस्य तु प्रथमा कोटिः—कामवैराग्यमनुप्राप्नुवन् याः प्राप्तीः सर्वपश्चाद्
विजहाति । द्वितीया—कामवैराग्यात् परिहीयमाणो याः सर्वप्रथमं प्रतिलभते । एवं
तु वक्तव्यम्—स्यात्त एव परिहीयमाणस्य । तृतीया—कामावीतरागस्य शेषास्व-
वस्थासु । चतुर्थी—एतानाकारान् स्थापयित्वा ।
एवं निवृताव्याकृतस्याप्यर्हत्त्वप्राप्तिपरिहाणितो यथायोगं योज्यम् ।
अनिवृताव्याकृतस्य पश्चात्पादकः । यस्तावत् ददाति प्रतिगृह्णात्यपि सः ।
स्यात् प्रतिगृह्णाति न ददात्यर्हत्पश्चिमाः स्कन्धाः । सालम्बननियमेन तु क्षणशः ।
चरन्ति । प्राप्तयस्तु तेषां मृदुमृदूनां समुदाचरन्ति । ताः सर्वपश्चिमादिका
यास्तदा विजहाति, तासां प्राप्तीनां प्राप्तीर्निरोधयतीत्यर्थः । ताः प्राप्तयोऽन्त्या-
वस्थाः कुशलः सभागहेतुः फलं प्रतिगृह्णाति, फलं परिग्रहं करोति । न ददाति
स्वनिष्यन्दफलम् । कुशलस्य क्षणान्तरस्य जन्यस्याभावात् । द्वितीया कोटिः ।
ददाति न प्रतिगृह्णातीति । कुशलमूलानि प्रतिसन्दधानो याः सर्वप्रथमं प्रतिलभते ।
या प्राप्तीः सर्वपूर्वं प्रतिलभते ताः कुशलः सभागहेतुः फलं ददातीति । प्राप्तिं
स्वनिष्यन्दं जनयति, न तु प्रतिगृह्णाति; पूर्वमेव प्रतिगृहीतत्वात् । अयं तु
सावद्यो द्वितीयकोटिनिर्देशः । कुशलमूलप्रतिसन्धानकाले हि नवप्रकाराणामपि
कुशलमूलानां प्राप्तयोऽतीतानागतप्रत्युत्पन्नाः समं प्रतिलभ्यन्ते । तासां या
अतीताः प्राप्तयः स कुशलः सभागहेतुः फलं ददाति न प्रतिगृह्णाति; प्रतिगृही-
तत्वाधिति युक्तमेतत् । यास्तु वर्त्तमानास्तथैव प्रतिलब्धाः प्राप्तयः स कुशलः
सभागहेतुः कथमवधार्यते—फलं ददात्येव न प्रतिगृह्णातीति, स हि प्रति-
गृह्णाति न ददाति चेति ! एवमविशेषितत्वात् सावद्योऽयं द्वितीयकोटिनिर्देशः ।
तस्मादाचार्य आह—एवं तु वक्तव्यं स्यात् । ता एव प्रतिसन्दधानस्येति । ता एव
प्राप्तयः कुशलः सभागहेतुः फलं ददात्येव स्वनिष्यन्दफलदानात् । न प्रतिगृह्णाति
पूर्वप्रतिगृहीतत्वात् । तृतीया कोटिः । फलं प्रतिगृह्णाति ददाति चेति । असमु-
च्छिन्नकुशलमूलस्य शेषास्ववस्थास्विति । द्वे अवस्थे हित्वा—यस्यामवस्थायां
कुशलमूलानि समुच्छिन्दन् याः प्राप्तीः सर्वपश्चाद्विजहाति, यस्यां चावस्थायां
कुशलमूलानि प्रतिसन्दधानो याः सर्वप्रथमं प्रतिलभते । यथास्मदादीनां कुशलाः
प्राप्तयः फलं प्रतिगृह्णन्ति ददति चेति । विसभागक्षणान्तराव्यवहित इति

३३६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
कुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददातीति चतुष्कोटिकः ।
प्रथमा कोटिः—यदा १ कुशलचित्तानन्तरं क्लिष्टमव्याकृतं वा चित्तं सम्मु-
खीकरोतीति । द्वितीया—विपर्ययात् । तृतीया—कुशलचित्तानन्तरं कुशलमेव ।
चतुर्थी—एतानाकारान् स्थापयित्वा ।
वक्तव्यम् ? न वक्तव्यम्; विसभागक्षणान्तरव्यवधानेऽपि प्राप्तिलक्षणस्य सभाग-
हेतोः फलप्रतिग्रहणदानसम्भवात् । चतुर्थ्येतानाकारान् स्थापयित्वा । तद्यथा—
ऊर्ध्वभूमेः परिहीणस्य ऊर्ध्वभूमिकानां या प्राप्तयस्ताः कुशलः सभागहेतुर्न
फलं प्रतिगृह्णाति, पूर्वं प्रतिगृहीतत्वात् । न ददाति, तद्भूमिपरिहीणस्य तद्-
भूमिकानां कुशलमूलानां धर्माणां प्राप्त्यभावात् । एवं समुच्छिन्नकुशलमूला-
वस्थायामपि वक्तव्यम् ।
अत्राचार्यः सङ्घभद्र आह—“नैतद् युज्यते यदुक्तम् । एवं तु वक्तव्यं स्यात्—
ता एव प्रतिसन्धानस्येति । कस्मात् ? न हि यास्ताः सर्वपश्चाद्विहीनास्ता-
सामेव तन्निष्यन्दफलम् । याः प्रतिसन्दधानः सर्वप्रथमं प्रतिलभत इति पूर्वं-
निरुद्धास्यापि हि तत्प्रतिसन्तानस्य स निष्यन्दः” इति । अथ कथं फलग्रहणात्
कृत्स्न एव तत् सभागहेतुर्गृहीतः स्यादिति तदर्थमेवेदमूच्यते । तस्मात् यथा-
न्यास एव साध्विति ।
तदेवमुभयत्रापि पाठदोष उद्ग्राहिते कतरः पाठः श्रेयानिति ? अत्रा-
भिधर्मपाठ एव श्रेयानिति पश्यामः ।
ननु चोक्तम्—अविशेषितत्वात् कुशलप्रतिसन्धानकाले प्रतिलब्धा वर्त्तमानाः
प्राप्तयः फलं ददति प्रतिगृह्णन्त्यपि । ननु ददत्येव न प्रतिगृह्णन्तीति दोष इति ?
नैष दोषः; कुशलमूलानि प्रतिसन्दधान इति कुशलमलप्राप्त्युत्पद्यमानावस्था-
यामेतदुच्यते; न वर्त्तमानावस्थायाम् । तत्र न काश्चिदपि कुशलमलप्राप्तयो
वर्त्तमाना भवन्ति । ताः कथं फलं प्रतिगृह्णन्ति ददति चेति शक्यते वक्तुम् ।
अतीतास्तु स्वसन्ताने कुशलमूलप्राप्तय. सर्वा अपि सभागहेतुभूताः स्वनिष्यन्द-
फलं तदानीं ददत्येव समनन्तरनिर्वर्त्तनन्यायेन, न प्रतिगृह्णन्ति पूर्वं प्रति-
गृहीतत्वात् । इत्यनया युक्त्याऽभिधर्मपाठमेव समर्थयामः ।
ननु चैवमविशेषिते पाठेऽनागतानां कुशलमूलप्राप्तीनां द्वितीयकोटित्ववचन-
प्रसङ्गः, ता अपि हि तदानीमतीतप्राप्तिवत् प्राप्यन्ते ? नैष दोषः; अनागतानां
सभागहेतुत्वाभावात्, सभागहेतोश्चेहाधिकृतत्वात् । एवमपि न प्राप्तय एव
वक्तव्याः, या एव सर्वप्रथमं प्रतिलभत इति । एवं तु वक्तव्यं स्यात्—यान्
१. का० पुस्तके नास्ति ।

निर्देशः ] द्वितीयं कोशस्थानम् ३३७
सर्वप्रथमं प्रतिलभत इति । यान् कुशलान् धर्मानित्यर्थः । चित्तचैत्ता अपि हि
कुशलप्रतिसन्धाने प्रथमतः प्रतिलभ्यन्ते, न केवलं तत्प्राप्तयः ? अस्त्येतत्;
किन्तु प्राचीनामेव कुशलप्रतिसन्धाने आवश्यकत्वादेवं वचनम् । कुशल-
प्राप्तयो हि सम्यग्दृष्ट्या विचिकित्सयापि वा कुशलप्रतिसन्धानेऽवश्यमुत्पद्यन्ते ।
चित्तचैत्तास्तु विचिकित्सया कुशलप्रतिसन्धाने न तावदुत्पद्यन्त इति प्राप्तय
एवोत्पद्यन्त इति वर्णयन्ति ।
अकुशलस्येति विस्तरः । अकुशलोऽपि समानोऽनुगन्तव्यः । —अस्त्य-
कुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददातीति विस्तरेण। प्रथमा कोटिः—काम-
वैराग्यमनुप्राप्नुवन् या प्राप्तीः सर्वपश्चाद् विजहाति, ताः अकुशलः सभागहेतुः
फलं प्रतिगृह्णाति न ददाति । कथं कृत्वा ? इह क्लेशो नवप्रकारः, मार्गोऽपि
नवप्रकारः । तत्र मृदुमृदुना मार्गेणाधिमात्राधिमात्रः क्लेशप्रकारः प्रहीयते ।
यावदधिमात्राधिमात्रेण मृदुमृदुः प्रहीयते । तत्प्राप्तयोऽपि तथैव प्रहीयन्ते ।
कामवैराग्यमनुप्राप्नुवन् या मृदुमृदूनामकुशलानां प्राप्तीः सर्वपश्चाद्विजहाति,
ताः अकुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददाति, अकुशलप्राप्तिक्षणान्तरा-
भावात् । द्वितीया—कामवैराग्यात् परिहीयमाणो याः सर्वप्रथमं प्रतिलभतेऽकुशलानां
प्राप्तीः, ता अकुशलः सभागहेतुः फलं ददाति न प्रतिगृह्णाति, पूर्ववद् वक्तव्यम् ।
अत्राचार्यो ब्रवीति—एवं तु वक्तव्यं स्यात् । ता एव परिहीयमाणस्येति । ता
एव याः कामवैराग्यमनुप्राप्नुवन् प्राप्तीः सर्वपश्चाद् विजहातीति, ता हि प्रति-
गृहीतत्वान्न प्रतिगृह्णन्ति । ददत्येव तु केवलं फलम् । पूर्वपाठे तु द्वितीया कोटिर्न
सम्भवति, यथोक्तं प्राक् ।
अत्राचार्यसङ्घभद्रस्तथैव प्रत्याचष्टे—नैतद् युज्यत इति । पूर्वेण गमानेनेतत्
सर्वं प्रपञ्चयितव्यम् ।
तृतीया—कामावीतरागस्य शेषास्ववस्थास्विति । द्वे अवस्थे हित्वा । एते एव
यथोक्ते प्रथमद्वितीयावस्थे शेषास्ववस्थासु । यथास्माकम् । या अकुशलानां
प्राप्तयस्ता अकुशलः सभागहेतुः फलं प्रतिगृह्णाति ददाति च । चतुर्थी—एता-
नाकारान् यथोक्तान् स्थापयित्वा । तद्यथा कामवीतरागस्यापरिहाणधर्मणो या
अकुशलानां प्राप्तयः, सोऽकुशलः सभागहेतुर्न फलं प्रतिगृह्णाति, पूर्वं प्रतिगृही-
तत्वात् । न ददाति, तस्य प्राप्त्यभावात् ।
एवं निवृत्ताव्याकृतस्यापि इति विस्तरः । एवं निवृत्तानिवृत्तयोश्चतुः-
कोटकविधानम् । अर्हत्त्वप्राप्तितोऽर्हत्त्वपरिहाणितश्च यथायोगं योज्यम् । अस्ति
निवृत्ताव्याकृतः सभागहेतुः फलं प्रतिगृह्णाति न ददाति इति विस्तरः । प्रथमा
कोटिः—अर्हत्त्वं प्राप्नुवन् याः प्राप्तीः सर्वपश्चाद्विजहाति, स निवृत्ताव्याकृतः
अभि० को० २२

एवमकुशलादयोऽपि योज्याः ।
सभागहेतुः फलं प्रतिगृह्णाति न ददाति; क्लिष्टक्षणान्तराभावात्। द्वितीया-
अर्हत्त्वात् परिहीयमाणो याः सर्वप्रथमं प्रतिलभते । एवं तु वक्तव्यं स्यात्-ता
एव परिहीयमाणस्येति । एवं हि फलदानमेवैकमुपपादितं भवति । पूर्वपाठ-
समर्थनमपि तेनैवानुक्रमेण वक्तव्यम्। तृतीया-भवाग्राद्वीतरागस्य शेषास्व-
वस्थासु । चतुर्थी-एतानाकारान् स्थापयित्वा । तद्यथा-अर्हत्त्वं प्राप्तस्य
यास्त्रिधातुक्यो निवृत्ताव्याकृतानां प्राप्तयो यथासम्भवम्, न निवृत्ताव्याकृतः
सभागहेतुर्न फलं प्रतिगृह्णाति; प्रतिगृहीतत्वात् । न ददाति, प्रहीणत्वात्।
अनिवृत्ताव्याकृतस्य पश्चादुत्पादक इति । पश्चात्पादकलक्षणं व्याख्यातमिति
न पुनरुच्यते । योऽनिवृत्ताव्याकृतः सभागहेतुः फलं प्रतिगृह्णाति ददात्यपि
सः । आह-यस्ताव

निर्देशः ] द्वितीयं कोशस्थानम् ३३९
कथं पुनः फल प्रतिगृहीतं भवति, तस्य बीजभावोपगमनात्¹ ?
एकोऽतीतः प्रयच्छति ॥ ५९ ॥
विपाकहेतुरतीत एव फलं प्रयच्छति; यस्मान्न सह वा समनन्तरो
वाऽस्ति विपाकः ।
पुनरन्ये चतुर्विधं फलमाहुः । १. प्रतिष्ठाफलम्, यथा-जलमण्डलं
वायुमण्डलस्य, यावत् तृणादयः पृथिव्याः । २. प्रयोगफलम्, यथा-अशुभाया
यावदनुत्पादज्ञानम् । ३. सामग्रीफलम्, यथा- चक्षुरादीनां चक्षुर्विज्ञानादीनि ।
४. भावनाफलम्, यथा-रूपावचरस्य चित्तस्य निर्माणम् ।
एतत्तु सर्वं² पुरुषकाराधिपतिफलयोरन्तर्भूतम् ॥ ५९ ॥
उक्ता हेतवः फलानि च ॥
तृतीया-अकुशलानन्तरमकुशलमेव । चतुर्थी—एतानाकारान् स्थापयित्वा ।
आदिशब्देन निवृत्ताव्याकृतोऽनिवृत्ताव्याकृतश्च सभागहेतुर्योज्यः । निवृत्तस्य
तावत् प्रथमा कोटिः-निवृत्ताव्याकृतचित्तानन्तरं कुशलमनिवृत्ताव्याकृतं वा
चित्तं सम्मुखीकरोति । द्वितीया - विपर्ययात् । तृतीया - निवृत्ताव्याकृतचित्ता-
नन्तरं निवृत्ताव्याकृतमेव । चतुर्थी - एतानाकारान् स्थापयित्वा । अनिवृत्तस्य
प्रथमा कोटिः-अनिवृत्ताव्याकृतानन्तरं कुशलं क्लिष्टं वा चित्तं सम्मुखी-
करोति । द्वितीया - विपर्ययात् । तृतीया - अनिवृत्ताव्याकृतानन्तरमनिवृत्ता-
व्याकृतमेव । चतुर्थी - एतानाकारान् स्थापयित्वा ।
तस्य बीजभावोपगमनादिति । तस्य फलस्य हेतुभावोपगमनादित्युपमा ।
सौत्रान्तिकप्रक्रियैषा । क्वचित् पुस्तके नास्त्येवम्पाठः ।
यथा जलमण्डलमिवि विस्तरः । यथेति दृष्टान्तप्रदर्शनम् । जलमण्डलं
वायुमण्डलस्य प्रतिष्ठाफलम्, यावच्छब्देन जलमण्डलस्य काञ्चनमयी पृथिवी,
काञ्चनमय्याः पृथिव्यास्तथा सस्यौषधिप्रभृतयः प्रतिष्ठाफलमित्यधिकारः ।
अशुभायाः स्मृत्युपस्थानान्यारभ्य यावदनुत्पादज्ञानम् । एवमन्यस्याप्यानापान-
स्मृत्यादेः । प्रयोगस्य फलं योज्यम् । सामग्र्याः फलं सामग्रीफलम् । चक्षुरादीना-
मिति । आदिशब्देन चक्षूरूपालोकमनस्काराणां ग्रहणम् । एवं भावनायाः
फलं भावनाफलमिति समासः । एतत्तु सर्वमिति विस्तरः । एतच्चतुर्विधं फलं
पुरुषकाराधिपतिफलयोरन्तर्भूतम् । । प्रयोग-
फलादि पुरुषकाराधिपतिफलयोः ॥ ५९ ॥
१. भवोवपगमात्-का० । २. का० पुस्तके नास्ति ।

भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रि...-
तत्र कतमे धर्माः कतिभिः हेतुभिरुत्पद्यन्ते ? इत्याह—समासत इमे चतु-
विधा धर्माः, तद्यथा--क्लिष्टा धर्माः, विपाकजाः, प्रथमानास्रवाः, तेभ्यश्च शेषाः ।
क पुनः शेषाः ? विपाकवर्ज्याः अव्याकृताः प्रथमानास्रवक्षणवर्ज्याश्च
कुशला इति ।
त एते चतुर्विधा धर्माः
क्लिष्टा विपाकजाः शेषाः प्रथमार्या यथाक्रमम् ।
विपाकं सर्वगं हित्वा तौ सभागं च शेषजाः ॥ ६० ॥
क्लिष्टा धर्मा विपाकहेतुं हित्वा शेषेभ्यः पञ्चभ्यो जायन्ते । विपाकजाः
सर्वत्रगहेतुं हित्वा शेषेभ्यः पञ्चभ्य एव । शेषा धर्मास्तौ विपाकसर्वत्रगहेतू
हित्वा शेषेभ्यश्चतुर्भ्यो जायन्ते ।
क्लिष्टा इति विस्तरः । क्लेशतत्सम्प्रयुक्ततत्समुत्थाः क्लिष्टाः । विपाक-

निर्देशः ] द्वितीयं कोशस्थानम् ३४१
प्रथमानास्रवास्तौ च विपाकसर्वत्रगहेतू सभागहेतुं च हित्वा शेषेभ्यः
त्रिभ्यो जायन्ते ॥ ६० ॥
कतमे इमे धर्माश्चतुर्विधा निर्दिष्टाः ? इत्याह --
चित्तचैत्ताः
अथ ये चित्तविप्रयुक्ता रूपिणश्च धर्माः, ते कथम् ? इत्याह—
तथान्येऽपि सम्प्रयुक्तकवर्जिताः ।
सम्प्रयुक्तकहेतुनैकेन वर्जिताः अन्येऽपि क्लिष्टादयो धर्मास्तथैवोत्पद्यन्ते,
यथा चित्तचैत्ताः । तत्र क्लिष्टाश्चतुर्भ्यो विपाकजाश्च । शेषास्त्रिभ्यः । प्रथमानास्रवा
द्वाभ्याम् । एकहेतुसम्भूतो नास्ति धर्मः ॥
समासो हेतुविस्तरः ॥
प्रत्ययाः कतमे ?
चत्वारः प्रत्यया उक्ताः
पूर्ववद् व्याख्यानम् । प्रथमानास्रवास्तौ विपाकसर्वत्रगहेतू पूर्वोक्तौ । च-शब्देना-
नुकृष्टौ सभागहेतुं च हित्वा शेषेभ्यः कारणसहभूसम्प्रयुक्तकहेतुभ्यो यथासम्भवं
जायन्ते । अनास्रवाणामविपाकस्वभावत्वान्न विपाकहेतुरस्ति । अक्लिष्टत्वान्न
सर्वत्रगहेतुः । मार्गस्य पूर्वमनुत्पादितत्त्वान्न सभागहेतुरस्ति । न हि सास्रवा
अग्रधर्मा अनास्रवस्य कलापस्य सभागहेतुर्युज्यते । तस्मान्न तेभ्यो जायन्ते ॥६०॥
“चित्तचैत्ताः” इति । सम्प्रयुक्तकहेतुसम्भवार्थं चित्तचैत्तग्रहणम् । प्राप्ति-
जात्यादयश्च चित्तविप्रयुक्ताः । अनास्रवसंवरश्च रूपिस्वभावोऽनास्रवेषु
वेदितव्यः । ते चित्तविप्रयुक्ता रूपिणश्च चित्तचैत्तेभ्योऽन्ये क्लिष्टादयः क्लिष्ट-
विपाकजशेषप्रथमानास्रवसंगृहीतास्तथैवोत्पद्यन्ते यथा चित्तचैत्ताः । केवलं तु
सम्प्रयुक्तकहेतुनैकेन वर्जिताः । तेषामसम्प्रयुक्तकस्वभावत्वान्न सम्प्रयुक्तकहेतो-
र्जायन्ते । कथमिति ? क्लिष्टाश्चित्तविप्रयुक्तकरूपिणो विपाकसम्प्रयुक्तकहेतू हित्वा
शेषेभ्यश्चतुर्भ्यो हेतुभ्यो जायन्ते । विपाकजा अपि सम्प्रयुक्तकसर्वत्रगहेतू हित्वा
शेषेभ्यश्चतुर्भ्य एव । शेषा विपाकसर्वत्रगसम्प्रयुक्तकहेतून् हित्वा शेषेभ्यास्त्रिभ्यः ।
प्रथमानास्रवा विपाकसर्वत्रगहेतू सभागहेतुं च सम्प्रयुक्तकहेतुं च हित्वा शेषाभ्यां
हेतुभ्यां जायन्त इति । एकहेतुसम्भूतो नास्तीति । कारणसहभूहेत्वोरवश्यम-
विनाभावात् ।
“जन्यस्य जनिका जातिर्न हेतुप्रत्ययैर्विना” ( अभि० को० २.४७ )

· ३४२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
कोक्ताः ? सूत्रे । “चतस्रः प्रत्ययताः । हेतुप्रत्ययता, समनन्तरप्रत्ययता,
आलम्बनप्रत्ययता, अधिपतिप्रत्ययता च” ( ) इति । प्रत्ययजातिः
प्रत्ययता । तत्र—
हेत्वाख्याः पञ्च हेतवः ॥ ६१ ॥
कारणहेतुवर्ज्याः पञ्च हेतवो हेतुप्रत्ययः ।
चित्तचैत्ता अचरमा उत्पन्नाः समनन्तरः ।
अर्हतः पश्चिममनपस्योत्पन्नाश्चित्तचैत्ताः समनन्तरप्रत्ययः ।
समश्चायमनन्तरश्च प्रत्यय इति समनन्तरप्रत्ययः ।
अत एव रूपं न समनन्तरप्रत्ययः; विषमोत्पत्तेः । तथा हि—कामावचरस्य
रूपस्यानन्तरं कदाचित् कामावचरं रूपावचरं चाविज्ञप्तिरूपमुत्पद्यते, कदाचित्
कामावचरं चानास्रवं चेति आकुलो¹ रूपसम्मुखीभावः ।
अव्याकुलस्तु समनन्तरप्रत्ययः अनिरुद्ध एव; एकस्मिन्नौपचयिकरूपसन्ताने
द्वितीयोत्पत्तेरिति भदन्तवसुमित्रः ।
इत्युक्तम् । अतो हेतुविस्तरवचनानन्तरं पृच्छति—प्रत्ययाः कतमे इति ।
प्रत्ययजातिः प्रत्ययतेति । प्रत्ययप्रकार इत्यर्थः । द्वौ तावत् ॥ ६१ ॥
“चित्तचैत्ताः” इति विस्तरः । चित्तचैत्ता एव समनन्तर इत्यवधारणम् ।
अचरमग्रहणं सोत्तराणां समनन्तरत्वात् । उत्पन्नग्रहणमनागतनिरासार्थम् ।
समश्चायमनन्तरश्च प्रत्यय इति समनन्तरप्रत्यय इति । समानार्थे सम्-शब्दः ।
कामावचरस्य रूपस्येति । अविज्ञप्तिरूपस्य कदाचित् कामावचरमविज्ञप्तिरूपं
रूपावचरं चाविज्ञप्तिरूपमुत्पद्यते सास्रवध्यानसम्मुखीभावे गृहीतसंवरस्य ।
कदाचित् कामावचरं चानास्रवं चानास्रवध्यानसम्मुखीभावे । न तु कामावचर-
चित्तानन्तरं कदाचित् कामावचरं रूपावचरं च युगपच्चित्तमुत्पद्यते । कामावचरं
चानास्रवं चेत्याकुलो रूपसम्मुखीभावः ।
द्वितीयोत्पत्तेरिति । द्वितीयौपचयिकोत्पत्तेः । यदा हि भुक्त्वा स्वपिति ध्यानं
वा समापद्यते तदाहारज औपचयिकः स्वप्नजश्च समाधिजो वा औपचयिक
उत्पद्यते ।
१. व्याकुलो—का० ।

निर्देशः ] द्वितीयं कोशस्थानम् ३४३
अल्पबहुतरोत्पत्तेरिति भदन्तः। कदाचिद्धि महतो रूपाल्पमुत्पद्यते,
तद्यथा—पलालराशेर्भस्म। कदाचिदल्पाद् बह्ळुत्पद्यते, तद्यथा—वटनिकायाः
क्रमेण, यावदनेकशाखावरोहो न्यग्रोध इति।
ननु चास्ति चैत्तानामप्यल्पबहुतरोत्पत्तिः, कुशलाकुशलाव्याकृतेषु चित्तेषु
सवितर्कसविचारादौ च समाधित्रये ?
अस्ति जात्यन्तरं प्रति, न स्वजातिम्। न कदाचिद् बहुतरा वेदनोत्पद्यते,
संज्ञादयो वा।
किं पुनः स्वजातेरेव समनन्तरप्रत्ययो भवति ? नैतदस्ति; सकल एव
कलापः सकलस्य कलापान्तरस्य समनन्तरप्रत्ययः, न त्वल्पकाद् वेदनादिद्रव्यात्
प्रभूतं वेदनादि द्रव्यमुत्पद्यत इत्येतावदेवात्रोक्तम्।
अल्पबहुतरोत्पत्तेरिति। किम् ? रूपं न समनन्तरप्रत्यय इति प्रकृतम्।
भदन्तः स्थविरः सौत्रान्तिकः। कुशलाकुशलाव्याकृतेषु चित्तेष्विति।
सवितर्कविचारित्वात् कुशले कामचेतसि।
द्वाविंशतिश्चैतसिकाः कौकृत्यमधिकं क्वचित्॥
आवेणिके त्वकुशले दृष्टियुक्ते च विंशतिः।
क्लेशैश्चतुर्भिः क्रोधाद्यैः कौकृत्येनेकविंशतिः॥
निवृत्तेऽष्टादशान्यत्र द्वादशाव्याकृते मताः।”
(अभि० को० २. २९–३१)
वाल्पे चैत्ता उत्पद्यन्ते, कदाचिदल्पाद् बहवो विपर्ययात्। सवितर्कसविचारादौ च
समाधित्रये। अस्ति सवितर्कः सविचारः समाधिः, अस्त्यवितर्को विचारमात्रः,
अस्त्यवितर्कोऽविचार इति—एतस्मिन् समाधित्रये चैत्तानामल्पबहुतरोत्पत्तिः।
अतश्च चित्तचैत्ता अपि न समनन्तरप्रत्ययाः स्युरिति।
अस्ति जात्यन्तरं प्रति न स्वजातिमिति। अस्त्यल्पबहुतरोत्पत्तिर्जात्यन्तरं
प्रति न स्वजातिम्। वितर्कविचारादीनां हि क्वचिच्चित्ते जात्यन्तरभूतानां सतां
वृत्तिरवृत्तिश्च भवति। न कदाचित् बहुतरा वेदनेति। न हि कदाचिदेकस्मिंश्चित्ते
एका, क्वचिदपरस्मिन् द्वे तिस्रो वेति। रूपस्य तु स्वजातिं प्रत्यल्पबहुतरोत्पत्तिः;
किं पुनः स्वजातेरेवेति। किं वेदना वेदनाया एव समनन्तरप्रत्ययः।
अनेकवेदनोत्पत्तावसार्मथ्यात्। एवं संज्ञादयः। न परजातेः, न वेदना संज्ञा-
दीनाम्, यतश्चैत्तानामल्पबहुतरोत्पत्तिर्न परिगृहीता भवेत्।

३४४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
सान्तानसभागिकास्तु¹ मन्यन्ते—“स्वजातेरेव समनन्तरप्रत्ययः ।
तद्यथा—चित्तं चित्तस्यैव, वेदना वेदनाया एव” इति । विस्तरः—यदा त्वक्लि-
ष्टान्तरं क्लिष्टमुत्पद्यते, तस्य क्लेशस्य पूर्वनिरुद्धक्लेशः² समनन्तरप्रत्ययः, तद्यथा
निरोधसमापत्तिचित्तं व्युत्थानचित्तस्येति ।
तदेतन्न वत्स्यते ; प्रथमानास्रवचित्तोत्पत्तिप्रसङ्गात् चित्तविप्रयुक्ता अपि
संस्काराः ।
अत एव व्याकुलसम्मुखीभावान्न समनन्तरप्रत्ययः; त्रैधातुकाप्रतिसंयुक्तानां
युगपत् सम्मुखीभावात् ।
कस्मादनागतो नेष्यते समनन्तरप्रत्ययः ? व्याकुलत्वादनागतस्याध्वनः
पूर्वोत्तराऽभावात्³ ।

निर्देशः २ ] द्वितीयं कोशस्थानम् ३४७
कथं तर्हि भगवान् जानाति 'अमुष्यानागतस्यानन्तरमिदमनागतं भावि'
इति ? अतीतसाम्प्रतानुमानात् । अतीतं किलाध्वानं पश्यति भगवान् --
'एवञ्जातीयकात् कर्मणः एवञ्जातीयको विपाकः उत्पन्नः, धर्माद्वा धर्मः' । 'इदं
चापि सम्प्रत्येवञ्जातीयकं कर्म, तस्मादतोऽप्येवञ्जातीयको विपाक उत्पत्स्यते
धर्माद्वा धर्मः' इति जानाति ।
न चान्यत् ज्ञानमानुमानिकं भवति; यस्मादतीतसाम्प्रतानुमानेन भगवान्
विकीर्णान्यनागतानि द्रव्याणि प्रत्यक्षमीक्षित्वा जानाति—'अनेन पुद्गलेनैवंविधं
कर्म कुर्वतेदमनागतं फलं परिगृहीतम्' इति !
एवं तर्हि भगवान् पूर्वान्तमदृष्ट्वा अपरान्तं न जानीयात् !
अन्ये पुनराहुः—फलचिह्नभूतः सत्त्वानां सन्ततौ चित्तविप्रयुक्तः संस्कार-
विशेषोऽस्ति, यं व्यवलोक्य भगवाननागतं जानात्यसम्मुखीकृत्यापि ध्यानमभिज्ञां
चेति ।
नैमित्तिको हि नाम भगवान् स्यादेवं सति, न पुनः साक्षात्कारी । तस्मात्
सर्वमिच्छामात्रेण भगवान् जानातीति सिद्धान्तः । "अचिन्त्यो हि बुद्धानां
बुद्धिविषयः" इत्युक्तं भगवता ।
अथ असत्यनागतस्य कर्मनियमावस्थाने कस्माद्धर्मानन्तरं दुःखे धर्मज्ञान-
मानादतीत इति शक्यते वक्तुम्; पूर्वोत्तरकालयोगात् । न त्वनागतस्य पूर्व-
पश्चिमतास्ति । अत एव च वर्त्तमानो वर्त्तमानस्य न समनन्तरप्रत्यय इष्यते;
पूर्वपश्चिमताया अभावात्, तुल्यकालत्वात् ।
अतीतसाम्प्रतानुमानादिति । अतीतेन च साम्प्रतेन चानुमानात् । अतीते-
नानुमानमिति दर्शयन्नाह—अतीतं किलाध्वानं पश्यतीति विस्तरः ।
साम्प्रतेनानुमानमिति दर्शयन्नाह—इदं चापि सम्प्रत्येवञ्जातीयकमिति
विस्तरः । अपरान्तं न जानीयादिति । सर्ववित्त्वमस्य हीयेतेत्यभिप्रायः ।
फलचिह्नभूतः, फललिङ्गभूतः । न साक्षात्कारी, न साक्षाद्दर्शी ।
अनागतो नेष्यते समनन्तरप्रत्ययो व्याकुलत्वात् पूर्वपश्चिमताया अभावात्
इत्युक्तेऽयमाह— कस्माद्धर्मानन्तरमिति विस्तरः ।

३४६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [इन्द्रिय-
क्षान्तिरेवोत्पद्यते, नान्यो धर्मः, एवं यावद् वज्रोपमानन्तरं क्षयज्ञानमेवोत्पद्यते,
नान्यो धर्म इति ?
यस्य यत्प्रतिबद्ध उत्पादः स तस्यानन्तरमुत्पद्यते, तद्यथा-- बीजादीनाम-
ङ्कुरादयो विनापि समनन्तरप्रत्ययेनेति ।
कस्मादर्हत्त्वधर्माश्चित्तचैत्ता न समनन्तरप्रत्ययः ? अन्यचित्तासम्बन्धात् १ ।
ननु चैवं समनन्तरनिरुद्धं चित्तं मनो भवतीत्यनन्तरविज्ञानाभावात् मनोऽपि
चरमं चित्तं न प्राप्नोति ?
आश्रयभावप्रभावितं मनो न कारित्रप्रभावितमित्यस्त्येवाश्रयभावः । कारणा-
न्तरवैकल्यात् तु विज्ञानान्तरं नोत्पद्यत इति । कारित्रप्रभावितन्तु समनन्तरप्रत्ययः,
तेन यो धर्मः फलं प्रतिगृहीतः स सर्वैरपि धर्मैः सर्वप्राणिभिर्वा न शक्यः २
तस्य वैभाषिकः परिहारमाह—यस्य यत्प्रतिबद्ध उत्पाद इति विस्तरः । यस्य
धर्मस्य दुःखे धर्मज्ञानक्षान्त्यादेर्यस्मिन् धर्मे लौकिकाग्रधर्मादौ प्रतिबद्ध उत्पादः,
स तस्यानन्तरमुत्पद्यते । तद्यथा बीजादीनामङ्कुरादयः । अङ्कुरस्य हि बीजे
प्रतिबद्ध उत्पादः, तस्मात् तदनन्तरमुत्पद्यते । एवं काण्डादीनामङ्कुरादिषु ।
विनापि समनन्तरप्रत्ययेन । असत्यपि समनन्तरप्रत्यये । अपिशब्दात् सति सम-
नन्तरप्रत्यये सुतरामुत्पद्यत इत्यभिप्रायः । तस्मान्नास्ति च क्रमनियमावस्थानम् ।
तद्वत् समनन्तरोत्पत्तिनियमश्च भवतीति वाक्यार्थः ।
“कस्मादर्हत्त्वधर्माः” इति । “अचरमाः” इति वचनादयं प्रश्न आगतः ।
अन्यचित्तासम्बन्धादिति । यस्मात् तदनन्तरमन्यचित्तं न सम्बध्नन्ति ।
आश्रयभावप्रभावितं मन इति । यथा चक्षुरुत्पन्नं चक्षुर्विज्ञानाश्रयभावेना-
वस्थितम्, यदि कारणान्तरवैकल्याच्चक्षुर्विज्ञानं नोत्पद्यते न तत्र चक्षुरपराध्यते ।
एवमर्हतोऽपि चरमं चित्तमाश्रयभावेनावस्थितम् । कारणान्तरवैकल्यात्तु विज्ञाना-
न्तरं नोत्पद्यत इति न तदपराध्यते । तद्धि न कारित्रप्रभावितम् । न जननपुरुष-
कारप्रभावितमित्यर्थः । यदि हि तज्जनप्रभावितं स्यात्, जायमान एव सति
कार्ये तन्मनः स्यात् । न चैवम्, अतोऽसत्यपि जन्ये तन्मनो भवत्येव । कारित्र-
प्रभावितस्तु समनन्तरप्रत्ययः । सत्येव जन्ये समनन्तरप्रत्ययो भवति, नासति ।
तेन यो धर्मः फलं प्रतिगृहीतः । तेन समनन्तरप्रत्ययेन यो धर्मः फलं प्रतिगृहीतो
जायतामेतदिति, स सर्वैरपि धर्मैर्बुद्धिमद्भिः सर्वप्राणिभिर्वा सञ्चिन्त्यकारिभिर्न
१. ०संबन्धनात्—का० । २. शक्यं—का० ।

प्रतिबन्धुम्, यथा नोत्पद्येत¹ ।
ये धर्माश्चित्तसमनन्तराः, चित्तनिरन्तरा अपि ते ? चतुष्कोटिकः । प्रथमा
कोटिः—अचित्तकायाः समापत्तिव्युत्थानचित्तं² द्वितीयादयश्च समापत्तिक्षणाः ।
द्वितीया³—प्रथमस्य समापत्तिक्षणस्य सचित्तकावस्थायां⁴ च⁴ जात्यादयः । तृतीया
कोटिः—प्रथमः समापत्तिक्षणः सचित्तिका अवस्था⁵ । चतुर्थी⁶—द्वितीयादीनां
समापत्तिक्षणानां व्युत्थानचित्तस्य च जात्यादयः⁷ ।
शक्यः प्रतिबन्धुं यथा नोत्पद्येत । मोत्पादीति ।
ये धर्माश्चित्तसमनन्तरा इति विस्तरः । समनन्तरप्रत्ययचित्तजनिताश्चित्त-
समनन्तराः । चित्तस्य समाश्च तेऽनन्तराश्च ते इति चित्तसमनन्तराः । अथ वा
चित्तं समनन्तरं समनन्तरप्रत्यय एषामिति चित्तसमनन्तराः । क्षणान्तरा-
व्यवहितास्तु चित्तनिरन्तराः । ते पुनश्चित्तसमनन्तराश्चित्तचैत्ता द्वे च समापत्ती
असंज्ञि-निरोधसमापत्ती । नासंज्ञिकं चित्तसमनन्त· शास्त्रे पठितम्; कर्मसामर्थ्यो-
त्पत्तेः । प्रथमा कोटिरिति विस्तरः । समापत्तिव्युत्थानचित्तं समापत्तिप्रवेशचित्त-
जनितम् । अतश्चित्तसमनन्तरं न चित्तनिरन्तरम्; समापत्तिक्षणव्यवहितत्वात् ।
द्वितीयादयश्च समापत्तिक्षणाः, प्रथमक्षणवर्ज्या इत्यर्थः । चित्तसमनन्तराः,
तत्प्रत्ययजनितत्वात् । न चित्तनिरन्तराः, यथायोगं प्रथमादिक्षणव्यवहितत्वात् ।
द्वितीया—प्रथमस्य समापत्तिक्षणस्य जात्यादयश्चित्तनिरन्तराः, क्षणान्तराव्यवहि-
तत्त्वात् , न तु चित्तसमनन्तराः, अचित्तसमनन्तरस्वभावत्वात् । चित्तचैत्ता
एव हि सह समापत्तिद्वयेन चित्तसमनन्तरा इष्टाः । सचित्तिकावस्थायाञ्च
जात्यादयः । तेषामविशेषितत्वात् सर्वेषां चित्तचैत्तादीनां जात्यादयः । आदि-
ग्रहणेन च सर्व एव विप्रयुक्ता गृह्यन्ते समापत्तिद्वयं वर्जयित्वा । ते च तथैव चित्त-
निरन्तरा न चित्तसमनन्तराः । पूर्ववद् व्याख्यानम् । सचित्तिकावस्थेति । यदा
चित्ताच्चित्तान्तरमुत्पद्यते तदा पश्चिमाश्चित्तचैत्ताः पूर्वकेण चित्तेन चित्तसम-
नन्तराश्चित्तनिरन्तराश्च भवन्ति । चतुर्थी—द्वितीयादीनां रामापत्तिक्षणानां
व्युत्थानचित्तस्य च जात्यादयः । न चित्तसमनन्तराः, अचित्तसमनन्तरस्वभाव-
त्वात् । न चित्तनिरन्तराः, प्रथमादिसमापत्तिक्षणव्यवहितत्वात् ।

१. नोत्पद्यते—का० । २. समापत्तेर्व्युत्थान—का० ।
३. ०कोटिः—का० । ४-४. सचित्तिकायाश्चावस्थायाः—का० ।
५. चावस्था—का० । ६. कोटिः—का० ।
७. का० पुस्तके नास्ति

२४८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
ये धर्माश्चित्तसमनन्तराः समापत्तिनिरन्तरा अपि ते ? चतुष्कोटिकः । ये
तृतीयाचतुर्थ्यो ते प्रथमाद्वितीये, ये प्रथमाद्वितीये ते तृतीयाचतुर्थ्यो कर्तव्ये ।
कथमदानीं दूरान्तरविच्छिन्नं व्युत्थानचित्तं समापत्तिचित्तस्य समनन्तर-
मित्युच्यते ? चित्तान्तरव्यवहितत्वात् ॥
उक्तः समनन्तरप्रत्ययः ॥
आलम्बनं सर्वधर्माः
यथायोगं चक्षुर्विज्ञानस्य ससम्प्रयोगस्य रूपम्, श्रोत्रविज्ञानस्य शब्दः,
घ्राणविज्ञानस्य गन्धः, जिह्वाविज्ञानस्य रसः, कायविज्ञानस्य स्प्रष्टव्यम्, मनो-
विज्ञानस्य सर्वधर्माः ।
यो धर्मो यस्य धर्मस्यालम्बनं न कदाचित् स धर्मस्तद्धर्मस्य नालम्बनम् ;
अनालम्ब्यमानोऽपि तथालक्षणत्वाद् । यथा—अनिन्ध्यमानमपीन्धनमुच्यते
काष्ठादिकम्, तथालक्षणत्वादिति ।
त एते चित्तचैत्ता धर्मा आयतनद्रव्यक्षणनियमेनालम्बने यथास्वं नियताः ।
ये तृतीयचतुर्थ्याँ ते प्रथमद्वितीये इति विस्तरः । प्रथमा कोटिः—प्रथम-
समापत्तिक्षणः सचित्तिका चावस्था । ते हि चित्तसमनन्तराः समनन्तरप्रत्यय-
जनितत्वात्; न समापत्तिनिरन्तराः, प्रथमसमापत्तिक्षणस्य सर्वसमापत्तिक्षणा-
भावेन न तन्निरन्तराभावात्, सचित्तिकावस्थायाश्च समापत्त्यभावात् ।
द्वितीया—द्वितीयादीनां समापत्तिक्षणानां जात्यादयो व्युत्थानचित्तस्य च, इमे
धर्माः समापत्तिनिरन्तरा न चित्तसमनन्तराः । तृतीया—अचित्तिकायाः समा-
पत्तेर्व्युत्थानचित्तं द्वितीयादयश्च समापत्तिक्षणा., एते चित्तसमनन्तराः समा-
पत्तिनिरन्तराश्च । चतुर्थी--प्रथमस्य समापत्तिक्षणस्य सचित्तिकायां चावस्थायां
जात्यादयः, इमे धर्मा न चित्तसमनन्तरा न समापत्तिनिरन्तरा अचित्तसम-
नन्तरस्वभावत्वात्, पूर्वसमापत्तिक्षणाभावाच्च ।
ससम्प्रयोगस्य सचैतसिकस्य । तथालक्षणत्वादिति । आलम्ब्यलक्षणत्वात् ।
आयतनद्रव्यक्षणनियमेनेति । आयतनञ्च द्रव्यञ्च क्षणश्च तेषां नियमः, तेनैव ।
ते चित्तचैत्ताः स्वस्मिन् स्वस्मिन्नालम्बने नियताः । यथा तावच्चक्षुर्विज्ञानं सस-
म्प्रयोगं रूपायतने आलम्बने नियतम्, न शब्दायतनादौ । एवमायतननियमेन ।
तत्राप्यायतने द्रव्यनियमेन नीलरूपे नीलरूपकग्राहकमेव चक्षुर्विज्ञानं सस-
म्प्रयोगं नियतम्, नान्यत्र पीतादौ । एवं द्रव्यनियमेन । तत्रापि नीलरूपे

निर्देशः ] [ द्वितीयंकोशस्थानम ३८५
किमाश्रयनियमेनापि नियताः ? ओमित्याह । उत्पन्नास्त्वाश्रयसहिताः, अनु-
त्पन्ना ह्यतीता आश्रयविशिष्टाः ।
अतीता अप्याश्रयसहिता इत्यपरे ॥
उक्त आलम्बनप्रत्ययः ॥
कारणाख्योऽधिपः स्मृतः ॥ ६२ ॥
य एव कारणहेतुः स एवाधिपतिप्रत्ययः । अधिकोऽयं प्रत्यय इत्यधिपति-
प्रत्ययः ।
आलम्बनप्रत्ययोऽपि सर्वधर्माः अधिपतिप्रत्ययोऽपीति किमस्याधिक्यम् ?
न जातु सहभुवो धर्मा आलम्बनं भवन्ति; भवन्ति त्वधिपतिप्रत्यय इत्यस्यैवा-
धिक्यम् ।
अधिकस्य वा प्रत्ययः । सर्वः सर्वस्य संस्कृतम्य स्वभाववर्ज्यस्य । स्याद्धर्मो
धर्मस्य चतुर्भिरेपि प्रत्ययैर्न प्रत्ययः । स्यात् स्वभाद् स्वभावस्य परभावोऽपि !
स्यात् संस्कृतमसंस्कृतस्य असंस्कृतं चासंस्कृतस्य ।
अथैते प्रत्ययाः कारित्रं कुर्वन्तः किमवस्थे धर्मे कुर्वन्ति ? हेतुप्रत्ययस्तावत्
उक्तः । तत्र—
आलम्बने यो नीलरूपक्षणो यस्यालम्बनं स तस्यैव, नान्यस्येति एवं क्षण-
नियमेन । एवं शब्दायतनादिष्वपि श्रोत्रादिविज्ञानं सम्प्रयोगं योज्यम् ।
किमाश्रयनियमेनापीति । किं चक्षुराद्याश्रयनियमेनाप्येते चित्तचैत्ता नियताः ?
ओमित्याह । एवमित्यर्थः ।
आलम्बनप्रत्ययोऽपि सर्वधर्मा इति मनोविज्ञानमपेक्ष्या । अधिकोऽयं प्रत्यय
इत्यधिपतिप्रत्यय इति । हेतुप्रत्ययादिभ्यः । हेतुप्रत्ययो हि परं पञ्च हेतवः ।
आलम्बनप्रत्ययो हि सहभुवां न सम्भवतीति नाधिकः । अधिकस्य वा प्रत्यय इति ।
पूर्वम्—अधिकः पतिरधिपतिः, स प्रत्यय इति समासः । इदानीम्—अधिकस्य
भूयसः पतिरधिपतिः, स प्रत्यय इत्यधिपतिप्रत्यय इति समासः ।
कथम् ? इत्याह–सर्व इति विस्तरः । सर्वः संस्कृतासंस्कृतः सर्वस्य संस्कृतस्य
स्वभाववर्जःश्च सालम्बनस्यानालम्बनस्य च प्रत्ययोऽधिपतिप्रत्ययः । आलम्बन-
प्रत्ययस्तु सालम्बनस्यैव, नानालम्बनस्य । प्रथमे विग्रहे प्रत्ययस्याधिक्यं दर्शितम्
द्वितीये प्रत्ययवतः ॥ ६२ ॥

३५० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
निरुध्यमाने कारित्रं द्वौ हेतू कुरुतः
निरुध्यमानं नाम वर्त्तमानम्, निरोधाभिमुखत्वात् । तत्र सहभूसंप्रयुक्तक-
हेतू कारित्रं कुरुतः । सहोत्पन्नेऽपि फले तयोर्व्यापारः ।
त्रयः ।
जायमाने
जायमानं नाम अनागतमुत्पादाभिमुखम् । तत्र सभागसर्वत्रगविपाकहेतवः
कारित्रं कुर्वन्ति ।
एवं तावद् हेतुप्रत्ययः ।
ततोऽन्यौ तु प्रत्ययौ तद्विपर्ययात् ॥ ६३ ॥
येन कारित्रन्यायेन हेतुप्रत्ययो¹ द्विधा कृत्वोक्तः, तद्विपर्ययात् समनन्तर-
प्रत्ययालम्बनप्रत्ययौ वेदितव्यौ ।
समनन्तरप्रत्ययो जायमाने कारित्रं करोति; अवकाशदानात् । आलम्बन-
प्रत्ययौ निरुध्यमाने; वर्त्तमानैश्चित्तचैत्तैर्ग्रहणात् । अधिपनिप्रत्ययस्तु सर्वस्यामव-
स्थायामनावरणभावेनावस्थित इत्येतदेवास्य कारित्रम् ॥
उक्ताः सकारित्राः प्रत्ययाः ॥
“निरुध्यमाने कारित्रम्” इति । निरुध्यमान एवेत्यवधारणम्, मिथः
फलत्वात् समाश्रयत्वाच्च तद्द्वयाङ्ग क हेत्वोर्व्याकरणम् ।
“त्रयो जायमाने” इति जायमान एवेत्यवधारणम्।
“ततोऽन्यौ तु प्रत्ययौ तद्विपर्ययात्” इति। समनन्तरप्रत्ययः पूर्वोक्तस्तं
पश्चादुक्तं कारित्रकालनियममाश्रयते। जायमाने कारित्रं करोतीत्यर्थः।
पश्चादुक्त आलम्बनप्रत्ययः पूर्वोक्तं कारित्रकालनियममाश्रयते। निरुध्यमाने
कारित्रं करोतीत्यर्थः। एवं तौ विपर्ययात् कारित्रं कुरुतः।
तेनाह—समनन्तरप्रत्ययो जायमाने कारित्रं करोत्यवकाशदानात्, आलम्बन-
प्रत्ययो निरुध्यमाने वर्त्तमानैश्चित्तचैत्तैर्वर्त्तमानग्रहणादिति। ग्रहणार्थेन ह्यालम्बन-
प्रत्ययो व्यवस्थाप्यते। न चातीतानागताश्चित्तचैत्ता ग्राह्यमर्थं गृह्णन्तीति।
एतदेवास्य कारित्रमिति। यदनावरणभावेन सर्वस्यामवस्थायामवस्थानम्,
एतदेवास्याधिपतिप्रत्ययस्य कारित्रमिति सुगमत्वान्नाधिपतिप्रत्ययस्य कारित्र-
कालनियमः सूचित इत्यभिप्रायः॥ ६३ ॥
१ ०प्रत्ययौ—का०।