सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 371, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 371

३५० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
निरुध्यमाने कारित्रं द्वौ हेतू कुरुतः
निरुध्यमानं नाम वर्त्तमानम्, निरोधाभिमुखत्वात् । तत्र सहभूसंप्रयुक्तक-
हेतू कारित्रं कुरुतः । सहोत्पन्नेऽपि फले तयोर्व्यापारः ।
त्रयः ।
जायमाने
जायमानं नाम अनागतमुत्पादाभिमुखम् । तत्र सभागसर्वत्रगविपाकहेतवः
कारित्रं कुर्वन्ति ।
एवं तावद् हेतुप्रत्ययः ।
ततोऽन्यौ तु प्रत्ययौ तद्विपर्ययात् ॥ ६३ ॥
येन कारित्रन्यायेन हेतुप्रत्ययो¹ द्विधा कृत्वोक्तः, तद्विपर्ययात् समनन्तर-
प्रत्ययालम्बनप्रत्ययौ वेदितव्यौ ।
समनन्तरप्रत्ययो जायमाने कारित्रं करोति; अवकाशदानात् । आलम्बन-
प्रत्ययौ निरुध्यमाने; वर्त्तमानैश्चित्तचैत्तैर्ग्रहणात् । अधिपनिप्रत्ययस्तु सर्वस्यामव-
स्थायामनावरणभावेनावस्थित इत्येतदेवास्य कारित्रम् ॥
उक्ताः सकारित्राः प्रत्ययाः ॥
“निरुध्यमाने कारित्रम्” इति । निरुध्यमान एवेत्यवधारणम्, मिथः
फलत्वात् समाश्रयत्वाच्च तद्द्वयाङ्ग क हेत्वोर्व्याकरणम् ।
“त्रयो जायमाने” इति जायमान एवेत्यवधारणम्।
“ततोऽन्यौ तु प्रत्ययौ तद्विपर्ययात्” इति। समनन्तरप्रत्ययः पूर्वोक्तस्तं
पश्चादुक्तं कारित्रकालनियममाश्रयते। जायमाने कारित्रं करोतीत्यर्थः।
पश्चादुक्त आलम्बनप्रत्ययः पूर्वोक्तं कारित्रकालनियममाश्रयते। निरुध्यमाने
कारित्रं करोतीत्यर्थः। एवं तौ विपर्ययात् कारित्रं कुरुतः।
तेनाह—समनन्तरप्रत्ययो जायमाने कारित्रं करोत्यवकाशदानात्, आलम्बन-
प्रत्ययो निरुध्यमाने वर्त्तमानैश्चित्तचैत्तैर्वर्त्तमानग्रहणादिति। ग्रहणार्थेन ह्यालम्बन-
प्रत्ययो व्यवस्थाप्यते। न चातीतानागताश्चित्तचैत्ता ग्राह्यमर्थं गृह्णन्तीति।
एतदेवास्य कारित्रमिति। यदनावरणभावेन सर्वस्यामवस्थायामवस्थानम्,
एतदेवास्याधिपतिप्रत्ययस्य कारित्रमिति सुगमत्वान्नाधिपतिप्रत्ययस्य कारित्र-
कालनियमः सूचित इत्यभिप्रायः॥ ६३ ॥
१ ०प्रत्ययौ—का०।