अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 359, कुल 1258 में से
संदर्भ में पढ़ेंएवमकुशलादयोऽपि योज्याः ।
सभागहेतुः फलं प्रतिगृह्णाति न ददाति; क्लिष्टक्षणान्तराभावात्। द्वितीया-
अर्हत्त्वात् परिहीयमाणो याः सर्वप्रथमं प्रतिलभते । एवं तु वक्तव्यं स्यात्-ता
एव परिहीयमाणस्येति । एवं हि फलदानमेवैकमुपपादितं भवति । पूर्वपाठ-
समर्थनमपि तेनैवानुक्रमेण वक्तव्यम्। तृतीया-भवाग्राद्वीतरागस्य शेषास्व-
वस्थासु । चतुर्थी-एतानाकारान् स्थापयित्वा । तद्यथा-अर्हत्त्वं प्राप्तस्य
यास्त्रिधातुक्यो निवृत्ताव्याकृतानां प्राप्तयो यथासम्भवम्, न निवृत्ताव्याकृतः
सभागहेतुर्न फलं प्रतिगृह्णाति; प्रतिगृहीतत्वात् । न ददाति, प्रहीणत्वात्।
अनिवृत्ताव्याकृतस्य पश्चादुत्पादक इति । पश्चात्पादकलक्षणं व्याख्यातमिति
न पुनरुच्यते । योऽनिवृत्ताव्याकृतः सभागहेतुः फलं प्रतिगृह्णाति ददात्यपि
सः । आह-यस्ताव