सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

२९२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
सदृशा धर्माः सदृशानां धर्माणां सभागहेतुः, तद्यथा—कुशलाः पञ्च
स्कन्धाः कुशलानामन्योन्यं क्लिष्टाः क्लिष्टानाम्, अव्याकृताः अव्याकृतानाम्,
रूपमव्याकृतं पञ्चानाम्।
चत्वारस्तु न रूपस्येत्यपरे, न्यूनत्वात्।
कललं कललादीनां दशानामवस्थानाम्, अर्बुदादयोऽर्बुदादीनामेकैकापहा-
सेनैकस्मिन् निकायभागे ।
अन्येषु तु समानजातीयेषु दशाप्यवस्था दशानाम्।
बाह्येष्वपि यवो यवस्य, शालिः शालेरिति विस्तरेण योज्यम्।
क्लिष्टाः क्लिष्टानामिति । क्लिष्टाः, अकुशलाः, निवृत्ताव्याकृताश्च ।
क्लिष्टत्वसामान्येन सभागहेतुत्वमेषाम्। तेनाकुशला अकुशलानां सभागहेतुः,
निवृत्ताव्याकृता निवृत्ताव्याकृतानाम् । अकुशला निवृत्ताव्याकृतानाम् ।
निवृत्ताव्याकृताश्चाकुशलानां सभागहेतुरिति दर्शितं भवति । अव्याकृता अव्या-
कृतानामिति । अनिवृत्ताव्याकृता अनिवृत्ताव्याकृतानामित्यर्थः ।
रूपमव्याकृतमव्याकृतो रूपस्कन्धः, पञ्चानां स्कन्धानां सभागहेतुः। चत्वारस्तु
स्कन्धा वेदनादयो न रूपस्य सभागहेतुर्विशिष्टत्वात् । न हि विशिष्टो न्यूनस्य
सभागहेतुर्गृह्यते; “समविशिष्टेभ्यः” इति वचनात्। कुशलाकुशलं तु रूप-
माभिसंस्कारिकत्वात् समं विशिष्टं चेति चत्वारस्तस्य सभागहेतुर्भवन्ति ।
कललं कललादीनामिति । पञ्च गर्भावस्थाः—कललार्बुदपेशीघनप्रशाखा-
वस्थाः, पञ्च जातावस्थाः—बालकुमारयुवमध्यवृद्धावस्थाः । इत्येते दश दशानाम-
वस्थानां सभागहेतुः । कललं कललात्तस्य यावद् वार्धस्य । अर्बुदमर्बुदस्य यावद्-
वार्धस्य । एवं यावद्वार्धं वार्धस्यैव । एकैकापहासेन एकैकपरिहारेण एकस्मिन्
निकायभागे वक्तव्यम् । अन्येषु समानजातीयेषु निकायभागेषु यदा मनुष्य-
जन्मनो मनुष्यजन्मैवोत्पद्यते तदा दशाप्यवस्था दशानामप्यवस्थानाम् । वृद्धाव-
स्थापि यावद्दशानामवस्थान्तराणाम् । सा हि वृद्धावस्था क्षणान्तरे तज्जन्म-
वृद्धावस्थायाः सभागहेतुः । अन्त्या तु जन्मान्तरकललादीनां दशानामप्य-
वस्थानां सभागहेतुरित्यवगन्तव्यम् ।
बाह्येष्वपि यवो यवस्येति विस्तरः। यवो यवस्य सभागहेतुर्न शालेः, शालिः
शालेरेव न यवस्य—इत्यनेन तुल्येऽप्यव्याकृतत्वे स्वसन्तान एव सभागहेतुत्वम्,
नान्यसन्ताने, जननशक्त्यभावादिति दर्शयति ।

र्देशः ] द्वितीयं कोशस्थानम् २९३
ये तु रूपं रूपस्य नेच्छन्ति सभागहेतुम्, तेषामेष ग्रन्थ इच्छाविधा-
नाय सम्प्रवर्त्तते—“अतीतानि महाभूतान्यनागतानां महाभूतानां हेतुरधिपतिः”
) इति ।
किं पुनः सर्वे सदृशाः सभागहेतुः ? नेत्याह । किं तर्हि ?
स्वनिकायभुवः
स्वो निकायो भूश्चैषां त इमे स्वनिकायभुवः ।
पञ्च निकायाः—दुःखदर्शनप्रहातव्यो यावत् भावनाप्रहातव्यः ।
नव भूमयः—कामधातुरष्टौ च ध्यानारूप्याः ।
तत्र दुःखदर्शनहेया दुःखदर्शनहेयानां सभागहेतुः, नान्येषाम् । एवं यावद्
भावनाहेया भावनाहेयानाम् ।
तेऽपि कामावचराः कामावचराणां प्रथमध्यानभूमिकाः प्रथमध्यानभूमिकानां
यावद् भवाग्रभूमिकास्तद्भूमिकानामेव नान्येषाम् ।
तेऽपि न सर्वे, किं तर्हि ?
अग्रजाः ।
पूर्वोत्पन्नाः पश्चिमानामुत्पन्नानुत्पन्नानां सभागहेतुः । अनागता नैव सभाग-
हेतुः । एवमतीते :
कुत एतत् ? आह—शास्त्रात् । “सभागहेतुः कतमः ?
पूर्वोत्पन्नानि कुशलमूलानि पश्चादुत्पन्नानां कुशलमूलानां तत्सम्प्रयुक्तानां च
धर्माणां स्वधातौ सभागहेतुना हेतुः । एवमतीतानि अतीतप्रत्युत्पन्नानाम् ।
अतीतानि महाभूतान्यनागतानां महाभूतानां हेतुरधिपतिरिति । हेतुप्रत्ययः,
अधिपतिप्रत्ययश्चेत्यर्थः । अयुगपद्भावान्न सहभूहेतुः, अत एवाचित्तचैत्तत्वाच्च
न सम्प्रयुक्तकहेतुः, असर्वत्रगत्वान्न सर्वत्रगहेतुः, अव्याकृतत्वान्न विपाकहेतुः,
पारिशेष्यात् सभागहेतुरेवेत्यवगम्यते । यदि सदृशाः सदृशानां सभागहेतुः,
एवं पश्चादुत्पन्नोऽपि पूर्वोत्पन्नस्य सभागहेतुः प्राप्नोति, सहोत्पन्नोऽपि सहोत्-
पन्नस्य, अनुत्पन्नोऽप्यनुत्पन्नस्य ? इत्यत आह—तेऽपि न सर्वे । किं तर्हि ?
“अग्रजाः”। अग्रे जाता अतीताः प्रत्युत्पन्ना वा सभागहेतुः । अनागता
न सभागहेतुरित्यर्थादुक्तं भवति । एवमतीतान्यतीतप्रत्युत्पन्नानामिति । पूर्वो-

अतीतप्रत्युत्पन्नान्यनागतानामिति वक्तव्यम्” ।
इदमपि शास्त्रम्—“यो धर्मो यस्य धर्मस्य हेतुः कदाचित् स धर्मस्तस्य
धर्मस्य न हेतुः ? आह—कदाचिद्” इति ?
सहभूसम्प्रयुक्तकविपाकहेत्वभिसन्धिवचनाददोष एषः ;
यस्तु मन्यते—अनागतोऽपि स धर्म उत्पद्यमानावस्थायां सभागहेतुत्वे
नियतीभूतो भवति, अतस्तां चरमावस्थामभिसन्धायोक्तम्—“न कदाचिन्न
हेतुः” इति ?
तस्यायमपरिहारः; यस्मात् स धर्म उत्पद्यमानावस्थायाः पूर्वं सभागहेतुर-
भूत्वा पश्चाद् भवति ।
इहापि च प्रश्ने—यो धर्मो यस्य धर्मस्य समनन्तरः कदाचित् स धर्म-
स्तस्य न समनन्तर इति शक्यमनया कल्पनया वक्तुं स्यात्—न कदाचिदिति ।
त्पन्नान्यतीतानि पश्चादुत्पन्नातीतानामिति विभज्य व्याख्येयम् । अतीतप्रत्युत्प-
न्नान्यनागतानां सभागहेतुः, न त्वनागतान्यनागतानामित्युक्तम् । अतो गम्यते-
नास्त्यनागतः सभागहेतुरिति । न कदाचिदिति । न कदाचिन्न हेतुरित्यधि-
कृतम्, हेतुरेवेत्यर्थः । तस्मादस्त्यनागतः सभागहेतुरित्यभिप्रायः ।
सहभूविति । विस्तरः—सहभूसम्प्रयुक्तकविपाकहेतुष्वभिसन्धिरभिप्रायः,
तेन वचनम्, तस्मात् । सहभूसम्प्रयुक्तकविपाकहेत्वभिसन्धिवचनाददोषः, न
कदाचिन्न हेतुरिति वचने । बाहुलिको ह्येष निर्देश इष्यते ।
चरमावस्थामभिसन्धायेति । अन्त्यामनागतावस्थामभिप्रेत्येत्यर्थः । अध्व-
त्रयेऽपि हेतुर्भवतीति तस्याभिप्रायः ।
तस्यायमपरिहार इति विस्तरः । तस्य वादिनोऽयमपरिहारः । कस्मात् ?
यस्मात् स धर्म उत्पद्यमानावस्थायाः पूर्वं सभागहेतुरभूत्वा पश्चाद् भवति, न नित्यं
सभागहेतुरित्यर्थः । बह्वीनामनागतावस्थानामेका चरमावस्था सभागहेतुत्वे
नियतीभूता । तदन्या बह्व्यस्तत्रानियतीभूताः सन्ति । तत्र च सामान्येनोक्तम्-
न कदाचिन्न हेतुरिति । एवं कृत्वायमपरिहारः । एकस्यामपि ह्यवस्थायां स
न सभागहेतुरिति शक्यमेव वक्तुं स्यात् ।
यो धर्मो यस्य धर्मस्य समनन्तर इति । समनन्तरप्रत्यय इत्यर्थः । शक्यमनया
कल्पनयेति । स धर्म उत्पद्यमानावस्थायां समनन्तरप्रत्ययत्वे नियतीभूतो
भवति । अतः शक्यं तां चरमावस्थामभिसन्धायेत्यनया कल्पनया वक्तुम्—

निर्देशः ] द्वितीयं कोशस्थानम् २९५
कस्मादेवमाह ? यदि स धर्मो नोत्पन्नो भवतीति द्विमुखसन्दर्शनार्थम्—
यथा तत्र तथेहापि कर्तव्यम्, यथा चेह तथा तत्रेति ।
एवं सति को गुणो लभ्यत इत्यकौशलमेवात्र शास्त्रकारस्यैवं¹
सम्भाव्यते¹ । तस्मात् पूर्वक एवैष² परिहारः साधुः ।
यत् तर्हीदमुक्तम्—“अनागतानां सत्कार्यदृष्टि तत्सम्प्रयुक्तं च दुःखसत्यं
स्यान्न कदाचित् समनन्तर इति । कस्मादेवमाह—यदि स धर्मो नोत्पन्नो भव-
तीति । यदि स धर्मोऽनागतो भवति नासौ समनन्तरप्रत्ययो भवतीत्यर्थः ।
चरमावस्थायामाह—द्विमुखसन्दर्शनार्थमिति । विस्तरः—यथा तत्र यो धर्मो
यस्य धर्मस्य हेतुः, कदाचित् स धर्मस्तस्य धर्मस्य न हेतुः । आह—न कदा-
चिदिति । तथेहापि कर्तव्यम् । यो धर्मो यस्य धर्मस्य समनन्तरः, कदाचित् स
धर्मस्तस्य धर्मस्य न समनन्तर इति । आह—न कदाचिदिति कर्तव्यम् । यदि स
धर्मो नोत्पन्नो भवतीति । यथा चेह तथा तत्रेति । कथम् ? यो धर्मो यस्य धर्मस्य
समनन्तरः कदाचित् स धर्मः तस्य धर्मस्य न समनन्तरः । आह—यदि स
धर्मो नोत्पन्नो भवतीति, एवं तत्र कर्तव्यम् । कथम् ? यो धर्मो यस्य धर्मस्य
हेतुः कदाचित् स धर्मः तस्य धर्मस्य न हेतुः । आह—यदि स धर्मो नोत्पन्नो
भवतीति । यदि स धर्मोऽनागतो भवति नासौ हेतुप्रत्ययो भवतीत्यर्थः ।
अत्राचार्य आह—एवं सति को गुण इति विस्तरः । इति द्विमुखसन्दर्शनेन
कश्चिद् गुणो लभ्यते । नैव ह्युत्पद्यमानावस्थायां स धर्मो हेतुः समनन्तरो वा
मुख्यवृत्त्या भवतीत्यकौशलमेवात्र शास्त्रकारस्यैवं सम्भाव्यते । क्वचित् सावकाशं
ब्रुवतः, क्वचिन्निरवकाशम् । सावकाशं तावद् यदिदमुक्तम्—यो धर्मो यस्य
धर्मस्य हेतुः कदाचित् स धर्मस्तस्य धर्मस्य न हेतुः । आह—न कदाचिदिति ।
कथं न कदाचिन्न हेतुरित्येवमुक्त्वा पुनर्वर्णयति—चरमावस्थायां सभागहेतुरिति ।
निरवकाशम्—यदि स धर्मो नोत्पन्नो भवति न समनन्तरः, उत्पन्नस्तु समनन्तर
इति । अयमत्राभिप्रायार्थं ऐकान्तिकमर्थं व्यवस्थाप्य पुनरन्यथाकरोतीति
तस्मात् पूर्वक एवैष परिहारः साधुरिति । सहभूसम्प्रयुक्तकविपाकहेत्वभिसन्धि-
वचनाददोष इति ।
यत्तर्हीदमुक्तमिति । विस्तरः—कुत एतदायातम् ? अनागतो नैव सभाग-
हेतुरित्युक्तम् । तद् यद्यनागतो नैव सभागहेतुः, कस्मादनागता सत्कार्यदृष्टिः
१-१. शास्त्रकारस्यैव सम्भाव्यंत—का० ।
२. एवात्र—का० ।

स्थापयित्वा यत् तदन्यत् क्लिष्टं दुःखसत्यं तत् सत्कायदृष्टिहेतुकं न सत्कायदृष्टे-
र्हेतुः, यत्तु स्थापितं तत्सत्कायदृष्टिहेतुकं सत्कायदृष्टेश्च हेतुः” इति ?
अनागतसत्कायदृष्टिसम्प्रयुक्तं दुःखसत्यं स्थापयित्वेत्येवमेतत् कर्तव्यम्,
अर्थतो^१ वैवं^२ बोद्धव्यमिति ।
इदं तर्हि प्रज्ञप्तिभाष्यं कथं नीयते—"सर्वधर्माश्चतुष्के नियताः—हेतौ
फले आश्रये आलम्बने नियताः” इति ? हेतुरत्र सम्प्रयुक्तकहेतुः, सहभूहेतुश्च ।
स्थापिता । यदि स्थापितं तत् सत्कायदृष्टिहेतुकं सत्कायदृष्टेश्च हेतुरिति
व्याख्यातम् । तत्र कथमनागता सत्कायदृष्टिः सत्कायदृष्टेर्हेतुः । न तावत्
सहभूहेतुः सम्प्रयुक्तकहेतुर्वा सम्भवति; असहभूतत्वात् । न विपाकहेतुः, अव्या-
कृतत्वात् । न कारणहेतुः, साधारणत्वेनागण्यमानत्वात् । पारिशेष्यात् सभाग-
हेतुः सर्वत्रगहेतुर्वा भवन्ती भवेत् । इह च सभागहेतुरेव सर्वत्रगहेतुः । अतो
यद्यनागता सत्कायदृष्टिः सत्कायदृष्टेर्न सभागहेतुः, कस्मादसौ तृतीयकोट्यर्थं
स्थापितेति ?
वैभाषिक आह—अनागतसत्कायदृष्टिसम्प्रयुक्तं दुःखसत्यं स्थापयित्वेत्येव-
मेतत् कर्तव्यमिति । सत्कायदृष्टिसम्प्रयुक्तमेव स्थापयितव्यम्, न तु सत्काय-
दृष्टिः । तद्धि वेदनादिकं सहभूहेतुना सम्प्रयुक्तकहेतुना वा सत्कायदृष्टिहेतुकं
सत्कायदृष्टेश्च हेतुः, न सभागहेतुना । विनष्टको ह्ययमनागतां सत्कायदृष्टिमिति
पाठः । पश्चात्पदस्थेन तच्छब्देन सह न पठितव्यः । सम्प्रयुक्तदुःखसत्य-
विशेषणार्थं तु समस्तैतत् पदद्वयं पठितव्यम्—अनागतसत्कायदृष्टिसम्प्रयुक्तक-
मिति । अर्थतो वैवं बोद्धव्यं यथैवं न क्रियेत पाठः । भाष्याक्षेपनिर्वृत्तः पाठो न
तन्त्रमित्यभिप्रायः ।
प्रज्ञप्तिभाष्यं कथं नीयते—सर्वधर्माश्चतुष्के नियता इति । हेतौ नियता यस्य
धर्मस्य यो धर्मो हेतुः । स धर्मस्तस्य धर्मस्य न कदाचिन्न हेतुः । त्रिष्वपि
कालेषु हेतुरित्यर्थः । एवं फले नियता यस्य धर्मस्य यो धर्मः फलं पुरुषकारादि
योज्यम् । एवमाश्रये नियता यस्य धर्मस्य चक्षुर्विज्ञानादेर्यो धर्म आश्रयश्चक्षु-
रादिरिति योज्यम् । एवमालम्बने नियता यस्य धर्मस्य चक्षुर्विज्ञानादेर्यो धर्म
आलम्बनं रूपादिरिति योज्यम् । तेन धर्माणां हेतौ नियतत्वात् त्रिष्वपि
कालेषु सभागहेतुर्भवतीति चोदकाभिप्रायः । सर्वहेत्वनभिसन्धेरदोष इति
दर्शयन् वैभाषिक आह—हेतुरत्र सम्प्रयुक्तकहेतुः सहभूहेतुश्च । न सभागहेतुः
सर्वत्रगहेतुर्वा; अनागतावस्थायामव्यवस्थापितत्वात् । न विपाकहेतुः, अनानि-


१. ऽसमर्थतोऽपि—का० । २. चैवं—का० ।

निर्देशः ] द्वितीयं कोशस्थानम् २९७
फलम् — पुरुषकारफलम्, अधिपतिफलं च । आश्रयश्चक्षुरादिरालम्बनं रूपादिक-
मिति द्रष्टव्यम् ।
ननु चैवं सति सभागहेतुरभूत्वा हेतुर्भवतीति प्राप्तम् ?
इष्यत एवावस्थां प्रति न द्रव्यम् । अवस्थाफलं हि सामग्रयम्, न द्रव्य-
फलम् ।
किं पुनः स्याद्--यदि विपाकहेतुवदनागतोऽपि सभागहेतुः स्यात् ?
शास्त्रे तस्य ग्रहणं स्यात् ।
य एव हि फलदानग्रहणक्रियासमर्थस्तस्यैव ग्रहणाददोषः ? नैतदस्ति; निष्य-
न्दफलेन हि सफलः सभागहेतुः । तच्चानागतस्यायुक्तम्; पूर्वपश्चिमताभावात् !
ङ्ज्यस्य कर्मणः कस्यचिद् गत्यन्तरेऽपि विपाकादानात् । फलं पुरुषकारफल-
मधिपतिफलं च । तयोश्चन्द्रमण्डलकदंष्ट्रयोः फलत्वात् । वैभाषिकाणामेत-
न्मतम्—अनागतं विद्यमानमुत्पद्यत इति । तस्मादयं प्रसञ्जयति ।
ननु चैवं सति सभागहेतुरभूत्वा अनागतावस्थाया हेतुर्भूवात वर्तमाना-
वस्थायामिति । प्राप्तं प्रसक्तमित्यर्थः ।
इष्यत एवावस्थां प्रति न द्रव्यमिति । इष्यत एव सभागहेतोः सभागहेतु-
त्वावस्था—पूर्वं नासीदिदानीं भवतीति । न तु द्रव्यस्वलक्षणम्—पूर्वं नासीदि-
दानीं भवतीति । अवस्थाफलं हि सामग्र्यं न द्रव्यफलमिति । हेतुप्रत्ययसामग्र्या
वर्तमानावस्थाफलं न द्रव्यम् । यस्मादनागतोऽपि स धर्मा द्रव्यतोऽस्ति, न
पुनः प्रत्युत्पन्न एवेति । चोदक आह—किं पुनः स्यादिति विस्तरः । वैभाषिक
आह—शास्त्रे तस्य ग्रहणं स्यादिति । तस्यानागतस्य सभागहेतोः । न चास्ति
ग्रहणम् । न हि तत्र शास्त्रमुक्तम्—अनागतानि कुशलमूलान्यनागतानां कुशल-
मूलानां सभागहेतुरिति । चोदक आह—य एव हीति विस्तरः । चोदकस्याय-
मभिप्रायः–यद्यप्यनागतोऽस्ति सभागहेतुर्न त्वसौ फलदानग्रहणक्रियायां समर्थः ।
य एव हि फलदानग्रहणक्रियासमर्थः फलाक्षेपक्रियासमर्थश्च तस्यैव सभागहेतो-
रतीतस्य वर्तमानस्य च ग्रहणात् अदोषः, अनागतस्य सभागहेतोरग्रहणम्;
तस्य फलदानग्रहणक्रियायामसामर्थ्यात् । तस्मादस्त्यनागतः सभागहेतुः ।
अथ च शास्त्रे नोक्त इति ? वैभाषिक आह—नैतदस्तीति विस्तरः । नैतद्
युज्यते । निष्यन्दफलेन हि सफलः सभागहेतुः । "सभागसर्वत्रगयोर्निष्यन्दः",
( अभि० को० २.५६ ) "निष्यन्दो हेतुसदृशः" ( अभि० को० २५७ )
इति वचनात् । तच्चानागतस्यायुक्तम् । तन्निष्यन्दफलमयुक्तम् । कस्मात् ?

ति ।
Wait, in L4: "पूर्वपश्चिमताऽभावात् ?" -> look at L4 in the image:
"पूर्वपश्चिमाताऽभावात् ?" No, "पूर्वपश्चिमाताऽभावात्" or "पूर्वपश्चिमाऽभावात्"?
In L4: "पूर्वपश्चिमाताऽभावात्" - wait, let's zoom in!
"पू र्व प श्चि म ता ऽ भा वा त् ?"
Letters:
पू (pū)
र्व (rva)
प (pa)
श्चि (ści)
म (ma)
ता (tā)
ऽ (avagraha)
भा (bhā)
वा (vā)
त् (t)
?
Wait, between म and ऽ:
It has ता! "पूर्वपश्चिमताऽभावात् ?"
Wait, look at line 4:
"पूर्वपश्चिमाताऽभावात् ?" No, it's "म" then "ता": "पूर्वपश्चिमताऽभावात् ?".

Let's check L7:
"न त्वेवं¹ विपाकहेतुः²; विना² पौर्वापर्येणान्योन्यहेतुफलता सम्प्रसज्यते;"
Wait, in L7, after विपाकहेतुः² is it semicolon or comma?
It is a semicolon ';'.
Wait, after विना²:
"विना² पौर्वापर्येणान्योन

निर्देश: ] द्वितीयं कोशस्थानम् २९९
तस्मादवस्थाव्यवस्थित एव सभागहेतुः, लक्षणव्यवस्थितस्तु विपाकहेतुरित्य-
नागतोऽपि न वार्यते ।
यदुक्तम्—'स्वभूमिकः सभागहेतुर्भवति' इति, किमेष नियमः सर्वस्य
सास्रवस्यैष नियमः ?
अन्योन्यं नवभूमिस्तु मार्गः
'सभागहेतुः' इत्यधिकारः । अनागम्ये ध्यानान्तरिकायां चतुर्षु ध्यानेषु त्रिषु
चारूप्येषु मार्गसत्यमन्योन्यं सभागहेतुः ।
किं कारणम् ? आगन्तुको ह्यसौ तासु भूमिषु न तद्धातुपतितः; तद्भूमिकामि-
स्तृष्णाभिरस्वीकृतत्वात् । अतः समानजातीयस्यान्यभूमिकस्यापि सभागहेतुर्भवति ।
तस्मादिति विस्तरः । अवस्थाव्यवस्थित एव सभागहेतुः । अवस्थायां
व्यवस्थितः, अतीतावस्थः प्रत्युत्पन्नावस्थश्च सभागहेतुः, नागतावस्थः । लक्षण-
व्यवस्थितस्तु विपाकहेतुः । लक्षणेन व्यवस्थितस्त्रिष्वपि कालेषु यथोक्तलक्षण
इत्यनागतोऽपि विपाकहेतुर्न वार्यते न प्रतिषिध्यते । इदमिह विचार्यते—
किमनागतेऽध्वनि सदृशा धर्मा विप्रकीर्णा इति न शक्यते परिच्छेत्तुम्—'अयं
हेतुरिदमस्य निष्यन्दफलम्' इति, अतो नानागतः सभागहेतुर्व्यवस्थाप्यते ?
आहोस्विद् यो धर्मो यस्य धर्मस्य सभागहेतुर्भवैत् स धर्मस्तस्य हेतुप्रत्यय-
वशान्निष्यन्दफलं भवेदित्यतोऽनागतः सभागहेतुर्न व्यवस्थाप्यते ? नेतद्
व्याख्यानकारैर्विचारितम्, मम तु पूर्वंक एवायं पक्षः प्रतिभातोति ।
किमेष नियम इति । किं स्वभूमिक एवेत्यवधार्यते । नान्यथाप्यस्ती-
त्यभिप्रायः ।
“अन्योन्यं नवभूमिस्तु मार्गः” इति । तुशब्दो विशेषणे । मार्ग इति
मार्गसत्यं विवक्षितम् । सास्रवान्मार्गसत्यं विशिष्यते । सास्रवो हि धर्मः
स्वभूमिक एव सभागहेतुः, नान्यभूमिकः । मार्गस्तु नवभूमिभ्यः सभागहेतुः ।
इह भूमिग्रहणे सास्रवानास्रवग्रहणम्, धातुग्रहणे तु सास्रवस्यैव, इत्यत आह—
यत् सास्रवाणां मार्गस्य च तुल्ये भूमिभेदे मार्ग एव नवभूमिकोऽन्योन्यं सभाग-
हेतुर्न सास्रव इति । कुतः ? इत्याह—आगन्तुको ह्यसौ तासु भूमिषु न तद्धातुपतितः,
तद्भूमिकामिस्तृष्णाभिरस्वीकृतत्वादिति । न हि कामरूपारूप्यचर्यस्तृष्णाः सास्र-
वानिवानास्रवान् धर्मान् स्वीकुर्वन्ति । यदा तर्हि निर्वाणं मार्गं वाभिलषति
कुशलोऽसौ धर्मच्छन्दः, न रागः, तस्य वर्ज्यत्वादिति वचनात् । समानजातीय-
स्येति । अनास्रवजातीयस्य ।

३०० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
स पुनः—
समविशिष्टयोः ॥ ५२ ॥
न न्यूनस्य हेतुर्भवति । तद्यथा---दुःखे धर्मज्ञानक्षान्तिस्तस्या एवानागतायाः
सभागहेतुर्विशिष्टस्य च यावदनुत्पादज्ञानस्य । अनुत्पादज्ञानमनुत्पादज्ञानस्यैव;
अन्यविशिष्टाभावात् ।
दर्शनभावनाऽशैक्ष्यमार्गास्त्रिद्व्येकेषाम् । तत्रापि मृद्विन्द्रियमार्गो मृदुतीक्ष्णे-
न्द्रियमार्गस्य हेतुः। तीक्ष्णेन्द्रियमार्गस्तीक्ष्णेन्द्रियमार्गस्यैव । तद्यथा-श्रद्धानुसारि-
श्रद्धाधिमुक्तसमयविमुक्तमार्गाः षण्णां चतुर्णां द्वयोश्च । धर्मानुसारिदृष्टिप्राप्तासमय-
विमुक्तमार्गाः त्रयाणां द्वयोरेकस्य ।
एवं तर्हि सर्वः सर्वस्य सभागहेतुः प्राप्नोति ? अत आह—"सम-
विशिष्टयोः" इति । अन्योन्यग्रहणं तर्हि किमर्थम् ? ऊर्ध्वभूमिकाधरभूमिकयो-
रन्योन्यमित्येवमर्थम् । ऊर्ध्वभूमिकोऽप्यधरभूमिकयोः समविशिष्टयोः सभाग-
हेतुर्भवति, अधरभूमिकोऽप्यूर्ध्वभूमिकयोरिति । तद्यथेति । विस्तरः—दुःखे धर्म-
ज्ञानक्षान्तिस्तस्या एवानागतायाः समेति कृत्वा सभागहेतुः, विशिष्टस्य च
दुःखे धर्मज्ञानस्य दुःखेऽन्वयज्ञानक्षान्तेर्यावदनुत्पादज्ञानस्य, न तु न्यूनस्यः न हि
दुःखे धर्मज्ञानमनागताया दुःखे धर्मज्ञानक्षान्तेः सभागहेतुर्भवति ।
दर्शनभावनाशैक्षमार्गास्त्रिद्व्येकेषामिति । दर्शनमार्गो दर्शनमार्गान्तरस्य
भावनामार्गस्याशैक्षमार्गस्य च सभागहेतुरिति त्रयाणाम् । भावनामार्गो
भावनामार्गान्तरस्याशैक्षमार्गस्य च सभागहेतुः, न दर्शनमार्गस्येति द्वयोः ।
अशैक्षमार्गोऽशैक्षमार्गान्तरस्य न दर्शनमार्गभावनामार्गयोरित्येकस्य सभाग-
हेतुः । तत्रापीति । तत्र दर्शनमार्गादिषु मृद्विन्द्रियमार्गो दर्शनमार्गस्वभावो
मृदुतीक्ष्णेन्द्रियमार्गस्य तत्स्वभावस्यैव । तीक्ष्णेन्द्रियमार्गस्तीक्ष्णेन्द्रियमार्गस्यैव,
न मृद्विन्द्रियमार्गस्य, न्यूनत्वात् । एवं भावनामार्गोऽशैक्षमार्गश्च वक्तव्यः ।
तद्दर्शयन्नाह—तद्यथेति । विस्तरः—एकस्यापि मृद्विन्द्रियस्य पुद्गलस्य षण्मार्गाः
सन्ति । प्रकृतितीक्ष्णेन्द्रियस्य त्रयः । तत्र श्रद्धानुसारिमार्गः श्रद्धानुसारिमार्गा-
न्तरस्यात्मीयस्य सभागहेतुः। धर्मानुसारिमार्गस्य चात्मीयस्यानागतावस्थस्य
श्रद्धाधिमुक्तदृष्टिप्राप्तसमयविमुक्तासमयविमुक्तमार्गाणां चात्मीयानां यथायोग-
मुत्पत्त्यनुत्पत्तिधर्माणाम् चेति षण्णां सभागहेतुः । श्रद्धाधिमुक्तमार्गः श्रद्धाधिमुक्त-
मार्गान्तरस्य दृष्टिप्राप्तसमयविमुक्तानसमयविमुक्तमार्गाणां चापरेषामपि त्रयाणा-
मिति चतुर्णां सभागहेतुः । समयविमुक्तमार्गः समयविमुक्तमार्गान्तरस्यासमय-

निर्देशः ] द्वितीयं कोशस्थानम् ३०१
कथं पुनरूर्ध्वभूमिकस्याधोभूमिको मार्गः समो वा भवति ? विशिष्टो
वा ? इन्द्रियतः, हेतूपचयतश्च ।
विमुक्तमार्गस्य चेति द्वयोः सभागहेतुः । न तु श्रद्धाधिमुक्तमार्गः श्रद्धानुसारि-
धर्मानुसारिमार्गयोर्हेतुः; पूर्वकालीनत्वाद् दर्शनमार्गस्य, भावनामार्गस्य च
विशिष्टत्वात् । एवमन्यत्रापि योज्यम् । धर्मानुसारिमार्गो धर्मानुसारिमार्गान्तरस्य
दृष्टिप्राप्तसमयविमुक्तमार्गयोश्चेति त्रयाणां सभागहेतुः । दृष्टिप्राप्तमार्गो दृष्टि-
प्राप्तमार्गान्तरस्यासमयविमुक्तमार्गस्य चेति द्वयोः । असमयविमुक्तमार्गस्यासमय-
विमुक्तमार्गान्तरस्यैवैकस्य सभागहेतुः । न तु धर्मानुसारिमार्गः श्रद्धानुसारि-
मार्गस्य सभागहेतुः; धर्मानुसारिमार्गेन्द्रियतो विशिष्टत्वात् । नापि श्रद्धाधि-
मुक्तमार्गेन्द्रियतो विशिष्टत्वात्, नापि समयविमुक्तमार्गेन्द्रियतो विशिष्ट-
त्वात् । समयविमुक्तमार्गस्तर्हीन्द्रियतो विशिष्टस्य दृष्टिप्राप्तमार्गस्य सभागहेतुः
प्राप्नोति ? न प्राप्नोति, अशैक्षमार्गसंगृहीतत्वात् । नहि पूर्वकालीनं फलं
पश्चात्कालीनो हेतुरिति । दृष्टिप्राप्तमार्गः पुनः समयविमुक्तमार्गस्य न सभाग-
हेतुः; इन्द्रियतो न्यूनत्वात् ।
कथं पुनरिति । विस्तरः—कथं पुनरूर्ध्वभूमिकस्य द्वितीयध्यानात् प्रभृति
यावदाकिञ्चन्यायतनभूमिकस्य दर्शनमार्गस्य भावनामार्गस्य वा अशैक्ष-
मार्गस्य वा यथायोगमधोभूमिको मार्गो विज्ञानानन्त्यायतनात् प्रभृति
यावदनागम्यभूमिको यथायोगं दर्शनमार्गो भावनामार्गो वा अशैक्षमार्गो वा
समो वा विशिष्टो वा भवति । कथञ्च न भवितव्यम् ? हीनत्वादधराया भूमेः ।
इन्द्रियतो हेतूपचयतश्च । इन्द्रियतस्तावत् समो भवति विशिष्टो वा, दर्शनमार्गे
श्रद्धानुसारिमार्गश्चतुर्थध्यानभूमिकोऽधरभूमिकस्य तस्यैव श्रद्धानुसारिमार्गस्य
समः; उभयोर्मृद्विन्द्रियत्वात् । तस्यैवाधरभूमिको धर्मानुसारिमार्गो विशिष्टः,
तीक्ष्णेन्द्रियत्वात् ।
नुसारिमार्गस्य समः । एवमेतावेव श्रद्धानुसारिधर्मानुसारिमार्गौ चतुर्थध्यान-
भूमिकावधरभूमिकयोर्भावनाशैक्षमार्गयोः प्रत्येकं भूमीन्द्रियभेदभिन्नयोः समौ
वा विशिष्टौ वेति संभवतो योज्यौ । तथा भावनामार्गे आकिञ्चन्यायतन-
भूमिकस्य श्रद्धाधिमुक्तमार्गस्याधरभूमिकः श्रद्धाधिमुक्तमार्गः समः; उभयो-
र्मृद्विन्द्रियत्वात् । तस्यैवाधरभूमिको दृष्टिप्राप्तमार्गो विशिष्टः, तीक्ष्णेन्द्रियत्वात् ।
तथा तस्यैव समयविमुक्तमार्गोऽधरभूमिकः समः, उभयोर्मृद्विन्द्रियत्वात् । तस्यैवा-
समयविमुक्तमार्गोऽधरभूमिको विशिष्टः, तीक्ष्णेन्द्रियत्वात् । एवमशैक्षमार्गे आकि-
ञ्चन्याय(तन)भूमिकस्याशैक्षमार्गस्याधरभूमिकः समो विशिष्टो वेति यथायोगं
योज्यम् । अनया दिशा सर्वभूमयो योज्याः ।

३०२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
तत्र दर्शनादिमार्गाणां मृदुमृद्वादीनां चोत्तरोत्तरे¹ हेतूपचिततराः ।¹
यद्यप्येकसन्ताने श्रद्धधर्मानुसारिमार्गयोरसम्भवः; उत्पन्नस्त्वनागतस्य
हेतुः ॥ ५२ ॥
कथं हेतूपचयतः ? ऊर्ध्वभूमिकस्याधरभूमिको मार्गः समो विशिष्टो वा
भवतीत्यत इदमुच्यते । तत्र दर्शनादिमार्गाणामिति । विस्तरः—आदिग्रहणेन
भावनाशैक्षमार्गोपसंग्रहः । ऊर्ध्वभूमिकाया दुःखे धर्मज्ञानक्षान्तेरधोभूमिकं दुःखे
धर्मज्ञानं हेतूपचयतो विशिष्टं भवति । दुःखे धर्मज्ञानादप्यूर्ध्वभूमिकादधर-
भूमिका दुःखेऽन्वयज्ञानक्षान्तिर्यावदूर्ध्वभूमिकान्मार्गे धर्मज्ञानदधरभूमिका मार्गे-
ऽन्वयज्ञानक्षान्तिर्हेतूपचयतो विशिष्टा भवति; एकैकाधिकसभागहेतूपचि-
तत्वात् । दर्शनमार्गादूर्ध्वभूमिकादधोभूमिको भावनामार्गो हेतूपचयतो विशिष्टो
भवति । दर्शनमार्गो हि दर्शनमार्गहेतूपचितः । भावनामार्गस्तु दर्शनभावना-
मार्गहेतूपचितः । ऊर्ध्वभूमिकाभ्यां दर्शनभावनामार्गाभ्यामधरभूमिकोऽशैक्षमार्गो
हेतूपचयतो विशिष्टो भवति; दर्शनभावनामार्गहेतूपचितत्वात् । ऊर्ध्वभूमि-
कस्य दर्शनमार्गस्याधोभूमिको. दर्शनमार्गो हेतूपचयतः समानक्षणापेक्षया
समो भवति । एवं भावनामार्गस्य भावनामार्गः, अशैक्षमार्गस्याशैक्षमार्ग इति ।
तदेवं कश्चिदिन्द्रियतः समो भवति, हेतूपचयतो विशिष्टः सत्यप्यधरभूमि-
कत्वे, तद्यथा—प्रथमध्यानभूमिकाच्छ्रद्धानुसारिमार्गादधरभूमिकौ श्रद्धाधिमुक्त-
समयविमुक्तमार्गौ । कश्चिद्धेतूपचयतः समो भवतीन्द्रियतो विशिष्टः, तद्यथा—
चतुर्थध्यानभूमिकाच्छ्रद्धानुसार्यादिमार्गादधोभूमिकधर्मानुसार्यादिमार्गः समान-
क्षणापेक्षया । कश्चिदिन्द्रियतो हेतूपचयतश्च विशिष्टः, तद्यथा—चतुर्थध्यानभूमि-
काच्छ्रद्धानुसारिमार्गादधरभूमिकौ दृष्टिप्राप्तसमयविमुक्तमार्गौ । मृदुमृद्वादीनां
चोत्तरोत्तरे हेतूपचिततरा इति । दर्शनमार्गवर्ज्याः । तस्मिन् मृदुमृद्याद्यसम्भवात् ।
तत्र मृदुमृदोः प्रकारादूर्ध्वभूमिकादधरभूमिकोऽपि मृदुमध्यो यावदधिमात्र-
मध्यादधिमात्राधिमात्रः समानासमानक्षणापेक्षया हेतूपचयतः समो विशिष्टो
वा भवति; एकैकाधिकप्रकारहेतूपचितत्वात् ।
यदुक्तम्—'श्रद्धानुसारिमार्गः षण्णां सभागहेतुः' इति, कथं श्रद्धानुसारिमार्गो
धर्मानुसारिमार्गस्य सभागहेतुर्भवति, न हि तयोरेकसन्ताने सम्मुखीभावो-
ऽस्ति ? तेनाह—यद्यप्येकसन्ताने श्रद्धधर्मानुसारिमार्गयोरसम्भवः, उत्पन्नस्त्वना-
गतस्य हेतुरिति । असम्भवो ह्यत्रासम्मुखीभावः । न त्वभावः, सन्ति हि मृद्वि-
न्द्रियाणां मृद्विन्द्रियमार्गवदात्मीयास्तीक्ष्णेन्द्रियमार्गा अपि । दृष्टिप्राप्तसमयविमु-


१-१. चोत्तरोत्तरहेतू०—का० ।

निर्देशः ] द्वितीयं कोशस्थानम् ३०३
किं पुनः मार्ग एव समविशिष्टयोः सभागहेतुर्भवति ? नेत्याह । लौकिका
अपि हि—
प्रयोगजास्तयोरेव
समविशिष्टयोः सभागहेतुर्भवन्ति, न न्यूनस्य । यथा कतमे ? इत्याह—
श्रुतचिन्तामयादिकाः ।
एते हि प्रायोगिकाः श्रुतचिन्ताभावनामया गुणाः समविशिष्टयोरेव हेतुः, न
न्यूनानाम् । तद्यथा—कामावचराः श्रुतमयाः श्रुतचिन्तामयानाम्, चिन्तामया-
श्चिन्तामयानाम्; भावनामयाभावात् । रूपावचराः श्रुतमयाः, श्रुतभावनामयानां
चिन्तामयाभावात् । भावनामया भावनामयानामेव । आरूप्यावचरा भावनामया
भावनामयानामेव । तेषामपि नवप्रकारभेदात् मृदुमृदवः सर्वेषां मृदुमध्या
अष्टानाम्—इत्येषा नीतिः ।
क्तमार्गास्तु तत्सन्ताने सम्मुखीभवेयुरपि, यदीन्द्रियसञ्चारः क्रियेत । तस्मादुत्पन्नः
श्रद्धानुसारिमार्गोऽनुत्पत्तिधर्मिणो धर्मानुसारिमार्गस्य श्रद्धाविमुक्तदृष्टि प्राप्तसमय-
विमुक्तअसमयविमुक्तमार्गाणां च यथायोगमनागतानामुत्पत्तिधर्माणामनुत्पत्ति-
धर्माणं वा समविशिष्टानां सभागहेतुरिति ।
आचार्य्यभदन्तस्त्वाह—‘‘उत्पन्नः धर्मानु-
सारिमार्गस्य दृष्टि प्राप्तमार्गस्य वा हेतुः, यदा श्रद्धानुसार्यादय इन्द्रियाणि सञ्चा-
रयन्तो धर्मानुसारिमार्गादीन् सम्मुखीकुर्वन्ति’’ तदयुक्तम्; न हि श्रद्धानुसारीन्द्रि
याणि सञ्चरन्ति, श्रद्धाविमुक्तादयस्तु सञ्चरेयुः ॥ ५२ ॥
प्रायोगिका इति । प्रयोगेण निर्वृत्ताः प्रायोगिकाः, प्रायोगिकग्रहणमुपपत्ति-
प्रतिलम्भिकनिरासार्थम् ।
कामावचराः श्रुतमया इति । ये बुद्धवचनश्रुतेन निष्पन्नाः, ते श्रुतमयाः ।
चिन्तामयाश्च चिन्तामयानामिति, चिन्तामयानामेव न श्रुतमयानाम्, “तयो-
रेव समविशिष्टयोः” इति वचनात् । भावनामयाभावादिति । कामधातोरसमाहि-
तत्वाद् भावनामया न सन्ति । चिन्तामयाभावादिति । यदा हि चिन्तयितुमार-
भन्ते, तदैषां समाधिरेवोत्निष्ठत इति चिन्तामयाभावकारणम् ।
तेषामपीति । श्रुतमयादीनाम् । मृदुमृदवः सर्वेषामिति । मृदुमृदवो मृदुमृद्व-
न्तराणां समानां मृदुमध्यादीनां चान्येषामष्टानां विशिष्टानामिति सर्वेषां
सभागहेतुः । मृदुमध्या अष्टानाम् । मृदुमृदुप्रकारमपास्य तस्य न्यूनत्वात् । एषा

३०४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
उपपत्तिप्रतिलम्भिकास्तु कुशला धर्माः सर्वे नवप्रकाराः परस्परं¹ सभाग-
हेतुः¹। क्लिष्टा अप्येवम्। अनिवृताव्याकृतास्तु चतुर्विधाः—विपाकजा ऐर्या-
पथिकाः शैल्पस्थानिकाः निर्माणचित्तसहजाश्च।
ते यथाक्रमं चतुस्त्रिद्व्येकेषां सभागहेतुः। निर्माणचित्तमपि कामावचरं²
चतुर्ध्यानफलम्³। तत्र नोत्तरध्यानफलमधरध्यानफलस्य।
नीतिरिति। तद्यथा—मृद्वधिमात्राः समानां मध्यमृदवः षष्णां यावदधिमात्राधि-
मात्रा अधिमात्राधिमात्रान्तराणामेकरूपाणां सभागहेतुरिति; पूर्वांच् पूर्वान-
पास्य तेषां तेषां न्यूनत्वात्।
उपपत्तिप्रतिलम्भिकास्तु कुशला इति। उपपत्त्या प्रतिलम्भ उपपत्तिप्रतिलम्भः,
स एषामस्तीत्युपपत्तिप्रतिलम्भिकाः, "अत इनिठनौ" (पा० सू० ५.२.११५)
इति ठन्। सर्वे ते नव प्रकारा परस्परं सभागहेतुः, मृदुमृदूनां यावदधिमात्राधिमा-
त्राणामेव, अधिमात्राधिमात्रा मृदुमृदूनां यावदधिमात्राधिमात्राणां सभागहेतुः,
न समविशिष्टानामेव; अनाभिसंस्कारिकत्वात्। आभिसंस्कारिकस्य हि सभाग-
हेतोर्न्यूनं फलं नेष्यते, नानाभिसंस्कारिकस्य। क्लिष्टा अप्येवमिति। सर्वे नव
प्रकाराः परस्परं सभागहेतुः; अप्रायत्नकत्वात्। पूर्वोत्पन्नाः सर्वे समानभूमि-
कानां पश्चाद्वर्त्तिनां सर्वेषां सभागहेतुः। नात्र समविशिष्टते अपेक्ष्येते।
ते यथाक्रमं चतुस्त्रिद्व्येकेषां सभागहेतुरिति। विपाकजा विपाकजादीनां चतुर्णां
सभागहेतुः। ऐर्यापथिका ऐर्यापथिकादीनामेव त्रयाणाम्, न विपाकजानाम्;
तेषामनाभिसंस्कारिकत्वेन न्यूनत्वात्। शैल्पस्थानिका द्वयोः शैल्पस्थानिक-
नैर्माणिकयोः, नैर्माणिका नैर्माणिकानामेव, न पूर्वेषाम्; उत्तरेषामुत्तरेषामाभि-
संस्कारिकत्वात्। निर्माणचित्तमपि कामावचरं चतुर्ध्यानफलमिति। चतुर्णां
ध्यानानां फलं प्रथमद्वितीयतृतीयचतुर्थध्यानफलमिति चतुष्प्रकारं कामावचरं
निर्माणचित्तम्। तद्यथाक्रमं चतुस्त्रिद्व्येकेषां च सभागहेतुरिति वर्त्तते। प्रथम-
ध्यानफलं चतुर्णां प्रथमद्वितीयतृतीयचतुर्थध्यानफलानां सभागहेतुः। द्वितीय-
ध्यानफलं त्रयाणां द्वितीयतृतीयचतुर्थध्यानफलानाम्, तृतीयध्यानफलं द्वयो-
स्तृतीयचतुर्थध्यानफलयोः, चतुर्थध्यानफलमेकस्य चतुर्थध्यानफलान्तरस्यैव
सभागहेतुः।
का पुनरत्र युक्तिर्ययैवं नियम इति ? तां युक्तिं निर्दिदिक्षुराह—नोत्तरध्यान-
फलमधरध्यानफलस्येति। विस्तरः—न चतुर्थध्यानफलं कामावचरं निर्माणचित्तं
१-१. परस्परसभाग०—का०। २-२. कामावचरचतु०—का०।

न ह्यभिसंस्कारिकस्य सभागहेतोर्हीयमानं फलं भवति । तद्यथा—
शालिर्यवादीनाम्, मा भून्निष्फलः प्रयत्न इति ।
अत एवाहुः¹—स्यादुत्पन्नोऽनास्रवोऽनुत्पन्नस्यास्रवस्य न हेतुः स्यात्,
तद्यथा—दुःखे धर्मज्ञानमुत्पन्नमनुत्पत्तिधर्माणां² दुःखे धर्मज्ञानक्षान्तीनाम् ।
सर्वं च विशिष्टं न्यूनस्य न हेतुः ।
स्यादेकसन्ताननियतः पूर्वप्रतिलब्धोऽनास्रवो धर्मः पश्चादुत्पन्नस्य न हेतुः ।
स्यादनागताः दुःखे धर्मज्ञानक्षान्तयो दुःखे धर्मज्ञानस्य, यस्मान्न पूर्वतरं
फलमस्ति, अनागतो वा सभागहेतुः ।
प्रथमध्यानफलस्य कामावचरस्य निर्माणचित्तस्य यावत् तृतीयध्यानफलस्य
कामावचरस्य निर्माणचित्तस्य सभागहेतुः । कस्माद् ? इत्याह—न ह्यभिसंस्का-
रिकस्य महायत्नसाध्यस्य सभागहेतोर्हाीयमानममहायत्नसाध्यं फलं भवति ।
यादृशेन हि यत्नविशेषेण प्रथमं ध्यानं यावत् तृतीयं ध्यानं निष्पाद्यते,
न तादृशेनेव चतुर्थं ध्यानं निष्पाद्यते । किं तर्हि ? उत्कृष्टतरेण यत्नविशेषेण
निष्पाद्यते । तस्मात् फलमप्योत्कृष्टतरेणैव यत्नविशेषेण निष्पाद्यत इत्यव-
गम्यते । तेन अधरध्यानफलमुत्तरध्यानफलस्य सभागहेतुः, न तूत्तरध्यानफलम-
धरध्यानफलस्य । यथा च चतुर्थध्यानफलं योजितम्, एवं तृतीयद्वितीयध्यान-
फलमपि योज्यम् ।
अत एवाहुरिति । यस्मादभिसंस्कारिकस्य सभागहेतोर्हीयमानं फलं न
भवति, तस्मादाहुरित्यर्थः । किमाहुरिति ? आहुः—स्यादुत्पन्न इति । विस्तरः—
दुःखे ॰ दुःखे धर्मज्ञानक्षान्तीनां
च हेतुः; दुःखे धर्मज्ञानक्षान्तिभ्यो दुःखे धर्मज्ञानस्याभिसंस्कारिकत्वेन विशिष्ट-
त्वात् । एवं हि तद् विशिष्टम् यत् क्लेशविसंयोगप्राप्त्या सहोत्पद्यते ।
विशिष्टं च न्यूनम्य न हेतुः । तद्यथार्हत्त्वात् परिहीणस्याशैक्षो मार्गः
पूर्वोत्पन्नः सकृदागाम्यनागामिमार्गयोः पश्चादुत्पद्यमानयोर्न सभागहेतुः ।
स्यादेकसन्ताननियत पूर्वप्रतिलब्ध इति । विस्तरः—अनागता दुःखे धर्म-
ज्ञानक्षान्तयः प्रथम एव क्षणे प्रतिलब्धा एकसन्तानगताः । दुःखे धर्मज्ञानं
द्वितीयक्षणोत्पन्नम्, तस्य ता न हेतुः । यस्मान्न पूर्वतरं फलम् । पूर्वतरं हि दुःखे
धर्मज्ञानं दुःखे धर्मज्ञानक्षान्तिभ्यः, तस्योत्पन्नत्वात्, तासाञ्चानुत्पन्नत्वात् ।
अनागतो वा धर्मो यस्मान्न सभागहेतुः । अनागता दुःखे धर्मज्ञानक्षान्तयोऽप-
रिमिताः प्रतिलब्धा एव, न तूत्पन्नाः ।
१. आहुः—का० । २. ०मनुत्पन्नानां—का० ।
अभि० को० २०

३०६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
स्यात् पूर्वोत्पन्नोऽनास्रवो धर्मः पश्चादुत्पन्नस्यानास्रवस्य न हेतुः ।
स्यादधिमात्रो न्यूनस्य । तद्यथा—उत्तरफलपरिहीणस्याधरफलसम्मुखीभावे^१
दुःखे धर्मज्ञानप्राप्तिश्च; उत्तरोत्तरक्षणसहोत्पन्नानां दुःखे धर्मज्ञानक्षान्तिप्राप्तीनां
न्यूनत्वादिति ।
उक्तः सभागहेतुः ॥
सम्प्रयुक्तकहेतुस्तु चित्तचैत्ताः
एवं सति भिन्नकालसन्तानजानामप्यन्योन्यसम्प्रयुक्तकहेतुत्वप्रसङ्गः ।
स्यात् पूर्वोत्पन्न इति । विस्तरः—पूर्वं प्रतिलब्धमात्रो धर्मः पृष्टो न तूत्पन्नः,
अनुत्पन्नश्च न सभागहेतुर्भवतीति; इदानीं पूर्वोत्पन्नोऽपि किमस्ति न सभाग-
हेतुरित्यतिशयरूपेण पृच्छ्यते । अधिमात्रो न्यूनस्येति । विशिष्टो न्यूनस्येत्यर्थः ।
तद्यथा—उत्तरफलपरिहीणस्य अर्हत्त्वफलपरिहीणस्यानागामिफलपरिहीणस्य
वा अधरफलसम्मुखीभावेऽनागामिफलसम्मुखीभावे सकृदागामिफलसम्मुखीभावे
वा योऽर्हत्त्वमार्गोऽधिमात्रः पूर्वोत्पन्नः स पश्चादुत्पन्नस्यानागामिफलस्य सकृदा-
गामिफलस्य वा न सभागहेतुः; न्यूनत्वात् । एवमनागामिफलपरिहीणस्य
योऽनागामिफलमार्गः स पूर्वोत्पन्नः पश्चादुत्पन्नस्य सकृदागामिफलस्य न सभाग-
हेतुः, न्यूनत्वात् । दुःखे धर्मज्ञानप्राप्तिश्चेति । विस्तरः—दुःखे धर्मज्ञानप्राप्तिर्या
पूर्वोत्पन्ना, सा उत्तरक्षणसहोत्पन्नानामुत्तरैः क्षणैर्दुःखेऽन्वयज्ञानक्षान्त्यादिक्षणैर्वा
मार्गैरन्वयज्ञानक्षान्तेः सहोत्पन्नानां दुःखे धर्मज्ञानक्षान्तिप्राप्तीनां न सभागहेतुः ।
किं कारणम् ? तासां न्यूनत्वात्, तस्याश्च विशिष्टत्वात् । कथं पुनस्तासां
न्यूनत्वम्, तस्याश्च विशिष्टत्वम् ? दुःखे धर्मज्ञानक्षान्तेर्दुःखे धर्मज्ञानं विशिष्टं
तद्व्यवच्छेदप्राप्तिविमुक्तत्वात्, हेतूपचिततरत्वाच्च । तस्माद्धेतूपचिततराभ्योऽपि
दुःखे धर्मज्ञानक्षान्तिप्राप्तिभ्यो दुःखे धर्मज्ञानप्राप्तिर्विशिष्टा, ताश्च न्यूनाः;
तत्प्राप्तित्वात् ।
किञ्च—प्रथमक्षणोत्पन्नाया दुःखे धर्मज्ञानक्षान्तिप्राप्तेर्दुःखे धर्मज्ञानप्राप्तिः,
तस्मादेव हेतुद्वयाद् विशिष्टा । न्यूना च सा दुःखे धर्मज्ञानक्षान्तिप्राप्तिः । अत-
स्तत्पूर्विका अप्यन्या उत्तरक्षणसहोत्पन्ना दुःखे धर्मज्ञानक्षान्तिप्राप्तयो हेतूपचित-
तरत्वेऽपि न्यूना एवेति । तस्मान्न सा तासां सभागहेतुरिति ।
“सम्प्रयुक्तकहेतुस्तु चित्तचैत्ताः” इति । तु-शब्दोऽवधारणे, भिन्नक्रमश्च ।
चित्तचैत्ता एव सम्प्रयुक्तकहेतुरिति । एवं सतीति विस्तरः । यदि 'चित्तचैत्ता
१. ०स्यावर०—का० ।

निर्देशः ] द्वितीयं कोशस्थानम् ३०७
एकाकारालम्बनास्तर्हि ? एवमपि स एव प्रसङ्गः ।
एककालास्तर्हि ? एवं तर्हि सति भिन्नसन्तानानामपि प्रसङ्गो नवचन्द्रा-
दीनि हि¹ पश्यताम् ।
तस्मात् तर्हि—
समाश्रयाः ॥ ५३ ॥
समान आश्रयो येषां ते चित्तचैत्ता अन्योन्यं सम्प्रयुक्तकहेतुः ।
समान इत्यभिन्नः । तद्यथा—य एव चक्षुरिन्द्रियक्षणश्चक्षुर्विज्ञानस्याश्रयः,
स एव तत्सम्प्रयुक्तानां वेदनादीनामेव, यावन्मनः । इन्द्रियक्षणो मनोविज्ञान-
तत्सम्प्रयुक्तानां वेदितव्यः । यः सम्प्रयुक्तकहेतुः सहभूहेतुरपि सः ।
अथ केनार्थेन सहभूहेतुः ? केन सम्प्रयुक्तकहेतुः ? अन्योन्यफलार्थेन
सहभूहेतुः, सहसार्थिकान्योन्यबलमार्गप्रयाणवत् । पञ्चभिः समताभिः सम्प्रयोगार्थेन
एव सम्प्रयुक्तकहेतुः' इत्येतावदुच्यते भिन्नकालजा अपि भिन्नकालजैः सह भिन्न-
सन्तानजा अपि च भिन्नसन्तानजैः सह सम्प्रयुक्तकहेतुः सम्प्रयुज्यते । न हि ते
कालसन्तानभिन्ना न चित्तचैत्ता भवन्ति । एकाकारालम्बनास्तर्हीति । यदि
चित्तचैत्ता एकाकारा एकनीलाद्याकारा एकालम्बनाश्च एकनीलाद्यालम्बनाः
एवं ते सम्प्रयुक्तहेतुः, नान्यथेति । एवं भिन्नकालजत्वं भिन्नसन्तानजत्वं च
व्यावर्तितं भवतीत्यभिप्रायः । एवमपि स एव प्रसङ्गः । भिन्नकालसन्तान-
जानामन्योन्यं सम्प्रयुक्तकहेतुत्वप्रसङ्ग इत्यर्थः । सम्भवति हि भिन्नकालसन्तान-
जानामपि चित्तचैत्तानामेकाकारालम्बनत्वम् । भिन्नसन्तानजानामपि प्रसङ्ग
इति । भिन्नकालजत्वमेकं परिहृतम् । नवचन्द्रादीनि हि पश्यतां बहूनामेका-
कारालम्बनाश्चित्तचैत्ता वर्तन्ते ।
“समाश्रयाः” इति । समः अभिन्न आश्रय एषामिति समाश्रयाः । तुल्यार्थे
समशब्दग्रहणे हि जातितुल्यत्वात् स एव प्रसङ्गः स्यात् ।
अन्योन्यफलार्थेनेति विस्तरः । यथा सहसार्थिकानां परस्परबलेन मार्गप्रयाणम्,
एवं चित्तं चैत्तस्य फलम्, चैत्तोऽपि चित्तस्येत्यन्योन्यफलमिति तेनार्थेन सह-
भूहेतुः । पञ्चभिरिति विस्तरः । पञ्चभिः समताभिः, आश्रयालम्बनाकारकाल-
द्रव्यसमताभिरित्यर्थः । सम्प्रयोगार्थेन सम्प्रवृत्त्यर्थेन सम्प्रयुक्तकहेतुः । यथा—
१. का० पुस्तके नास्ति ।

३०८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
सम्प्रयुक्तकहेतुः । तेषामेव सार्थिकानां स्नानशयनादिपरिभोगक्रियाप्रयोगवत्¹ ।
एकेनापि हि विना न सर्वे² सम्प्रयुज्यन्त इत्ययमेषां हेतुभावः ॥ ५३ ॥
उक्तः सम्प्रयुक्तकहेतुः ॥
सर्वत्रगहेतुः कतमः ?
सर्वत्रगाख्यः क्लिष्टानां स्वभूमौ पूर्वसर्वगाः ।
स्वभूमिकाः पूर्वोत्पन्नाः सर्वत्रगा धर्माः पश्चिमानां क्लिष्टानां धर्माणां
सर्वत्रगहेतुः । तान् पुनः पश्चादनुशयनिर्देशकोशस्थान एव व्याख्यास्यामः ।
क्लिष्टधर्मसामान्यकारणत्वेनायं सभागहेतोः पृथग् व्यवस्थाप्यते; निकाया-
न्तरीयाणामपि हेतुत्वात् । एषां हि प्रभावेणान्यनैकायिका अपि क्लेशा उपजायन्ते ।
तेषामेव सार्थिकानामन्योबलेन मार्गं गच्छतां समोदनपानस्नानशयनादिपरि-
भोगक्रियाया प्रयोगः । तद्वत् सम्प्रयोगत्वमेषामन्योन्यं भवति । अत एवाह—
एकेनापि हि विना न सर्वे सम्प्रयुज्यन्त इति ॥ ५३ ॥
“पूर्वसर्वगाः” इति । पूर्वे च ते सर्वगाश्च पूर्वसर्वगाः, पूर्वोत्पन्नाः सर्वगा
इत्यर्थः । स्वभूमिकाः पूर्वोत्पन्ना अतीता प्रत्युत्पन्ना वा सर्वत्रगा क्लिष्टानां क्लेश-
स्वभावसम्प्रयुक्तसमुत्थानां पश्चिमानां पश्चादतीतप्रत्युत्पन्नानामनागतानां च
सर्वत्रगहेतुः । व्याख्यास्याम इति ।
“सर्वत्रगा दुःखहेतुदृग्धेया दृष्टयस्तथा ।
विमतिः सह ताभिश्च याविद्यावेणिकी च या” ॥ ( अभि० को० ५.१२ )
इत्यत्र पञ्चमे कोशस्थाने निर्देक्ष्यामः ।
क्लिष्टधर्मसामान्यकारणत्वेनेति विस्तरः । यस्मादयं सर्वत्रगहेतुः क्लिष्टानामेव
सामान्येन पञ्चनिकायानामपि भवति, सभागहेतुस्तु क्लिष्टानां चाक्लिष्टानां
च, तस्मात् पृथग्व्यवस्थाप्यते । कथं क्लिष्टधर्मसामान्यकारणत्वमस्येति प्रतिपादय-
न्नाह—निकायान्तरीयाणामपि हेतुत्वादिति । एषां हि प्रभावेनेति । एषां हि सर्वत्र-
गाणां प्रभावेण अन्यनैकायिका अन्यनिकायभवाः क्लेशा रागादय उपजायन्ते ।
के पुनस्ते ? दुःखदर्शनप्रहातव्यस्य सर्वत्रगहेतोः समुदयनिरोधमार्गदर्शनभावना-
प्रहातव्या निकायान्तरीया भवन्ति । समुदयदर्शनप्रहातव्यस्य सर्वत्रगहेतो-
र्दुःखनिरोधमार्गदर्शनभावनाप्रहातव्या निकायान्तरीया भवन्ति । सर्वान् क्लेश-
निकायान् गच्छन्ति भजन्ते आलम्बन्ते, सर्वेषां वा क्लेशनिकायानां हेतुभावं
१. गमनाशनपानादि०—का० । २-२. सर्वेण—का० ।

निर्देशः ] द्वितीयं कोशस्थानम् ३०९
किमार्यपुद्गलस्यापि क्लिष्टा धर्माः सर्वत्रगहेतुकाः ? सर्व एव क्लिष्टा धर्मा
दर्शनप्रहातव्यहेतुका इति काश्मीराः । तथा प्रकरणेऽप्युक्तम्
“दर्शनप्रहातव्यहेतुका धर्माः कतमे ? क्लिष्टा धर्माः, यश्च दर्शनप्रहातव्यानां
धर्माणां विपाक इति । अव्याकृतहेतुका धर्माः कतमे ? अव्याकृता संस्कृता धर्मा
अकुशलाश्चेति । दुःखसत्यं स्यात् सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुरिति
विस्तरो यावन्न सत्कायदृष्टेः । तेषां च धर्माणां जातिं जरां स्थितिमनित्यतां च
स्थापयित्वा यत्तदन्यत् क्लिष्टं दुःखसत्यम्” ( ) इति ।
इदं तर्हि प्रज्ञप्तिभाष्यं कथं नीयते “स्याद्धर्मोऽकुशलहेतुक एव ।
गच्छन्तीति सर्वत्रगाः । अत एवोक्तम्—“सत्कायदृष्टिमूलकाः सर्वक्लेशाः
सत्कायदृष्टिप्रभवाः सत्कायदृष्टिसमुदयाः” इति; आत्मग्राहद्वारेण रागमानप्रति-
घादिसमुदाचारात् ।
किमार्यपुद्गलस्यापीति । सर्वत्रगा आयपुद्गलस्य सर्व एव प्रहीणाः, दर्शनप्रहात-
व्यत्वात् । रागादयश्च शैक्षाणां समुदाचरन्ति । ते रागादयस्तेषां न सर्वत्रग-
हेतुका इति मन्यमान एवं पृच्छति । क्लिष्टा धर्मा इति । अविशेषितत्वात् पृथ-
ग्जनार्यसन्तानजा इति गम्यते । यश्च दर्शनप्रहातव्यानां धर्माणां विपाक इति ।
अर्थपरिसमाप्त्यर्थमेतदुक्तम्, नैतदुदाहरणम् । अव्याकृताः संस्कृता धर्मा इति ।
निवृताव्याकृता अनिवृताव्याकृताश्च गृह्यन्ते । निवृताव्याकृताः कामधातौ
सत्कायान्तग्राहदृष्टितत्सम्प्रयुक्तममूर्च्छा धर्मा रूपारूप्यावचराश्च क्लिष्टा धर्माः ।
संस्कृतग्रहणमाकाशाप्रतिसंख्यानिरोधनिरासार्थम् । “परमव्याकृते ध्रुवे”
(अभि० को० ४.११) इति तयोरव्याकृतत्वात् । तत्र कामवाचराः क्लिष्टा
धर्मा यथायोगं सभागसर्वत्रगसहभूसम्प्रयुक्तकहेतुभूतैस्तैरेव सत्कायदृष्ट्यादिभि-
रव्याकृतहेतुकाः, नान्यै रागादिभिः । ऊर्ध्वभूमिकस्त्वन्यैरपीति सुगममेतत् ।
अनिवृताव्याकृताः सभागहेतुनानिवृताव्याकृतहेतुकाः । अकुशलाः कामा-
वचरा रागादयः । ते च सर्वत्रगहेतुना सत्कायदृष्ट्यादिहेतुकाः । इदमत्रोदा-
हरणम् । अकुशलाश्चेति ह्यविशेषितत्वाद् दर्शनप्रहातव्या भावनाप्रहातव्याश्च
गृह्यन्ते । इदमत्र द्वितीयज्ञापकम् । यत् तदन्यत् क्लिष्टं दुःखसत्यमिति तृतीयं
ज्ञापकम् । तदन्यद्धि क्लिष्टं दुःखसत्यं दर्शनप्रहातव्यं भावनाप्रहातव्यं चाविशेषि-
तत्वात् गृह्यते । सर्वत्रगहेतुना हि भावनाप्रहातव्यं पृथग्जनानामिवार्याणामपि
सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुरिति व्याख्यातमेतत् ।
इदं तर्हि प्रज्ञप्तिभाष्यमिति । यद्यकुशला अव्याकृतहेतुका अपि भवन्ति न

३१० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
स्यादार्यपुद्गलः कामवैराग्यात् परिहीयमाणो यः १ ' तत्प्रथमतः क्लिष्टां चेतनां
सम्मुखीकरोति" इति ? अप्रहीणहेतुमेतत् सन्धायोक्तम् । दर्शनप्रहातव्यो हि
तस्या हेतुः प्रहीणत्वान्नोक्तः ।
उक्तः सर्वत्रगहेतुः ॥
विपाकहेतुः कतमः ?
विपाकहेतुरशुभाः कुशलाश्चैव सास्रवाः ॥ ५४ ॥
अकुशलाः कुशलसास्रवाश्च धर्मा विपाकहेतुः; विपाकधर्मत्वात् ।
कस्मादव्याकृता धर्माः विपाकं न निर्वर्तयन्ति ? दुर्बलत्वात्, पूति-
बीजवत् ।
केवलमकुशलहेतुकाः, प्रज्ञप्तिभाष्यं कथं नीयते । स्यात् आर्यपुद्गलः कामवैराग्यात्
परिहीयमाणो यस्तत्प्रथमतः क्लिष्टां चेतनां सम्मुखीकरोतीति । कामवैराग्यपरिहाणि-
काले हि सा आर्यपुद्गलस्य चेतना सहभूहेतुना च सम्प्रयुक्तकहेतुना अकुशलहेतु-
केव,नाव्याकृतहेतुका; सत्कायान्तग्राहदृष्ट्योः प्रहीणत्वात्-इति प्रज्ञप्तिभाष्यार्थो
लक्ष्यत इति, अनेनाभिप्रायेण चोदयति । वैभाषिक आह—अप्रहीणं हेतुमेतत्
सन्धायोक्तमिति । अप्रहीणं सहभूहेतुं सम्प्रयुक्तकहेतुञ्च सन्धाय अभिप्रेत्य एतत्
प्रज्ञप्तिभाष्यमुक्तम् । दर्शनप्रहातव्यो हि सत्कायदृष्ट्यादिकः तस्याश्चेतनाया
हेतुः । प्रहीणत्वात् दर्शनमार्गेण नोक्तः प्रज्ञप्तिभाष्य इति ।
अकुशलाः कुशलसास्रवाश्चेति । अकुशला अवश्यं सास्रवा एवेति न विशे-
ष्यन्ते । कुशलास्तु द्विप्रकाराः—सास्रवाः, अनास्रवाश्चेति । अतो विशेष्यन्ते ।
ये सास्रवाः कुशलाः, ते विपाकहेतुः, नानास्रवा इति । विपाकधर्मत्वादिति ।
विपक्तिप्रकृतित्वादित्यर्थः ।
दुर्बलत्वात् पूतिबीजवदिति विस्तरः । यथा पूतीनि बीजान्यांभष्यन्दितान्यपि
दुर्बलत्वान्नाङ्कुरोत्पत्तिहेतुर्भवन्ति, एवमव्याकृता धर्मास्तृष्णाभिष्यन्दिता अपि
न विपाकोत्पत्तिहेतुर्भवन्ति; दुर्बलत्वात् । अनास्रवा बलवन्तोऽपि तृष्णानभिष्य-
न्दित्वाद् विपाकं न निर्वर्तयन्ति । यथाद्भिरनभिष्यन्दित्वाच्छुष्काणि बल-
वन्त्यपि सारबीजानि नाङ्कुरं निर्वर्तयन्ति, तद्वत् । पूर्वेषां स्वशक्तिवैकल्यम्,
अपरेषां सहकारिकारणान्तरवैकल्यम् ।
१. यां—का० ।

निर्देशः ] द्वितीयं कोशस्थानम् ३११
कस्मादनाश्रवाः ? तृष्णानभिष्यन्दितत्वात्, अनभिष्यन्दितसारबीजवत् ।
अप्रतिसंयुक्ता हि किम्प्रतिसंयुक्तं विपाकमभिनिर्वर्तयेयुः !
शेषास्तूभयविधत्वान्निर्वर्तयन्ति विपाकम्¹, साराभिष्यन्दितबीजवत् ।
कथमिदं विज्ञातव्यम्—विपाकस्य हेतुर्विपाकहेतुः ? आहोस्वित् विपाक
एव हेतुर्विपाकहेतुः ? किं चातः ? यदि विपाकस्य हेतुर्विपाकहेतुः, 'विपाकजं
चक्षुः' इति एतन्न प्राप्नोति । अथ विपाक एव हेतुर्विपाकहेतुः, “कर्मणो
विपाकः” इत्येतन्न प्राप्नोति ।
नैष दोषः, “उभयथापि योगः” इत्युक्तं प्राक् ।
किंप्रतिसंयुक्तमिति । कस्मिन् प्रतिसंयुक्तं किंप्रतिसंयुक्तम् । विपाकमप्रति-
संयुक्ताः कामादिष्वप्रतिसंयुक्ता अनास्रवा अभिनिर्वर्तयेयुः । प्रतिसंयुक्तेन विपाकेन
भवितव्यम्, नाप्रतिसंयुक्तेन; कामधात्वादिप्रतिसंयुक्तधर्मस्वभावत्वात् ।
शेषास्त्विति विस्तरः । अकुशला कुशलसास्रवाश्च शेषा उभयविधत्वात्
उभयप्रकारत्वात् । बलवदभिष्यन्दितप्रकारत्वादित्यर्थः । निर्वर्तयन्ति विपाकं
यथा साराण्यभिष्यन्दितानि बीजा‌न्यङ्कुरम्, तद्वत् ।
विपाकस्य हेतुरिति विस्तरः । यदि विपाक इति भावसाधनो घञ्—
विपक्तिर्विपाक इति । तत्र षष्ठीसमासः—विपाकस्य हेतुरिति । अथ विपच्यते
स्वयमिति कर्मसाधनो घञ् । तत्र कर्मधारयः—विपाक एव हेतुर्विपाकहेतुरिति ।
किं चातः ? कश्चातो दोषः । यदि विपाकस्य हेतुरिति भावसाधनपरिग्रहः,
विपाकजं चक्षुरित्येतन्न प्राप्नोति । न हि चक्षुर्विपक्तेर्जातम् । किं तर्हि ? विपक्ति-
हेतोः कर्मण इत्यर्थः । न हि विपाको हेतुः । अथ विपाक एव हेतुरिति कर्मसाधन-
परिग्रहः, सिद्ध्यते तद् विपाकजं चक्षुरिति । कर्मैव हि विपाकः, विपच्यते इति
कृत्वा । किन्तु कर्मणो विपाक इत्येतन्न प्राप्नोति, विपाको हि कर्मैवोच्यते न
विपक्तिः । कर्मणो विपाक इति चात्र भावसाधनार्थ इष्टे न कर्मसाधनार्थ
इति । तस्मात् कर्मणो विपाक इत्येतन्न प्राप्नोति ।
उभयथापि योग इत्युक्तं प्रागिति । 'विपाकजौपचयिकाः पञ्चाध्यात्मम्”
(अभि० को० १.३६) इत्यत्रोक्तम् । विपाकहेतोर्जाता विपाकजाः, मध्यपदलो-
पाद् गोरथवदिति भावसाधनपरिग्रहः । फलकालप्राप्तं वा कर्म विपाक इत्युच्यते,
विपच्यत इति कृत्वा, तस्माज्जाता विपाकजा इति कर्मसाधनपरिग्रहः । फलं तु
विपक्तिरेवेति विपाकः । फलविवक्षायां भावसाधन एव परिगृह्यत इत्यर्थः ।
१. का० पुस्तके नास्ति ।