अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 325, कुल 1258 में से
संदर्भ में पढ़ें३०४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
उपपत्तिप्रतिलम्भिकास्तु कुशला धर्माः सर्वे नवप्रकाराः परस्परं¹ सभाग-
हेतुः¹। क्लिष्टा अप्येवम्। अनिवृताव्याकृतास्तु चतुर्विधाः—विपाकजा ऐर्या-
पथिकाः शैल्पस्थानिकाः निर्माणचित्तसहजाश्च।
ते यथाक्रमं चतुस्त्रिद्व्येकेषां सभागहेतुः। निर्माणचित्तमपि कामावचरं²
चतुर्ध्यानफलम्³। तत्र नोत्तरध्यानफलमधरध्यानफलस्य।
नीतिरिति। तद्यथा—मृद्वधिमात्राः समानां मध्यमृदवः षष्णां यावदधिमात्राधि-
मात्रा अधिमात्राधिमात्रान्तराणामेकरूपाणां सभागहेतुरिति; पूर्वांच् पूर्वान-
पास्य तेषां तेषां न्यूनत्वात्।
उपपत्तिप्रतिलम्भिकास्तु कुशला इति। उपपत्त्या प्रतिलम्भ उपपत्तिप्रतिलम्भः,
स एषामस्तीत्युपपत्तिप्रतिलम्भिकाः, "अत इनिठनौ" (पा० सू० ५.२.११५)
इति ठन्। सर्वे ते नव प्रकारा परस्परं सभागहेतुः, मृदुमृदूनां यावदधिमात्राधिमा-
त्राणामेव, अधिमात्राधिमात्रा मृदुमृदूनां यावदधिमात्राधिमात्राणां सभागहेतुः,
न समविशिष्टानामेव; अनाभिसंस्कारिकत्वात्। आभिसंस्कारिकस्य हि सभाग-
हेतोर्न्यूनं फलं नेष्यते, नानाभिसंस्कारिकस्य। क्लिष्टा अप्येवमिति। सर्वे नव
प्रकाराः परस्परं सभागहेतुः; अप्रायत्नकत्वात्। पूर्वोत्पन्नाः सर्वे समानभूमि-
कानां पश्चाद्वर्त्तिनां सर्वेषां सभागहेतुः। नात्र समविशिष्टते अपेक्ष्येते।
ते यथाक्रमं चतुस्त्रिद्व्येकेषां सभागहेतुरिति। विपाकजा विपाकजादीनां चतुर्णां
सभागहेतुः। ऐर्यापथिका ऐर्यापथिकादीनामेव त्रयाणाम्, न विपाकजानाम्;
तेषामनाभिसंस्कारिकत्वेन न्यूनत्वात्। शैल्पस्थानिका द्वयोः शैल्पस्थानिक-
नैर्माणिकयोः, नैर्माणिका नैर्माणिकानामेव, न पूर्वेषाम्; उत्तरेषामुत्तरेषामाभि-
संस्कारिकत्वात्। निर्माणचित्तमपि कामावचरं चतुर्ध्यानफलमिति। चतुर्णां
ध्यानानां फलं प्रथमद्वितीयतृतीयचतुर्थध्यानफलमिति चतुष्प्रकारं कामावचरं
निर्माणचित्तम्। तद्यथाक्रमं चतुस्त्रिद्व्येकेषां च सभागहेतुरिति वर्त्तते। प्रथम-
ध्यानफलं चतुर्णां प्रथमद्वितीयतृतीयचतुर्थध्यानफलानां सभागहेतुः। द्वितीय-
ध्यानफलं त्रयाणां द्वितीयतृतीयचतुर्थध्यानफलानाम्, तृतीयध्यानफलं द्वयो-
स्तृतीयचतुर्थध्यानफलयोः, चतुर्थध्यानफलमेकस्य चतुर्थध्यानफलान्तरस्यैव
सभागहेतुः।
का पुनरत्र युक्तिर्ययैवं नियम इति ? तां युक्तिं निर्दिदिक्षुराह—नोत्तरध्यान-
फलमधरध्यानफलस्येति। विस्तरः—न चतुर्थध्यानफलं कामावचरं निर्माणचित्तं
१-१. परस्परसभाग०—का०। २-२. कामावचरचतु०—का०।