सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 327, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 327

३०६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
स्यात् पूर्वोत्पन्नोऽनास्रवो धर्मः पश्चादुत्पन्नस्यानास्रवस्य न हेतुः ।
स्यादधिमात्रो न्यूनस्य । तद्यथा—उत्तरफलपरिहीणस्याधरफलसम्मुखीभावे^१
दुःखे धर्मज्ञानप्राप्तिश्च; उत्तरोत्तरक्षणसहोत्पन्नानां दुःखे धर्मज्ञानक्षान्तिप्राप्तीनां
न्यूनत्वादिति ।
उक्तः सभागहेतुः ॥
सम्प्रयुक्तकहेतुस्तु चित्तचैत्ताः
एवं सति भिन्नकालसन्तानजानामप्यन्योन्यसम्प्रयुक्तकहेतुत्वप्रसङ्गः ।
स्यात् पूर्वोत्पन्न इति । विस्तरः—पूर्वं प्रतिलब्धमात्रो धर्मः पृष्टो न तूत्पन्नः,
अनुत्पन्नश्च न सभागहेतुर्भवतीति; इदानीं पूर्वोत्पन्नोऽपि किमस्ति न सभाग-
हेतुरित्यतिशयरूपेण पृच्छ्यते । अधिमात्रो न्यूनस्येति । विशिष्टो न्यूनस्येत्यर्थः ।
तद्यथा—उत्तरफलपरिहीणस्य अर्हत्त्वफलपरिहीणस्यानागामिफलपरिहीणस्य
वा अधरफलसम्मुखीभावेऽनागामिफलसम्मुखीभावे सकृदागामिफलसम्मुखीभावे
वा योऽर्हत्त्वमार्गोऽधिमात्रः पूर्वोत्पन्नः स पश्चादुत्पन्नस्यानागामिफलस्य सकृदा-
गामिफलस्य वा न सभागहेतुः; न्यूनत्वात् । एवमनागामिफलपरिहीणस्य
योऽनागामिफलमार्गः स पूर्वोत्पन्नः पश्चादुत्पन्नस्य सकृदागामिफलस्य न सभाग-
हेतुः, न्यूनत्वात् । दुःखे धर्मज्ञानप्राप्तिश्चेति । विस्तरः—दुःखे धर्मज्ञानप्राप्तिर्या
पूर्वोत्पन्ना, सा उत्तरक्षणसहोत्पन्नानामुत्तरैः क्षणैर्दुःखेऽन्वयज्ञानक्षान्त्यादिक्षणैर्वा
मार्गैरन्वयज्ञानक्षान्तेः सहोत्पन्नानां दुःखे धर्मज्ञानक्षान्तिप्राप्तीनां न सभागहेतुः ।
किं कारणम् ? तासां न्यूनत्वात्, तस्याश्च विशिष्टत्वात् । कथं पुनस्तासां
न्यूनत्वम्, तस्याश्च विशिष्टत्वम् ? दुःखे धर्मज्ञानक्षान्तेर्दुःखे धर्मज्ञानं विशिष्टं
तद्व्यवच्छेदप्राप्तिविमुक्तत्वात्, हेतूपचिततरत्वाच्च । तस्माद्धेतूपचिततराभ्योऽपि
दुःखे धर्मज्ञानक्षान्तिप्राप्तिभ्यो दुःखे धर्मज्ञानप्राप्तिर्विशिष्टा, ताश्च न्यूनाः;
तत्प्राप्तित्वात् ।
किञ्च—प्रथमक्षणोत्पन्नाया दुःखे धर्मज्ञानक्षान्तिप्राप्तेर्दुःखे धर्मज्ञानप्राप्तिः,
तस्मादेव हेतुद्वयाद् विशिष्टा । न्यूना च सा दुःखे धर्मज्ञानक्षान्तिप्राप्तिः । अत-
स्तत्पूर्विका अप्यन्या उत्तरक्षणसहोत्पन्ना दुःखे धर्मज्ञानक्षान्तिप्राप्तयो हेतूपचित-
तरत्वेऽपि न्यूना एवेति । तस्मान्न सा तासां सभागहेतुरिति ।
“सम्प्रयुक्तकहेतुस्तु चित्तचैत्ताः” इति । तु-शब्दोऽवधारणे, भिन्नक्रमश्च ।
चित्तचैत्ता एव सम्प्रयुक्तकहेतुरिति । एवं सतीति विस्तरः । यदि 'चित्तचैत्ता
१. ०स्यावर०—का० ।