अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 332, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] द्वितीयं कोशस्थानम् ३११
कस्मादनाश्रवाः ? तृष्णानभिष्यन्दितत्वात्, अनभिष्यन्दितसारबीजवत् ।
अप्रतिसंयुक्ता हि किम्प्रतिसंयुक्तं विपाकमभिनिर्वर्तयेयुः !
शेषास्तूभयविधत्वान्निर्वर्तयन्ति विपाकम्¹, साराभिष्यन्दितबीजवत् ।
कथमिदं विज्ञातव्यम्—विपाकस्य हेतुर्विपाकहेतुः ? आहोस्वित् विपाक
एव हेतुर्विपाकहेतुः ? किं चातः ? यदि विपाकस्य हेतुर्विपाकहेतुः, 'विपाकजं
चक्षुः' इति एतन्न प्राप्नोति । अथ विपाक एव हेतुर्विपाकहेतुः, “कर्मणो
विपाकः” इत्येतन्न प्राप्नोति ।
नैष दोषः, “उभयथापि योगः” इत्युक्तं प्राक् ।
किंप्रतिसंयुक्तमिति । कस्मिन् प्रतिसंयुक्तं किंप्रतिसंयुक्तम् । विपाकमप्रति-
संयुक्ताः कामादिष्वप्रतिसंयुक्ता अनास्रवा अभिनिर्वर्तयेयुः । प्रतिसंयुक्तेन विपाकेन
भवितव्यम्, नाप्रतिसंयुक्तेन; कामधात्वादिप्रतिसंयुक्तधर्मस्वभावत्वात् ।
शेषास्त्विति विस्तरः । अकुशला कुशलसास्रवाश्च शेषा उभयविधत्वात्
उभयप्रकारत्वात् । बलवदभिष्यन्दितप्रकारत्वादित्यर्थः । निर्वर्तयन्ति विपाकं
यथा साराण्यभिष्यन्दितानि बीजान्यङ्कुरम्, तद्वत् ।
विपाकस्य हेतुरिति विस्तरः । यदि विपाक इति भावसाधनो घञ्—
विपक्तिर्विपाक इति । तत्र षष्ठीसमासः—विपाकस्य हेतुरिति । अथ विपच्यते
स्वयमिति कर्मसाधनो घञ् । तत्र कर्मधारयः—विपाक एव हेतुर्विपाकहेतुरिति ।
किं चातः ? कश्चातो दोषः । यदि विपाकस्य हेतुरिति भावसाधनपरिग्रहः,
विपाकजं चक्षुरित्येतन्न प्राप्नोति । न हि चक्षुर्विपक्तेर्जातम् । किं तर्हि ? विपक्ति-
हेतोः कर्मण इत्यर्थः । न हि विपाको हेतुः । अथ विपाक एव हेतुरिति कर्मसाधन-
परिग्रहः, सिद्ध्यते तद् विपाकजं चक्षुरिति । कर्मैव हि विपाकः, विपच्यते इति
कृत्वा । किन्तु कर्मणो विपाक इत्येतन्न प्राप्नोति, विपाको हि कर्मैवोच्यते न
विपक्तिः । कर्मणो विपाक इति चात्र भावसाधनार्थ इष्टे न कर्मसाधनार्थ
इति । तस्मात् कर्मणो विपाक इत्येतन्न प्राप्नोति ।
उभयथापि योग इत्युक्तं प्रागिति । 'विपाकजौपचयिकाः पञ्चाध्यात्मम्”
(अभि० को० १.३६) इत्यत्रोक्तम् । विपाकहेतोर्जाता विपाकजाः, मध्यपदलो-
पाद् गोरथवदिति भावसाधनपरिग्रहः । फलकालप्राप्तं वा कर्म विपाक इत्युच्यते,
विपच्यत इति कृत्वा, तस्माज्जाता विपाकजा इति कर्मसाधनपरिग्रहः । फलं तु
विपक्तिरेवेति विपाकः । फलविवक्षायां भावसाधन एव परिगृह्यत इत्यर्थः ।
१. का० पुस्तके नास्ति ।