सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 316, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 316

निर्देशः ] द्वितीयं कोशस्थानम् २९५
कस्मादेवमाह ? यदि स धर्मो नोत्पन्नो भवतीति द्विमुखसन्दर्शनार्थम्—
यथा तत्र तथेहापि कर्तव्यम्, यथा चेह तथा तत्रेति ।
एवं सति को गुणो लभ्यत इत्यकौशलमेवात्र शास्त्रकारस्यैवं¹
सम्भाव्यते¹ । तस्मात् पूर्वक एवैष² परिहारः साधुः ।
यत् तर्हीदमुक्तम्—“अनागतानां सत्कार्यदृष्टि तत्सम्प्रयुक्तं च दुःखसत्यं
स्यान्न कदाचित् समनन्तर इति । कस्मादेवमाह—यदि स धर्मो नोत्पन्नो भव-
तीति । यदि स धर्मोऽनागतो भवति नासौ समनन्तरप्रत्ययो भवतीत्यर्थः ।
चरमावस्थायामाह—द्विमुखसन्दर्शनार्थमिति । विस्तरः—यथा तत्र यो धर्मो
यस्य धर्मस्य हेतुः, कदाचित् स धर्मस्तस्य धर्मस्य न हेतुः । आह—न कदा-
चिदिति । तथेहापि कर्तव्यम् । यो धर्मो यस्य धर्मस्य समनन्तरः, कदाचित् स
धर्मस्तस्य धर्मस्य न समनन्तर इति । आह—न कदाचिदिति कर्तव्यम् । यदि स
धर्मो नोत्पन्नो भवतीति । यथा चेह तथा तत्रेति । कथम् ? यो धर्मो यस्य धर्मस्य
समनन्तरः कदाचित् स धर्मः तस्य धर्मस्य न समनन्तरः । आह—यदि स
धर्मो नोत्पन्नो भवतीति, एवं तत्र कर्तव्यम् । कथम् ? यो धर्मो यस्य धर्मस्य
हेतुः कदाचित् स धर्मः तस्य धर्मस्य न हेतुः । आह—यदि स धर्मो नोत्पन्नो
भवतीति । यदि स धर्मोऽनागतो भवति नासौ हेतुप्रत्ययो भवतीत्यर्थः ।
अत्राचार्य आह—एवं सति को गुण इति विस्तरः । इति द्विमुखसन्दर्शनेन
कश्चिद् गुणो लभ्यते । नैव ह्युत्पद्यमानावस्थायां स धर्मो हेतुः समनन्तरो वा
मुख्यवृत्त्या भवतीत्यकौशलमेवात्र शास्त्रकारस्यैवं सम्भाव्यते । क्वचित् सावकाशं
ब्रुवतः, क्वचिन्निरवकाशम् । सावकाशं तावद् यदिदमुक्तम्—यो धर्मो यस्य
धर्मस्य हेतुः कदाचित् स धर्मस्तस्य धर्मस्य न हेतुः । आह—न कदाचिदिति ।
कथं न कदाचिन्न हेतुरित्येवमुक्त्वा पुनर्वर्णयति—चरमावस्थायां सभागहेतुरिति ।
निरवकाशम्—यदि स धर्मो नोत्पन्नो भवति न समनन्तरः, उत्पन्नस्तु समनन्तर
इति । अयमत्राभिप्रायार्थं ऐकान्तिकमर्थं व्यवस्थाप्य पुनरन्यथाकरोतीति
तस्मात् पूर्वक एवैष परिहारः साधुरिति । सहभूसम्प्रयुक्तकविपाकहेत्वभिसन्धि-
वचनाददोष इति ।
यत्तर्हीदमुक्तमिति । विस्तरः—कुत एतदायातम् ? अनागतो नैव सभाग-
हेतुरित्युक्तम् । तद् यद्यनागतो नैव सभागहेतुः, कस्मादनागता सत्कार्यदृष्टिः
१-१. शास्त्रकारस्यैव सम्भाव्यंत—का० ।
२. एवात्र—का० ।