सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 313, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 313

२९२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
सदृशा धर्माः सदृशानां धर्माणां सभागहेतुः, तद्यथा—कुशलाः पञ्च
स्कन्धाः कुशलानामन्योन्यं क्लिष्टाः क्लिष्टानाम्, अव्याकृताः अव्याकृतानाम्,
रूपमव्याकृतं पञ्चानाम्।
चत्वारस्तु न रूपस्येत्यपरे, न्यूनत्वात्।
कललं कललादीनां दशानामवस्थानाम्, अर्बुदादयोऽर्बुदादीनामेकैकापहा-
सेनैकस्मिन् निकायभागे ।
अन्येषु तु समानजातीयेषु दशाप्यवस्था दशानाम्।
बाह्येष्वपि यवो यवस्य, शालिः शालेरिति विस्तरेण योज्यम्।
क्लिष्टाः क्लिष्टानामिति । क्लिष्टाः, अकुशलाः, निवृत्ताव्याकृताश्च ।
क्लिष्टत्वसामान्येन सभागहेतुत्वमेषाम्। तेनाकुशला अकुशलानां सभागहेतुः,
निवृत्ताव्याकृता निवृत्ताव्याकृतानाम् । अकुशला निवृत्ताव्याकृतानाम् ।
निवृत्ताव्याकृताश्चाकुशलानां सभागहेतुरिति दर्शितं भवति । अव्याकृता अव्या-
कृतानामिति । अनिवृत्ताव्याकृता अनिवृत्ताव्याकृतानामित्यर्थः ।
रूपमव्याकृतमव्याकृतो रूपस्कन्धः, पञ्चानां स्कन्धानां सभागहेतुः। चत्वारस्तु
स्कन्धा वेदनादयो न रूपस्य सभागहेतुर्विशिष्टत्वात् । न हि विशिष्टो न्यूनस्य
सभागहेतुर्गृह्यते; “समविशिष्टेभ्यः” इति वचनात्। कुशलाकुशलं तु रूप-
माभिसंस्कारिकत्वात् समं विशिष्टं चेति चत्वारस्तस्य सभागहेतुर्भवन्ति ।
कललं कललादीनामिति । पञ्च गर्भावस्थाः—कललार्बुदपेशीघनप्रशाखा-
वस्थाः, पञ्च जातावस्थाः—बालकुमारयुवमध्यवृद्धावस्थाः । इत्येते दश दशानाम-
वस्थानां सभागहेतुः । कललं कललात्तस्य यावद् वार्धस्य । अर्बुदमर्बुदस्य यावद्-
वार्धस्य । एवं यावद्वार्धं वार्धस्यैव । एकैकापहासेन एकैकपरिहारेण एकस्मिन्
निकायभागे वक्तव्यम् । अन्येषु समानजातीयेषु निकायभागेषु यदा मनुष्य-
जन्मनो मनुष्यजन्मैवोत्पद्यते तदा दशाप्यवस्था दशानामप्यवस्थानाम् । वृद्धाव-
स्थापि यावद्दशानामवस्थान्तराणाम् । सा हि वृद्धावस्था क्षणान्तरे तज्जन्म-
वृद्धावस्थायाः सभागहेतुः । अन्त्या तु जन्मान्तरकललादीनां दशानामप्य-
वस्थानां सभागहेतुरित्यवगन्तव्यम् ।
बाह्येष्वपि यवो यवस्येति विस्तरः। यवो यवस्य सभागहेतुर्न शालेः, शालिः
शालेरेव न यवस्य—इत्यनेन तुल्येऽप्यव्याकृतत्वे स्वसन्तान एव सभागहेतुत्वम्,
नान्यसन्ताने, जननशक्त्यभावादिति दर्शयति ।