सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 317, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 317

स्थापयित्वा यत् तदन्यत् क्लिष्टं दुःखसत्यं तत् सत्कायदृष्टिहेतुकं न सत्कायदृष्टे-
र्हेतुः, यत्तु स्थापितं तत्सत्कायदृष्टिहेतुकं सत्कायदृष्टेश्च हेतुः” इति ?
अनागतसत्कायदृष्टिसम्प्रयुक्तं दुःखसत्यं स्थापयित्वेत्येवमेतत् कर्तव्यम्,
अर्थतो^१ वैवं^२ बोद्धव्यमिति ।
इदं तर्हि प्रज्ञप्तिभाष्यं कथं नीयते—"सर्वधर्माश्चतुष्के नियताः—हेतौ
फले आश्रये आलम्बने नियताः” इति ? हेतुरत्र सम्प्रयुक्तकहेतुः, सहभूहेतुश्च ।
स्थापिता । यदि स्थापितं तत् सत्कायदृष्टिहेतुकं सत्कायदृष्टेश्च हेतुरिति
व्याख्यातम् । तत्र कथमनागता सत्कायदृष्टिः सत्कायदृष्टेर्हेतुः । न तावत्
सहभूहेतुः सम्प्रयुक्तकहेतुर्वा सम्भवति; असहभूतत्वात् । न विपाकहेतुः, अव्या-
कृतत्वात् । न कारणहेतुः, साधारणत्वेनागण्यमानत्वात् । पारिशेष्यात् सभाग-
हेतुः सर्वत्रगहेतुर्वा भवन्ती भवेत् । इह च सभागहेतुरेव सर्वत्रगहेतुः । अतो
यद्यनागता सत्कायदृष्टिः सत्कायदृष्टेर्न सभागहेतुः, कस्मादसौ तृतीयकोट्यर्थं
स्थापितेति ?
वैभाषिक आह—अनागतसत्कायदृष्टिसम्प्रयुक्तं दुःखसत्यं स्थापयित्वेत्येव-
मेतत् कर्तव्यमिति । सत्कायदृष्टिसम्प्रयुक्तमेव स्थापयितव्यम्, न तु सत्काय-
दृष्टिः । तद्धि वेदनादिकं सहभूहेतुना सम्प्रयुक्तकहेतुना वा सत्कायदृष्टिहेतुकं
सत्कायदृष्टेश्च हेतुः, न सभागहेतुना । विनष्टको ह्ययमनागतां सत्कायदृष्टिमिति
पाठः । पश्चात्पदस्थेन तच्छब्देन सह न पठितव्यः । सम्प्रयुक्तदुःखसत्य-
विशेषणार्थं तु समस्तैतत् पदद्वयं पठितव्यम्—अनागतसत्कायदृष्टिसम्प्रयुक्तक-
मिति । अर्थतो वैवं बोद्धव्यं यथैवं न क्रियेत पाठः । भाष्याक्षेपनिर्वृत्तः पाठो न
तन्त्रमित्यभिप्रायः ।
प्रज्ञप्तिभाष्यं कथं नीयते—सर्वधर्माश्चतुष्के नियता इति । हेतौ नियता यस्य
धर्मस्य यो धर्मो हेतुः । स धर्मस्तस्य धर्मस्य न कदाचिन्न हेतुः । त्रिष्वपि
कालेषु हेतुरित्यर्थः । एवं फले नियता यस्य धर्मस्य यो धर्मः फलं पुरुषकारादि
योज्यम् । एवमाश्रये नियता यस्य धर्मस्य चक्षुर्विज्ञानादेर्यो धर्म आश्रयश्चक्षु-
रादिरिति योज्यम् । एवमालम्बने नियता यस्य धर्मस्य चक्षुर्विज्ञानादेर्यो धर्म
आलम्बनं रूपादिरिति योज्यम् । तेन धर्माणां हेतौ नियतत्वात् त्रिष्वपि
कालेषु सभागहेतुर्भवतीति चोदकाभिप्रायः । सर्वहेत्वनभिसन्धेरदोष इति
दर्शयन् वैभाषिक आह—हेतुरत्र सम्प्रयुक्तकहेतुः सहभूहेतुश्च । न सभागहेतुः
सर्वत्रगहेतुर्वा; अनागतावस्थायामव्यवस्थापितत्वात् । न विपाकहेतुः, अनानि-


१. ऽसमर्थतोऽपि—का० । २. चैवं—का० ।