अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 326, कुल 1258 में से
संदर्भ में पढ़ेंन ह्यभिसंस्कारिकस्य सभागहेतोर्हीयमानं फलं भवति । तद्यथा—
शालिर्यवादीनाम्, मा भून्निष्फलः प्रयत्न इति ।
अत एवाहुः¹—स्यादुत्पन्नोऽनास्रवोऽनुत्पन्नस्यास्रवस्य न हेतुः स्यात्,
तद्यथा—दुःखे धर्मज्ञानमुत्पन्नमनुत्पत्तिधर्माणां² दुःखे धर्मज्ञानक्षान्तीनाम् ।
सर्वं च विशिष्टं न्यूनस्य न हेतुः ।
स्यादेकसन्ताननियतः पूर्वप्रतिलब्धोऽनास्रवो धर्मः पश्चादुत्पन्नस्य न हेतुः ।
स्यादनागताः दुःखे धर्मज्ञानक्षान्तयो दुःखे धर्मज्ञानस्य, यस्मान्न पूर्वतरं
फलमस्ति, अनागतो वा सभागहेतुः ।
प्रथमध्यानफलस्य कामावचरस्य निर्माणचित्तस्य यावत् तृतीयध्यानफलस्य
कामावचरस्य निर्माणचित्तस्य सभागहेतुः । कस्माद् ? इत्याह—न ह्यभिसंस्का-
रिकस्य महायत्नसाध्यस्य सभागहेतोर्हाीयमानममहायत्नसाध्यं फलं भवति ।
यादृशेन हि यत्नविशेषेण प्रथमं ध्यानं यावत् तृतीयं ध्यानं निष्पाद्यते,
न तादृशेनेव चतुर्थं ध्यानं निष्पाद्यते । किं तर्हि ? उत्कृष्टतरेण यत्नविशेषेण
निष्पाद्यते । तस्मात् फलमप्योत्कृष्टतरेणैव यत्नविशेषेण निष्पाद्यत इत्यव-
गम्यते । तेन अधरध्यानफलमुत्तरध्यानफलस्य सभागहेतुः, न तूत्तरध्यानफलम-
धरध्यानफलस्य । यथा च चतुर्थध्यानफलं योजितम्, एवं तृतीयद्वितीयध्यान-
फलमपि योज्यम् ।
अत एवाहुरिति । यस्मादभिसंस्कारिकस्य सभागहेतोर्हीयमानं फलं न
भवति, तस्मादाहुरित्यर्थः । किमाहुरिति ? आहुः—स्यादुत्पन्न इति । विस्तरः—
दुःखे ॰ दुःखे धर्मज्ञानक्षान्तीनां
च हेतुः; दुःखे धर्मज्ञानक्षान्तिभ्यो दुःखे धर्मज्ञानस्याभिसंस्कारिकत्वेन विशिष्ट-
त्वात् । एवं हि तद् विशिष्टम् यत् क्लेशविसंयोगप्राप्त्या सहोत्पद्यते ।
विशिष्टं च न्यूनम्य न हेतुः । तद्यथार्हत्त्वात् परिहीणस्याशैक्षो मार्गः
पूर्वोत्पन्नः सकृदागाम्यनागामिमार्गयोः पश्चादुत्पद्यमानयोर्न सभागहेतुः ।
स्यादेकसन्ताननियत पूर्वप्रतिलब्ध इति । विस्तरः—अनागता दुःखे धर्म-
ज्ञानक्षान्तयः प्रथम एव क्षणे प्रतिलब्धा एकसन्तानगताः । दुःखे धर्मज्ञानं
द्वितीयक्षणोत्पन्नम्, तस्य ता न हेतुः । यस्मान्न पूर्वतरं फलम् । पूर्वतरं हि दुःखे
धर्मज्ञानं दुःखे धर्मज्ञानक्षान्तिभ्यः, तस्योत्पन्नत्वात्, तासाञ्चानुत्पन्नत्वात् ।
अनागतो वा धर्मो यस्मान्न सभागहेतुः । अनागता दुःखे धर्मज्ञानक्षान्तयोऽप-
रिमिताः प्रतिलब्धा एव, न तूत्पन्नाः ।
१. आहुः—का० । २. ०मनुत्पन्नानां—का० ।
अभि० को० २०