अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 320, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देश: ] द्वितीयं कोशस्थानम् २९९
तस्मादवस्थाव्यवस्थित एव सभागहेतुः, लक्षणव्यवस्थितस्तु विपाकहेतुरित्य-
नागतोऽपि न वार्यते ।
यदुक्तम्—'स्वभूमिकः सभागहेतुर्भवति' इति, किमेष नियमः सर्वस्य
सास्रवस्यैष नियमः ?
अन्योन्यं नवभूमिस्तु मार्गः
'सभागहेतुः' इत्यधिकारः । अनागम्ये ध्यानान्तरिकायां चतुर्षु ध्यानेषु त्रिषु
चारूप्येषु मार्गसत्यमन्योन्यं सभागहेतुः ।
किं कारणम् ? आगन्तुको ह्यसौ तासु भूमिषु न तद्धातुपतितः; तद्भूमिकामि-
स्तृष्णाभिरस्वीकृतत्वात् । अतः समानजातीयस्यान्यभूमिकस्यापि सभागहेतुर्भवति ।
तस्मादिति विस्तरः । अवस्थाव्यवस्थित एव सभागहेतुः । अवस्थायां
व्यवस्थितः, अतीतावस्थः प्रत्युत्पन्नावस्थश्च सभागहेतुः, नागतावस्थः । लक्षण-
व्यवस्थितस्तु विपाकहेतुः । लक्षणेन व्यवस्थितस्त्रिष्वपि कालेषु यथोक्तलक्षण
इत्यनागतोऽपि विपाकहेतुर्न वार्यते न प्रतिषिध्यते । इदमिह विचार्यते—
किमनागतेऽध्वनि सदृशा धर्मा विप्रकीर्णा इति न शक्यते परिच्छेत्तुम्—'अयं
हेतुरिदमस्य निष्यन्दफलम्' इति, अतो नानागतः सभागहेतुर्व्यवस्थाप्यते ?
आहोस्विद् यो धर्मो यस्य धर्मस्य सभागहेतुर्भवैत् स धर्मस्तस्य हेतुप्रत्यय-
वशान्निष्यन्दफलं भवेदित्यतोऽनागतः सभागहेतुर्न व्यवस्थाप्यते ? नेतद्
व्याख्यानकारैर्विचारितम्, मम तु पूर्वंक एवायं पक्षः प्रतिभातोति ।
किमेष नियम इति । किं स्वभूमिक एवेत्यवधार्यते । नान्यथाप्यस्ती-
त्यभिप्रायः ।
“अन्योन्यं नवभूमिस्तु मार्गः” इति । तुशब्दो विशेषणे । मार्ग इति
मार्गसत्यं विवक्षितम् । सास्रवान्मार्गसत्यं विशिष्यते । सास्रवो हि धर्मः
स्वभूमिक एव सभागहेतुः, नान्यभूमिकः । मार्गस्तु नवभूमिभ्यः सभागहेतुः ।
इह भूमिग्रहणे सास्रवानास्रवग्रहणम्, धातुग्रहणे तु सास्रवस्यैव, इत्यत आह—
यत् सास्रवाणां मार्गस्य च तुल्ये भूमिभेदे मार्ग एव नवभूमिकोऽन्योन्यं सभाग-
हेतुर्न सास्रव इति । कुतः ? इत्याह—आगन्तुको ह्यसौ तासु भूमिषु न तद्धातुपतितः,
तद्भूमिकामिस्तृष्णाभिरस्वीकृतत्वादिति । न हि कामरूपारूप्यचर्यस्तृष्णाः सास्र-
वानिवानास्रवान् धर्मान् स्वीकुर्वन्ति । यदा तर्हि निर्वाणं मार्गं वाभिलषति
कुशलोऽसौ धर्मच्छन्दः, न रागः, तस्य वर्ज्यत्वादिति वचनात् । समानजातीय-
स्येति । अनास्रवजातीयस्य ।